सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

विष्णु स्मृति (वैष्णव धर्मशास्त्र - नन्दपण्डित कृत वैजयन्ती टीका सहित सटीक)

Vishnu Smriti with Vaijayanti Commentary of Nanda Pandita

महर्षि विष्णु (टीकाकार: नन्दपण्डित, सम्पादक: जूलियस जॉली) द्वारा

DevanagariSanskritpublished392 पृष्ठ

अध्याय ११-३० (वर्णाश्रम धर्म, संस्कार, विवाह एवं साक्षी-प्रमाण)

७८ ॥ विष्णुस्मृतौ २६ ॥ २७ ॥
कार्यं कुर्यात् । १ । मिश्रासु च कनिष्ठयापि समान-
वर्णया । २ । समानवर्णाया अभावे त्वनन्तरयैवापदि
च । ३ । न त्वेव द्विजः शूद्रया । ४ ।
द्विजस्य भार्या शूद्रा तु धर्मार्थं न भवेत्क्वचित् ।
रत्यर्थमेव सा तस्य रागान्धस्य प्रकीर्तिता ॥ ५ ॥
हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः ।
कुलान्येव नयन्त्याशु ससंतानानि शूद्रताम् ॥ ६ ॥
दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
नाश्नन्ति पितृदेवास्तु न च स्वर्गं स गच्छति ॥ ७ ॥ २६ ॥
गर्भस्य स्पष्टताज्ञाने निषेककर्म । १ । स्पन्दनात्पुरा
पुंसवनम् । २ । षष्ठेऽष्टमे सीमन्तोन्नयनम् । ३ । जाते
च दारके जातकर्म । ४ । आशौचव्यपगमे नामधेयम् ।
XXVI, 3. समानवर्णाभावे C¹·². च om. V¹⁻⁴v. See the C.
7. नादन्ति C¹·²v. See M. III, 18. XXVII, 3. ऽष्टमे वा C¹·².
वा from the C. V¹⁻³ place 5—12 between 20 and 21.
XXVI, 3. सवर्णाभावे आपदि च सवर्णाप्रतीक्षणे प्रधानबाधप्रसङ्गे
चानन्तरयैव विप्रस्य क्षत्रियैव क्षत्रियस्य वैश्यैव नैकान्तरा द्व्यन्तरा च ॥
4. विप्रस्यैकान्तराभ्यनुज्ञायायाह ।... 7... पितृदेवा बहुवचनादतिथ-
यश्च... XXVII, 1. गर्भो ऋतुः ।...तस्य स्पष्टतां प्रादुर्भावं ज्ञात्वा ।
निषेको गर्भादानाख्यं कर्म कार्यम् ।... इदं च क्षेत्रसंस्कारत्वात्सकृत्कर्तव्यम् ।
अथ ऋतुमत्याः प्राजापत्यमृतौ प्रथम इति परिशिष्टात् ।... 3... षष्ठे
ऽष्टमे वा मासि... यथाकुलधर्मं विकल्पः ।...

॥ विष्णुस्मृतौ २७ ॥ ७६
। ५ । माङ्गल्यं ब्राह्मणस्य । ६ । बलवत्क्षत्रियस्य । ७ ।
धनोपेतं वैश्यस्य । ८ । जुगुप्सितं शूद्रस्य । ९ । चतुर्थे
मास्यादित्यदर्शनम् । १० । षष्ठेऽन्नप्राशनम् । ११ ।
तृतीयेऽब्दे चूडाकरणम् । १२ । एता एव क्रियाः
स्त्रीणाममन्त्रकाः । १३ । तासां समन्त्रको विवाहः । १४।
गर्भाष्टमेऽब्दे ब्राह्मणस्योपनयनम् । १५ । गर्भेकादशे
राज्ञः । १६ । गर्भद्वादशे विशः । १७ । तेषां मुञ्जज्या-
वल्वजमयो मौञ्ज्यः । १८ । कार्पासशणाविकान्युपवी-
तानि वासांसि च । १९ । मार्गवैयाघ्रवास्तानि चर्माणि
। २० । पालाशखादिरौदुम्बरा दण्डाः । २१ । केशान्त-
ललाटनासादेशतुल्याः । २२ । सर्व एव वा । २३ ।
अकुटिलाः सत्वचश्च । २४ । भवदाद्यं भवन्मध्यं भवदन्तं
च भैक्षचरणम् । २५ ।
आ षोडशाद्ब्राह्मणस्य, सावित्री नातिवर्तते ।
आ द्वाविंशात्क्षत्रबन्धोराचतुर्विंशतेर्विशः ॥ २६ ॥
अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः ।
24 om. C^{l, 2}. 25. तदन्तं च V^s.
10... जन्मतश्चतुर्थे मासि... 13... एता एव जातकर्मादिकाः
क्रियाः स्त्रीणां कन्यानाम्... 15... गर्भाष्टमं जन्माष्टमप्यनुकल्पम् ।...
23. सर्वेषां सर्व एव वा दण्डा भवन्ति ।... 25. आदिमध्यावसानेषु
भवच्छब्दो भैक्षचरणे क्रमेण योज्यः ॥

