स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
DevanagariSanskritpublished204 पृष्ठ
पृष्ठ 25, कुल 204 में से
संदर्भ में पढ़ेंपृष्ठ 25
xviii INTRODUCTION.
The ending of Abhishekanātaka:—
"( भरतवाक्यम् )
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥
( निष्क्रान्ताः सर्वे )
सप्तमोऽङ्कः ।
अभिषेकनाटकं समाप्तम् ।"
The beginning of Pratimānātaka:—
"( नान्द्यन्ते ततः प्रविशति सूत्रधारः )
सूत्रधारः —
सीताभवः पातु सुमन्त्रतुष्टः सुग्रीवरामः सहलक्ष्मणश्च ।
यो रावणार्यप्रतिमश्च देव्या विभीषणात्मा भरतोऽन्यसर्गः ॥
( नेपथ्याभिमुखमवलोक्य ) आय! इतस्तावत् ।
(प्रविश्य)
नटी — अय्य! इअम्हि ।
सूत्रधारः — आर्ये! इममेवेदानीं शरत्कालमधिकृत्य गीयतां तावत् ।
नटी — अय्य! तह । (गायति)
सूत्रधारः — अस्मिन् हि काले,
चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा ।