Skip to content
SarvaKosh
Back to the archive

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages
Page 203Permalink

Here is the line-by-line transcription of both pages from the image:

[पृष्ठ १८०]

निर्देशेन पौरुषेयत्वं शक्यसमर्थनं' वेदशब्दानां घटनापूर्वकत्वाभावेऽपि
घटनानां वेदपूर्वकत्वं तु न विरुद्धम् । तेन वैदिकशब्दानुसारेण
क्वचित्कल्पे प्रतिकल्पं वा गोतमस्य तद्गोत्रोत्पन्नानामृषीणां तद्विशिष्टस्य
सत्त्वेऽपि न दोषः । तच्चोक्तमेव 'शब्दानुसारिण्यो भवन्त्यस्तु घटना
न वार्यन्ते ।' तेनैव तदंश इति वृत्ताभ्युपगमेऽपि न दोषः । अपौरुषेय-
त्वस्याव्याहतत्वात् । एवमेव परुच्छेपपुत्रेणानानतेन दृष्टस्य 'कारुरहं
ततो भिषक्' (ऋ० सं० ९।११२।३ इत्यादि मन्त्रस्य सोमश्च्योतनाङ्ग-
त्वेन तत्रैव विनियोगात् न स्वार्थे तात्पर्यम् । 'यत्परः शब्दः स शब्दार्थ'
इति न्यायात् । अत्र स्तोमानां कर्ता कारुः, तस्य पुत्रस्तु यज्ञस्य श्रद्धा

Page 204Permalink

३८२ वेदस्वरूप-विमर्श

पेयत्वं साधयितुं प्रदर्शितस्य हेतोः साध्यसमहेत्वाभासरूपत्वान्न साध्य-
-साधने शक्तिः ।'
तदपि तुच्छम्; सूत्रभाष्यादि-तात्पर्याऽनभिज्ञानात् । तथा हि
सम्प्रदायाविच्छेदे सति अस्मर्यमाणकर्तृकत्वेन सिद्धस्यैव अपौ-
रुषेयत्वस्य उपोद्वलनायैव एतदुक्तिः । अपूर्वसाध्यसाधनभावबोध-
कत्वेनापि तदुपोद्वलनम् ।
न च ज्योतिष्टोम-स्वर्गयोः साध्य-साधनभाव मनभ्युपगच्छतः
तदकिञ्चित्करमिति वाच्यम्; तदभ्युपगन्तॄन् प्रत्येव तत्साधनात्
अनेके पौरुषेयत्ववादिनः ज्योतिष्टोमस्वर्गयोः साध्यसाधनभावमभ्यु-
पगच्छन्ति अपौरुषेयत्वं ईश्वरकर्तृकत्वं च वेदानां नाभ्युपगच्छन्ति तान्
प्रति ज्योतिष्टोमस्वर्गयोः साध्यसाधनज्ञानपूर्वकः विनियोगो न
[

Page 205Permalink

यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:


[बायाँ पृष्ठ]

३८४ वेदस्वरूप-विमर्श
सम्बन्धग्रहमन्तरा शाब्दबोधः । यथा--धूम-धूमध्वजयोः सम्बन्धे स्वा-
भाविके सत्यपि व्याप्तिज्ञानमन्तरा न धूमेन धूमध्वजावबोधः तथैव
सम्बन्धग्रहमन्तरा पित्रादिशब्दैः तदर्थावगमोऽपि न भवतीति युक्तमेव ।
गौतमवात्स्यायनादयस्तु वेदपौरुषेयत्ववादिनः न शब्दनित्यत्वमपि
अभ्युपगच्छन्ति कुतस्तरां सम्बन्धनित्यत्वम् ? पूर्वोत्तरमीमांसकास्तु
वर्णपदयोरिव वेदवाक्यानामपि नित्यत्वमभ्युपगच्छन्ति सुतरां तन्मत-
रीत्या सम्बन्धनित्यत्वमपि सम्भवत्येव । अर्थव्यक्तीनामनित्यत्वेऽपि
तत्तज्जातीनां नित्यत्वेन तन्निर्वाहात् । तथापि गौतमादीनां वेदानामी-
श्वरकर्तृकत्वमभिमतमेव । उदयनाचार्याः न्यायमञ्जरीकाराश्च वेदाना-
[L

Page 206Permalink

३८६ वेदपौरुषेयत्वविमर्शः
किन्तु असाधव एव वाचकाः। साधवश्चासाधुस्मरणद्वारा बोधका-
इति मतिर्भवति ।
पुरा यथा अनृतादिभिरसङ्कीर्णा वागासीत् । तथा सर्वैरपभ्रंशैर-
सङ्कीर्णा पश्चात् अनृतादिभिरिवापभ्रंशैरपि सङ्कीर्णा जाता । तत एव
व्यवकीर्णा दैवीवाक् अपभ्रंशपङ्कमलिनीकृता । अनित्यदर्शिनामत्र बुद्धि-
विपर्ययो जातः साधूनां धर्महेतुत्वमजानताम् । ते तु मल्लसमयादि
सदृशीं साधुव्यवस्थां मन्यन्ते । ते साधूनां शब्दानां समूहं प्राकृतं
प्रकृतौ भवमाचक्षते । विकारश्च पश्चात् सम्भिन्नबुद्धिभिः पुरुषैः
स्वरसंस्कारादिभिर्निर्णयते । परन्तु येषां पुरा कल्पो नास्ति न वा दैवी
वागसङ्कीर्णासीत् तेषामपि गम्यागम्यादिकल्पव्यवस्थावत् साध्वसाधुव्य-
वस्था शिष्टैरविच्छेदेन स्मर्यते ।

Page 207Permalink

३८८ वेदार्थपारिजातविमर्शः
तस्या नित्यत्वेन सर्वदा सत्त्वेऽपि न सर्वदार्थबोधापत्तिः, वर्णो-
च्चारणेनाभिव्यक्ताया एवार्थबोधजनकत्वात् । अयमेव जातिस्फोट-
वादोऽपि । 'अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृतः।'
यथा 'अयं घटः', 'अयं घटः', इत्यनुगतप्रतीत्या घटत्वं जातिरङ्गीक्रियते
तथैव शुक-सारिका-मनुष्यादि-प्रयुक्तेषु प्रतीयमानवैलक्षण्येषु भिन्नेषु
घटशब्देषु 'अयं घटशब्द' इत्यनुगतप्रतीत्या घटशब्दत्वं जातिरिति
स्वीक्रियते ।
ननु घटशब्दे गुणत्व-शब्दत्व-घटशब्दत्व-जातीनां सत्त्वात् घटशब्दत्वे
कथं शक्त्याश्रयत्वमिति चेन्न, घटे द्रव्यत्व-पृथिवीत्व-घटत्व-जातीनां
सत्त्वेऽपि घटत्वस्यैव शक्तत्ववत् घटशब्दत्वस्यैव शक्तत्वव्यवस्थापनात् ।
यद्यपि घटावयवैर्घटावयविद्रव्यवत् क्रमजन्मवद्भिः क्षणिकैर्युग-
पत्कालैर्वर्णैरवयवैरवयवस्थितैर्व्यवस्थितं शब्दान्तरं नारब्धुं शक्यमिति घट-
त्वजातेः क आश्रयः स्यात् ? न च शब्दत्वजातिवत् घटशब्दत्वजातिः
प्रत्येकवर्णपरिसमाप्ता, तथात्वे घकारादिष्वव्युच्चारितेषु घटशब्दत्व-
प्रतीत्यापत्तेः, द्वितीयादिवर्णवैयर्थ्यापत्तेश्च । तथापि कर्मत्वजात्युपलक्ष्कि-
तेषु क्रमविशेषयुक्तेषु पूर्वापरोद्भूतेषु कर्मसु भ्रमणत्वोत्क्षेपणादि-
जातिवत् घटशब्दत्वजातिः सिद्ध्येव । यद्यपि तत्रापि पूर्वं कर्म, ततो
विभागः, ततः पूर्वसंयोगनाशः, तत उत्तरसंयोगः, ततः कर्मनाशः, ततः
कर्मान्तरम्, कर्मवति द्रव्ये च पूर्वकर्मणि संयोगः, ततः कर्मनाशः,
ततः कर्मान्तरम्, कर्मवति द्रव्ये च पूर्वकर्मण्यविनष्टे सति न कर्मान्तरम्
कर्मणोः सहानवस्थानात् । अतः कर्मान्तरसहितैः कर्मविशेषैरवयविस्था-
नीयं कर्मान्तरं नारब्धुं शक्यमिति क्व भ्रमणत्वादि जातिः स्यात् ? तथापि
उत्क्षिपति, भ्रमतीति भिन्नप्रत्ययभ्रमाजनककर्माणि उत्क्षेपणकर्मापेक्षया
वैलक्षण्यदर्शनात् भिन्नानि कर्माणि प्रत्यवयवं भ्रमणत्वाश्रयत्वं प्रति-
पद्यमानान्यपि प्रत्येकं कर्मदर्शनवेलायामुत्क्षेपणत्वाश्रयकर्मपेक्षया भेदम-
प्रतिपद्यमानान्यपि इदं कर्मोत्क्षेपणत्वाभिव्यञ्जकं भ्रमणत्वाभिव्यञ्जकं
वेति निर्धारयितुमशक्यत्वेऽपि यद्देशविशेपे संयोगविशेषान् जनयन्ति,
अपेक्षाबुद्ध्या विषयीकृतानि क्रमानुवृत्तिं जनयन्तो दृश्यन्ते । तथा


