सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished204 पृष्ठ

इस ग्रन्थ के बारे में

स्वप्नवासवदत्तम् महाकवि भास का सबसे प्रसिद्ध संस्कृत नाटक है। इसमें वत्सराज उदयन, उनकी रानी वासवदत्ता और मगध की राजकुमारी पद्मावती की कथा है। मन्त्री यौगन्धरायण राज्य की रक्षा के लिए वासवदत्ता की मृत्यु की झूठी सूचना फैलाते हैं और उसे पद्मावती के पास धरोहर के रूप में रख देते हैं। पाँचवें अंक में समुद्रगृह का स्वप्न-दृश्य, जहाँ सोए हुए उदयन वासवदत्ता को पुकारते हैं, संस्कृत रंगमंच के सबसे कोमल दृश्यों में गिना जाता है। अन्त में घोषवती वीणा और चित्रफलक के सहारे प्रत्यभिज्ञान होता है।

भास के नाटक सदियों तक लुप्त माने जाते थे। उनकी पाण्डुलिपियाँ बीसवीं सदी के आरम्भ में केरल में त. गणपति शास्त्री को मिलीं। इस स्कैन के आरम्भिक पृष्ठ उसी प्रथम प्रकाशन के हैं: त्रिवेन्द्रम संस्कृत सीरीज़ का पन्द्रहवाँ ग्रन्थ, जो १९१२ में त्रावणकोर सरकार की ओर से छपा और जिसमें गणपति शास्त्री ने पाठ-संशोधन के साथ लघु टिप्पणी जोड़ी। नाटक छह अंकों में है, जिनमें लावाणक ग्राम, कन्दुक-क्रीड़ा, प्रमदवन में उदयन और विदूषक का संवाद और स्वप्न-दर्शन जैसे प्रसंग आते हैं।

लगभग २०४ पृष्ठों का यह स्कैन संस्कृत नाटक के इतिहास में एक महत्त्वपूर्ण प्रकाशन को सामने रखता है।

पृष्ठ 12
स्थायी लिंक
पृष्ठ 12 स्कैन

INTRODUCTION. V
सर्वैरन्तःपुरैः सार्धं प्रीत्या प्राप्तेषु राजसु ।
यज्ञो दुर्योधनस्यैष कुरुराजस्य वर्तते ॥
(निष्क्रान्तः)
स्थापना । ”
———
The ending of Pancharâtra:—
द्रोणः —
इत्यर्थं वयमानीताः पञ्चरात्रोऽपि वर्तते ।
धर्मेणावर्जिता भिक्षा धर्मेणैव प्रदीयताम् ॥
दुर्योधनः —
बाढं दत्तं मया राज्यं पाण्डवेभ्यो यथापुरम् ।
मृतेऽपि हि नराः सर्वे सत्ये तिष्ठन्ति तिष्ठति ॥
द्रोणः —
हन्त सर्वे प्रसन्नाः स्मः प्रवृद्धकुलसंग्रहाः ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥
(निष्क्रान्ताः सर्वे)
तृतीयोऽङ्कः ।
अवसितं पञ्चरात्रम् । ”
———
The beginning of Chârudatta :—
“ (नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः — किण्णुखु अज्ज पच्चूस एव्व णिक्खन्तस्स बुभुक्खाए पुक्खरप-
त्तपडिदजळविन्दू विअ चञ्चळाअन्ति विअ मे अक्खीणि । (परिक्रम्य) जाव गेहं
गच्छिअ जाणामि किण्णुहु संविधा विहिदा ण वेत्ति । एदं अह्माणं गेहं । जाव

पृष्ठ 13
स्थायी लिंक
पृष्ठ 13 स्कैन

vi INTRODUCTION.
पविसामि । (प्रविश्यावलोक्य) जह लोहीपरिविट्ठणकाळसारा भूमी णेउब्भामणसुग-
न्धो विअ गन्धा सुनिमित्तं विअ परिब्भमन्तो वाडवस्सअजणो । किण्णुखु संविधा
विहिदा । आदु बुभुक्खाए ओदणमअं विअ जीवलोअं पेक्खामि । अय्ये! इदो दाव ।
नटी — अय्य! इअम्हि । अय्य! दिट्ठिआ खु सि आओदो ।
सूत्रधारः — अय्ये! किं अत्थि अह्माणं गेहे को वि पादरासो ।
नटी — अत्थि ।
सूत्रधारः — चिरं जीव । एवं सोभणाणि दत्तिआ होहि ।
नटी — अय्य ! तुवं एव्व पडिवाळेन्ती चिट्ठामि ।
सूत्रधारः — अय्ये ! किं अब्भत्थिदं ।
नटी — अत्थि ।
सूत्रधारः — एवं देवा तुमं अस्सासन्तु । अय्ये! किं किं ।
नटी — घिदं, गुळं, दहि, तण्डुळा अत्थि ।
सूत्रधारः — एदं सव्वं अह्माणं गेहे अत्थि ।
नटी — णहि णहि, अन्तळावणे ।
सूत्रधारः — ( सरोषम्) आः अणय्ये! एवं दे आसा छिन्दीअदु । अ-
भावं च गमिस्ससि । अहं चण्डप्पवादळण्डुओ विअ वरण्डा पच्चादादो दूरं आ-
रोविअ पाडिदो म्हि ।
नटी — मा भाआहि मा भाआहि । मुहुत्तअं पडिवाळेदु अय्यो । सव्वं
सज्जं भविस्सदि । ळद्धं णाम एदं । अज्ज मम उववासस्स अय्यो सहा-
ओ होदु ।
सूत्रधारः — किण्णामहेओ अय्याए उववासो ।
नटी — अभिरूववदी णाम ।
सूत्रधारः — किं अण्णजादीए ।

पृष्ठ 14
स्थायी लिंक
पृष्ठ 14 स्कैन

INTRODUCTION. vii
नटी — आम ।
सूत्रधारः — सव्वं दाव चिट्ठदु । कोणु दाणि अय्याए उववासस्स उव-
देसिओ ।
नटी — इमिणा पडिवस्सएण चुण्णगोट्ठेण ।
सूत्रधारः — साहु चुण्णगोट्ठ ! साहु ।
नटी — जइ अय्यस्स अणुग्गहो, तदो इच्छेअं अम्हारिसजणजोग्गं क-
ञ्चि बह्मणं णिमन्तेदुं ।
सूत्रधारः — धम्मिठ्ठो खु णिओओ । तेण पादरासो वि मे भविस्सदि ।
जइ एव्वं, पविसदु अय्या । अहं वि अम्हारिसजणजोग्गं कञ्चि बह्मणं अण्णे-
सामि ।
नटी — जं अय्यो आणवेदि । ( निष्क्रान्ता )
**सूत्रधारः—**किण्णुखु दरिद्दबह्मणं लभेअं । ( विलोक्य ) एसो अय्यचारुदत्त-
स्स वअस्सो अय्यमेत्तेओ णाम बह्मणो इदो एव्व आअच्छदि । जाव उवाणिम-
न्तेमि । ( परिक्रम्य ) अय्य! णिमन्तिदो सि । आमन्तणस्स मा दरिद्दत्ति अवम-
ण्णेहि । सम्पन्नं अह्निदव्वं भविस्सदि । घिदं, गुळं, दहिं, तण्डुळा अ सव्वं अ-
त्थि । अविअ दक्खिणामासआणि भविस्सन्ति ।
( नेपथ्ये )
अण्णं अण्णं णिमन्तेदु दाव भवं । दरिद्दओ दाव अहं ।
सूत्रधारः —
घिदगुळदहिसुसमिद्धं धूविअसूवोवदंससंभिण्णं ।
सकारदत्तमिठ्ठं भुञ्जीअदु भत्तमय्येण ॥
( निष्क्रान्तः )
स्थापना ।"

