सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 185 of 516
Read in context| १७० | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
लघिमा गरिमाणं वक्रता तनुते । छन्दःशास्त्र इवाङ्घ्रिलोके सरलः सखे किमसि ॥ ७३८ ॥
सुहृदि निरन्तरचित्ते गुणवति भृत्ये प्रियासु नारीषु । स्वामिनि शक्तिसमेते निवेद्य दुःखं जनः सुखी भवति ॥ ७३९ ॥
प्राप्य चलानधिकारान्शत्रुषु मित्रेषु बन्धुवर्गेषु । नापकृतं नोपकृतं न सत्कृतं किं कृतं तेन ॥ ७४० ॥
वित्तं परिमितमधिकव्ययशीलं पुरुषमाकुलीकुरुते । ऊनांशुकमिव पीनस्तनजघनायाः कुलीनायाः ॥ ७४१ ॥
अप्रतिबुद्धे श्रोतरि वक्तुर्वाक्यं प्रयाति वैफल्यम् । नयनविहीने भर्तरि लावण्यमिवेह खञ्जनाक्षीणाम् ॥ ७४२ ॥
बहुतरहिते रसातले उत्तिष्ठन्ते हि सुमनसस्तपसि । कान्तार्र्जनवेगं विषह्य सद्रसफलास्तु विरला स्युः ॥ ७४३ ॥
प्रतिगृहकोणं गुणिनो लूताकीटा इव स्फुरन्ति शतम् । तद्भासकः खगोभिः को वा रविरिव गुणज्ञोऽस्ति ॥ ७४४ ॥
रमणीयः स हि पुरुषो रमणी यत्रैव रज्यति विदग्धा । श्लोकः स एव सुभगश्चित्तं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in