Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 219 of 237

Read in context
Page 219

शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके च कामधुग् भवति, इत्यादि
वचनात् । 'एकः पूर्वपरयोः' पा० सू० ६।१।८४ ) इति सूत्रभाष्यात् ।
ननु साधुस्मरणाच्छक्तिभ्रमाद्वा प्रयोगप्रत्यय इति चेन्न; गवादिष्वपि
तथात्वस्य वक्तुं शक्यत्वात् । तस्मात्पुण्यपापयोरेव वैशिष्ट्यम् । तदुक्तं
वाक्यपदीये-
वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः ।'
अपभ्रंशे शक्त्यंशे कदापि कस्यापि व्यवहर्तुर्बाधादर्शनेन न
शक्तिग्रहस्य भ्रमत्वम्, असति बाधके प्रमात्वस्यैव न्याय्यत्वात् । ऋषीणां
भ्रमासंभवेन ततो बोधानापत्तेः ।
वैयाकरणैर्ग्राह्यग्राहकभाववर्जिता सर्वतः संहृतक्रमाऽपरिच्छिन्नशा-
वागेव ब्रह्माभ्युपेयते । सैव चाविद्याविशिष्टा ज्ञेयाख्या जीवरूपेण-
भोक्तृत्वमुपगच्छति । सैव चार्थविशेषोपलक्षिता मनोविज्ञानरू