वेदस्वरूप-विमर्षे ३८९
पूर्वपूर्वकर्मप्रत्यक्षाहितसंस्कारसहितेन चरमकर्मप्रत्यक्षेण भ्रमणत्व-
मुत्क्षेपणत्वं वा जातिरभिव्यज्यते इति वैशेषिकाभ्युपगमः । तथैव
घकारादयो घटशब्दस्याश्रयत्वं प्रतिपद्यमाना घन-घटक-बकाराद् भेदम्-
प्रतिपद्यमाना घटशब्दत्वमनभिव्यञ्जयन्तोऽपि तदुत्तरोत्तरवर्णोपलम्भेन
अपेक्षाबुद्ध्या विषयीकृताः क्रमानुवृत्तिं जनयन्ति तदा पूर्वपूर्ववर्णप्रत्यक्षा-
हितसंस्कारसहितेन चरमवर्णप्रत्यक्षेण पूर्वमगृहीता व्यक्तं गृहीता
घटशब्दत्वरूपा जातिः संस्कृते अन्तःकरणे व्यज्यते ।
तदेवाह्तं श्लोकवार्तिके—
'कण्ठताल्वादिसंयोगविभागक्रमपूर्वकम् ।
ध्वनीनामानुपूर्व्यं स्याज्जात्या चोभयनित्यता ॥
यथैव भ्रमणादीनां भागैर्जात्या च लक्षितैः ।
क्रमानुवृत्तिरेवं स्यात्ताल्वादिक्कनिभर्णभाक् ॥'
वाक्यपदीयरीत्यापि शब्दार्थसम्बन्धानां नित्यतैव—
'नित्याः शब्दार्थसम्बन्धास्तत्राम्नाता महर्षिभिः ।
सूत्राणां सानुमन्त्राणां भाष्याणाञ्च प्रणेतृभिः ॥'
(वा० प० ब्र० का० २३)
तत्र केषाञ्चिद्ररीत्या आकृतिनित्यत्वान्नित्यः शब्दः । आकृतिप्र-
युक्तञ्चेदं शास्त्रम् । आकृतिरत्र जातिर्नावयवसन्रिवेशविशेषः । तन्मते
शब्दस्य गुणत्वेन निरवयवत्वात् ।
शब्दार्थसम्बन्धानामनित्यत्वे पुरुषाणां स्वातन्त्र्ये शब्दार्थ-
सम्बन्धाः स्वेच्छयाऽन्यथापि कृता भवेयुः । तस्मात्—
शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् ॥
यथा अर्थजातयः घटत्वादयः शब्दजातिबोध्याः । यथा वा अर्थ-
जातीनां शक्यत्वम् शब्दजातीनाञ्च शक्तत्वम् इति ।
केचित्तु अनेकव्यक्त्विन्यङ्ग्यां नित्यां शब्दव्यक्तिं मन्यन्ते । शब्द-
व्यक्तिगतस्तु कैश्चिद्वर्णभेदोऽभ्युपगम्यते ।
जातेर्नित्यत्वेन तदाश्रये शब्देऽपि नित्यत्वव्यवहारः । तदुक्तम्—
'आकृतिनित्यत्वान्नित्यः शब्दः' । नित्येषु शब्देषु कूटस्थैरविचालिभिर्वर्णै-
र्भवितव्यम् ।

Page 208Permalink

[वाम पृष्ठ]

वेदपौरुषेयत्वविमर्शः
'सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः।
एकदेशविकारे हि नित्यत्वं नोपपद्यते ॥'
शब्दानित्यत्ववादिमतेऽपि अनादिवृद्धव्यवहारपारम्पर्याविच्छेदेन
शब्दव्यवहारस्य व्यवस्थितत्वात् शब्दानां नित्यत्वम् ।
न्यायवार्तिककारा अपि नित्या वर्णा नित्या वेदा इति च सम्प्रदाया-
विच्छेदात् नित्या पृथिवी, नित्याः पर्वताः इतिवत् । घटशब्दत्वादिजात-
योश्च टत्वाद्यर्थानां बोधकाः ।
अन्येषां रीत्या नष्टविद्यमानयोरव्यवहितोत्तरत्वस्य वक्तुमशक्य-
त्वेन पूर्वापरीभावरूपक्रमविशेषस्य ज्ञानासम्भव इति पूर्वोक्तरीत्या
अन्त्यवर्णानुभवोद्बुद्धसंस्कारेण युगपत्संस्कारोद्बोध इति नियमाभावेन
विपरीतक्रमेण संस्कारोद्बोधे सरो रसः, नदी दीन इति विपरीत-
क्रमापत्तौ प्रत्येकमन्वयार्थबोधापत्तेः । तस्मादनेकध्वनिव्यङ्ग्या

Page 209Permalink

३९२ वेदस्वरूपविमर्शः
'समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः क्रियते
शब्देनैवार्थोऽभिधेयो नापशब्देन, एवं क्रियमाणमभ्युदयकारिभवतीति ।
महाभाष्ये च आगमात् व्याकरणात् सिद्धाः साधवः शब्दाः धर्मसाधनम्,
विपरीतास्त्वनिष्टसाधनम् । 'तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः,
तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः,
इति श्रुत्या असाधूनां शब्दाना मधर्म साधनत्वबोधनात् आगमविहितेषु
यागादिषु निषिद्धेषु हिंसावृतवदनादिषु धर्माधर्मसाधनत्वस्याविप्रतिपन्न-
त्वात् ।
शब्दकृतकत्वपक्षेऽपि अनादौ संसारे अप्रवृत्तशब्दव्यवहारस्य
कालस्यासत्त्वान् प्रवाह्नित्यता भवत्येव । यथा मीमांसकरीत्या अर्कः,
अश्वः, अर्थः, आदौ पदभेदेऽपि अवर्ण

Page 210Permalink

line 21:
Line 20: '...धर्माय भवति । यथार्थानृत'
Wait, line 20 end has: 'यथार्थानृत' - wait, is there a hyphen? It's just 'यथार्थानृत'.
Line 21: 'मन्यथाऽवस्थितस्यान्यथावचनम् प्रत्यवायाय तथा शब्दानृतमरूपं वाच-')
Wait, let's look at line 21:
'मन्यथाऽवस्थितस्यान्यथावचनम्'?
Look at the characters:
'म' 'न्य' 'था' 'व' 'स्थि' 'त' 'स्या' 'न्य' 'था' 'व' 'च' 'न' 'म्'
There is an avagraha? 'मन्यथाऽवस्थित...' or 'मन्यथावस्थित...'?
Looks like 'मन्यथाऽवस्थितस्यान्यथावचनम्'.
Wait, before it: 'यथार्थानृत'? No, 'यथा ह्यनृत-'?
Look at line 20 end:
य - थ - ा - र्था - नृ - त:
Is that 'यथार्थानृत'? Or 'यथा ह्यनृत-'?
Let's zoom in on line 20 end:
'य' 'था' 'र्था' - wait, is there a repha?
'यथा ह्य

Page 211Permalink

३९६ वेदार्थपारिजातविमर्शः
सम्भवेऽपि वाचकाशक्तिततया मूलशब्दापस्थापनेन प्रत्यायकत्वोपपत्तेः,
तज्ज्ञानात्तु श‍ृण्वन्तो बालाः साधारणश्च तत्रैव संज्ञासञ्जिसम्बन्धं शिक्षित्वा
स्वयं व्यवहरन्ति । तेभ्यश्च शिक्षित्वाऽन्येपीत्येवमपि प्रयोगप्रत्ययोप-
पत्तौ नैकान्ततः सर्वेषामप्यविच्छिन्नपारम्पर्यवाचकत्वनिर्णयः सम्भ-
वति । तत एवानेकशब्दत्वमेकस्यार्थस्यानभ्युपगन्तुं युक्तम्, अनेकशक्ति-
कल्पनाप्रसङ्गात् । गोशब्देन सास्नादिमानभिधीयते इत्यातवक्यात्
वाचकत्वप्रग्रहदशायामभिधानक्रियामभिधानक्रिया द्वारा तत्कर्मकरणयो-
र्वाच्यवाचकयोरर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यादिति अनेन
न्यायेन नियमरूपः सम्बन्धोऽवगतः ।
ततश्च गाव्यादेरपि सास्नादिमदर्थवाचकत्वस्वीकारे सास्नादिमत्क-
र्मकाभिधानक्रियायां गोशब्द एव करणमिति नियमस्य व्युत्पत्तिकालो-
वगतस्य बाधः स्यात् । तस्मादेकैकस्य वाचकत्वमितरे त्वशक्तित्जा इत्येव
न्याय्यम् ।
कर-हस्त-पाण्यादिषु तु विशेषानवधारणादनेकशब्दता गत्यन्तराभावा-
दूरीक्रियते । गाव्यादिषु तु शिष्टस्मरणाभावान्न तथेति न सर्वेषां वाचक-
त्वम् । वाचकरूपनियमॆऽपि स्मृतेः स्मृत्यन्तरमेव मूलम् तस्याप्यन्यदित्य-
नादिरेवैषा स्मृतिपरम्परा ।
न चेयमन्धपरम्परा शब्दस्वरूपशब्दान्तराद्विविक्तस्य प्रत्यक्षत्वात् ।
सर्वो हि स्वे काले गवादिंशब्दान् प्रत्यक्षत उपलभन्ते। वृद्धेभ्यः श्रुत्वाऽतीत-
कालेऽपि सत्तामवधारयन्ति ।
सर्वकालमपि केचन वृद्धाः सन्ति, तत्प्रत्यक्षसम्भवान्न कदाचिदपि-
प्रत्यक्षविच्छेदः । सर्वकालवर्तित्वमेवानादित्वं साधुत्वञ्च । तथा च
तत्तत्कालिकवृद्धप्रत्यक्षसश्राचीनया शिष्यस्मरणपरम्परया सास्नादि-
मदर्थेषु गवादिंशब्दानांमनादिवाचकत्वरूपं साधुत्वं स्वध्यवसानम् ।
न चैतत्सर्वं गाव्यादिष्वपि सम्भवति, तत्र प्रत्यक्षपरम्परायाः कथ-
ञ्चित् सम्भावितत्वेऽपि तन्मात्रेण साधुत्वानिश्चयात्, अशक्तिजत्वस्यापि
सम्भवाच्च ।

वेदस्वरूप-विमशॆ ३९७
शिष्टस्मरणाभावान्न गाव्यादिषु अनादित्वनिश्चय इति न साम्यम् ।
न च विगानादप्रामाण्यम्, श्रुतीनामपि ग्रहणामग्रहणादिविगानदर्शनात् ।
नापि निष्फलत्वं व्याकरणशास्त्रस्य, धर्माधर्मप्रतिपत्तिपरिहारार्थं तदुपादान-
हानोपयोगिशब्दापशब्दविभागज्ञानस्वरूपफलस्य सत्त्वात् । रक्षोहादेश्च
वेदविरुद्धस्य सर्ववेष्टनस्मरणाद्येवाप्रामाण्येऽपि न सर्वस्याप्रामाण्यं,
अप्रामाण्यहेत्वभावात् । 'प्रयोगोत्पत्त्यशास्त्रत्वात् शब्देषु न व्यवस्थास्या-
त्, (१।३।२४) शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्, ( १।३।२५ )
अन्यायाश्चानेकशब्दत्वम्, ( १।३ २६ ) तत्र तत्त्वमभियोगविशेषात् स्यात्
१।३।२७ तदशक्तिश्चानुरूपत्वात्, (१।३।२९) एकदेशत्वाच्च विभक्ति-
व्यत्यये स्यात्, (१।३।२९) यत्त्वार्य-म्लेच्छयोरभिधानविपत्तिर्यथा पीलु-
शब्दमार्यावृक्षविशेषे म्लेच्छास्तु हस्तिनि प्रयुञ्जते, तत्रोभयोरपि शब्दार्थ-
योर्लोके प्रसिद्धिगम्यत्वात् तुल्यबलत्वं प्राप्यते । यद्यार्येषु अबंध्यस्मरणमना-
दित्वकारणं तदपि समानं म्लेच्छेषु इति पूर्वः पक्षः। सिद्धान्तस्तु प्रातिपदि-
कतामात्रं म्लेच्छेष्वप्यवगम्यते । अविप्लुतशब्दस्त्वार्थेष्वेवावधार्यते ।
न चोभावपि शब्दार्थौ, अनेकादृष्टशक्ति कल्पनाप्रसङ्गात् । शब्दप्रयोगो-
प्यन्यतरस्यानवगणात्, व्यवहारानुपपत्त्या कदाचित्कस्यचिदुपादाने
विकल्पापत्तिश्च स्यात् । तेनैकत्र मुख्यत्वेनान्यत्र गौणत्वेनापि प्रयोगोप-
पत्तिः । गौणत्वेऽपि पार्श्वस्थानां मुख्याभिमानसम्भवात् । तैरेव चान्येभ्यो
मुख्यत्वस्य कथनात् मुख्याभिधानपरम्परानुवृत्तिस्सम्भवात् । यदि
विशेषोनावधार्येत तदा गत्यभावाद् द्वयोरभिधेयता अस्ति तु विशेषः।
शास्त्रज्ञा हि शब्दैङ्गम्यमधर्माधर्माविप्लुतलिप्सया शब्दार्थतत्त्वं
विविच्य पालयन्ति । म्लेच्छास्तु दृष्टार्थव्यवहारस्य यथाकथञ्चित्
सिद्धेः प्रयोजनाभावात् नाविप्लुतितिसिद्धौ यतन्ते । अतः प्रतिपादकतामात्रं
यद्यपि म्लेच्छेष्वपि सिद्धयति तथापि विप्लुतित्सम्भवान्न तेषु शब्दार्थत
स्वासिद्धिरिति निर्दोषार्यप्रसिद्धयै वार्थसिद्धिरिति पील्वादिशब्द
वृक्षार्थमभिधायिनः ।
आर्यप्रसिद्धिविरोधे म्लेच्छप्रसिद्धेरप्रामाण्येऽपि अविरोधे तु तस्या
अपि भवत्येवार्थनिर्णये प्रामाण्यम् । पिक-नेम-सत-तामरसादिशब्दा

