सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

नवमं साधनमाह । ^{(१०)}“अग्निहोत्रꣳ ॰ परमं वदन्ति”^{(१०)}

८६० तैत्तिरीये आरण्यके

लो॒को बृ॒हत्तस्मा॑द्धो॒मं प॑र॒मं वद॑न्ति॑^{(९)} । ^{(१०)}अ॒ग्नि॒हो॒त्रꣳ सा॒यं प्रा॒तर्गृ॒हाणां॒ निष्कृ॑तिः॒ स्विष्टꣳ॑ सुहु॒तं य॒ज्ञक्र॑तूनां॒ प्राय॑णꣳ सुव॒र्गस्य॑ लो॒कस्य॒ ज्योति॒स्तस्मा॑दग्निहो॒त्रं प॑र॒मं वद॑न्ति॑^{(१०)} । ^{(११)}य॒ज्ञ इति॑* य॒ज्ञेन॑

कश्चेति प्रशस्यते । 'अन्वाहार्यपचनः' दक्षिणाग्निः, 'यजुर्वेदान्तरिक्ष'लोक'वामदेव्य'सामात्मकः । 'आहवनीयाग्निस्तु 'सामवेद'-
'स्वर्गलोकबृहत्'-सामात्मकः । अन्यत् पूर्ववत् ॥

नवमं साधनमाह । ^{(१०)}“अग्निहोत्रꣳ ॰ परमं वदन्ति”^{(१०)}
इति । ‘सायम्प्रातः’, च अनुष्ठितं ‘अग्निहोत्रं’, ‘गृहाणां’, ‘निष्कृतिः’ क्रयसाधनं मूल्यं, अग्निहोत्राभावे क्षुधितोऽग्निर्गृहान्
दहेत् । किञ्च, अग्निहोत्रं, ‘स्विष्टं’ शोभनयागरूपं, ‘सुहुतं’
शोभनहोमरूपं । देवतामुद्दिश्य द्रव्यत्यागो यागः । तस्य द्रव्यस्याग्नौ प्रक्षेपः होमः । किं च, एतत्, ‘यज्ञक्रतूनां’, ‘प्रायणं’ प्रारम्भः । अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्य-
निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञाः । क्रतुशब्दो यूप-
वत्सु सोमयागेषु रूढः । अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः† षोडशी
वाजपेयोऽतिरात्रोऽप्तोर्यामश्चेति सप्त सोमसंस्थाः क्रतवः । तेषां
सर्वेषां यज्ञक्रतूनां प्रारम्भकं ‘अग्निहोत्रं’ । अत एव* स्वर्गस्य
‘लोकस्य’, ‘ज्योतिः’ प्रकाशकं । अन्यत् पूर्ववत् ॥

दशमं साधनमाह । ^{(११)}“यज्ञ इति यज्ञेन ॰ परमं वद-


* यज्ञो हि देवानामिति F, चिह्नितपुस्तकेऽधिकः पाठः ।
† उक्थ इति F, चिह्नितपुस्तकपाठः ।

१० प्रपाठके ६३ अनुवाकः। ८९१

हि दे॒वा दि॒वङ्ग॑ता य॒ज्ञेनासु॑रा॒नपानु॑दन्त य॒ज्ञेन॑ द्वि॒षन्तो॑ मि॒त्रा भ॑वन्ति य॒ज्ञे सर्वं॒ प्रति॑ष्ठितं॒ तस्माद्य॒ज्ञं पर॑मं वद॑न्ति^{(११)}। ^{(१२)}मान॒सं वै प्रा॑जाप॒त्यं प॒वित्रं॑ मान॒सेन॒ मन॑सा सा॒धु प॑श्यति मान॒सा ऋष॑यः प्र॒जाअ॑सृजन्त मान॒से सर्वं॒ प्रति॑ष्ठितं॒ तस्मान्मान॒सं पर॑मं वद॑न्ति^{(१२)}।


न्ति"^{(११)} इति । 'यज्ञः', उत्तमं साधनं, 'इति', केचिदाहुः । 'यज्ञः', 'हि', 'देवानां', प्रियः । ते 'हि देवाः', पूर्वानुष्ठितेन 'यज्ञेन, स्वर्गं प्राप्ताः । किं च । 'यज्ञेन', एव तदा तदा 'देवाः', 'असुरान्', विनाशितवन्तः । किं च । सर्वकामप्राप्तिसाधनेन ज्योतिष्टोमेन द्वेषशान्तिकामस्य पूर्वं द्वेषं कुर्वन्तोऽपि शत्रवः 'मित्रा भवन्ति' । अन्यत् पूर्ववत् ॥

• एकादशं साधनमाह । (१२)"मानसं वै ० परमं वदन्ति"^{(१२)} इति । मनसा निष्पाद्यं 'मानसं' उपासनं, यदस्ति, तदेव 'प्राजापत्यं' प्रजापतिपदप्राप्तिसाधनं, अत एव 'पवित्रं' चित्तशुद्धिकारणं, 'मानसेन' उपासनेन, युक्तं 'मनः' अन्तःकरणं, यदस्ति, तेन एकाग्रेण 'मनसा', 'साधु पश्यति' अतीतानागतव्यवहितादिवस्तुजातं योगी सम्यक् साक्षात् करोति। एतच्च योगशास्त्रे पतञ्जलिना बहुधा प्रपञ्चितं । 'मानसाः' एकाग्रमनोयुक्ता विश्वामित्रादयः 'ऋषयः', स्वसङ्कल्पमात्रेण बह्वीः 'प्रजाः', 'असृजन्त' । अन्यत् पूर्ववत् ॥