८० ॥ विष्णुस्मृतौ २७ ॥ २८ ॥
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ २७ ॥
यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला ।
यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥ २८ ॥
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २६ ॥ २७ ॥
अथ ब्रह्मचारिणां गुरुकुलवासः । १ । संध्याद्वयो-
पासनम् । २ । पूर्वां संध्यां जपेत्तिष्ठन्पश्चिमामासीनः
। ३ । कालद्वयमभिषेकाग्निकर्मकरणम् । ४ । अप्सु
दण्डवन्मज्जनम् । ५ । आहूताध्ययनम् । ६ । गुरोः
प्रियहिताचरणम् । ७ । मेखलादण्डाजिनोपवीतधार-
णम् । ८ । गुरुकुलवर्जं गुणवत्सु भैक्षचरणम् । ९ ।
गुर्वनुज्ञातं भैक्षाभ्यवहरणम् । १० । आर्द्रकृतलवणशु-
क्तपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्टप्राणिहिंसा-
28. यस्यावहितं V¹; यस्यावेहितं V²·³. XXVIII, 1. ब्रह्मचा-
रिणो v. गुरुकुले C¹·². 11. ॰शुक्त॰ V¹⁻³.
27... व्रात्यसंज्ञा भवन्ति ।... 28. यानि ब्राह्मणादीनां चर्मयज्ञो-
पवीतमेखलादण्डवस्त्राण्युपनयनेऽभिहितानि तान्येव तेषां व्रतेषु महानाम्न्यग्रा-
दिषु भवन्ति ।... XXVIII, 4. कालद्वयं सायं प्रातश्चाभितः स्वेको-
ऽभिषेकः परिसमूहनपर्युक्षणेन स्नानं तत्पूर्वकमाग्निकर्म समिदाधेयस्तत्त्वार-
णम् ।... 5... दण्डवत्स्नानीयमन्त्रवर्जम्... 9. गुरोः कुलं स्वस्य च
ज्ञातिबन्धुकुलानि वर्जयित्वा... 10...तच्च सायं प्रातः । सायं प्रातर्भुञ्जीतेति
गौतमीयात् (Gaut. IX, 59) ।...

॥ विष्णुस्मृतौ २८ ॥ ८१
श्लीलपरिवर्जनम् । ११ । अधःशय्या । १२ । गुरोः पूर्वो-
त्थानं चरमं संवेशनम् । १३ । कृतसंध्योपासनश्च
गुर्वभिवादनं कुर्यात् । १४ । तस्य च व्यत्यस्तकरः
पादावुपस्पृशेत् । १५ । दक्षिणं दक्षिणेनेतरमितरेण
। १६ । स्वं च नामास्याभिवादनान्ते भोःशब्दान्तं निवे-
दयेत् । १७ । तिष्ठन्नासीनः शयानो भुञ्जानः पराङ्मु-
खश्च नास्याभिभाषणं कुर्यात् । १८ ।
आसीनस्य स्थितः कुर्यादभिगच्छंस्तु गच्छतः ।
आगच्छतः प्रत्युद्गम्य पश्चाद्धावंस्तु धावतः ॥ १९ ॥
पराङ्मुखस्याभिमुखः । २० । दूरस्थस्यान्तिकमुपेत्य
। २१ । शयानस्य प्रणम्य । २२ । तस्य च चक्षुर्विषये न
यथेष्टासनः स्यात् । २३ । न चास्य केवलं नाम ब्रूयात्
। २४। गतिचेष्टाभाषिताद्यं नास्यानुकुर्यात् । २५। यच्चास्य
19. आसीनोपस्थितः कुर्यात्तिष्ठतोऽभिगच्छन्नागच्छतः प्रत्युद्गम्य पश्चा-
द्धावन्धावतः । C1,2; आसीनस्य स्थितः कुर्यात् । तिष्ठतश्चाभिगच्छतः
प्रत्युद्गम्य पश्चाद्धावरतः प्रधावतः। v. 26. ०परिवादौ V1-3.
11... कृतलवणं कृत्रिमं लवणम् । रुक्तां निष्ठुरभाषणम् । रुक्ता वाच
इति गौतमीयात् ( II, 19) । न तु कालेनाम्लीभूतं पर्युषितनिषेधेन तन्नि-
षेधात् ।... उच्छिष्टमगुरोः ।... 17. अभिवादय इति शब्दान्ते भो इति
शब्दान्ते यस्य तादृशं स्वं च नाम निवेदयेत् ।... 23... यथेष्टमवसक्थिक-
कादिबन्धेनासनं यस्येति स तथोक्तो न स्यात् ।... 24. अस्य गुरोः केवलं
आशब्दादिशून्यं नाम न ब्रूयात् । समक्षं परोक्षं वा ।...
11

८२ ॥ विष्णुस्मृतौ २८ ॥
निन्दापरीवादौ स्यातां न तत्र तिष्ठेत् । २६ । नास्यै-
कासनो भवेत् । २७ । ऋते शिलाफलकनौयानेभ्यः
। २८ । गुरोर्गुरौ संनिहिते गुरुवद्वर्तेत । २९ । अनि-
र्दिष्टश्च गुरुणा स्वान्गुरून्नाभिवादयेत् । ३० । बाले
समानवयसि वाध्यापके गुरुपुत्रे गुरुवद्वर्तेत । ३१। नास्य
पादौ प्रक्षालयेत् । ३२ । नोच्छिष्टमश्नीयात् । ३३ ।
एवं वेदं वेदौ वेदान्वा स्वीकुर्यात् । ३४ । ततो वेदा-
ङ्गानि । ३५ । यस्त्वनधीतवेदोऽन्यत्र श्रमं कुर्यादसौ
ससंतानः शूद्रत्वमेति । ३६ । मातुरग्रे विजननं द्वितीयं
मौञ्जिबन्धनम् । ३७ । तत्रास्य माता सावित्री भवति
पिता त्वाचार्य्यः । ३८ । एतेनैव तेषां द्विजत्वम् । ३९ ।
प्राङ्मौञ्जीबन्धनाद्विजः शूद्रसमो भवति । ४० । ब्रह्म-
चारिणा मुण्डेन जटिलेन वा भाव्यम् । ४१ । वेदस्वी-
करणादूर्ध्वं गुर्वनुज्ञातस्तस्मै वरं दत्त्वा स्नायात् । ४२ ।
ततो गुरुकुल एव वा जन्मनः शेषं नयेत् । ४३ । तत्रा-
37. मौञ्जि० all. 43. वा om. C^{1,2}.
26. निन्दा असद्दोषख्यापनम्। परीवादो विद्यमानदोषोद्घाटनम्। ...
28. शिलाफलकं शिलापट्टः। नौस्तरणिः। ... 30... स्वान्गुरून्पितृव्यादीन्...
36... अन्यत्र शास्त्रादौ... 39. एतेन द्वितीयेनोपनयनाख्येन जन्मना
तेषां त्रैवर्णिकानां द्विजत्वम्। एवकारो निषेकादिश्मशानान्तसंस्कारवतो
ऽप्यनुपनीतस्य द्विजत्वनिरासार्थः। ...40...शूद्रसमः शूद्रवद्वेदानधिकारी...

