सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 187 of 516
Read in context| १७२ | सुभाषितरत्नभाण्डागारम् | [ ३ प्रकरणम् |
|---|
विचिन्तयेत्प्राप्नुयात्स कुमतिः स्वय हि तत् । पूतना हरि-
वधार्थमाययौ प्राप सैव वधमात्मनस्ततः ॥ ८१२ ॥ काके
शौचं द्यूतकारे च सत्यं सर्पे क्षान्ति स्त्रीषु कामोपशान्तिः ।
क्लीबे धैर्य मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्ट श्रुत वा
॥ ८१३ ॥ एको देव केशवो वा शिवो वा एकं मित्रं
भूपतिर्वा यतिर्वा । एका भार्या सुन्दरी वा दरी वा एको
वासः पत्तने वा वने वा ॥ ८१४ ॥ चित्तायत्तं धातुबद्धं
शरीरं नष्टे चित्ते धातवो यान्ति नाशम् । तस्माच्चित्तं
सर्वदा रक्षणीयं स्वस्थे चित्ते बुद्धय संभवन्ति ॥ ८१५ ॥
शुक्ले पक्षे शीतरश्मिर्बलीयान्न प्राधान्यं तारकायास्तु दृष्टम् ।
शक्त्या युक्ते विद्यमानेऽपि कान्ते न प्राधान्य योषितां
क्वापि दृष्टम् ॥ ८१६ ॥ दाता दानस्वान्तरा स्यात्पृथिव्या
गेहे गेहे याचकाना समूह । चिन्तारत्नस्यास्ति सत्त्वे
विवादो मार्गे मार्गे रेणव सन्त्यसख्या. ॥ ८१७ ॥ मास
मृगाणा दंशनौ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in