Skip to content
SarvaKosh
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

by धर्मसम्राट् स्वामी करपात्री जी महाराज

DevanagariHindipublished237 pages

Page 203 of 237

Read in context
Page 203

Here is the line-by-line transcription of both pages from the image:

[पृष्ठ १८०]

निर्देशेन पौरुषेयत्वं शक्यसमर्थनं' वेदशब्दानां घटनापूर्वकत्वाभावेऽपि
घटनानां वेदपूर्वकत्वं तु न विरुद्धम् । तेन वैदिकशब्दानुसारेण
क्वचित्कल्पे प्रतिकल्पं वा गोतमस्य तद्गोत्रोत्पन्नानामृषीणां तद्विशिष्टस्य
सत्त्वेऽपि न दोषः । तच्चोक्तमेव 'शब्दानुसारिण्यो भवन्त्यस्तु घटना
न वार्यन्ते ।' तेनैव तदंश इति वृत्ताभ्युपगमेऽपि न दोषः । अपौरुषेय-
त्वस्याव्याहतत्वात् । एवमेव परुच्छेपपुत्रेणानानतेन दृष्टस्य 'कारुरहं
ततो भिषक्' (ऋ० सं० ९।११२।३ इत्यादि मन्त्रस्य सोमश्च्योतनाङ्ग-
त्वेन तत्रैव विनियोगात् न स्वार्थे तात्पर्यम् । 'यत्परः शब्दः स शब्दार्थ'
इति न्यायात् । अत्र स्तोमानां कर्ता कारुः, तस्य पुत्रस्तु यज्ञस्य श्रद्धा