॥ विष्णुस्मृतौ २८ ॥ ८३
चार्ये प्रेते गुरुवद्गुरुपुत्रे वर्तेत । ४४ । गुरुदारेषु सवर्णेषु
वा । ४५ । तदभावेऽग्निंशुश्रूषुनैष्ठिको ब्रह्मचारी
स्यात् । ४६ ।
एवं चरति यो विप्रो ब्रह्मचर्यमतन्द्रितः ।
स गच्छत्युत्तमं स्थानं न चेहाजायते पुनः ॥ ४७ ॥
कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥ ४८ ॥
एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् ॥ ४९ ॥
तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् ।
उपस्पृशंस्त्रिषवणमब्देन स विशुध्यति ॥ ५० ॥
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ।
स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ ५१ ॥
अकृत्वा भैक्षचरणमसमिध्य च पावकम् ।
अनातुरः सप्तरात्रमवकीर्णिब्रतं चरेत् ॥ ५२ ॥
48 om. V^{1-3}. धर्मज्ञा ब्रह्मचारिणः ॥ V^4 N. (in V^4);
ब्रह्मज्ञा ब्रह्मवादिनः ॥ C^{1-2}v. See M. XI, 121. 49. एतस्मिन्
V^4 N. in V^4. See M. XI, 123.
45... दारशब्देापादानं बहुीत्वव्यतमाप्राप्त्यर्थम् ।... 47...यो विप्रो
ऽनलसः सन्ब्रह्मचर्यं चरति स उत्तमं स्थानं... ब्रह्म गच्छति प्राप्नोति ब्रह्म-
लोकमवाप्नोति ।... 48. त्रैवर्णिकस्य ब्रह्मचारिणो बुद्धिपूर्वं स्त्रीसंगममन्त-
रेण रेतःसेकम् (स्त्रीयोनौ शुक्नोत्सर्गम् Kullûka on M. XI,121)...
51... प्रातः स्नात्वार्कं गन्धादिभिरभ्यर्च्य पुनर्मामैत्विन्द्रियमित्येतामृचम्...
52....तदा वकीर्णी भवतीति तदुक्तं कुर्यात् ।...

८४ ॥ विष्णुस्मृतौ २८ ॥ २९ ॥
तं चेदभ्युदियात्सूर्यः शयानं कामकारतः ।
निम्लोचेद्वाप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ ५३ ॥ २८ ॥
यस्तूपनीय व्रतादेशं कृत्वा वेदमध्यापयेत्तमाचार्यं
विद्यात् । १ । यस्त्वेनं मूल्येनाध्यापयेत्तमुपाध्यायमेकदेशं
वा । २ । यो यस्य यज्ञे कर्माणि कुर्यात्तमृत्विजं विद्यात्
। ३ । नापरीक्षितं याजयेत् । ४ । नाध्यापयेत् । ५ ।
नोपनयेत् । ६ ।
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ ७ ॥
धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे ॥ ८ ॥
XXIX, 3. यज्ञकर्माणि V¹. 7. यश्च धर्मेण C².
53. तं ब्रह्मचारिणमविज्ञानाच्छास्त्रार्थापरिज्ञानात्कामकारतो बुद्धिपूर्वं
सुप्तं सूर्यश्चाभ्युदेति...। जपसंख्या चाष्टसहस्रम् ।... XXIX, 1...
व्रतानि महानाम्न्याद्युपनिषदध्ययनाङ्गान्यपदिश्य वेदमेकां शाखां साङ्गा-
मध्यापयेदसौ... 2. यः पुनरेनमन्येनोपनीतं मूल्येन भृत्या कृत्स्नं वेद-
मध्याप्य वा वेदैकदेशमङ्गमध्यायाद्यध्यापयेत्तम्... 3. यो... यज्ञे श्रौते
ज्योतिष्टोमादौ स्मार्ते च पाकयज्ञादौ वृतो... यज्ञकर्माणि... कुर्यात्
4. कुलशीलवृत्तादिभिरपरीक्षितम् ... 7. इदं मया न ज्ञायते
तदुपदेष्टव्यमिति सविनयं प्रश्नो धर्मस्तद्विपरीतः छलेनात्र भवद्भिः कथं
पठ्यत इत्यधर्मस्तेन यः पृच्छति यश्च तस्मै प्रष्ट्रे... इदमेवमध्येतव्यमिति ब्रूते
तयोरेकतरः प्रैति म्रियते । उभयोः छलवादित्वे द्वावपि म्रियेते ।