पृष्ठ 15
स्थायी लिंक
पृष्ठ 15 स्कैन

viii INTRODUCTION.
The ending of Chârudatta:—
“गणिका—एहि इमं अळङ्कारं गह्निअ अय्यचारुदत्तं अहिसरिस्सामो।
चेटी—अज्जुए! तह। एदं पुण अभिसारिआसहायभूदं दुद्दिणं उण्ण-
मिदं।
गणिका—हदासे! मा खु वड्ढावेहि।
चेटी—एदु एदु अज्जुआ।
(इति निष्क्रान्ते)
चतुर्थोऽङ्कः।
अवसितं चारुदत्तम्॥”
──────
The beginning of Dûtaghatotkacha:—
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
नारायणस्त्रिभुवनैकपरायणो वः
पायादुपायगतयुक्तिकरः सुराणाम्।
लोकत्रयाविरतनाटकतन्त्रवस्तु-
प्रस्तावनाप्रतिसमापनसूत्रधारः॥
एवमार्यमिश्रान् विज्ञापयामि। अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द
इव श्रूयते। अङ्ग! पश्यामि।
(नेपथ्ये)
भो! भोः! निवेद्यतां निवेद्यतां तावत्।
सूत्रधारः—भवतु विज्ञातम्। एष खलु संशप्तकानीकनिर्वाहके जनार्द-
नसहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षितैर्धार्तराष्ट्रैः परिवार्य निहतः कुमा-
रोऽभिमन्युः। तथाहि—

पृष्ठ 16
स्थायी लिंक
पृष्ठ 16 स्कैन

INTRODUCTION. ix
यान्त्यर्जुनप्रत्यभियानभीता
यतोऽर्जुनस्तां दिशमीक्षमाणाः ।
नराधिपाः स्वानि निवेशनानि
सौभद्रबाणाङ्कितनष्टसंज्ञाः ॥
( निष्क्रान्तः )
स्थापना ।"
The ending of Dūtaghatotkacha:—
“ घटोत्कचः—भो भो राजानः! श्रूयतां जनार्दनस्य पश्चिमसन्देशः ।
धर्मं समाचर कुरु स्वजनव्यपेक्षां
यत् काङ्क्षितं मनसि सर्वमिहानुतिष्ठ ।
जात्योपदेश इव पाण्डवरूपधारी
सूर्यांशुभिः सममुपैष्यति वः कृतान्तः ॥
(इति निष्क्रान्ताः सर्वे)
दूतघटोत्कचमवसितम् ॥”
The beginning of Avimāraka:—
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
उत्क्षिप्तां सानुकम्पं सलिलनिधिजलोदेकदंष्ट्राग्ररूढा-
माक्रान्तामाजिमध्ये निहतदितिसुतामेकपादावधूताम् ।
सम्भुक्तां प्रीतिपूर्वं स्वभुजवशगतामेकचक्राभिगुप्तां
श्रीमान् नारायणस्ते प्रदिशतु वसुधाम्मुच्छ्रितैकातपत्राम् ॥
(नेपथ्याभिमुखमवलोक्य) आर्ये ! इतस्तावत् ।

पृष्ठ 17
स्थायी लिंक
पृष्ठ 17 स्कैन

x INTRODUCTION.
(प्रविश्य)
नटी—अय्य ! इअह्नि ।
सूत्रधारः—आर्ये ! तव वदनजनितकौतूहलेन स्मितेन निवेदित इवान्तर्गतो
भावः । ननु किञ्चिद् वक्तुकामासि ।
नटी—को एत्थ विह्मओ, अय्यो भावञ्जो त्ति ।
सूत्रधारः—तेन हि स्वैरमभिधीयताम् ।
नटी—इच्छेमि अय्येण सह उय्याणं गन्तुं । अत्थि मे तहिं इत्थिआकर-
णीअं णिअमकय्यं ।
(नेपथ्ये)
भूतिक ! त्वमप्युद्यानं गच्छ कुरङ्गीरक्षणार्थं, म(द)भावस्थो ह्यञ्जन-
गिरिः ।
सूत्रधारः—आर्ये ! ननु भवत्या श्रुतम्—उद्यानं गता राजपुत्रीति। तस्मात्
सम्प्रति सर्वतः परिगुप्तानि भवन्त्युद्यानानि । प्रतिनिवृत्तायां राजसुतायां स्वैरं
गमिष्यावः ।
नटी—जं अय्यो आणवेदि ।
(निष्क्रान्तौ)
स्थापना । "
The ending of Avimāraka:—
" (भरतवाक्यम्)
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥
(निष्क्रान्ताः सर्वे)
षष्ठोऽङ्कः ।
अविमारकस्य षष्ठोऽङ्कः । एषोऽवसितश्च ॥ "