Page 212Permalink

": is it "मयूर"?
Wait, why would it be "कपोतादीनाम्"? Could it be "मयूरपक्ष..."?
Wait! Look at 'क': could it be 'पि'? No, look at the letter: 'क'. Then 'पो'?
Wait, could it be "मयूरकलापादीनामङ्गचन्द्रकादीनां"?
कलाप = peacock's tail!
Let's check "कलापादीनाम्":
क (ka)
ला (lā) - wait, does 'ला' look like that?
In Devanagari, 'ला' has a rounded left. But here it has a loop to the left and top stroke: that's 'पो'!
Wait, could it be "मयूरपोतानामङ्गचन्द्रकादीनां"?
What is "मयूरपोत"? Young peacock, peacock chick!
"मयूरपोतानाम्" - wait, is there 'दी'?
Let's look at the letters:
म-यू-र-
क-पो-ता-दी-ना-म-
Wait, why "मयूरकपोतादीनाम्"? A peacock and a pigeon/dove! Both are birds that hatch from eggs!
Wait, do pigeons have "अङ्ग" and peacocks have "चन्द्रका"?
"मयूरकपोतादीनामङ्गचन्द्रकादीनां सूक्ष्मरूपेणाण्डेषु रसेऽप्युपसंहारात्..."
Wait! Look at line 18

Page 213Permalink

यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति देवनागरी लिप्यंतरण प्रस्तुत है:

[पृष्ठ ४००]

यथेन्द्रियस्यावेद्यत्वेऽपि विषयप्रतीत्यन्यथानुपपत्त्याऽनुमेयस्यैव विषय-
प्रतीतिजनकत्वं तथैव स्फोटोपलब्ध्यन्यथानुपपत्त्या कश्चिदत्यन्तापरो
क्षो ध्वनिरपि स्फोटाव्यञ्जको भविष्यति ।
अन्यैश्च-स्वतन्त्रः स्फोटासंपृक्तो ध्वनिर्गृह्यते इत्यभ्युपेयते । अव्य-
क्तानां ध्वनिरव गृह्यते, व्यक्तानां शब्दानान्तु ध्वनिः स्फोटश्चेत्युभय-
मपि गृह्यते ।
तत्रैकध्वनेर्व्यञ्जकत्वेऽन्यध्वनिवैयर्थ्यापत्या ध्वनिसमुदायस्यैव
व्यञ्जकत्वम्, क्षणिकपूर्वपूर्वध्वनिसंस्कारसचिवो नान्त्यध्वनिना स्फोटः
स्फुट्यते । न चैवं सरो रस इत्यविशेषः स्यादिति वाच्यम्, उपलब्धि-
क्रमारोपितक्रमवन्तो ध्वनयः पश्चाद् युगपन्मम्यमान अपि तत्क्रमेण स्मृताः
स्फोटमवबोधयन्ति । यथा ज्ञानस्य घटपटाद्युपाधिरेव भेदस्तथैव
स्फोटस्यापि व्यञ्जकध्वनिगतः क्रमविशेषोपाधिक एव भेदः । यथा
शतत्वादिसंख्यायाः अपेक्षाबुद्धिजन्यत्वेन एकत्वादिविग्रहणमुपायः,
तथैव वाक्यस्फोटप्रतिपत्तये देवदत्ताद्यवान्तरपदश्रवणमुपायः । यथा च
चरमैकत्वग्रहणे ततोऽन्यन्तविलक्षणायाः शतत्वादिसंख्याया बोधः
वर्णपदभिन्नत्वेऽपि तथैव अखण्डस्फोटस्य ग्रहणे वर्णादिग्रहणमुपायः ।
यथा वर्णपदवाक्यव्यञ्जका ध्वनयः प्रत्येकं भिन्नास्तथापि सादृश्या-
द्विन्नतयाऽप्रतीयमाना वर्णादीन् व्यञ्जयन्ति । वर्णाभिव्यञ्जकध्वनिसङ्घ-
शब्दभिव्यङ्ग्यत्वात्पदेषु वर्णाः पदाभिव्यञ्जकध्वन्यभिव्यङ्ग्यत्वात्
वाक्ये पदानि भासन्ते । परमार्थतो मिथ्याभूतान्यपि मासन्ते ।
ननु जन्यजनकयोरेव नियतत्वम् । तन्तुभिरेव पटः, कपालाभ्यामेव-
घटः, न व्यङ्ग्यव्यञ्जकयोः, घटव्यञ्जकेनापि दीपेन पटव्यक्तिक्षर्शनार्त् ।
नाप्यभिव्यङ्ग्यत्वेऽभिव्यञ्जकनियमः मणप्रदीपापिभिरपि घटाद्यभिव्यक्तेः ।
तथा च ध्वनिशब्दयोव्यङ्ग्यव्यञ्जकभावे कण्ठाभिघातजेन ध्वनिना
अकार एव, ताल्याभिघातजेन चकार एवेति नियमो न स्यात्
नियमस्य च दर्शनात् ध्वनिशब्दयोर्जन्यजनकभाव एव युक्तः । न व्यङ्ग्य-
व्यञ्जकभाव इति चेन्न, इन्द्रियविषययोरिव व्यङ्ग्याव्यञ्जकत्वेऽपि
ध्वनिस्र्फोटयोर्योग्यतान्नियमोपपत्तेः । यथा चक्षुषीरूपग्राहकता घ्राणे


[पृष्ठ ४०१]

गन्धग्राहकता, रूपे चक्षुर्ग्राह्यता, गन्धे घ्राणग्राह्यतेति जन्यजनकत्वा-
भावेऽपि योग्यतान्नियता । तथैव प्रकृतेपि तदुपपत्तेः ।
यदप्युक्तम्-घ्राण-श्रोत्रयोः स्वसजातीयद्रव्यमात्रसमवेतगुणग्राह-
कत्वम्, ततश्च रूप-रस-स्पर्शाः विसदृशेन्द्रियग्राह्याः, गन्धशब्दौ सह-
शेन्द्रियग्राह्यौ । तत्र यथा सहशेन्द्रियग्राह्ये गन्धेऽभिव्यञ्जकनियमो नास्ति,
तथैव तादृशे शब्देऽप्यभिव्यञ्जकनियमेन न भवितव्यम् । दृश्यते तु
नियमस्तस्माच्छब्दो न व्यङ्ग्यः किन्तुत्पाद्य एव । तदपि न; गन्धेऽपि
व्यञ्जकनियमदर्शनात् । यथाहि कुङ्कुमगन्धाभिव्यञ्जकं गोघृतं नियतं
तथैव शब्देपि नियमो युक्तः ।
ननु गन्ध-रस-रूप-स्पर्शेषु सहशेन्द्रियग्राह्यत्वेन अभिव्यञ्जकानां
संख्यावृद्धिह्रासांश्च अभिव्यङ्ग्योऽनुवर्तते । तैले श्यामं, जले गौरं, वज्र-
मणौ लघु, दर्पणे बृहत्, वङ्गे-दीर्घं, मुकुरे वर्तुलं च प्रतिबिम्बं दृश्यते,
तथैवाभिव्यञ्जकध्वनेर्भेदे वृद्धौ चाभिव्यङ्ग्ये शब्दे भेदो वृद्धिश्च भासते ।
वैशेषिकाणां रीत्या संयोगाद्विभागाच्छब्दाद्वा शब्दोत्पत्तिं वदन्ति ।
यथा वातेनैका वीचिस्तया तरङ्गात्तरं तेनान्यदिति पूर्वपूर्वतरङ्गेभ्य
उत्तरोत्तरतरङ्गाणामुत्पत्तिः । एवं भेरीदण्डसंयोगात् वेणुदलविभागाद्वा
शब्द आकाश उत्पद्यते । सचासमवायिकारणतया शब्दान्तरमारभते ।
तच्चान्यदिति परम्परया श्रोत्रपथमवतर्णी गृह्यते । भेरीशब्दो मया श्रुत
इत्यनुभवस्तु भ्रम एव ।
वैयाकरणास्तु-स्फोटस्य ग्रहणे प्राकृतध्वनिं हेतुमाहुः । वैकृतं ध्वनिं
वृत्तिभेदे हेतुमाहुः । तदुक्तम् संग्रहकारैः-
स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ।
वृत्तिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते ॥'
यथा प्रकाश उद्यन्नेव घटादिभ्यो भिन्नं घटं प्रकाशयति पश्चात् प्रका-
शेन पुनः पुनर्द्दश्यमानोऽपि घटः, न पूर्वप्रकाशिताद्घटात् भेदमालम्बते
तथा प्राकृतध्वनिरेव भिन्नं स्फोटं व्यञ्जयति । अनन्तरं वैकृतध्वनिस्तु
पूर्वाभिव्यक्तस्यैव तावत्कालमुपलब्धे हेतुर्भवति,न पूर्वाभिव्यक्ताद् भिद्ये ।
वे० वि०-२६