॥ विष्णुस्मृतौ २६ ॥ ३० ॥ ८५
विद्या ह वै ब्राह्मणमाजगाम
गोपाय मा शेवधिस्ते ऽहमस्मि ।
असूयकायानृजवेऽयताय
न मां ब्रूया वीर्यवती तथा स्याम् ॥ ९ ॥
यमेव विद्याः शुचिमप्रमत्तं
मेधाविनं ब्रह्मचर्योपपन्नम् ।
यस्ते न द्रुह्येत्कतमच्च नाह
तस्मै मां ब्रूया निधिपाय ब्रह्मन् ॥ १० ॥ २६ ॥
श्रावण्यां प्रौष्ठपद्यां वा छन्दांस्युपाकृत्यार्धपञ्चमान्मा-
सानधीयीत । १ । ततस्तेषामुत्सर्गं बहिः कुर्यान्नानुपा-
कृतानाम् । २ । उत्सर्जनोपाकर्मणोर्मध्ये वेदाङ्गाध्ययनं
कुर्यात् । ३ । नाधीयीताहोरात्रं चतुर्दश्यष्टमीषु च
। ४ । नर्त्वन्तरग्रहसूतके । ५ । नेन्द्रप्रयाणे । ६ । न
10. कतमांश्च C¹, ². XXX, 2. कुर्यात् । V¹⁻⁴v. See the C.
3. उत्सर्जनोपाकर्ममध्ये V⁴; उत्सर्गोपाकर्मणोर्मध्ये C¹, ²v. 6. नेन्द्रिय-
प्रयाणे । C¹, ²; नेतप्रयाणे v.
10... मेधाविनं धारणावन्तं ...यश्च ते तुभ्यं न द्रुह्येदनिष्टकारी न
स्यात्कतमच्च किमप्यप्रियं प्राह न ब्रूते... XXX, 1... तेषां दिनद्वय-
प्राप्तावुत्तरं ग्राह्यम् ।... 2. तत उपाकर्मानन्तरम् । तेन च कथंचित्स्वकाले-
ऽनुपाकृतावुत्सर्गकालप्राप्तावपि नोत्सर्गः किंतूपाकर्माकरणप्रायश्चित्तपूर्वक-
मेव... 5. ऋतूनां चतुर्मासात्मकानां त्रयाणामन्तरे संधौ द्वितीयाऽन-
ध्यायः । ग्रहो ग्रहणं तत्संभवं सूतकमशुचित्वम् । तत्र त्रिरात्रम् ।...6. इन्द्र
इन्द्रध्वजस्तस्य प्रयाणं पातनं तेनोच्छ्रयोऽपि लक्ष्यते । तत्रोभयत्राहोरात्रम्...

८६ ॥ विष्णुस्मृतौ ३० ॥
वाति चण्डपवने । ७ । नाकालवर्षविद्युत्स्तनितेषु । ८ ।
न भूकम्पोल्कापातदिग्दाहेषु । ९ । नान्तःशवे ग्रामे
। १०। न शस्त्रसंपाते । ११। न श्वसृगालगर्दभनिर्ह्रादेषु
। १२ । न वादित्रशब्दे । १३ । न शूद्रपतितयोः समीपे
। १४ । न देवतायतनश्मशानचतुष्पथरथ्यासु । १५ ।
नोदकान्तः । १६। न पीठोपहितपादः । १७। न हस्त्य-
श्वोष्ट्रनौगोयानेषु । १८ । न वान्तः । १९ । न विरिक्तः
। २०। नाजीर्णी । २१। न पञ्चनखान्तरागमने । २२ ।
न राजश्रोत्रियगोब्राह्मणव्यसने । २३ । नोपाकर्मणि
। २४ । नोत्सर्गे । २५ । न सामध्वनावृग्यजुषी । २६ ।
नापररात्रमधीत्य शयीत । २७ । अभियुक्तोऽप्यनध्या-
येष्वध्ययनं परिहरेत् । २८। यस्मादनध्यायाधीतं नेहा-
मुत्र फलदम् । २९ । तदध्ययनेनायुषः क्षयो गुरुशिष्य-
योश्च । ३० । तस्मादनध्यायवर्जं गुरुणा ब्रह्मलोकका-
12. ॰निर्ह्रादे C^{1, 2}v. 29. नेह नामुत्र C^{1, 2}v.
8. अकाले वर्षाकालादन्यत्र... त्रिरात्रमनध्यायः। 9. N. quotes
M. IV, 105. 18. हस्त्याद्यारूढस्य यानयद्गवाश्वतद्युक्तरथादियानस्य
चानध्यायः ।... 19. वान्तः कृतवमनो नाधीयीताहोरात्रम् ॥ 20...
नाधीयीताहोरात्रम् ॥ 21. अजीर्णी यावदजीर्णपाकं नाधीयीत ॥ 22...
अहोरात्रमनध्यायः । तत्र विशेषः ।... 23. श्रोत्रिय एकशाखाध्यायी ।...
यावदुपशमनमनध्यायः ।... 24. उपाकर्मानन्तरं त्र्यहमनध्यायः ।... 25.
उत्सर्जनेऽपि त्र्यहम् ।... 27. तत्राधीत्य न शयीत किंतु यावत्सूर्योदयं
जागृयात् ।... 28. अभियुक्तोऽन्येन पृष्टोऽपि...

॥ विष्णुस्मृतौ ३० ॥ ८७
मेन विद्या सच्छिष्यक्षेत्रेषु वप्तव्या । ३१ । शिष्येण ब्रह्मा-
रम्भावसानयोर्गुरोः पादोपसंग्रहणं कार्यम् । ३२ । प्रण-
वश्च व्याहर्तव्यः । ३३ । तत्र च यदृचोऽधीते तेनास्या-
ज्येन पितॄणां तृप्तिर्भवति । ३४ । यद्यजूंषि तेन मधुना
। ३५ । यत्सामानि तेन पयसा । ३६ । यदाथर्वणं तेन
मांसेन । ३७ । यत्पुराणेतिहासवेदाङ्गधर्मशास्त्राण्य-
धीते तेनास्यान्नेन । ३८ । यश्च विद्यामासाद्यास्मिंल्लोके
तया जीवेन्न सा तस्य परलोके फलप्रदा भवेत् । ३६ ।
यश्च विद्यया यशः परेषां हन्ति । ४० । अननुज्ञातश्चा-
न्यस्मादधीयानान्ने विद्यामादद्यात् । ४१ । तदादान-
मस्य ब्रह्मस्तेयं नरकाय भवति । ४२ ।
लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं न तं द्रुह्येत्कदाचन ॥ ४३ ॥
उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ ४४ ॥
37. यच्चा० C1'v. 41. चनुज्ञात० C2. 42. ब्रह्मखः स्तेयं C1.2.
40. यश्च विद्यया वादजल्पाभ्यां परेषां यशः पराजयेन नाशयति
तस्यापि परत्राफलैव विद्या ॥ 41: गुर्वनुज्ञामन्तरेणान्यार्थमधीयानादपि
गुरोर्विद्यां नादद्यात् । आहुतश्चाप्यधीयीतेति स्मरणात् (Y. I, 27) ॥
43. लौकिकं काव्यालंकारादिविषयं वैदिकं साङ्गवेदविषयम् ।...

८८ ॥ विष्णुस्मृतौ ३० ॥ ३१ ॥
कामान्माता पिता चैनं यदुत्पादयतो मिथः ।
संभूतिं तस्य तां विद्याद्यद्योनावभि जायते ॥ ४५ ॥
आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ ४६ ॥
य आवृणोत्यवितथेन कर्णा-
वदुःखं कुर्वन्नमृतं संप्रयच्छन् ।
तं वै मन्येतितरं मातरं च
तस्मै न द्रुह्येत्कृतमस्य जानन् ॥ ४७ ॥ ३० ॥
—
त्रयः पुरुषस्यातिगुरवो भवन्ति । १ । पिता माता
आचार्यश्च । २ । तेषां नित्यमेव शुश्रूषुणा भवितव्यम्
। ३ । यत्ते ब्रूयुस्तत्कुर्यात् । ४ । तेषां प्रियहितमाचरेत्
। ५ । न तैरननुज्ञातः किंचिदपि कुर्यात् । ६ ।
एत एव त्रयो वेदा एत एव त्रयः सुराः ।
एत एव त्रयो लोका एत एव त्रयोऽग्नयः ॥ ७ ॥
—————
XXXI, 7• एत ए० त्र० सुराः । om. v. See M. II, 230.
46. वेदपारगोऽखिलवेदविदाचार्य... 47. वेदाध्यापनेनैहिकामुष्मिक-
सकलदुःखनिरोधेनाध्येतारमदुःखं कुर्वंस्तेन च अमृतं मोक्षं महावाक्या-
ध्यापनार्थंप्रतिपादनद्वारा संप्रयच्छन्... अस्य कृतमुपकारं वेदाध्यापनलक्षणं
जानन्... XXXI, 7... त्रयः सुरा ब्रह्मविष्णुशिवाः पूज्यत्वेन सुरसं-
स्तवः । त्रयो लोका नरसुरराक्षसलोकाः ।...

विष्णुस्मृतौ ३१ ॥ ३२ ॥ ८६
पिता गार्हपत्योऽग्निर्दक्षिणाग्निर्माता गुरुराहवनीयः ॥ ८ ॥
सर्वे तस्याहता धर्मा यस्यैते त्रय आहताः ।
अनाहतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ ९ ॥
इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्वेव ब्रह्मलोकं समश्नुते ॥ १० ॥ ३१ ॥
राजर्त्विक्श्रोत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्यमाता-
महमातुलश्वशुरज्येष्ठभ्रातृसंबन्धिनश्चाचार्यवत् । १ ।
पत्न्य एतेषां सवर्णाः । २ । मातृष्वसा पितृष्वसा ज्येष्ठा
स्वसा च । ३ । श्वशुरपितृव्यमातुलर्त्विजां कनीयसां
प्रत्युत्थानमेवाभिवादनम् । ४ । हीनवर्णानां गुरुपत्नीनां
दूरादभिवादनं न पादोपसंस्पर्शनम् । ५ । गुरुपत्नीनां
गात्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनादीनि न कु-
XXXII, 6. ॰प्रक्षालनं न कुर्यात् । C¹, ²v.
10. मध्यमं देवलोकम्... XXXII, 1... अधर्मप्रतिषेधी निषिद्ध-
कर्मणो निवर्तकः । ... संबन्धिनौ पुत्रदुहितृश्वशुरौ । ... 5. हीनवर्णे
क्षत्रियवैश्ये बहुवचनान्मूर्धावसिक्ताद्या न शूद्रापत्नी त्वविशेषेणात्तासां
दूरादेवाभिवादनं कार्यम् न पादावुपस्पृश्य । प्रत्युत्थानं त्वनुवर्तते ।...
6...गात्राणामुत्सादनमुद्वर्तनमभ्यञ्जनं च । अञ्जनं नेत्रयोः कज्जलादिना ।...
आदिपदात्स्नापनादिग्रहणम् । नोच्छिष्टाशनस्नापन० इति गौतमीयात् ।
(Gaut. II, 32)। गुरुपत्नीनामिति शेषः ॥
12

digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgad
६० ॥ विष्णुस्मृतौ ३२ ॥
र्यात् । ६ । असंस्तुतापि परपत्नी भगिनीति वाच्या
पुत्रीति मातेति वा । ७ । न च गुरूणां त्वमिति ब्रूयात्
। ८ । तदतिक्रमे निराहारो दिवसान्ते तं प्रसाद्याश्नी-
यात् । ९ । न च गुरुणा सह विगृह्य कथाः कुर्यात्
। १० । न चैवास्य परीवादम् । ११ । न चानभिप्रेतम्
। १२ ।
गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ।
पूर्णे विंशतिवर्षे च गुणदोषौ विजानता ॥ १३ ॥
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ १४ ॥
विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ १५ ॥
10. कथां C¹-²v. 11. नैव चास्य C¹-²v. 14. अभिवादनकं कुर्याद०
C¹-²v. See M. II, 216.
7. असंस्तुता अपरिचिता ।... परपत्नी न परदास्यादिः । भगिन्यादि-
शब्दैर्वाच्या । व्यवस्थितश्चायं विकल्पः । समानवयस्का भगिनीति न्यून-
वयस्का पुत्रीति अधिकवयस्का मातेति ।... 9. तेषां गुरूणामतिक्रमे
त्वंकारादिवचने चाहाररहितः सायं तं गुरुं प्रसाद्यापराधं क्षमाप्या-
श्नीयात् ।... 10. गुरुणा सह विगृह्य विजिगीषया कथा जल्पवितण्डावान्न
कुर्यात् ।... 12. गुरोरनभिप्रेतं प्रतिकूलम्... 14. युवा शिष्यो युवतीनां
भुवि पादावनुपस्पृशन्नसावहमित्यभिवादयेदहं भो अमुकशर्मेति स्वनाम-
निर्देशन्विधिवद्व्यवस्थयाभिनेत्याद्युक्तरीत्या कामं यथेच्छमभिवादनं कुर्यात् ॥
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry

tized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalg
॥ विष्णुस्मृतौ ३२ ॥ ३३ ॥ ३४ ॥ ९१
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ १६ ॥
ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ १७ ॥
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ १८ ॥ ३२ ॥
अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं
भवति । १ । परिग्रहप्रसङ्गाद्विशेषेण गृह्याश्रमिणः । २ ।
तेनायमाक्रान्तोऽतिपातकमहापातकानुपातकोपपातकेषु ।
प्रवर्तते । ३ । जातिभ्रंशकरेषु संकरीकरणेष्वपात्रीकर-
णेषु च । ४ । मलावहेषु प्रकीर्णकेषु च । ५ ।
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ ६ ॥ ३३ ॥
मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातका-
नि । १ ।
18. जन्मनः C^{1,2}. XXXIII, 2. गृह्याश्रमिणाम् V¹.
16... बन्धुरभिजनः ।.. कर्म श्रौतस्मार्तादि ।... XXXIII, 2.
परिग्रहो गृहदारादिस्वीकारः ।... 4... असंकरं ब्राह्मणादिवर्णमपि
संकरं संकरसमानधर्माणं कुर्वन्तीति संकरीकरणानि । पात्रं प्रतिग्रहाद्यर्ह-
मप्यपात्रं प्रतिग्रहाद्यनर्हं कुर्वन्तीत्यपात्रीकरणानि ॥
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry

digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgao...
६२ ॥ विष्णुस्मृतौ ३४ ॥ ३५ ॥ ३६ ॥
अतिपातकिनस्त्वेते प्रविशेयुर्हुताशनम् ।
न ह्यन्या निष्कृतिस्तेषां विद्यते हि कथं च न ॥२॥३४॥
ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदार-
गमनमिति महापातकानि । १। तत्संयोगश्च । २। संव-
त्सरेण पतति पतितेन सहाचरन् । ३। एकयानभोज-
नासनशयनैः । ४। यौनस्रौवमौखैः संबन्धैस्तु सद्य एव
। ५।
अश्वमेधेन शुद्धेयुर्महापातकिनस्त्विमे ।
पृथिव्यां सर्वतीर्थानां तथानुसरणेन च ॥ ६ ॥ ३५ ॥
यागस्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश्चान्त-
र्वत्न्याश्चाविगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य
च घातनं ब्रह्महत्यासमानि । १। कूटसाक्ष्यं सुहृ-


XXXV, 5. यौनस्रौवमुख्यैः संबन्धैस्तु V¹⁻⁴ N.; यौनस्रौवमौखसंब-
न्धात्० C¹˒²; यौनमौखस्रौवसंबन्धात्० v. मौख seems the lectio
doctior and corresponds to यौनस्रौव. See also the Pet.
Dict. 6. वा for च C¹˒²v Ap. XXXVI, 1. अविज्ञातगर्भस्य V⁴.


