सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 143, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 143

१२४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [धातु-
श्रोत्रेन्द्रियपरमाणवो भूर्जाभ्यन्तरावस्थिताः ।
घ्राणेन्द्रियपरमाणवो घाटाभ्यन्तरे¹ शलाकावत् ।
आद्यानि त्रीणीन्द्रियाणि मालावदवस्थितानि ।
जिह्वेन्द्रियपरमाणवोऽर्धचन्द्रवत्। वालाग्रमात्रं किल मध्यजिह्वाया जिह्वेन्द्रिय-
परमाणुभिरस्फुटम् ।
कायेन्द्रियपरमाणवः कायवदवस्थिता ।
स्त्रीन्द्रियपरमाणवो भेरीकटाहवत् ।
पुरुषेन्द्रियपरमाणवोऽङ्गुष्ठवत् ।
तत्र चक्षुरिन्द्रियपरमाणवः कदाचित् सर्वे सभागा भवन्ति, कदाचित् तत्स-
भागाः । कदाचिदेके सभागा., एके तत्सभागाः । एवं यावज्जिह्वेन्द्रियपरमाणवः ।
कायेन्द्रियपरमाणवस्तु सर्वे सभागा न भवन्ति । प्रदीप्तनरकाभ्यन्तरावरुद्धानामपि
ह्यपरिमाणा. कायेन्द्रियपरमाणवस्तत्सभागा भवन्ति । स² किल विज्ञानोत्पत्ता-
वाश्रयो विशीर्येत ।
न चैक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानं जनयति, सञ्चिताश्रयालम्ब-
नत्वात् पञ्चानां विज्ञानकायानाम् । अत एवानिदर्शनः परमाणुः, अदृश्यत्वात् ॥
य इमे षड्विज्ञानधातव उक्ताश्चक्षुर्विज्ञानं यावन्मनोविज्ञानम्, किमेषां यथा
विषयो वर्त्तमान. पञ्चाना चरमस्य त्रिकाल., एवमाश्रयोऽपि ? नेत्याह । किं तर्हि ?
भूर्जाभ्यन्तरावस्थिता इति । कर्णाभ्यन्तरे यद् भूर्जपत्रवर्णाकारं तद् भूर्जमि-
वेति भूर्जम् । तदभ्यन्तरेऽवस्थिता. श्रोत्रेन्द्रियपरमाणवः । घाटाभ्यन्तरे । घाटा=
नासापुटी । मालावदवस्थितानीति । मण्डलेन समपङ्क्त्यावस्थितानीति ।
वालाग्रमात्रं किलेति । आगमसूचनार्थं, किलशब्द । अस्फुटमव्याप्तम् ।
स किलेति । कर्मसामर्थ्यादेवाविशरणं स्यादिति किलशब्देन अरुचिं
सूचयति ।
सञ्चिताश्रयालम्बनत्वादिति । सञ्चिताश्रयत्वात्, सञ्चितालम्बनत्वाच्च ।
१ घटाभ्यन्तरेण-का० ।
२. सर्वैः - का० ।