सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

भारत में सार्वजनिक क्षेत्र (पब्लिक डोमेन) · कॉपीराइट समस्या बताएँ

DevanagariHindipublished940 पृष्ठ

पञ्चमप्रपाठके प्रथमोऽनुवाकः ।

पृष्ठ 603
स्थायी लिंक
पृष्ठ 603 स्कैन

तैत्तिरीये आरण्यके

पञ्चमप्रपाठके प्रथमोऽनुवाकः ।


श्ननस्तन्नो॒ माहा॑सीत् । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ । ओम् ।

^(१)दे॒वा वै स॒त्रमा॑सत । ऋ॒द्धिप॑रिमितं॒ यश॑स्कामाः । तेऽब्रु॑वन् । यन्नः॒ प्रथमं॒ यश॑ ऋ॒च्छात् । सर्वे॑षान्नस्तत्स॒हास॒दिति॑ । तेषां॑ कुरुक्षे॒त्रं वेदि॑रासीत् । तस्यै॑ खाण्ड॒वो दक्षि॑णार्द्ध आसीत् । तूर्घ्न॒मुत्त॑रार्द्धः । परि॑णज्ज॑घनार्द्धः । मरव॑ उत्क॒रः ॥ १ ॥

तेषां॑ म॒खं वैष्ण॒वं यश॒ आर्छ॑त्^(१) । ^(२)तन् न्य॑कामयत । तेनापा॑क्रामत् । तं दे॒वा अ॑न्वा॒यन् । यशो॑ऽवरु॑त्समानाः । तस्यान्वा॑गतस्य । स॒व्याद्धनु॒रजायत । दक्षि॑णादिष॑वः । तस्मा॑दि॒षुधन्वं॑ पु॒ण्यंज॑न्म । य॒ज्ञज॑न्मा हि ॥ २ ॥

तमेकँ॑ सन्तं॑ । ब॒ह्वो नाभ्य॑धृष्णुवन् । तस्मादेक॑मिषुध॒न्विनं॑ । ब॒ह्वो॑ऽनिषुध॒न्वा नाभिधृ॑ष्णुवन्ति^(२) । ^(३)सो॑ऽस्मयत । एकं॑ मा॒ सन्तं॒ बह॑वो॒ नाभ्य॑धर्षिषुरिति॑ ।


१ एतन्मन्त्रस्य भाष्यं ३७१ पृष्ठे द्रष्टव्यं ।
२ ,, ३७२ ,,
३ ,, ३७३ ,,

पृष्ठ 604
स्थायी लिंक
पृष्ठ 604 स्कैन

५ प्रपाठके १ अनुवाकः । ५६१

तस्य॑ सिस्रिषाण॒स्य तेजोऽपा॑क्रामत् । तद्दे॒वा ओष॑धीषु
न्य॑मृजुः । ते श्या॒माका॑ अभवन् । स्मा॒का वै नामै॒-
ते ॥ ३ ॥

तत् स्माया॑कानां स्मायाक॒त्वं । तस्मा॑द्दीक्षि॒तेनापि॒
गृह्यं॑ स्मेत॒व्यं॑ । तेज॑सो धृत्यै॑ ^{(३)} । ^{(४)}स धनुः प्रतिष्कभ्या॑ऽ-
तिष्ठत् । ता उप॑दीका॑ अब्रुवन् वरं॑ वृणामहै । अथ॑ व
इमं॒ रन्ध्याम । यत्र॒ क्व॑ च खनाम॑ । तद॒पोऽभितृ॑ण-
दामेति॑ । तस्मा॑दु॒प॑दीका यत्र॒ क्व॑ च॒ खन॑न्ति । तद॒पो-
ऽभितृ॑न्दन्ति ॥ ४ ॥

