अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1159, कुल 1258 में से
संदर्भ में पढ़ें११३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
रूपमवश्यं सञ्जानीरन्निति । औदारिकमधोभूमिकं रूपमभिसन्धायोक्तमिति
चेत् ? कवलीकाराहारेऽपि तुल्यम् । ध्यानानामपि चाधोभूमिनिःसरणाद्वादा-
रूप्यत्वप्रसङ्गः१ ।
वेदनादिनिःसरणं च किं नोक्तम्२ ? अधोभूमिकवेदनानिःसरणात् ।
रूपजातिं तु कृत्स्नामतिक्रान्ताः, न वेदनादिजातिम् । अतो रूपाणां
निःसरणमुक्तम्३, न४ वेदनादिनिःसरणम्४ ।
स्वं रूपमवश्यं सञ्जानीरन्निति । 'सर्वशो रूपसंज्ञानां समतिक्रमत्वाद्' इति
वचनं नोक्तं स्यात् । उक्तं तु, अतोऽपि न तत्र रूपमस्ति । औदारिकमिति
विस्तरः । तत्रैतत् स्यात्—औदारिकमधोभूमिकं रूपमभिसन्धायोक्तम्—
ये ते शान्ता विमोक्षा इति विस्तरेण । अत्र ब्रूमः—कवलीकाराहारेऽपि
तुल्यम् । कथम् ? 'अतिक्रम्य देवान् कवलीकाराहारभक्षान्' इति औदारिक-
मधोभूमिकं कवलीकाराहारमभिसन्धायोक्तम्, न रूपावचरं कवलीकाराहारं
सूक्ष्ममिति । यदि च अधोभूम्यौदारिकरूपनिःसरणादारूप्या इत्युच्यन्ते,
ध्यानानामपि चाधोभूमिनिःसरणत्वादारूप्यत्वप्रसङ्गः । कथम् ? कामाव-
चरौदारिकरूपनिःसरणं प्रथमं ध्यानम् । एवमुत्तरोत्तरौदारिकरूपनिःसरणम्,
यावत्, चतुर्थध्यानमित्यारूप्यत्वप्रसङ्गः ।
वेदनादिनिःसरणं च किं नोक्तम् । यदि अधोभूमिकौदारिकनिःसर-
णात् सत्यपि स्वभूमिकरूपे आरूप्या इत्युच्यन्ते, वेदनादिनिःसरणात्
आरूप्या अवेदनाः—इति किं नोच्यन्ते सत्यामपि स्वभूमिवेदनायाम् ।
आदिशब्देन, यावद्, अविज्ञानाः—इति किं नोच्यन्ते सत्यपि स्वभूमिविज्ञाने
इति । किं कारणम् ? अधोभूमिकवेदनादिनिःसरणात् । अधोभूम्यौदारिक-
वेदनादिनिःसरणादित्यर्थः । रूपजातिं तु कृत्स्नामतिक्रान्ता । या काचिद्
रूपजातिः औदारिकी वा सूक्ष्मा वा, आध्यात्मिकी वा बाह्या वा, तां
सर्वमतिक्रान्ता आरूप्याः समापत्त्युपपत्तौ । न वेदनादिजातिम् । न वेदना
सर्वमतिक्रान्ता आरूप्याः समापत्त्युपपत्तौ; अदुःखासुखवेदनास्तित्वात् ।
आदि-शब्देन, यावद् विज्ञानं वक्तव्यम् । अतो रूपाणां निःसरणमुक्तम्,
न वेदनादिनिःसरणम् । तस्मादेवंवादिनामस्माकं न भवत्ययं प्रसङ्गः—
अधोभूमिकवेदनादिनिःसरणात् वेदनादिनिःसरणं च किं नोक्तमिति ।
१. ०दारूप्यप्र०—का० । २ नोक्ता—वा० ।
३. ०मुक्ताः—का० । ४-४. वा० पुस्तके नास्ति ।