XXXV, 5... स्रुवभवः स्रौवः स च पतितस्य पतितेन सह वा याज-
नम् ।... 6...चकारः साधनतासमुच्चयार्थः ।... XXXVI, 1...अवि-
ज्ञातः स्त्रीपुंनपुंसकत्वेनानिर्णीतो यो गर्भस्तस्य हननम् ।...
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry

orशwith a loop). Look atश्वशुरin line 3:श्वhas a loop on top left and a curl! Wait, what aboutशinशरणागतायाः(line 7)? It has a loop on the left, then a slant. Now look at the letter in question in line 22: Does it have a loop on the left? No, it has an upper loop and a lower loop: it'sधorषorथ? Wait, look at साधितमिति: सा+धि+त+मि+ति! Wait, what does the letter before ष्टकार्यंlook like? Is itदु? Yes, दुष्टकार्यं साधितमिति! "त्वयेदं दुष्टकार्यं साधितमिति" = "You have accomplished/done this evil deed!" Wait, look at साधितमितिvsनाशितमिति: Wait, if it's साधितमिति: Letter 1: सा(orना?) Letter 2: धि(orशि?) Wait, let's zoom in to 500% on दुष्टकार्यं` and the next word:
Characters:

  • त्व
  • ये
  • दं

digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgad...
६४ ॥ विष्णुस्मृतौ ३७ ॥
च त्यागः । ५ । अग्निपितृमातृसुतदाराणां च । ६ ।
अभोज्यान्नाभक्ष्यभक्षणम् । ७ । परस्वापहरणम् । ८ ।
परदाराभिगमनम् । ९ । अयाज्ययाजनम् । १० । वि-
कर्मजीवनम् । ११ । असत्प्रतिग्रहश्च । १२ । क्षत्रविट्-
शूद्रगोवधः । १३ । अविक्रेयविक्रयः । १४ । परिवि-
त्तितानुजेन ज्येष्ठस्य । १५ । परिवेदनम् । १६ । तस्य
च कन्यादानम् । १७ । याजनं च । १८ । व्रात्यता
। १९ । भृतकाध्यापनम् । २० । भृताच्चाध्ययनादानम्
। २१ । सर्वाकरेष्वधिकारः । २२ । महायन्त्रप्रवर्त्तनम्
। २३ । द्रुमगुल्मवल्लीलतौषधीनां हिंसा । २४ । स्त्रिया


  1. विकर्मणा जीवनं च C¹; वि० जीवनञ्च C². 24, 25. द्रुम०
    हिंसया जीवनम् । v. 25. स्त्रीजीवनम् C¹,².

  1. सुवर्णतत्समव्यतिरिक्तस्य परस्वस्य धान्यकुप्यादेरपहरणम् ।... 10.
    अयाज्या जातिकर्मदुष्टाः शूद्रव्रात्यादयस्तेषां याजनं पतितयाजनस्य महा-
    पातकतत्वात् ॥ 11. विपरीत्तं कर्म विकर्म यथा ब्राह्मणस्य क्षत्रिय-
    वैश्यवृत्ती तदुपजीवनम् ।... 14. अविक्रेयं लाक्षालवणादि... 17.
    तस्य परिवेत्तुश्वभ्रातात्परिवित्तेश्च... 19. यथाकालमनुपनयनम् ।...
    20... यद्यप्युपाध्यायलक्षणेऽस्यानुज्ञा गम्यते तथाप्यापद्विषयासौ मन्तव्या ।
    ...अनापदि भृतकाध्यापनमुपपातकमिति न विरोधः ।... 22. सर्वे च
    आकराः सुवर्णरजताद्युत्पत्तिस्थानानि तेषां राजादेशेनाधिकारः । सर्व
    शब्दात्कचिन्मात्रां वस्त्राद्युत्पत्तिस्थानानामपि ग्रहणम् ।... 23. एका-
    प्रयोगेनानेकहिंसाकरं नाल्यादिमहायन्त्रं तस्य प्रवर्त्तनं निर्माणम् । 24...
    लताः दीर्घयायिन्यो द्राक्षादयः ।... हिंसा छेदः इन्धनाद्युद्देशेन...
    CC-0. In Public Domain Sri Aurobindo Library, Pondicherry

॥ विष्णुस्मृतौ ३७ ॥ ३८ ॥ ६५
जीवनम् । २५ । अभिचारबलकर्मसु च प्रवृत्तिः । २६ ।
आत्मार्थे क्रियारम्भः । २७ । अनाहिताग्निता । २८ ।
देवर्षिपितृऋणानामपक्रिया । २९ । असच्छास्त्राभि-
गमनम् । ३० । नास्तिकता । ३१ । कुशीलवता । ३२।
मद्यपस्त्रीनिषेवणम् । ३३ । इत्युपपातकानि । ३४ ।
उपपातकिनस्त्वेते कुर्युश्चान्द्रायणं नराः ।
पराकं च तथा कुर्युर्यजेयुर्गोसवेन च ॥ ३५ ॥ ३७ ॥
ब्राह्मणस्य रुजस्करणम् । १ । अघ्रेयमद्ययोर्घ्रातिः ।
। २ । जैह्मम् । ३ । पशुषु मैथुनाचरणम् । ४ । पुंसि
च । ५। इति जातिभ्रंशकराणि । ६ ।
जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ।
कुर्यात्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ ७ ॥ ३८ ॥
29 T. om. V¹⁻⁴. अवपाक्रिया C¹, ²v; अनपक्रिया N. 35.
गोसवेन च V¹⁻⁴ N. XXXVIII. v makes one Sûtra of 1 — 6.
26. परमरणाय जपहोमाद्यभिचारः। अनिषिद्धस्यापि परानभिमतस्य
बलावष्टम्भेन करणं बलकर्म ।... 27. अत्र क्रियासामान्येऽपि पचनक्रिया
ग्राह्यते। अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणादिति स्मरणात् (below,
LXVII, 43 ) ।...30. असतां वेदवाह्यादीनां शास्त्रेष्वभिगमनमायासः ।
35... चशब्दो विकल्पार्थः... XXXVIII, 2. अघ्रेयं विण्मूत्रादि...
5...चकारात्स्त्रियामप्ययोनौ गमनम् । ...इति योगिस्मरणात् (Y. II,
293).

digitized by eGangotri/Sarayu Trust. Funding IKS-MoE-Grant-2 Equipment Heritage Foundation, Jalgac
८६ ॥ विष्णुस्मृतौ ३९ ॥ ४० ॥ ४१ ॥
ग्राम्यारण्यानां पशूनां हिंसा संकरीकरणम् । १ ।
संकरीकरणं कृत्वा मासम्मश्नीत यावकम् ।
कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं तु कारयेत् ॥ २ ॥ ३९ ॥
निन्दितेभ्यो धनादानं वाणिज्यं कुसीदजीवनमसत्य-
भाषणं शूद्रसेवनमित्यपात्रीकरणम् । १ ।
अपात्रीकरणं कृत्वा तप्तकृच्छ्रेण शुध्यति ।
शीतकृच्छ्रेण वा भूयो महासांतपनेन वा ॥ २ ॥ ४० ॥
पक्षिणां जलचराणां जलजानां च घातनम् । १ ।
XL, 2. भूमि v.
XXXIX, 1. ग्राम्या अश्वादयः । आरण्या महिषादयः ।... तत्र
गोमनुष्यवधस्योपपातकादिपरिहारात्तदितरहिंसा संकरीकरणम् । ...2.
इच्छानिच्छेऽनुवर्तेते । तत्रेच्छया संकरीकरणं कृत्वा... यावकम्... अश्नी-
यात् । अनिच्छया तत्करणे कृच्छ्रातिकृच्छ्रं कुर्यात् । खयासामर्थ्ये ब्राह्मणा-
द्वारापि कारयितुं णिच्प्रयोगः ।... XL, 1. निन्दितेभ्यो म्लेच्छादिभ्यो
विनापि प्रतिग्रहं वृद्ध्यादिरूपेण धनादानम् । वाणिज्यमनिषिद्धस्यापि
वस्तुनः क्रयविक्रयौ । कुसीदमनिषिद्धयापि वृद्ध्या जीवनम् । असत्यभाषणं
साक्ष्यमन्तरेणापि । शूद्रसेवनं प्रेष्यत्वं विनाप्याह्लादकरणं त्रैवर्णिकानाम् ।
इत्येवंप्रकारमपात्रीकरणमसत्प्रतिग्रहनिषिद्धविक्रयनिषिद्धसाक्ष्यान्तशूद्रप्रे-
ष्यत्वानामुपपातकत्वात् ।... 2. इच्छया अपात्रीकरणं कृत्वा वक्ष्यमाणेन
तप्तकृच्छ्रेण शुध्यति । अनिच्छया तत्करणे तु शीतकृच्छ्रेण । भूयोऽभ्यासेन
तत्करणे महासांतपनेन शुध्यति ।... XLI, 1... जलचरा ये जलं
प्रविश्य मत्स्यादीन्गृह्णन्ति ते उदादयो (उद्रा० ?), जीवविशेषाः । जलजा
मत्स्यादयः । तेषां घातनम् ॥
CC-0. In Public Domain Sri Aurobindo Library, Pondicherry

॥ विष्णुस्मृतौ ४१ । ४२ ॥ ४३ ॥ ६७
कृमिकीटानां च । २ । मद्यानुगतभोजनम् । ३। इति
मलावहानि । ४।
मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ।
कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तं विशोधनम् ॥ ५ ॥ ४१ ।
यदनुक्तं तत्प्रकीर्णकम् । १ ।
प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम् ।
प्रायश्चित्तं बुधः कुर्याद्ब्राह्मणानुमतः सदा ॥ २ ॥ ४२ ॥
अथ नरकाः । १ । तामिस्रम् । २ । अन्धतामिस्रम्
। ३ । रौरवम् । ४ । महारौरवम् । ५ । कालसूत्रम् । ६ ।
महानरकम् । ७ । संजीवनम् । ८ । अवीचिः । ९ ।
तापनम् । १० । संप्रतापनम् । ११ : संघातकम् । १२ ।
काकोलम् । १३ । कुड्गलम् । १४ । पूतिमृत्तिकम् । १५ ।
XLII, 2. ०मतो यथा ॥ V¹⁻⁴. XLIII, 10. तपनम् । V¹⁻⁴.
See 11; Y. III, 224; and the C. 13. काकोलः। V¹⁻⁴.
See the P. Dict. 14. कुड्डलं। V¹⁻³; कुण्डलं। कुट्टानं। C¹'²;
कुद्दालं v See M. IV, 89; Y. III, 222; and the C.
3. मद्येन पूर्वोक्तेन द्वादशविधेनानुगतं सदृशं मदजनकत्या जातीफलादि
तद्भक्षणम्। यद्वा मद्यस्य सुराया अनु पश्चाद्भूतमुत्पन्नं भङ्गादि तद्भक्षणम्। ...
5. कामकृतेषु मलिनीकरणीयेषु तप्तकृच्छ्रेण ... अकामतः पुनस्तप्तारब्ध-
कृच्छ्रेण (कृच्छ्रातिकृच्छ्रेण)... विशुद्धिः ॥ XLIII, 10. अग्निसंनिकर्षेण
तापानुभवः ॥ 14. गोण्यादिषु प्रक्षिप्य तन्मुखबन्धनम् ॥ 17. पुटपाकः ॥
13