वारं॑ वृतं॒ ह्या॑सां । तस्य॒ ज्यामप्या॑दन् । तस्य॒ धनु॑-
र्विप्रथ॑माणं॒ शिर॒ उद॑वर्त्तयत् । तद् द्यावा॑पृथिवी अनु॑-
प्राव॑र्त्तत । यत् प्राव॑र्त्तत । तत् प्र॒वर्ग्य॑स्य प्रव॒र्ग्यत्वं॑ । यद्द्वा॒३
इत्यप॑तत् । तद्ध॒र्मस्य॑ घर्म॒त्वं । म॒हतो वी॒र्यमप॑त्तदि-
ति॑ । तन्म॑हावी॒रस्य॑ महावी॒र॒त्वं ॥ ५ ॥

यद॒स्याः सम॒भरन् । तत् स॒म्राज्ञः सम्रा॒टत्वं ^{(४)} ।
^{(५)}तं स्तुतं दे॒वता॑स्त्रेधा व्य॑गृह्णत । अ॒ग्निः प्रा॒तःस॒व-
नं । इन्द्रो॒ माध्य॑न्दिनं॒ सव॑नं । विश्वे॑ दे॒वास्तृतीय-


३ एतन्मन्त्रस्य भाष्यं ३७३ पृष्ठे द्रष्टव्यं ।
४ ,, ३७४ ,,
५ ,, ३७६ ,,

4 c

पृष्ठ 605
स्थायी लिंक
पृष्ठ 605 स्कैन

५६२ तैत्तिरीय आरण्यके

सव॑नं । तेनाप॑शीर्ष्णा य॒ज्ञेन॒ यज॑मानाः । नाशिषो॒ऽवारुन्धत । न सु॑व॒र्गं लो॒कम॒भ्य॑जयन्^(५) । ^(६)ते दे॒वा अ॒श्विना॑वब्रुवन् ॥ ६ ॥

भि॒षजौ॒ वै स्थ॑ः । इ॒दं य॒ज्ञस्य॒ शिरः॒ प्रति॑धत्तमिति॑ । तावे॑ब्रूतां॒ वरं॑ वृणावहै । ग्र॒ह एव ना॑व॒त्रापि॑ गृह्यता॒मिति॑ । ताभ्या॑मे॒तमा॑श्वि॒नम॑गृह्णन् । तावे॒तद्य॒ज्ञस्य॒ शिरः॒ प्रत्य॑धत्तां^(६) । ^(७)यत्प्र॑व॒र्ग्यः॑ । तेन॑ सश॒ीर्ष्णा य॒ज्ञेन॒ यज॑मानाः । अवा॑शिषो॒ऽरुन्धत । अ॒भि सु॑व॒र्गं लो॒कम॑जयन्* ॥ यत्प्र॑व॒र्ग्यं प्र॒वृण॒क्ति॑ । य॒ज्ञस्यै॑व तच्छिरः॒ प्रति॑दधाति । तेन॒ सशी॑र्ष्णा य॒ज्ञेन॒ यज॑मानः । अवा॒शिषो॑ रुन्धे । अ॒भि सु॑व॒र्गं लो॒कं ज॑यति । तस्मा॑दे॒ष आ॑श्विनप्र॑वया इव । यत्प्र॑व॒र्ग्यः॑^(७) ॥ ७ ॥

उ॒त्क॒रः(१), हि(२), एं॒ते(३), तृ॑न्दन्ति(४), महावी॒र॒त्वम्(५), अ॑ब्रुवन्(६), अजयन्, स॒प्त च॑(७) ॥ अनु० १ ॥


६ एतन्मन्त्रस्य भाष्यं ३७७ पृष्ठे द्रष्टव्यं ।
७ ,, ३७८ ,,
* अभ्यजयन्निति A चिह्नितपुस्तकपाठः ।

