Skip to content
SarvaKosh
सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)

Subhashita Ratna Bhandagara

by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)

Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)

Report a copyright issue

DevanagariSanskritpublished516 pages

Page 193 of 516

Read in context
Page 193
Page 193 scan
१७८सुभाषितरत्नभाण्डागारम्[ ३ प्रकरणम्

वनं ततः । तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं
परिचितजनद्वेषी लोको नवं नवमीहते ॥ ९९८ ॥ दद्या-
त्साधुर्यदि निजपदे दुर्जनाय प्रवेशं तन्नाशाय प्रभवति ततो
वाञ्छमानः स्वयं सः । तस्माद्देयो विपुलमतिभिर्नावका-
शोऽधमानां जारोऽपि स्याद्गृहपतिरिति श्रूयते वाक्यतोऽत्र
॥ ९९९ ॥ मौने मौनी गुणिने गुणवान्पण्डिते पण्डितोऽसौ
दीने दीनः सुखिनि सुखवान्भोगिनि प्राप्तभोगः । मूर्खे मूर्खो
युवतिषु युवा वाग्मिषु प्रौढवाग्मी धन्यः कोऽपि त्रिभुवन-
जयी योऽवधूतेऽवधूतः ॥ १००० ॥ विद्यातीर्थे जगति
विबुधाः साधवः सत्यतीर्थे गङ्गातीर्थे मलिनमनसो योगिनो
ध्यानतीर्थे । धारातीर्थे धरणिपतयो दानतीर्थे धनाढ्या लज्जा-
तीर्थे कुल्युवतयः पातकं क्षालयन्ति ॥ १००१ ॥ साध्वीस्त्रीणां
दयितविरहे मानिनां मानभङ्गे श्लोकानामपि जनरवे निग्रहे
पण्डितानाम् । अन्योद्रेके कुटिलमनसां निर्गुणानां विदेशे
भृत्याभावे भवति मरणं किं तु संभावित्तानाम् ॥ १००२ ॥

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in