अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 142, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] प्रथमं कोशस्थानम् १२३
किं पुनरेभिश्चक्षुरादिभिगात्मपरमाणुतुल्यस्यार्थस्य ग्रहणं भवत्याशुवृत्त्या
च पर्वतादीनामलातचक्रादिवद् ? आहोस्वित् तुल्यातुल्यस्य ? यानि तावदेतानि
प्राप्तविषयाण्युक्तानि, एभिः
त्रिभिर्घ्राणादिभिस्तुल्यविषयग्रहणं मतम् ।
यावन्तो हीन्द्रियपरमाणवस्तावन्तो हि विषयपरमाणवः समेत्य विज्ञानं
जनयन्ति । चक्षुःश्रोत्राभ्यां त्वनियमः । कदाचिदल्पीयांसो यदा बालाग्रं पश्यति,
कदाचित् समा यदा द्राक्षाफलं पश्यति, कदाचित् भूयांसो यदा महान्तं पर्वत
पश्यत्युन्मिषितमात्रेण । एवं श्रोत्रेण मशकमेघादिशब्दश्रवणे घोषम् ।
)मनस्त्वमूर्त्तित्वेदेवेति नास्य परिमाणपरिच्छेदः सम्प्रधार्यते ।
' कथं पुनरेषां चक्षुरादीन्द्रियपरमाणूनां सन्निवेशः ?
चक्षुरिन्द्रियपरमाणवस्तावदक्षितारकायामब्जाजीपुष्पवदवस्थिताः । अच्छचर्मा-
वच्छादितास्तु न विकीर्यन्ते । अधरोत्तरैण पिण्डवदवस्थिता इत्यपरे । न
चान्योऽन्यमावृण्वन्ति, स्फटिकवदच्छत्वात् ।
वैभाषिकाः । दिग्भागभेदो हि सङ्घात¯पाणामेव कल्प्यते । एवं च वर्णयन्ति—
“धर्मतैवेयं यत्सप्रतिघाना भिन्नदेशत्वम्, तेना नैन्तर्येणावस्थानादभिन्नदेशत्वं
मा भूदिति सान्तराणामपि सप्रतिघत्वेन गति प्रतिबध्यते” इति ॥ ४३ ।
आशुवृत्त्या च पर्वतादीनामलातचक्रादिवदिति । आत्मपरमाणुतुल्यस्यैवार्थस्य
ग्रहणं इष्यमाणे कथं पर्वतादीना महता सकृदिव ग्रहणं लक्ष्यते, न क्रमेण ?
इत्याशङ्कय युक्ति तथा ग्रहणे कथयति—आशुवृत्त्या चेत्यादि । यथालात-
चक्रादिग्रहणं क्रमेण वर्तमानं सकृदिव लक्ष्यते, तथा पर्वत नदीशब्दादिग्रहणंमाशु-
वृत्त्या भवतीति । आहोस्वित्तुल्यातुल्यस्येति । द्राक्षाफलादिदर्शने तुल्यस्य, वाला-
ग्रपर्वतादिदर्शनेऽतुल्यस्येत्यभिप्रायः । उन्मिषितमात्रेणेति । न क्रमदर्शनन्यायेन ।
एवं श्रोत्रेणेति विस्तर । कदाचिदल्पीयास , यदा मशकशब्दं शृणोति । कदा-
चित् समाः, यदा श्रोत्रपरमाणुसमप्रमाणं कस्यचिच्छब्दं शृणोति । कदाचिद्
भूयांस., यदा मेघशब्दं शृणोतीति ।
अजाजीपुष्पवदवस्थिताः कालजीरकपुष्पवदवस्थिता. । एकतलावस्थिता
इत्यर्थः ।