पृष्ठ 606
स्थायी लिंक
पृष्ठ 606 स्कैन

५ प्रपाठके २ अनुवाकः ।
५६३

अथ द्वितीयोऽनुवाकः ।

(१)सा॒वि॒त्रं जु॑होति प्रसूतयै॑ । च॒तुर्गृ॑हीतेन जुहोति ।
चतु॑ष्पादः प॒शवः॑ । प॒शूने॒वाव॑रुन्द्धे । चत॑स्रो॒ दिशः॑ ।
दिक्ष्वे॒व प्रति॑तिष्ठति^(१) । ^(२)छन्दाँ॑सि दे॒वेभ्योऽपा॑क्रामन् ।
न वो॑ भागा॒नि ह॒व्यं व॑क्ष्याम॒ इति॑ । तेभ्य॑ ए॒तच्च॑तुर्गृहीत-
म॑धारयन् । पु॒रोऽनु॒वाक्या॑यै या॒ज्या॑यै ॥ १ ॥
दे॒वता॑यै वषट्का॒राय॑ । यच्च॑तुर्गृहीतं जु॒होति॑ ।
छन्दाँ॑स्येव तत् प्री॑णाति । तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑
ह॒व्यं वह॑न्ति^(२) । ^(३)ब्रह्म॑वा॒दिनो॑ वदन्ति । होत॒व्य॑न्दी-
क्षि॒तस्य॑ गृहा३ इन् हौत॒व्या३मिति॑ । ह॒विर्वै दी॑क्षि॒तः ।
यज्जु॑हु॒यात् । ह॒विष्कृतं यज॑मानम॒ग्नौ प्रद॑ध्यात् । यन्न
जु॑हु॒यात्^(३) ॥ २ ॥
^(४)य॒ज्ञप॑रु॒रन्त॑रियात् । यजु॑रेव व॑देत् । न ह॒विष्कृतं
यज॑मानम॒ग्नौ प्रद॑धाति । न य॒ज्ञप॑रु॒रन्त॒रेति॑^(४) । ^(५)गा॒-


१एतन्मन्त्रस्य भाष्यं३७८पृष्ठे द्रष्टव्यं
२"३७६"
३"३८०"
४"३८०"
५"३८१"

4 c 2

पृष्ठ 607
स्थायी लिंक
पृष्ठ 607 स्कैन

५६४ तैत्तिरीये आरण्यके

य॒ची छन्दा॑ꣳ॒स्यत्य॑मन्यत । तस्यै॒ वष॑ट्का॒रोऽभ्य॑स्य॒ शि-
रो॑ऽच्छिनत् । तस्यै॑ द्वे॒धा रसः॒ परा॑पतत् । पृ॒थि॒वीमर्धः॑
प्रावि॑शत् । प॒शून॒र्धः । यः पृ॑थि॒वीं प्रावि॑शत् ॥ ३ ॥

स ख॑दि॒रोऽभ॑वत् । यः प॒शून् । सोऽजा॑ । यत्
खा॑दि॒र्य्यभ्रिर्भव॑ति । छन्द॑सामे॒व रसे॑न य॒ज्ञस्य॒ शिरः॑
सम्भर॑ति <sup>५)</sup> । <sup>(६)</sup>यदौदु॑म्बरी । ऊ॒र्ग्वा उ॑दु॒म्बरः॑ । ऊ॒र्जैव
य॒ज्ञस्य॒ शिरः॑ सम्भर॑ति । यद्वै॑ण॒वी । तेजो॒ वै वे॒णुः ॥ ४ ॥

तेज॑सैव य॒ज्ञस्य॒ शिरः॑ सम्भर॑ति । यद्वै॑कङ्क॒ती ।
भा ए॒वाव॑रुन्धे <sup>(६)</sup> । <sup>(७)</sup>दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्य॒भ्रि-
माद॑त्ते प्रसू॑त्यै । अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॑
हि दे॒वाना॑म॒ध्वर्यू आस्ता॑म् । पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह
यत्यै॑ <sup>(७)</sup> । <sup>(८)</sup>वज्र॑ इव॒ वा ए॒षा । यद॒भ्रिः । अ॒भिर॑सि॒
नारि॑रसीत्या॑ह॒ शान्त्यै॑ <sup>(८)</sup> ॥ ५ ॥