पृष्ठ 18
स्थायी लिंक
पृष्ठ 18 स्कैन

INTRODUCTION, xi
The beginning of Bâlacharita:—
"(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायण-
स्त्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः ।
दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे
नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः ॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द
इव श्रूयते । अङ्ग ! पश्यामि ।
(नेपथ्ये)
अहं गगनसञ्चारी ।
सूत्रधारः—भवतु विज्ञातम् ।
पतत्यसौ पुष्पमयी च वृष्टिर्नदन्ति तूर्याणि च देवतानाम् ।
द्रष्टुं हरिं वृष्णिकुले प्रसूतमभ्यागतो नारद एष तूर्णम् ॥
(निष्क्रान्तः)"
The ending of Bâlacharita:—
"( भरतवाक्यम् )
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥
पञ्चमोऽङ्कः ।
अवसितं बालचरितम् ॥"

पृष्ठ 19
स्थायी लिंक
पृष्ठ 19 स्कैन

xii INTRODUCTION.
The beginning of Madhyamavyāyoga:—
“(ततः प्रविशति सूत्रधारः)
सूत्रधारः—
पायात् स वोऽसुरवधूहृदयावसादः
पादो हरेः कुवलयामलखङ्गनीलः ।
यः प्रोद्यतस्त्रिभुवनैकमणे रराज
वैदूर्यसंक्रम इवाम्बरसागरस्य ॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द
इव श्रूयते । अङ्ग ! पश्यामि ।
(नेपथ्ये)
भोस्तात ! को नुखल्वेषः ।
सूत्रधारः—भवतु विज्ञातम् ।
भोःशब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः ।
त्रास्यते निर्विशङ्केन केनचित् पापचेतसा ॥
(नेपथ्ये)
भोस्तात ! कोनुखल्वेषः ।
सूत्रधारः—हन्त दृढं विज्ञातम् । एष खलु पाण्डवमध्यमस्यात्मजो हिडि-
म्बारणिसम्भूतो राक्षसामिरिकृतवैरं ब्राह्मणजनं वित्रासयति । भोः! कष्टं कष्टं
खलु पलीसुतपरिवृतस्य ब्राह्मणस्य वृत्तान्तः । अत्र हि,
श्रान्तैः सुतैः परिवृतस्तरुणैः सदारो
वृद्धो द्विजो निशिचरानुचरः स एषः ।

पृष्ठ 20
स्थायी लिंक
पृष्ठ 20 स्कैन

INTRODUCTION. xiii
व्याघ्रानुसारचरितो वृषभः सधेनुः
सन्त्रस्तवत्स इव (चा)कुलतामुपैति ॥
(निष्क्रान्तः)
स्थापना ।”
———
The ending of Madhyamavyāyoga:—
“ भीमसेनः—हिडिम्बे ! इतस्तावत् । वत्स! घटोत्कच ! इतस्तावत् ।
तत्रभवन्तं केशवदासमाश्रमपदद्वारमात्रमपि सम्भावयिष्यामः ।
यथा नदीनां प्रभवः समुद्रो
यथाहूतीनां प्रभवो हुताशः ।
यथेन्द्रियाणां प्रभवं मनोऽपि
तथा प्रभुर्नो भगवानुपेन्द्रः ॥
(निष्क्रान्ताः सर्वे)
मध्यमव्यायोगोऽवसितः ॥ ”
———
The ending of *Karnabhāra:—
“ कर्णः—अये शब्द इव श्रूयते । किन्नुखल्विदम् ।
शङ्खध्वनिः प्रलयसागरतुल्यघोषः
कृष्णस्य वा ननु भवेत् स तु फल्गुनस्य ।
नूनं युधिष्ठिरपराजयकोपितात्मा
पार्थः करिष्यति यथाबलमद्य युद्धम् ॥
शल्यराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।