Page 214Permalink

िरधिकदेशं व्याप्नोति।
Wait, "ध्वनिरधिकदेशं": look at 'नि' in "ध्वनिरधिकदेशं". There is a small ink smudge, but it's clearly ध्वनिरधिकदेशं.

अकारस्तु न भिद्यते।
द्रव्याभिघातात् ध्वनिकारणवायुसंयोगप्रचयात् दीर्घप्लुतयोः
प्रचयः। अधिककालं वादितायां घण्टायां कम्बोऽनुवर्तते। स्पन्दे उपरते
Wait, "कम्बोऽनुवर्तते" or "कम्पोऽनुवर्तते"?
Look at the letter: 'म्प'! In 'कम्पो', 'म्' + 'प' = 'म्प'. It is clearly "कम्पोऽनुवर्तते।"

सञ्जाता नादा वैकृतध्वनयः। तैरेव द्रुतादिव्यवस्था भवति। शब्दानित्य-
त्वपक्षे तु ह्रस्वत्वादयोऽकारादिधर्मा एव।
अन्येषां रीत्या तु कम्पेऽनिवृत्तेऽपि ज्वालान्तराद्वज्ज्वाला इव स्फोटा-
देव वैकृतध्वनयो जायन्ते।
केषाञ्चित् वायोरन्येषाणमुत्परेषां ज्ञानस्य शब्दत्वापत्ति-
Wait, "वायोरन्ये

Page 215Permalink

' -> 'कथमनुमानमात्रेणार्थनिर्णयः ।'
Yes, 'कथमनुमानमात्रेणार्थनिर्णयः ।'

किञ्च निङ्गातशकेरग्न्यादिद्रव्यस्य मणिमन्त्रौषधादिभिर्विशिष्ट-
Wait, what is that word: 'निङ्गातशकेरग्न्यादिद्रव्यस्य'?
Let's zoom in on that word!
'नि' then what?
Is it 'निर्दग्ध'? 'निराकृत'? 'निर्ज्ञात'?
Look at the characters:
1: नि (ni)
2: र्ज्ञा (r-jñā)?
Wait! 'र्' on top? Yes, a repha!
And underneath is 'ज्ञा' (jñā)!
3: त (ta)!
निर्ज्ञात! (nirjñāta = known, ascertained!)
4: श (śa)
5: क्ते (kte)
6: र (ra with repha? No, र् + अ = र)
निर्ज्ञातशक्तेरग्न्यादिद्रव्यस्य!
निर्ज्ञातशक्तेः + अग्न्यादिद्रव्यस्य = निर्ज्ञातशक्तेरग्न्यादिद्रव्यस्य!
Wow, absolutely clear: निर्ज्ञातशक्तेरग्न्यादिद्रव्यस्य!

Line 8 continued:
मणिमन्त्रौषधादिभिर्विशिष्ट-
सम्बन्धैः सा शक्तिः प्रतिबद्ध्यते । तथा

Page 216Permalink

४०६ वेदपौरुषेयत्वविमर्शः
नार्षज्ञानेनानन्तानन्तशब्दापशब्दनिष्ठधर्मोधर्मजनकत्वं लक्षैकचक्षु-
ष्काः पश्यन्ति ।
यथा विज्ञाने जायमाने तत्प्रामाण्यं स्वत एव गृह्यते, यथा वा आत्मनि
अहं वा नाहं वेति न सन्दिग्धे, न च नाहमिति विपर्यस्यति, स्वप्रकाश-
त्वादेव, तथैव श्रुतिस्मृतिलक्षण आगमोऽनादिशिष्टपरम्परया प्राप्तत्वा-
दसन्दिग्धविपर्यस्ततया बोधजनकत्वादपौरुषेयत्वतन्मूलकत्वाभ्याञ्चा-
पास्तसमस्तपुंदोषतया स्वतः प्रमाणमेव ।
किं बहुना श्रुतिस्मृत्यनपेक्ष्यापि आप्तानामृषीणां वचनबलादेव जन-
साधारणस्य हिंसाव्यभिचारादौ पापबुद्धिः, दानयज्ञपरोपकारादौ
धर्मबुद्धिर्दृढमूला । तदुक्तम्-
'इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये ।
आचाण्डालं मनुष्याणामल्पं शास्त्रप्रयोजनम् ॥
( वा. प. ब्र. का. ४० )
किमु वक्तव्यमनाद्यपौरुषेयमन्त्रब्राह्मणात्मकवेदतच्चरणाश्रितार्ष-
ग्रन्थानामपास्तसमस्तशंकाकलङ्कपङ्कानां शास्त्राणां प्रामाण्यस्वतस्त्वे ।
हस्तस्पर्शादिना मार्गमनुमाय विषमे पथि धावतोऽन्धस्येव तर्कप्रधानस्य
विनिपातो न दुर्लभः । तस्मादेव शिष्टैस्तत्रागममाश्रित्यैव शब्दानुशासन-
मारभ्यते । तदुक्तम्-
'तस्मादकृतकं शास्त्रं स्मृतिञ्च सनिवन्धनाम् ।
आश्रित्यारभ्यते शिष्टैः शब्दानामनुशासनम् ॥'
वैयाकरणैर्वेदानामकृतकत्वेनापौरुषेयत्वमेवाभ्युपेयते ।
'न जात्वकृतकं कश्चिदागमं प्रतिपद्यते ।
बीजं सर्वागमापाये त्रय्येवातो व्यवस्थिता ॥'
[L

Page 217Permalink

पृष्ठ ४२८

व्याकरणशास्त्रं वाङ्मूलं निवारयति । संस्कारहीनः शब्दोऽपि फादर,
गावी, पित्तेति प्रयुयुक्षिते फादर गावीत्यादि निष्पद्यते स एवापभ्रंशः ।
'शब्दप्रकृतिरपभ्रंशः' इति सङ्ग्रहवचनात् ।
केचित्तु प्राकृतं मूलं संस्कारेणोत्पन्नं संस्कृतमेव सादि वदन्ति ।
तत्त प्राकृतव्याकरणविरुद्धम् । तत्र तु प्रकृतिः संस्कृतं तस्माद्भवं प्राकृत-
मिति संस्कृतमेव प्रकृतिरित्युक्तम् ।
संस्कारस्त्वत्र असाधुशब्देभ्यः साधुशब्दानां विवेचनमेव ।
यथा तितउना ( चालन्या ) अनुपादेयेभ्यः उपादेयानां पृथक्करणमेव
संस्कारः तथैवात्रापि बोध्यम् ।
'शब्दः संस्कारहीनो या गौरिति प्रयुयुक्षिते ।
तमपभ्रंशमिच्छन्ति विशिष्टार्थनिवेशिनम् ॥'
( वा० प० ब्र० का० १४८ )
तत्रापि अश्श्वगोण्यादयः अश्वगवादिसम्बन्ध एवासाधवः, धनहीने
आबपने तु साधव एव ।
तदुक्तम्-
उभयेषामविच्छेदादन्यशब्दविवक्षया ।
योऽन्यः प्रयुज्यते शब्दो न सोऽर्थस्याभिधायकः ॥
( वा. प. ब्र. का. १५६ )
अन्ये तु साधूनामसाधून ञ्चाविच्छेदात् वाचकत्वं सममित्याहुः ।
'समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः क्रियते'
इति महाभाष्यवचनात् । अनादिकालात्साध्वसाधुशब्दानां एव
तितउस्थानीयेन व्याकरणेन पृथक्करणलक्षणसंस्कारेण साधुशब्दानां
संस्कृतत्वं युज्यते । तत एव वेदेऽपि संस्कृताया वाचो भिन्ना काचि-
न्मानुषी वाक् स्वीकृता ।
आधुनिका अपि व्याहरन्ति यत् लैटिन ग्रीक जेन्द संस्कृतादिभाषाः
परस्परं भगिन्य एव, तासां परस्परं साम्यदर्शनात् । कदाचित्तत्तद्भाषा-
भाषिणः समानदेशस्था आसन्निति तेषां भाषैक्यञ्चानुमीयते । यथा
यथा ते परस्परं विप्रकर्षमुपगतास्तथा तथा तद्भाषासु भेदाः सञ्जाताः ।


पृष्ठ ४२९

यस्यास्तु भाषाया इमा दुहितरः सा तु मृतेत्यपि तदनुपलम्भादनुमानम् ।”
तदपि मन्दम्; यतः संसारस्य पुस्तकालयेषु प्राचीनतमस्य ऋग्वेदस्यैवोप-
लम्भात् संस्कृतभाषाया एव सर्वाधिकप्राचीनता विज्ञायते । सैव च
लैटिन ग्रीक जेन्द भाषाणां जननी, उपस्थितं परित्यज्यानुपस्थित-
कल्पने मानाभावात् । विपुलसंस्कृतधातुप्रत्ययेभ्यः सर्वशब्दानां
निष्पत्तिसम्भवाच्च ।
एवं पिदर फादर आदिशब्दानां संस्कृतप्रकृतिकत्वेन साधु
स्मरणात् पित्रादिवाचकत्ववृत्त्यभावेऽपि अक्षिनिकोचादिवत्तज्ज्ञाप-
कत्वं वा स्वतन्त्रतया वाचकत्वं वा । न साधुशब्दतदर्थ-सम्बन्धा-
नामौत्पत्तिकत्वे ( स्वाभाविकत्वे ) काचिद् बाधा । व्याकरणशास्त्रेण
येषां साधुत्वं तेभ्यः पुण्यविशेषो जायते इति नियमस्तु विशेषः ।
यदृच्छाशब्दवन्नव्यशब्दानां तु सङ्केतोऽपि नव्यः ।
वस्तुतस्तु वैयाकरणानां मते बौद्ध एवार्थः शक्यः । पदमपि बौद्धमेवेति
तयोरभेदः । सामयिकः शब्दार्थप्रत्ययः । समयस्तु 'अस्येदं नामधेय'-
मिति नियोगरूपः, 'अयमयमिति नियोग' इति पातञ्जलात् ।
तत्रापि पाणिन्यादिस्मार्तसङ्केतस्यैव वाचकता नियामकत्वम् ,
न त्वाधुनिकस्य । आधुनिकसङ्केतस्थले 'द्वादशेऽह्नि पिता नाम कुर्यात्'
इति स्मृत्यनुसारेण क्रियमाणनामस्थले लक्षणैव । तत्र घट-गोविन्दादि-
गुणाद्यारोपेण तन्मूलकप्रवृत्तिनिमित्तारोपेण च बोधः । गामानयेति
प्रयोजकवृद्धवचनेन गवानयनप्रवृत्तिरूपं प्रयोज्यप्रयोजकवृद्धव्यवहारं
पश्यता व्युत्पित्सुना बालेन प्रयोज्यप्रवृत्त्या स्वस्तन्यपानप्रवृत्तिमूलज्ञान-
वज्ज्ञानमनुमाय ज्ञानस्य चोपस्थितत्वात् शब्दमेव कारणत्वेन गृहीत्वा
असम्बद्धस्य कारणत्वानुपपत्त्या सम्बन्धः कल्प्यते । गां बधान
अश्वमानयेति अवापोद्वापाभ्यां सास्नादिमदादिषु गवादिपदानां शक्ति-
र्गृह्यते । व्यवहारस्यैव शक्तिग्राहकेषु प्राधान्यम् । यथा वृश्चिकाद्गो-
मयाच्च वृश्चिकोत्पत्तिः । एवं सर्गादौ केवलादृष्टात् । इदानीं तु ब्राह्मणाद्-
ब्राह्मणोत्पत्तिः । यथा मायावी मायामयं प्रयोज्यं निर्माय घटमानये-
त्यादि प्रयुज्य शक्तिं ग्राहयति । तथेश्वरोऽपि केवलादृष्टाच्छरीरद्वयं
कृत्वा शक्तिं ग्राहयति ।

Page 218Permalink

"तदशक्तौ चानुरूपत्वात्" is actually Jaimini Sutra 1.3.28 in some editions!
Wait, let's check: Jaimini 1.3.24 to 1.3.29 is the Apashabda-adhikarana / Shabda-prayoga:
1.3.24: प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात्।
1.3.25: शब्दप्रयत्ननिष्पत्तेरपराधस्य भागित्वम्।
1.3.26: अन्यायश्चानेकशब्दत्वम्।
1.3.27: तत्र तत्त्वमभियोगविशेषात् स्यात्।
1.3.28: तदशक्तौ चानुरूपत्वात्।
1.3.29: एकदेशत्वाच्चेति।
YES! EXACT MATCH! Jaimini Sūtra 1.3.28 is precisely:
"तदशक्तौ चानुरूपत्वात्" !
That is brilliant!

Now let's examine the right page in detail:
Line 1:
"पादकाधिकरणसंगतिः। शब्दशक्तेरुभयत्र तुल्यत्वे त्वसंगतिरेव ।"
Wait, the left page ends with:
"अत एव यव शब्देन दीर्घशूकविशेष एव ग्राह्यो न कङ्गुरित्येतत् प्रति-"
Right page begins:
"पाद

Page 219Permalink

शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके च कामधुग् भवति, इत्यादि
वचनात् । 'एकः पूर्वपरयोः' पा० सू० ६।१।८४ ) इति सूत्रभाष्यात् ।
ननु साधुस्मरणाच्छक्तिभ्रमाद्वा प्रयोगप्रत्यय इति चेन्न; गवादिष्वपि
तथात्वस्य वक्तुं शक्यत्वात् । तस्मात्पुण्यपापयोरेव वैशिष्ट्यम् । तदुक्तं
वाक्यपदीये-
वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः ।'
अपभ्रंशे शक्त्यंशे कदापि कस्यापि व्यवहर्तुर्बाधादर्शनेन न
शक्तिग्रहस्य भ्रमत्वम्, असति बाधके प्रमात्वस्यैव न्याय्यत्वात् । ऋषीणां
भ्रमासंभवेन ततो बोधानापत्तेः ।
वैयाकरणैर्ग्राह्यग्राहकभाववर्जिता सर्वतः संहृतक्रमाऽपरिच्छिन्नशा-
वागेव ब्रह्माभ्युपेयते । सैव चाविद्याविशिष्टा ज्ञेयाख्या जीवरूपेण-
भोक्तृत्वमुपगच्छति । सैव चार्थविशेषोपलक्षिता मनोविज्ञानरू

Page 220Permalink

४१४ वेदपौरुषेयत्वविमर्शः
एतेन- "वस्तुतस्तु न केवलं शब्दार्थसम्बन्धस्यैव अनित्यत्वम्, परं
शब्दस्याप्यनित्यत्वं बोध्यम् । नहि शब्दो नित्यो भवितुमर्हति, उत्पत्ति-
प्रध्वंसशीलत्वात् तस्य । तथा हि न्यायसूत्रम् - 'आदिमत्त्वात्' ऐन्द्रिय-
कत्वात् कृतकवद् व्यवहाराच्च' (न्या० २।२।१४) इति आदिर्योनिः कार-
णम् आदीयते अस्मादिति । कारणवदनित्यं दृष्टम् संयोगविभागजश्च
शब्दः कारणवत्त्वादनित्य इति । ऐन्द्रियकत्वात्, इन्द्रियप्रत्यासत्तिग्राह्यः
ऐन्द्रियः । किमयं व्यञ्जकेन समानदेशोऽभिव्यज्यते रूपादिवत्
अथ संयोगजाच्छब्दाच्छब्दसन्ताने सति श्रोत्रप्रत्यासन्नो गृह्यते इति ।
दारुव्रश्चने दारुपरशुसंयोगः । निवृत्तौ दूरस्थेन शब्दो गृह्यते । न च
व्यञ्जकाभावे व्यङ्ग्यस्य ग्रहणं भवति । तस्मान्न व्यञ्जक

Page 221Permalink

४१६ वेदपौरुषेयत्वविमर्शः
पक्षो युक्त इत्याह-सतः सर्वदा विद्यमानस्य परं पूर्वोत्तरकालेऽदर्शनम्
संस्कर्तुः व्यञ्जकस्य विषयं शब्दं प्रत्यनागमात् ।
अयमभिप्रायः-स एवायं गकार इति प्रत्यभिज्ञानेन लाघवेन च नित्यः
शब्दः स्वीकर्त्तव्यः । तस्य च मुखोद्गतवायुसंयोगविभागैः शब्द-
प्रत्यक्षप्रतिबन्धकीभूतस्य स्तिमितवायोरपसारणेन भवत्यभिव्यक्तिः ।
ततएव तदानीमेव शब्दप्रत्यक्षं भवति । संयोगविभागाभावे स्तिमित-
वायुरूपप्रतिबन्धकसद्भावात् ।
केषाञ्चिद्रीत्या ध्वनिभिरिन्द्रियस्य संस्कारः । अन्येषां रीत्या शब्दस्य-
संस्कारः । अपरेषामुभयस्य संस्कारः । चित्तैकाग्र्येणाञ्जनादिभिश्च यथा
चक्षुष एव संस्कारो न विषयस्य । विषयसंस्कारे तु एकेन समाहितेन
चेतसा चक्षुषा विधये संस्कृते तदन्यैरपि विषयग्रहणं स्यात् ।
एवं ध्वनिभिः श्रोत्रस्यैव संस्कारो न शब्दस्य, तथात्वे शब्दस्य
विभुत्वेन सर्वश्रोत्रसम्बद्धत्वात् सर्वैरपि तद्ग्रहणप्रसक्तेः । ध्वनौ
काचिदतीन्द्रियशक्तिरेव संस्कारजनिका । अत एव केनाकारेण
संस्कृतिरिति न पर्यनुयोगः । उत्पत्तावपि तादृक्पर्यनुयोगस्य
तुल्यत्वात् ।
अन्यरीत्या विषयस्य तैलादेर्यथातपे न संस्कारः शुष्कभूमेर्गन्धस्यो-
दकेन संस्कारो भवति तत्प्रतिपत्तये न घ्राणेन्द्रियस्य संस्कारः तथात्वे
संस्कृता संस्कृतप्रयुक्तगन्धयोर्भेदो न स्यात्, तथैव ध्वनिभिः शब्दस्यैव
सस्कारो न श्रोत्रस्य सर्वशब्दप्रकाशकत्वापत्तेः । नहि घटायोन्मी-
लितंचक्षुः परं न बुद्धयते । अपररीत्या चक्षुषः प्राप्यकारित्वेन
तथा लोकस्य विषयेन्द्रिययोरपि संस्कारकत्वम् तथैव ध्वनेरपि
क्रमो ज्ञेयः ।
तेजसाविषये तमोनिवृत्तिः, चक्षषि तद्रश्मिवर्धनञ्च क्रियते तथैव
ध्वनिनाशब्दश्रोत्रयोरुभयोरपि कश्चित्संस्कार क्रियते । शब्दे
तदावरकस्तिमितवाय्वपसारणस्सः श्रोत्रे च श्रोत्रमभिव्याप्य स्थितस्य
कोष्ठयवायोरपसारणरूपः संस्कारः क्रियते ।


वेदपौरुषेयत्व विमर्शः ४१७
यदि चक्षुर्मात्रं संस्कुर्यादालोकस्तदा आलोकदेशस्थितोपि अन्ध-
कारस्थं घटं पश्येत् । यदि विषयमात्रं संस्कुर्यात्तदा आलोकस्थघटस्य
सर्वैरपि ग्रहणं स्यात् । सन्तमसस्थस्य पुरुषस्य त्वालोकमितप्रहणं
नानुषपन्नं, चक्षुषः प्राप्यकारित्वेन घटप्रदेशगतस्य चक्षुषस्तत्रस्थेना-
लोकेन संस्कारसम्भवात् ।
गोलकमात्रं चक्षुरिति बौद्धमते ! तच्च विषयासम्वद्धमेव विषयप्रका-
शकम् । प्राप्यकारित्वे रसनादिवदधिष्ठानसम्बद्धं गृह्णीयान् । न
चैवं दृश्यते गोलकासम्बद्धग्रहणात् । स्वतोऽधिकपरिमाणवच्च न गृह्णीयात्
तन्न, अधिष्ठानासम्बद्धार्थग्राहिण्याः प्रदीपप्रभाया इव चक्षुषोपि
प्राप्यकारित्वे पृथुलग्रहणे च बाधाभावात् , स्वाधिकपरिमाणग्राहिणा
त्वगिन्द्रियेण व्यभिचारात् प्राप्यग्राहिणा नाधिकपरिमाणवद्ग्रहणमिति-
नियमे मानाभावाच्च ।
'प्रयोगस्य परम्' ( पू० मी० १।१।१४ ) शब्दं करोतीत्यत्र करोतीति
पदं तु प्रयोगस्योच्चारणस्य परं वक्तव्यार्थकम् । अर्थात् उच्चारं करोतीत्य-
थकं शब्दं करोतोऽतिप दमिति । तेन प्रयत्नादिकारणवत्त्वं तूच्चारण एवोप-
क्षीणमित्यर्थः । 'आदित्यवद्यौगपद्यम्' (पू० मी० १।१।१५ ) यथैकः सूर्यः
नौनादेशस्थैर्यगपद्मीक्ष्यते तथावित्यवन्महान् शब्दो न सूक्ष्मस्तस्मादेव-
शब्दो नानासन्निकृष्टविप्रकृष्टदेशस्थैः पुरुषैर्यगपदुपलभ्यते । तेन
सत्त्वान्तरे देशान्तरे यौगपद्येनोपलम्भादपि न शब्दस्यानित्यत्व-
नानात्वसिद्धिः । 'वर्णान्तरमविकारः' ( पू० मी० १।१।१६ ) इकारस्या-
ने यकारो वर्णान्तरमन्य एव वर्गः, नेकारस्य विकारस्तृणानां कट इव ।
तथात्वे कटकत्र्त्रानियमेन तृणसम्पादनवत् यकारं प्रयुञ्जानो नियमेनेका-
रमाददीत । तस्मान्न प्रकृतिविकारभावेन शब्दानित्यत्वसाधनं
सम्भवति ।
'नादवृद्धिःपरा' ( पू० मी० १।१।१७ ) वृद्धिश्चेत्यस्योत्तरमाह-परा
अतिशयिता शब्दवृद्धिरिति भ्रान्तिरेव नादवृद्धिमूलिका । बहुभिर्भरी-
माद्यनद्विर्वाणत्मकशब्दमुच्चारयितृभिर्वा महान् शब्द उपलभ्यते । तत्र-
शब्दस्य वृद्धिन सम्भवति । तत्र मते प्रतिपुरुषं शब्दावयवा उत्पन्नाः
वे० मी०—२७

