वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
by धर्मसम्राट् स्वामी करपात्री जी महाराज
Page 207 of 237
Read in context३८८ वेदार्थपारिजातविमर्शः
तस्या नित्यत्वेन सर्वदा सत्त्वेऽपि न सर्वदार्थबोधापत्तिः, वर्णो-
च्चारणेनाभिव्यक्ताया एवार्थबोधजनकत्वात् । अयमेव जातिस्फोट-
वादोऽपि । 'अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृतः।'
यथा 'अयं घटः', 'अयं घटः', इत्यनुगतप्रतीत्या घटत्वं जातिरङ्गीक्रियते
तथैव शुक-सारिका-मनुष्यादि-प्रयुक्तेषु प्रतीयमानवैलक्षण्येषु भिन्नेषु
घटशब्देषु 'अयं घटशब्द' इत्यनुगतप्रतीत्या घटशब्दत्वं जातिरिति
स्वीक्रियते ।
ननु घटशब्दे गुणत्व-शब्दत्व-घटशब्दत्व-जातीनां सत्त्वात् घटशब्दत्वे
कथं शक्त्याश्रयत्वमिति चेन्न, घटे द्रव्यत्व-पृथिवीत्व-घटत्व-जातीनां
सत्त्वेऽपि घटत्वस्यैव शक्तत्ववत् घटशब्दत्वस्यैव शक्तत्वव्यवस्थापनात् ।
यद्यपि घटावयवैर्घटावयविद्रव्यवत् क्रमजन्मवद्भिः क्षणिकैर्युग-
पत्कालैर्वर्णैरवयवैरवयवस्थितैर्व्यवस्थितं शब्दान्तरं नारब्धुं शक्यमिति घट-
त्वजातेः क आश्रयः स्यात् ? न च शब्दत्वजातिवत् घटशब्दत्वजातिः
प्रत्येकवर्णपरिसमाप्ता, तथात्वे घकारादिष्वव्युच्चारितेषु घटशब्दत्व-
प्रतीत्यापत्तेः, द्वितीयादिवर्णवैयर्थ्यापत्तेश्च । तथापि कर्मत्वजात्युपलक्ष्कि-
तेषु क्रमविशेषयुक्तेषु पूर्वापरोद्भूतेषु कर्मसु भ्रमणत्वोत्क्षेपणादि-
जातिवत् घटशब्दत्वजातिः सिद्ध्येव । यद्यपि तत्रापि पूर्वं कर्म, ततो
विभागः, ततः पूर्वसंयोगनाशः, तत उत्तरसंयोगः, ततः कर्मनाशः, ततः
कर्मान्तरम्, कर्मवति द्रव्ये च पूर्वकर्मणि संयोगः, ततः कर्मनाशः,
ततः कर्मान्तरम्, कर्मवति द्रव्ये च पूर्वकर्मण्यविनष्टे सति न कर्मान्तरम्
कर्मणोः सहानवस्थानात् । अतः कर्मान्तरसहितैः कर्मविशेषैरवयविस्था-
नीयं कर्मान्तरं नारब्धुं शक्यमिति क्व भ्रमणत्वादि जातिः स्यात् ? तथापि
उत्क्षिपति, भ्रमतीति भिन्नप्रत्ययभ्रमाजनककर्माणि उत्क्षेपणकर्मापेक्षया
वैलक्षण्यदर्शनात् भिन्नानि कर्माणि प्रत्यवयवं भ्रमणत्वाश्रयत्वं प्रति-
पद्यमानान्यपि प्रत्येकं कर्मदर्शनवेलायामुत्क्षेपणत्वाश्रयकर्मपेक्षया भेदम-
प्रतिपद्यमानान्यपि इदं कर्मोत्क्षेपणत्वाभिव्यञ्जकं भ्रमणत्वाभिव्यञ्जकं
वेति निर्धारयितुमशक्यत्वेऽपि यद्देशविशेपे संयोगविशेषान् जनयन्ति,
अपेक्षाबुद्ध्या विषयीकृतानि क्रमानुवृत्तिं जनयन्तो दृश्यन्ते । तथा
वेदस्वरूप-विमर्षे ३८९
पूर्वपूर्वकर्मप्रत्यक्षाहितसंस्कारसहितेन चरमकर्मप्रत्यक्षेण भ्रमणत्व-
मुत्क्षेपणत्वं वा जातिरभिव्यज्यते इति वैशेषिकाभ्युपगमः । तथैव
घकारादयो घटशब्दस्याश्रयत्वं प्रतिपद्यमाना घन-घटक-बकाराद् भेदम्-
प्रतिपद्यमाना घटशब्दत्वमनभिव्यञ्जयन्तोऽपि तदुत्तरोत्तरवर्णोपलम्भेन
अपेक्षाबुद्ध्या विषयीकृताः क्रमानुवृत्तिं जनयन्ति तदा पूर्वपूर्ववर्णप्रत्यक्षा-
हितसंस्कारसहितेन चरमवर्णप्रत्यक्षेण पूर्वमगृहीता व्यक्तं गृहीता
घटशब्दत्वरूपा जातिः संस्कृते अन्तःकरणे व्यज्यते ।
तदेवाह्तं श्लोकवार्तिके—
'कण्ठताल्वादिसंयोगविभागक्रमपूर्वकम् ।
ध्वनीनामानुपूर्व्यं स्याज्जात्या चोभयनित्यता ॥
यथैव भ्रमणादीनां भागैर्जात्या च लक्षितैः ।
क्रमानुवृत्तिरेवं स्यात्ताल्वादिक्कनिभर्णभाक् ॥'
वाक्यपदीयरीत्यापि शब्दार्थसम्बन्धानां नित्यतैव—
'नित्याः शब्दार्थसम्बन्धास्तत्राम्नाता महर्षिभिः ।
सूत्राणां सानुमन्त्राणां भाष्याणाञ्च प्रणेतृभिः ॥'
(वा० प० ब्र० का० २३)
तत्र केषाञ्चिद्ररीत्या आकृतिनित्यत्वान्नित्यः शब्दः । आकृतिप्र-
युक्तञ्चेदं शास्त्रम् । आकृतिरत्र जातिर्नावयवसन्रिवेशविशेषः । तन्मते
शब्दस्य गुणत्वेन निरवयवत्वात् ।
शब्दार्थसम्बन्धानामनित्यत्वे पुरुषाणां स्वातन्त्र्ये शब्दार्थ-
सम्बन्धाः स्वेच्छयाऽन्यथापि कृता भवेयुः । तस्मात्—
शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् ॥
यथा अर्थजातयः घटत्वादयः शब्दजातिबोध्याः । यथा वा अर्थ-
जातीनां शक्यत्वम् शब्दजातीनाञ्च शक्तत्वम् इति ।
केचित्तु अनेकव्यक्त्विन्यङ्ग्यां नित्यां शब्दव्यक्तिं मन्यन्ते । शब्द-
व्यक्तिगतस्तु कैश्चिद्वर्णभेदोऽभ्युपगम्यते ।
जातेर्नित्यत्वेन तदाश्रये शब्देऽपि नित्यत्वव्यवहारः । तदुक्तम्—
'आकृतिनित्यत्वान्नित्यः शब्दः' । नित्येषु शब्देषु कूटस्थैरविचालिभिर्वर्णै-
र्भवितव्यम् ।