  • "Sthāpanā" is missing in this Play.
पृष्ठ 21
स्थायी लिंक
पृष्ठ 21 स्कैन

xiv INTRODUCTION.
शल्यः — बाढम् ।
( निष्क्रान्तौ )
कर्णभारमवसितम् ॥ "
—
The beginning of Ūrubhaṅga:—
"(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः —
भीष्मद्रोणतटां जयद्रथजलां गान्धारराजह्रदां
कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसम् ।
तीर्णः शत्रुनदीं शराससिकतां येन प्लवेनार्जुनः
शत्रूणां तरणेषु वः स भगवानस्तु प्लवः केशवः ॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द
इव श्रूयते । अङ्ग! पश्यामि ।
( नेपथ्ये )
एते स्मो भो! एते स्मः ।
सूत्रधारः — भवतु विज्ञातम् ।
.... .... .... .... .... .... .... .... .... ....
.... .... .... .... .... .... .... .... .... ....
स्थापना ॥"
—
The ending of Ūrubhaṅga:—
"बलदेवः —
याम्येष सज्जनधनानि तपोवनानि

पृष्ठ 22 स्कैन

INTRODUCTION. xv
धृतराष्ट्रः—
पुत्रप्रणाशाविफलं हि धिगस्तु राज्यम् ।
अश्वत्थामा—
यातोऽद्य सौप्तिकवधोद्यतबाणपाणि-
र्गां पातु नो नरपतिः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 23 स्कैन

xvi INTRODUCTION.
(ततः प्रविशति काञ्चुकीयः)
भो भोः प्रतिहाराधिकृताः! महाराजो दुर्योधनः समाज्ञापयति — अद्य
सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदाहूयन्तां सर्वे राजान इति । अये अयं
महाराजो दुर्योधन इत

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 24 स्कैन

INTRODUCTION. xvii
शालाम् । आर्यौ वैकर्णवर्षदेवौ! प्रविशतां भवन्तौ । भो भोः सर्वक्षत्रियाः! स्वैरं
प्रविशन्तु भवन्तः । वयस्य कर्ण! प्रविशावस्तावत् । (प्रविश्य) आचार्य! एत-

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 25 स्कैन

xviii INTRODUCTION.
The ending of Abhishekanātaka:—
"( भरतवाक्यम् )
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें

प्रथम अङ्क: लावणक ग्राम प्रसंग व पद्मावती न्यास

पृष्ठ 26 स्कैन

INTRODUCTION. xix
( नेपथ्ये )
अय्य! अय्य!
सूत्रधारः — भवतु विज्ञातम् ।
मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षीव॥
( निष्क्रान्तौ )
स्थापना ।"
The ending of

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 27 स्कैन

XX INTRODUCTION.
appears as the Bharata Vâkya both in Svapnanâtaka and in Bâlacharita.
The passage,
“भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥”
is seen in the plays, Pratijñâ, Avimâraka and Abhisheka, and the latter
half of the Sloka occurs in Pancharâtra also. The practice of suggesting
names of the principal dramatis personæ in the benedictory verse is
alike

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 28 स्कैन

INTRODUCTION. xxi
Bhâsa as the following sloka of Râjasekhara in Sûktimuktâvali shows:—
“भासनाटकचक्रेऽपिच्छेकैः क्षिप्ते परीक्षितुम् ।
स्वप्नवासवदत्तस्य दाहकोऽभून्न पावकः ॥”
This great poet it is who is enshrined in the passage in the Prastâvana
of Mâlavikâgnimitra by Kâlidâsa, “प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रब-
न्धानतिक्रम्य” and in the following sloka by Bhatta Bana in Harshacharita,

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 29 स्कैन

xxii INTRODUCTION.
already been examined for the Press, and the others are being gone
through. Thus Svapnavâsavadatta with the aid of the new manuscript
has assumed a complete form, and I feel fully rewarded for my pains
on this account. I am deeply indebted to Pandit Anantacharya for his
kindness in sending me his manuscript. When Svapnavâsavadatta was
just in the

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 30 स्कैन

INTRODUCTION. xxiii
“यासां बलिर्भवति मद्गृहदेहलीनां
हंसैश्च सारसगणैश्च विलुप्तपूर्वः ।
तास्वेव पूर्वबलिरूढयवाङ्कुरासु
बीजाञ्जलिः पतति कीटमुखावलीढः ॥”
which occurs in the first Act of Chârudattanâtaka. The former half of
the sloka:—
“लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 31 स्कैन

xxiv INTRODUCTION.
we could not infer that this was an omission in the readings of some
manuscripts owing to the Nâtaka having ceased from circulation. Again,
in the explanation of the 85th Kârika of the 6th Parichheda of the
Sâhityadarpana, the Sloka :—
“उत्साहातिशयं वत्स!

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें