सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 144, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 144

निर्देशः ] प्रथमं कोशस्थानम्
चरमस्याश्रयोऽतीतः पञ्चानां सहजश्च तैः ॥ ४४ ॥
मनोविज्ञानधातोः समनन्तरनिरुद्ध मन आश्रयः ।
अतीतश्चेति चशब्दः । तत्र चक्षुर्विज्ञानस्य चक्षुः सहज आश्रयो यावत्
कायविज्ञानस्य कायः । अतीतः पुनरेषामाश्रयो मन इत्यप्येते पञ्च विज्ञानकाया
इन्द्रियद्वयाश्रयाः । अत एवोच्यते—"यश्चक्षुर्विज्ञानस्याश्रयभावेन समनन्तर-
प्रत्ययभावेनापि स तस्य"—इति चतुष्कोटिक । प्रथमा कोटिश्चक्षुः, द्वितीया
समनन्तरातीतश्चैत्तसिको धर्मधातु, तृतीया समनन्तरातीतं मन, चतुर्थी उक्त-
निर्मुक्ता¹ धर्माः । एवं यावत् कायविज्ञानस्य स्वमिन्द्रियं वक्तव्यम् ।
मनोविज्ञानस्य पूर्वपादक—यस्तावदाश्रयभावेन समनन्तरप्रत्ययभावेनापि
स । स्यात् समनन्तरप्रत्ययभावेन नाश्रियभावेन । ²समनन्तरातीतश्चैत्तसिको धर्म-
धातुरिति ॥ ४४ ॥
"चरमस्याश्रयोऽतीतः" इति । अतीत एवेत्यवधारणम् । अत एवोच्यत इति ।
यस्मात् पञ्चविज्ञानकाया इन्द्रियद्वयाश्रयाः । चक्षुरादीन्द्रियाश्रया, मनइन्द्रिया-
श्रयाश्च । तस्माच्चतुष्कोटिक उत्तिष्ठते । प्रथमा कोटिश्चक्षुरिति । चक्षुर्विज्ञानस्य
चक्षुराश्रयभावेन न समनन्तरप्रत्ययभावेन । न हि चक्षुश्चित्तचेत्तस्वभावम् ।
"चित्तचेत्ता अचरमा उत्पन्ना समनन्तर" ( अभि० को० २.६३ )
इति च समनन्तरप्रत्ययलक्षणम् । द्वितीया कोटि—समनन्तरातीतश्चैत्तसिको
धर्मधातुः । तस्य समनन्तरभावेन नाश्रियभावेन । षडेव ह्याश्रया विज्ञानस्ये-
ष्यन्ते चक्षुरादयो मनःपर्यन्ता, नान्ये । तृतीया समनन्तरातीतं मनः । उभय-
लक्षणयुक्तत्वात् । चतुर्थी उक्तनिर्मुक्ता धर्माः । कोटित्रयमुक्ता विप्रयुक्ता असंस्कृता-
दय । एवं यावत्कायविज्ञानस्य स्वमिन्द्रियं वक्तव्यमिति । य श्रोत्रविज्ञानस्या-
श्रयभावेन समनन्तरप्रत्ययभावेनापि म तस्येति चतुष्कोटिक.—प्रथमा कोटि
श्रोत्रम्, द्वितीया समनन्तरातीतश्चैतसिको धर्मधातु , तृतीया समनन्तरातीतं
मन., चतुर्थी कोटिरुक्तनिर्मुक्ता धर्मा इति । एवमन्यदपि वक्तव्यम् ।
मनोविज्ञानस्य पूर्वपादक इति । यो मनोविज्ञानस्याश्रयभावेन समनन्तर-
प्रत्ययभावेनापि म तस्येति पूर्वपादक । यस्तावदाश्रयभावेन समनन्तरप्रत्यय-
भावेनापि स इति । मनस्तावदवश्यममौ समनन्तरप्रत्यय म्यात् । समनन्तर-
१. कोटिरुक्त०—का० ।
२ समनन्तराभ्यतीत०—का० ।