Page 222Permalink

सन्तोऽमहत्त्ववच्छब्दे महत्त्वं सम्पादयन्तीति वक्तुं न शक्यते । परमते
शब्दस्य गुणवत्त्वेन निरवयवत्वात् । ततोऽगत्या कणशष्कुलीमण्डलस्य
सर्वां सरणिं व्याप्नुवद्भिः संयोगविभागैर्नैरन्तर्येण असकृद् ग्रहणात्
महानिवावयववानिव प्रतीयते । तथा च नादपदवाच्यानां संयोगवि-
भागानामेव वृद्धिः ।
अन्ये तु ध्वनिरेव नादस्तत्र वर्णा व्यज्यन्ते, तत्र ध्वनीनां वृद्धथैव
शब्दवृद्धिर्विभ्रमः ।
न च रूपाद्रिवद् व्यञ्जकसमानदेशे व्यङ्ग्याभिव्यक्तौ बाधा, नवा-
दारुव्रश्चने दारुपरशुसंयोगनिवृत्तौ दूरस्थेन शब्दग्रहणानुपपत्तिः,
नवा व्यञ्जकाभावे व्यङ्ग्यग्रहणम्, दारुव्रश्चने दारुपरशुसंयोगनिवृत्तावपि
दारुपरशुसंयोगजनितानां वायुसंयोग-विभागानां श्रवणकाले सत्त्वात् ।
ते च यावद् दूरं गच्छन्ति तावत्पर्यन्तमेवस्तिमितवायुसमुत्सा-
रणं तावद्दूरमेव शब्दप्रत्यक्षमपि भवति । शब्दस्य तीव्रत्व-मन्दत्वादिक-
मप्युच्चारणस्यैव तीव्रत्वमन्दत्वादिसमारोपनिबन्धनं भ्रान्तिमूलकमेव ।
एवं पूर्वपक्षं निराकृत्य महामुनिर्जैमिनिः शब्दनित्यत्वं साधयितुं सूत्र-
मारचयाञ्चकार । 'नित्यस्तु स्याद्दर्शनस्य परार्थत्वात्' (पू० मी०
१।१।१८) नित्यः शब्दः स्यात्, दर्शनस्य दृश्यते व्यज्यतेऽनेनेति दर्शनम्
उच्चारणम्, तस्य परार्थत्वात्, अन्यस्यार्थस्य प्रतिपत्त्यर्थत्वात् ।
अनित्यत्वे कथं श्रोतुरर्थावगमपर्यन्तं स्थितिः स्यात् ? अन्यथात्वे कारणा-
भावात्कथमर्थापत्तिः स्यात् ? अर्थावगमपर्यन्तावस्थानेन नाशकाभावा-
दनाशे नित्यत्वमेव शब्दस्य सिद्ध्यति ।
'सर्वत्र यौगपद्यात्' (पू० मी० १।१।१९) सर्वत्र देशेषु कालेषु
चोच्चारितगोशब्दमात्रे गकार एक एव यौगपद्यात् । अबाधित-
प्रत्यभिज्ञाया युगपदुपपत्तेः । स एवायं गकार इति युगपदनेकेषां भवति
प्रत्यभिज्ञानम् । न ह्यनेके युगपद्भ्रान्ता भवन्ति ।
'संख्या ऽभावात्' (पू० मी० १।१।१९) दशकृत्वो गोशब्दोच्चारे
दशवारमुच्चारितो गोशब्दः इत्येव वदति लोकः । न च दशगोशब्दा-
उच्चारिता इति शब्दसंख्याभावात् नित्यः शब्दः । 'अनपेक्षत्वात्' (पू०
मी० १।१।२१) शब्दनाशकारणस्य सर्वसाधारण्येन ज्ञानाभावात् ।
घटपदादर्शनमात्रेण यथाऽसमवायिकारणादिनाशान्नाशो ज्ञायते ।
न तथा शब्दनाशकारणात् शब्द नाशो ज्ञायते ।
'प्रख्याभावाच्च योग्यस्य' (पू० मी० १।१।२२)
यदुक्तम्-वायुपरमाणुप्रकृतिकः शब्दः तदीयसंयोगैर्जन्यते, जन्यत्वा-
दनित्य एव शब्दः, वायुरापद्यते शब्दतामिति शिक्षावचनादिति तन्न,
योग्यस्य श्रोत्रेन्द्रियजन्यप्रत्यक्षविषयस्य शब्दस्य प्रख्याभावात् । अस्य-
वायुविकारस्येव वायुविकारस्य शब्दस्य श्रोत्रेन्द्रियग्राह्यत्वासम्भवात् ।
लिङ्गदर्शनाच्च' (पू० मी० १।१।२३) 'तस्मै नूनमभिद्यवे वाचा-
विरूपनित्यया । वृष्णे चोदस्व सुष्टुतिम्' इति मन्त्रे नित्यया वाचेति
लिङ्गं दृश्यते । तेनापि शब्दस्य नित्यत्वमेव सिद्ध्यति ।
आदिमत्त्वं कारणवत्त्वं कृतकवद्व्यवहारश्चोच्चारणस्यैव भवति
न शब्दस्य, उच्चारणस्यैव संयोगविभागजन्यत्वात् । ऐन्द्रियकत्वन्तु
नानित्यत्वप्रयोजकम् । त्वन्मतेऽपि नित्यस्य शब्दत्वस्यैन्द्रियक-
त्वाभ्युपगमात् ।
यदुक्तम्-शब्दो गुणः शब्दत्वात् ध्वनिवदिति तन्न, वर्णा न गुणा
ध्वन्यन्यत्वे सति श्रावणत्वात् शब्दत्ववत् । एतेन स्पर्शविरहितत्वे सति
एकेन्द्रियग्राह्यत्वात् रूपाद्रिवत् शब्दस्य गुणत्वमिति । तदपि न, पूर्वोक्तस-
त्प्रतिपक्षस्य तद्बाधकत्वात् । ह्यस्तनाद्यतनयोः प्रत्यभिज्ञानेन न
वर्णानां प्रत्युच्चारणमन्यत्वम् । उच्चारणञ्च न वर्णानां कारणं किन्त्वभि-
व्यञ्जकमेव ।
वायुरापद्यते शब्दतामिति शिक्षावचनन्तु वायुः शब्दाभिव्यक्ति-
हेतुतामापद्यते इत्यर्थक एव । यथा धेनुत्वमग्नेर्विदाहित्वञ्च गोर्गमकं
तथैव स्थिरः शब्दः सम्बन्धानुभवसापेक्षः सामान्यार्थावबोधको भवति ।
न कृतकत्वेनानित्यत्वसाधनं सम्भवति, कृतकत्वस्य परं प्रत्य-
सिद्धत्वात् । शब्दं करोतीति व्यवहारस्योच्चारणपरत्वेनोक्तत्वाच्च ।
नाप्यैन्द्रियकत्वमनित्यत्वहेतुः, आद्यमध्यमशब्दयोरैन्द्रियकत्वाभावात् ।