<sup>(९)</sup>अ॒ध्व॒र॒क्लृप्त्यै॑ दे॒वेभ्य॒ इत्या॑ह । य॒ज्ञो वा अ॑ध्व॒रः । य॒ज्ञ-
क्लृप्त्यै॑ दे॒वेभ्य॒ इति॒ वावैतदा॑ह <sup>(९)</sup> । <sup>(१०)</sup>उत्ति॑ष्ठ ब्रह्मणस्पत॒


६एतन्मन्त्रस्य भाष्यं३८२पृष्ठे द्रष्टव्यं ।
७,,३८२,,
८,,३८३,,
९,,३८३,,
१०,,३८४,,
पृष्ठ 608
स्थायी लिंक
पृष्ठ 608 स्कैन

५ प्रपाठके २ अनुवाकः। ५६५

इत्या॑ह॒। ब्रह्म॑णै॒व य॒ज्ञस्य॒ शिरोऽच्छैति॑^{(१०)}। ^{(११)}प्रैतु॒ ब्रह्म॑-
ण॒स्पति॒रित्या॑ह। प्रेत्यै॒व य॒ज्ञस्य॒ शिरोऽच्छैति॑^{(११)}। ^{(१२)}प्र-
दे॒व्ये॑तु सू॒नृतेत्या॑ह। य॒ज्ञो वै सू॒नृता॑^{(१२)}। ^{(१३)}अच्छो॑
वी॒रन्व॑र्यं प॒ङ्क्तिरा॑धस॒मित्या॑ह ॥ ६ ॥
पा॒ङ्क्तो हि य॒ज्ञः^{(१३)}। ^{(१४)}दे॒वा य॒ज्ञं न॑यन्तु न॒ इत्या॑ह।
दे॒वाने॒व य॒ज्ञनियः॑ कुरुते^{(१४)}। ^{(१५)}देवी॒ द्यावा॑पृथिवी॒ अनु॑
मेमँसाथामित्या॑ह। आ॒भ्यामे॒वानु॑मतो य॒ज्ञस्य॒ शिरः॒
सम्भ॑रति^{(१५)}। ^{(१६)}ऋ॒द्द्यास॑म॒द्य म॒खस्य॒ शिर॒ इत्या॑ह।
य॒ज्ञो वै म॒खः। ऋ॒द्द्यास॑म॒द्य य॒ज्ञस्य॒ शिर॒ इति॒ वावैत-
दा॑ह^{(१६)}। ^{(१७)}म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णा इत्या॑ह।
नि॒र्दिश्यै॒वैन॑द्धरति^{(१७)} ॥ ७ ॥
^{(१८)}त्रिर्ह॑रति। त्रयो॑ वा इ॒मे लो॒काः। एभ्य ए॒व लो॒केभ्यो॑
य॒ज्ञस्य॒ शिरः॒ सम्भ॑रति। तूष्णीं च॑तु॒र्थँ हर॑ति। अ॒प-
रि॑मितादे॒व य॒ज्ञस्य॒ शिरः॒ सम्भ॑रति^{(१८)}। ^{(१९)}मृ॒त्खनाद-


११एतन्मन्त्रस्य भाष्यं३८५पृष्ठे द्रष्टव्यं ।
१२,,३८५,,
१३,,३८५,,
१४,,३८५,,
१५,,३८५,,
१६,,३८६,,
१७,,३८६,,
१८,,३८६,,
पृष्ठ 609
स्थायी लिंक
पृष्ठ 609 स्कैन
५६६तैत्तिरीये आरण्यके

ग्रैं हरति । तस्मा॑न् मृत्खनः॑ क॑रुण्ड॑तमः^(१६)। ^(२०)इ॒यत्यग्र॑
आसी॒रित्या॑ह । अ॒स्यामे॒वाच्छं॑वट्का॒रं* य॒ज्ञस्य॒ शिरः॑
सम्भ॑रति^(२०) । ^(२१)ऊर्जं॑ वा ए॒तः॑ रसं॑ पृथि॒व्या उ॑पदी-
का॒ उद्दि॑हन्ति ॥ ८ ॥
 यद्व॑ल्मी॒कं । यद्व॑ल्मीकव॒पास॑म्भा॒रो भर्व॑ति । ऊर्ज॑-
मे॒व रसं॑ पृथि॒व्या अव॑रुन्थे । अथो॒ श्रोत्र॑मेव । श्रोत्रँ॑
ह्ये॑तत् पृ॑थि॒व्याः । यद्व॑ल्मीकः॑^(२१) । ^(२२)अब॑धिरो भवति ।
य ए॒वं वेद॑^(२२) । ^(२३)इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स
यच॑ यच॒ परा॑क्रमत ॥ ९ ॥
 तन्नाध्रि॑यत । स पू॑तीकस्त॒म्बे परा॑क्रमत । सो॑ऽध्रि-
यत । सो॑ऽब्रवीत् । ऊ॒तिं वै मे॑धा॒ इति॑ । तद्पूतीका॑नामूती-
क॒त्वं । यद्पूतीका॒ भव॑न्ति । य॒ज्ञायै॒वोतिं द॑धति^(२३) । ^(२४)
अ॒भ्रिजा॒ असि॑ प्र॒जाप॑ते॒ रेत॒ इत्या॑ह । य ए॒व रसः॑
प॒शून् प्रावि॑शत् ॥ १० ॥


सं.सन्दर्भपृष्ठटिप्पणी
१६एतन्मन्त्रस्य भाष्यं३८७ पृष्ठेद्रष्टव्यं ।
२०,,३८८,,
२१,,३८६,,
२२,,३८६,,
२३,,३८६,,
२४,,३९१,,

* अच्छंवषट्कारमिति J चिह्नितपुस्तकपाठः ।

पृष्ठ 610 स्कैन

५ प्रपाठके २ अनुवाकः । ५९७

तमे॒वाव॑रुन्धे^(२४) । ^(२५)पञ्चै॒ते सं॒भारा॑ भवन्ति । पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ संभ॑रति^(२५) । ^(२६)यद् ग्रा॒म्याणां॑ प॒शूनां॒ चर्म॑णा॒ संभ॑रेत् ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 611 स्कैन

५६८ तैत्तिरीये आरण्यके

पात्रा॑णि शुचा॒ऽर्पये॑त् । अ॒र्मक॒पालैः सꣳसृ॑जति । ए॒तानि॒ वा अ॑नुपजीवनी॒यानि॑ । तान्ये॒व शुचा॒र्पय॑ति⁽३१⁾ ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 612 स्कैन

५ प्रपाठके ३ अनुवाकः।
५६६

अथ तृतीयोऽनुवाकः ।

(१)परि॑श्रिते करोति । ब्रह्म॒वर्च॒सस्य॒ परि॑गृहीत्यै^(१) । (२)न कु॒र्वन्न॒भिप्रा॑ण्यात् । यत् कु॒र्वन्न॒भिप्रा॒ण्यात् ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 613 स्कैन

४०० तैत्तिरीये आरण्यके

⁽८⁾त्यु॑द्धिं करोति । त्रयो॑ इ॒मे लो॒काः । ए॒षां लो॒का-
ना॒माप्त्यै॑⁽८⁾ । ⁽९⁾छन्दो॑भिः करोति ॥ ३ ॥

वी॒र्यं॒ वै छन्दाँ॑सि । वी॒र्येणै॒वैनं॑ करोति⁽९⁾ । ⁽१०⁾य-
जु॑षा वि॒लं क॑रोति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 614 स्कैन

५ प्रपाठके ३ अनुवाकः । ६०१

छन्दो॑भिरे॒वैनं॑ धूपयति^{(१८)}। ^{(१९)}अ॒र्चिषे॑ त्वा॒ शोचिषे॑ त्वेत्या॑ह । तेजो॒ एवास्मि॑न् दधाति । वा॒रु॒णीभि॒र्ऋग्भिः॑ । मै॒त्रियोपै॑ति शा॒न्त्यै^{(१९)}। ^{(२०)}सि॒द्ध्यै

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 615 स्कैन
६०२तैत्तिरीये आरण्यके

दिशो॒ भूति॑: । इ॒माने॒वास्मै॑ लो॒कान् क॑ल्पयति । अथो॒ प्रति॑ष्ठित्यै॑⁽२५⁾ । ⁽२६⁾इ॒दम॒हम॒मुमा॑मुष्याय॒णं वि॒शा प॒शुभि॒र्ब्रह्म॑वर्च॒सेन॒ पर्य्यू॑हामीत्या॑ह । वि॒शैवैनं॑

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 616 स्कैन

५ प्रपाठके ४ अनुवाकः। ६०३

स्या॒त्(१), य॒त् प्रव॑र्ग्यः(२), छन्दो॑भिः करोति(३),
वी॒र्य॑सम्मितं(४), छन्दाँ॑सि॒ निष्पत्(५), पृ॒णोत्या॑ह(६),
सु॒क्षितिः(७), अना॑च्छृणं(८),

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 617 स्कैन

६०४ तैत्तिरीये आरण्यके

मेध्यत्वाय॑^(५) । ⁽६⁾होता॒ऽन्वाह॑ । रक्ष॑सामपह॑त्यै^(६) । ⁽७⁾अ॑नवा॒नं । प्रा॒णानाँ॒ सन्त॑त्यै^(७) । ⁽८⁾त्रि॒ष्टुभ॑: स॒तो-गी॒यचो॑रि॒वान्वा॑ह ॥ २ ॥

गाय॒त्रो हि प्रा॒णः ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 618 स्कैन

५ प्रपाठके ४ अनुवाकः। ६०५

तेज॑सै॒वैन॑मनक्ति^(१४)। ^{(१५)}पृ॒थि॒वीं तर्प॑सस्त्राय॒स्वेति॑ हि॒र॑ण्यमु॒पास्य॑ति। अ॒स्या अ॑नतिदा॒हाय॑^(१५)। ^{(१६)}शि॒रो वा ए॒तद्य॒ज्ञस्य॑। यत्प्र॑व॒र्ग्यः॑। अ॒ग्निः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 619 स्कैन

६०६ तैत्तिरीये आरण्यके

शीर्ष॑त ए॒व य॒ज्ञस्य॒ यज॑मान॒ आशिषोऽव॑रुन्धे^(२१) । (२२)-
आयुः॑ पु॒रस्ता॑दाह । प्र॒जां द॑क्षिण॒तः । प्रा॒णं प॒श्चात् ।
श्रोत्र॑मुत्तर॒तः । विधृ॑तिमुप॒रिष्टा॑त् । प्रा॒णाने॒वास्मै॑

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 620 स्कैन

५ प्रपाठके ४ अनुवाकः। १०७

ग्रामणीः सं॒जातैः पर्य्यू॑ढः^(२६)। ^(२७)अ॒ग्नेः सृ॒ष्टस्य॒ यतः।
विक॑ङ्कतं॒ भा आ॑र्च्छत्। यद्वै॑कङ्क॒ताः परि॑धयो॒ भव॑न्ति।
भा ए॒वाव॑रुन्धे^(२७)। ^(२८)द्वाद॑श

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 621 स्कैन
६०८तैत्तिरीये आरण्यके

द॑त्ते॒^(३३)। ^(३४)मधु॑ मध्वि॒ति धू॒नोति॑ । प्रा॒णा वै मधु॑ ।
प्रा॒णमे॒व यज॑माने दधाति^(३४)। ^(३५)त्रिः परि॑यन्ति।
त्रि॒वृद्घि प्रा॒णः^(३५)। ^(३६)त्रिः परि॑यन्ति।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 622 स्कैन

५ प्रपाठके ५ अनुवाकः। ६०६

द्वि॒क्ष्वेव॒ प्रति॑तिष्ठन्ति॑^{(४०)}। ^{(४१)}ऊ॒र्ध्वं धू॑न्वन्ति। सु॒वर्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै^{(४१)} ॥ ^{(४२)}सर्व॑तो॒ धून्व॑न्ति। तस्मा॑द॒यꣳ सर्व॑तः पवते^{(४२)} ॥ १३ ॥

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें