सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

प्रारंभिक मंगलाचरण एवं भूमि-परीक्षा (अध्याय १-१०)

The provided image appears to be completely blank and does not contain any visible text, diagrams, or manuscript markings to transcribe.

TRIVANDRUM SANSKRIT SERIES.
No. XCVIII.
Šrî Setu Lakṣmî Prasâdamâlâ.
No. X.
THE
ŠILPARATNA
OF
ŠRÎ KUMÂRA
EDITED BY
K. SĀMBAŚIVA ŚĀSTRĪ,
Curator of the Department for the Publication of
Sanskrit Manuscripts, Trivandrum.
Part II
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HER HIGHNESS THE MAHARANI REGENT OF TRAVANCORE.
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS,
1929.
[All Rights Reserved.]

The provided image is completely blank and contains no text or content to transcribe. Please upload a clear image of the page you would like transcribed.

अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ९८.
श्रीसेतुलक्ष्मीप्रसादमाला ।
ग्रन्थाङ्कः १०.
शिल्परत्नं
श्रीकुमारप्रणीतं
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्बशिवशास्त्रिणा
संशोधितम् ।
उत्तरो भागः ।
तच्च
अनन्तशयने
महामहिमश्रीसेतुलक्ष्मीमहाराज्ञीशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितम् ।
कोल्लम्बाब्दाः ११०४, क्रैस्ताब्दाः १९२९.

The provided image appears to be completely blank (solid white) with no visible text or content to transcribe.

Please re-upload or provide a clear image of the page you would like transcribed.

PREFACE.
The second part of the Śilparatna consisting of 35 cha-
pters deals with iconography and allied matters. This is a
highly useful work for those who are interested in icono-
graphy and architecture. The science of Śilpa founded by
Mātanga, Bhṛgu and other hoary sages was elaborately dealt
with by Nārāyaṇa, Ravi and others; while in the Śilparatna
Śrīkumāra has collected all the important subjects from the
vast Śilpa literature, at the instance of Devanārāyaṇa, an
ancient ruler of Ambalappuzha (North Travancore). The
verse in the beginning of the first part,
सम्पूज्यते सदसि भार्गवसृष्टभूमा-
गेऽस्मिन् बुधैः सकलशिल्पकथासु योऽसौ ।
तं मे नमामि पितरं भृगुवंशजातं
शश्वत् स्वपुत्रहितपूरणजागरूकम् ॥
as well as the closing colophon, श्रीरामपुत्रेण भार्गवगोत्रसंभूतभूदेवेन
श्रीकुमारनामधेयेन श्रीदेवनारायणराजचूडामणिपादसेवकेन लिखितमिदम् । show
that the author was a Kerala Brahmin belonging to Bhārgava
Gotra. In the preface to the first part, it is stated that the
author lived at the close of the 16th century A. D., on the
ground that he was a protege of Devanārāyaṇa who is said
to have entertained in his court Nārāyaṇa Bhaṭṭa, the famous
poet and grammarian of Kerala of the 16th century. How-
ever, as the word Devanārāyaṇa is known to be a title of the
rulers of Ambalappuzha, the determination of the date of the
author is, I think, in need of further evidences.
The word सेतूर्ध्वकानन mentioned in the verse,
नानाविशालगणितागमशिल्पशास्त्रा-
व्युत्पत्तिमुख्यभुवमद्भुतविक्रमाढ्यम् ।
सेतूर्ध्वकानननिवासकृताधिवासां
वन्दे षडाननवतीं परदेवतां मे ॥
as the seat of the family deity of the author seems to be the
Sanskritization of the Malayala Deśa Chiramelkkatu. From
a conversation with my friend Brahmasri Kanippayyar San-
karan Namburi, I come to learn that this Deśa is now found
in Talapalli Taluk in Cochin State.
It is a matter of satisfaction for me that I have been
able to edit the second part with more manuscript materials
than before and thus realise the hope expressed in the preface

2
to the first part by Mahāmahopādhyāya Dr. T. Gaṇapati
Śāstri, my illustrious predecessor in office viz., "An edition
of the second part based on all available manuscripts will be
published before long."
The edition of the work is based on four manuscripts.

  1. (क) belonging to the Palace Library, Trivandrum
    about three centuries old.
  2. (ख) lent by Brahmasri P. Narayanan Bhattatiri,
    Kuzhikkattu Illom, Tiruvalla, about a century old. A few
    chapters are missing in the middle in this manuscript.
  3. (ग) lent by Brahmasri Kesavar Kesavar, Kalpaka-
    mangalam Manalikkara Matom, Padmanabhapuram, about
    two centuries old.
  4. (घ) lent by Mr. Narayanan Nambiar, Olavur,
    Kunnatunad. It is about two centuries old and contains
    the four chapters from the 22nd to the 25th and the last
    chapter.
    Trivandrum, }
    24-12-1104. } K. SĀMBAŚIVA ŚĀSTRI.

निवेदना ।
उत्तरभागोऽयमितः प्रकाशितस्य श्रीकुमारकृतेः शिल्परत्नस्य,
यो बिम्बसाधनादिशस्त्रलक्षणान्तैरध्यायैः पञ्चत्रिंशता सम्पुटितः ।
इदं च रत्नं मान्त्रिकाणां तान्त्रिकाणां च सर्वदा हृदि धार्यं रुचिमत्
किमप्यनर्घं भूषणम् । प्राक्तनैर्मतङ्गभृगुमुख्यैर्मुनिमुख्यैर्दृष्टम्, अर्वाक्तनैः
श्रीनारायणरविप्रभृतिभिः पण्डितप्रकाण्डैर्घृष्टं, श्रीकुमारेण समुत्तेज्य
संसाधितं, साम्प्रतिकश्रीवञ्चिराज्यान्तर्गतस्य अम्बलप्पुळदेशस्य पूर्वाधि-
पतिश्रीदेवनारायणसन्निधावुपहृतमद्य अनन्तशयनसंस्कृतग्रन्था-
वलेरलङ्कारतामधिगतमिति स एष आगमप्रकारोऽस्य रत्नस्य ।
अस्य प्रणेता श्रीकुमारः पूर्वभागस्योपक्रमे -
“सम्पूज्यते सदसि भार्गवसृष्टभूमा-
वेऽस्मिन् बुधैः सकलशिल्पकथासु योऽसौ ।
तं मे नमामि पितरं भृगुवंशजातं
शश्वत् स्वपुत्रहितपूरणजागरूकम् ॥”
(पा० २. श्लो० ६)
इति,
उपसंहारे -
“श्रीरामपुत्रेण भार्गवगोत्रसम्भूतभूदेवेन श्रीकुमारनामधेयेन
श्रीदेवनारायणराजचूडामणिपादसेवकेन लिखितमिदम्”
इति च दृश्यमानाभ्यां भागाभ्यां केरलीयः कोऽपि भृगुवंशाभिजनो भूदेव
इति ज्ञायते । श्रीदेवनारायणाश्रयमात्रेण प्रक्रियासर्वस्वकारश्री-
नारायणभट्टपादोपजीव्यं श्रीदेवनारायणं सम्मत्य क्रिस्तवब्दीय-
षोडशशतकान्तिमभागोऽस्य जीवितसमय इति पूर्वभागनिवेदनायां निरूपितं
दृश्यते । इदं - “अम्बलप्पुळ-देशाधिपतीनां राज्ञां देवनारायणा-
ख्यातिराधिपत्यस्थानप्रयुक्तैव न व्यक्तिप्रयुक्ते”ति प्रसिद्धेः प्रबलतरमुपष्ट-
म्भकमन्यत् किमपि प्रमाणं प्रतीक्षमाणं मन्ये न सद्यो व्यवस्थापनमर्हति ।

“नानाविशालगणितागमशिल्पशास्त्रा-
द्युत्पत्तिमुख्यभुवमद्भुतविक्रमाढ्याम् ।
नेत्तूर्ध्वकानननिवासकृताधिवासां
वन्दे षडाननवतां परदेवतां मे ॥”
(पूर्वभागः पा० १. श्लो० ४)
इत्येतद्घटक'नेत्तूर्ध्वकानन'पदस्यार्थपर्यालोचनायामस्य श्रीकुमारस्य
देशसंज्ञा भाषाव्यपदेशे ‘चिरन्मेक्काटु’ इति प्रतिभाति । स चायं देशः
कोचिराज्यान्तर्गते तलप्पळ्ळितालूक्घटिते कस्मिंश्चिदुत्तरस्मिन् भाग इत्यस्म-
त्सुहृदां ब्रह्मश्रीकाणिप्पैयूर् शङ्करन्नम्पूरिमहाशयानां मुखतो भाषणा-
ज्ज्ञायते ।
महामहोपाध्यायब्रह्मश्रीगणपतिशास्त्रिमहाशयैरध्यक्षचरैरस्मद्गुरु-
चरणैः पूर्वभागनिवेदनायां —
“उत्तरभागस्तु सर्वादर्शसम्पत्साह्येन संशोध्यनातिचिरेण . प्रका-
श्येत ।”
इति कृतां प्रतिज्ञां सफलयितुकामेन मया तदनुग्रहात् समुपलब्धैरादर्शैः
संशोध्य प्रकाश्यमानोऽयमस्तु सतां प्रसादाय ।
एतत्संशोधनमादर्शांश्चतुरः समाश्रित्य निरवर्त्यत ।
तत्र प्रथमः—अनन्तशयनस्थमहाराजग्रन्थशालीयः क-संज्ञः समग्रः .
त्रिशतवर्षवृद्धः ।
द्वितीयः— तिरुवल्ला कुळिक्काट्टिल्लं ब्रह्मश्री पि. नारायणन्भट्ट-
तिरिस्वामिकः ख-संज्ञः मध्ये लुप्तः वर्षशतकानधिकपर्युषितः ।
तृतीयः — कल्कुलं मणलिकरमठाधिपतिब्रह्मश्री केशवस्वामिकः
ग-संज्ञः समग्रो द्विशतवर्षेभ्यः प्राचीनः ।
तुरीयः — कुवत्तनाडु ओळवूर् श्रीमन्नारायणन्नम्पियारस्वामिकः
घ-संज्ञः द्वाविंशतेरापञ्चविंशं चतुर्भिः, पञ्चत्रिंशेन चाध्यायैः स-
म्पुटितः द्विशतवर्षपर्युषितः ।
अनन्तशयनम्,
२४-१२-१०४. } के. साम्बशिवशास्त्री.

श्री
श्रीपद्मनाभसेवि-
न्यखिलश्रीवर्धनी महाराज्ञी ।
श्रीसेतुलक्ष्म्यभिख्या
प्रत्यक्षा जयति वञ्चिभूलक्ष्मीः ॥
ग्रन्थावलिरियमिन्धे
प्रसाधिता तत्प्रसादगुणगुम्फा ।
श्रीसहितसेतुलक्ष्मी-
प्रसादमाला सुवर्णमणिचित्रा ॥

The provided image is completely blank/white and does not contain any visible text, diagrams, or content to transcribe.

Please provide a clear image containing the text or manuscript page you would like transcribed.

विषयानुक्रमणी ।
विषयः. पृष्ठम्.
प्रथमोऽध्यायः ।
बिम्बादिसाधनविधिः १—७
मङ्गलाचरणम् १
शुभवेलायां लिङ्गसङ्ग्रहायाभिप्रयाणम् "
निमित्तानि २
बिम्बानां सप्तप्रकारता ३
बिम्बार्थं शिलापरिग्रहः "
शिलादोषाः ४
रत्नलिङ्गम् "
लौहलिङ्गम् ५
दारुलिङ्गम् "
आममृत्तिकालिङ्गम् ६
पक्वलिङ्गम् "
मिश्रलिङ्गम् "
लेख्यलिङ्गम् "
सैकतगोमयादिलिङ्गानि "
लिङ्गपीठम् ७
द्वितीयोऽध्यायः ।
लिङ्गलक्षणम् ७—२२
सुखासनाद्यष्टादश लिङ्गानि ७
लिङ्गविकल्पाः ८
लिङ्गप्रमाणानि "
लौहलिङ्गविधिः ११
लिङ्गभेदाः १३
सर्वसमलिङ्गम् १४
सर्वतोभद्रादिलिङ्गानि १५
लिङ्गपीठविधौ छायादोषपरिहारः १६
पौष्करकार णोक्त लिङ्गविधानम् १८
लिङ्गशिरोवर्तनविधिः १९
बाणलिङ्गविधिः २१
विषयः. पृष्ठम्.
तृतीयोऽध्यायः ।
लक्षणोद्धारविधिः २२—२८
लक्षणोद्धारः २२
मुखलिङ्गविधिः २६
योनिवारादिघटनापूर्वकं लिङ्गविधानम् २८
चतुर्थोऽध्यायः ।
प्रतिमोत्सेधविधिः २८—३४
सकलबिम्बोत्सेधविधिः २८
बहुबेरोत्सेधविधिः ३०
गृहविद्युक्तयोन्यादीनां बिम्बविधाव-
प्यूहः ३१
कौतुकोच्चम् "
तालनियमः ३२
पञ्चमोऽध्यायः ।
उत्तमदशताललक्षणम् ३४—४५
षष्ठोऽध्यायः ।
मध्यमदशताललक्षणम् ४५, ४६
सप्तमोऽध्यायः ।
अधमदशताललक्षणम् ४६—५०
अष्टमोऽध्यायः ।
उत्तमनवताललक्षणम् ५०—६४
नवमोऽध्यायः ।
मध्यमनवताललक्षणम् ६५—६८
दशमोऽध्यायः ।
अधमनवताललक्षणम् ६९
एकादशोऽध्यायः ।
अष्टताललक्षणम् ६९, ७०
द्वादशोऽध्यायः ।
सप्तताललक्षणम् ७०, ७१

२
विषयः पृष्ठम्.
त्रयोदशोऽध्यायः ।
षट्ताललक्षणम् ७१
चतुर्दशोऽध्यायः ।
पञ्चताललक्षणम् ७२-७४
उत्तमेन पञ्चतालेन विघ्नेशविधिः ७२
मध्यमेन पञ्चतालेन तद्विधिः ७४
पञ्चदशोऽध्यायः ।
चतुस्तालविधिः ७५, ७६
मध्यमचतुस्तालविधिः ७६
षोडशोऽध्यायः ।
किरीटकटकादिलक्षणम् ७६—८३
किरीटम् ७६
कुण्डलम् ७८
ग्रैवेयम् ,,
कटकम् ,,
केयूरम् ,,
मुद्रिकाः ७९
वरदादिहस्तभेदाः ,,
यज्ञोपवीतम् ८०
उरःसूत्रम् ,,
वस्त्रवीतम् ,,
ग्रैवेयहारम् ,,
अक्षमाला ,,
स्कन्धमाला ,,
कटिसूत्रम् ,,
जालकम् ८१
भुजङ्गवलयम् ,,
खड्गः ,,
धनुः ,,
शरः ,,
टङ्कः ८२
मृगः ,,
चक्रम् ,,
विषयः पृष्ठम्.
शङ्खः ८२
डमरुः ,,
कमण्डलुः ,,
पादाधस्तनं पद्मम् ,,
नालम् ,,
सप्तदशोऽध्यायः ।
शूलस्थापनलक्षणम् ८३—८७
लेप्यबिम्बे देवानां शूलविधानम् ८३
देवीनां शूलविधानम् ८६
अष्टादशोऽध्यायः ।
रज्जुबन्धलक्षणम् ८७—९०
एकोनविंशोऽध्यायः ।
मृल्लेपनविधिः ९०—९४
विंशोऽध्यायः ।
देवीकुमारलक्षणम् ९४
एकविंशोऽध्यायः ।
वाहनलक्षणम् ९५—१०१
वृषलक्षणम् ९५
अश्वलक्षणम् ९६
गजलक्षणम् ९९
द्वाविंशोऽध्यायः ।
ध्याने शैवप्रकरणम् १०१—१२३
सुखासनलक्षणम् १०१
सोमास्कन्दलक्षणम् १०२
चन्द्रशेखरलक्षणम् १०३
वृषारूढलक्षणम् १०४
नवानां नृत्तमूर्तीनां लक्षणम् ,,
गङ्गाधरलक्षणम् १०८
त्रिपुरान्तकलक्षणम् ,,
कल्याणमूर्तिलक्षणम् ११०
अर्धनारीश्वरलक्षणम् १११
गजघ्नमूर्तिलक्षणम् ,,

३
विषयः. पृष्ठम् विषयः. पृष्ठम्.
पाशुपतलक्षणम् ११२ निग्रहचक्रम् १२४
कङ्काललक्षणम् ,, नृसिंहः ,,
हरिहरलक्षणम् ११३ विदारणनृसिंहः १२५
भिक्षाटनलक्षणम् ११४ तद्भेदः षडक्षरो ,,
चण्डेशानुग्रहलक्षणम् ११५ वराहः ,,
धर्मव्याख्यानदक्षिणामूर्तिलक्षणम् ,, तद्भेदः ,,
वीणाधरदक्षिणामूर्तिलक्षणम् ११६ चतुरक्षरो ,,
ज्ञानदक्षिणामूर्तिलक्षणम् ,, धन्वन्तरिः १२६
योगदक्षिणामूर्तिलक्षणम् ,, तद्भेदः ,,
कालारिलक्षणम् ११७ हयग्रीवः ,,
लिङ्गोद्भवलक्षणम् ११८ कार्तवीर्यः ,,
श्रीपञ्चाक्षरी ,, श्रीपञ्चामृतम् १२७
रुद्रः ,, सन्तानगोपालम् ,,
प्रासादः ११९ तद्भेदः ,,
प्रासादभेदः ,, आवहन्ती ,,
मृत्युञ्जयः ,, पुरुषसूक्तम् १२८
शैवमष्टाक्षरम् ,, लक्ष्मीनारायणम् ,,
दक्षिणामूर्तिः १२० द्वाविंशत्यक्षरी ,,
अघोरः ,, विंशात्यक्षरी ,,
मृत्युञ्जयभेदः ,, तद्भेदः ,,
चिन्तामणिः ,, अष्टादशाक्षरी १२९
अनुष्टुप् ,, तद्भेदः ,,
संवादम् ,, श्रीरामषडक्षरम् ,,
शक्तिपञ्चाक्षरी ,, रामध्यानभेदः ,,
कालारिः १२२ गोपालकभेदः १३०
किन्नरशिवः ,, श्रीकराष्टाक्षरभेदः ,,
रक्षोघ्नः ,, धन्वन्तरिभेदः १३१
सद्योजातादिमूर्तयः ,, अष्टादशाक्षरीभेदः ,,
त्रयोविंशो ऽध्यायः । वासुदेवादिचतुष्कम् ,,
ध्याने वैष्णवप्रकरणम् १२३--१३३ केशवाद्याः १३२
अष्टाक्षरी १२३ वराहभेदः ,,
गायत्री ,, विश्वरूपम् ,,
श्रीकराष्टाक्षरम् १२४ आयुधानि, पूजासु तेषां स्थानादिकं च ,,
सुदर्शनम् ,, चतुर्विंशोऽध्यायः ।
ध्याने शाक्तप्रकरणम् १३३--१४५

६
विषयः. पृष्ठम्. | विषयः. पृष्ठम्.
मूलदुर्गा १३३ | इन्द्रः १५०
लिपिः १३० | ऐन्द्री गायत्री १५२
भुवनेश्वरी " | ऐन्द्री त्रिष्टुप १५३
हल्लेखा १३५ | अग्निः "
वागीश्वरी .. | संवादाग्निः "
श्रीः " | समर्द्धिः "
त्वरिता " | तद्भेदः १५४
धूमावती १३६ | रक्षोहाग्निः "
काली " | यमः "
भैरवी १३७ | निर्ऋतिः १५५
मातङ्गी .. | वरुणः "
शक्तिप्रणवः " | वायुः "
वनदुर्गा १३८ | धनदः "
त्रैलोक्यमोहिनी १३९ | सोमः १५५
संविन् " | ब्रह्मा १५६
इन्द्राणी " | शेषः "
स्वयंवरा १४१ | महागणपतिः "
प्राणशक्तिः १४२ | बीजगणपतिः १५८
अश्वारूढा .. | हेरम्बः १५९
वज्रप्रस्तारिणी " | बालगणपतिः "
नित्यक्लिन्ना १४३ | सुब्रह्मण्यः "
श्रीसूक्तम् " | नागयक्षी १६०
त्रिपुटा १४४ | शास्ता "
त्रिपुरा " | प्रभा १६१
भूमिः " | सत्यकः "
शूलिनी १४५ | अनुष्टुप्त्रयम् "
गायत्री " | शक्तिगणपतिः १६२
गायत्री त्रिष्टुप् " | लक्ष्मीनारायणः "
सौरी चतुरक्षरी १४६ | अर्धनारीश्वरः "
अन्नपूर्णा " | शङ्करनारायणः १६३
सप्तमातरः " | सूर्यः "
श्रीचक्रप्रस्तारः १४७ | सौरमष्टाक्षरम् "
| कामः १६४
पञ्चविंशोऽध्यायः । | वीरभद्रः "
इन्द्रादिदेवताध्यानप्रकरणम् १५०-१७३ | हनूमान् "

५
विषयः. पृष्ठम्.
गरुडः १६५
अश्विनौ १६६
पितरः ,,
अप्सरसः ,,
सप्तर्षयः १६७
एकादशरुद्राः ,,
क्षेत्रपालः ,,
वामनः १६८
नृवराहः ,,
नृसिंहः १६९
त्रिविक्रमः ,,
मत्स्यमूर्तिः ,,
कूर्मः ,,
ब्रह्मा १७०
कुमारः ,,
नागः ,,
असुराः १७१
दानवाः ,,
पिशाचाः ,,
वेतालाः ,,
नवग्रहाः ,,
गुह्यः १७३
षड्विंशोऽध्यायः ।
बिम्बदोषलक्षणम् १७४—१८२
पुरुषलक्षणम् १७४
स्त्रीलक्षणम् १८०
एतयोर्बिम्बविधावतिदेशः १८२
सप्तविंशोऽध्यायः ।
पीठादिलक्षणम् १८२—१९१
पद्मपीठम् १८२
नालः ,,
पीठविधिः १८३
विषयः. पृष्ठम्.
नागरम् १८३
वेसरम् ,,
द्राविडम् १८४
मेरुसुन्दरम् ,,
लक्ष्मीसुन्दरम् १८५
विष्णुसम्मेलनम् ,,
पद्मभद्रम् ,,
समाङ्गभद्रम् ,,
रुद्रकान्तम् १८६
सोमकान्तम् ,,
सर्वाङ्गभद्रम् ,,
श्रीकरम् ,,
पुष्टिवर्धनम् ,,
सौम्यम् १८७
शिवलिङ्गपीठविधिः ,,
पीठोपरिगतांशविभागः १८७
नालविधिः ,,
पादशिला १८८
नागरादिद्रव्यशिला १८९
स्थानासनभेदेन पीठभेदः १९०
अष्टाविंशोऽध्यायः ।
प्रतिष्ठाविधानम् १९१—२०३
प्रतिष्ठाविधिः १९१
बीजावापपात्रादिक्ऌप्तिः ,,
पालिकाघटिकाशरावाणां लक्षणम् ,,
पीठाच्छ्रयः १९२
चतुरश्रकुण्डम् १९३
योनिरूपकुण्डम् ,,
अर्धचन्द्राकारकुण्डम् १९४
त्रिकोणकुण्डम् ,,
वृत्तकुण्डम् ,,
षट्कोणकुण्डम् ,,
अष्टदलकुण्डम् १९५

वामभागः (Left Column)

विषयः. पृष्ठम्.
अष्टाश्रकुण्डम् १९५
स्रुवलक्षणम् ,,
जुहूलक्षणम् १९६
महास्रुगलक्षणम् ,,
भद्रकलक्षणम् ,,
चक्राब्जलक्षणम् १९८
शक्तिदण्डलक्षणम् १९९
षड्दललक्षणम् ,,
स्वस्तिकभद्रम् २००
प्रतिष्ठास्थाननियमादिः ,,
पीठप्रतिष्ठापूर्विका बिम्बप्रतिष्ठा २०२
एकोनत्रिंशोऽध्यायः ।
जीर्णोद्धारप्रकरणम् २०३—२०७
जीर्णोद्धारोद्देशः २०३
बालालग्विधानम् ,,
निष्कासणं सङ्कोचनं च २०४
जीर्णोद्धारे यथासम्भवं पूर्ववत् कल्पनम् २०५
त्रिंशोऽध्यायः ।
लिङ्गप्रासादकरणम् २०७—२०९
एकत्रिंशोऽध्यायः ।
मनुष्यालयलक्षणम् २०९—२२६
प्रकृताध्यायप्रमेयनिर्देशः २०९
द्विजादिवर्णानां वेदिविस्ताराया-
मादिविधानम् २१०
वृतिवप्रादिविधिः २११
सूत्रवीथ्यादिनिर्णयः २१२
योन्यादयः २१३
त्रिशालविधानम् २१४
द्विशालविधानम् २१५
चतुःशालविधानम् ,,
शालाभेदाः २१६
द्वारविधानम् ,,


दक्षिणभागः (Right Column)

विषयः. पृष्ठम्.
उपगृहविधिः २१७
द्वारमानम् ,,
अन्यथा चतुश्शालविधानम् २१८
प्रकारान्तरेण षोडश गेहानि २१९
स्तम्भसंख्याप्रमाणतो बहुविधनृप-
गेहविधिः २२०
तेषामुपगृहविधानम् २२२
वास्तुबलिः २२३
राज्ञां गृहप्रवेशः २२५
द्वात्रिंशोऽध्यायः ।
कूपप्रश्नविधानम् २२६—२२८
त्रयस्त्रिंशोऽध्यायः ।
आसनादिपरिच्छदलक्षणम् २२८--२४४
आसनविधिः २२८
व्यजनम् २२९
छत्रम् २३०
पर्यङ्कः २३१
पञ्च वाहनानि २३३
तत्र डोला ,,
सुखासनम् ,,
रथः २३४
नौः ,,
प्लवकः ,,
शयनसाधनम् २३५
अष्टविधा शय्या ,,
तत्र दन्ताङ्घ्रिर्नाम मञ्चः २३६
लोहचरणः ,,
अष्टपदमयः ,,
अचलः ,,
चलः ,,
वेत्रकः ,,
पट्टिकामयः ,,
डोलाख्यः ,,

७
विषयः. पृष्ठम्. विषयः. पृष्ठम्.
मञ्चोपधानविधानम् २३७ दारुखण्डिमूल्यज्ञानम् २४४
पादुकम् ,, क्रकचवेतनम् २४५
कुडुबादिमानसाधनम् ,, शिलादारणश्लक्ष्णीकरणादीनां वेतनम् ,,
उलूखलादि २३८ बिम्बादिनिर्माणे वेतनम् २४६
तुला २३९ लोहभूषादिक्रियाया वेतनम् ,,
तैलद्रोणिः ,,
जलयन्त्रम् ,, पञ्चत्रिंशोऽध्यायः ।
इक्षुयन्त्रम् २४१ शस्त्रलक्षणम् २४७—२५१
नाडीयन्त्रम् २४२
स्वर्णकीलम् २४३ शस्त्रप्रश्नः २४७
चतुस्त्रिंशोऽध्यायः । धनुर्लक्षणम् २५०
कर्मकारवेतनक्रमः २४४—२४६ ग्रन्थसमाप्तिः २५१

The provided image is completely blank and contains no text to transcribe. Please upload an image with visible content.

॥ श्रीः ॥
श्रीकुमारप्रणीतं
शिल्परत्नम् ।
(उत्तरभागः ।)
अनन्तकोटिब्रह्माण्डेष्वखिलेष्वाततः क्रमात् ।
निःशेषविश्वकर्ता यः स जीयान्मधुसूदनः ॥ १ ॥
अथ बिम्बादिपीठादिकुण्डमण्डलकादिकम् ।
मानुषाणां चतुश्शालाद्यखिलं वक्तुमारभे ॥ २ ॥
तत्र पूर्वं शिलादिबिम्बसाधनम् ।
एवं कृत्वा मन्दिरं मन्मथारेः
सार्धं दक्षैः शिल्पिभिः शस्त्रहस्तैः ।
आचार्योऽसौ शुक्लपक्षे मुहूर्ते
शुद्धे विप्रान् भोजयित्वा यथार्हम् ॥ ३ ॥
संपूज्य वस्त्रैः स्थपतींश्च दक्षा-
नाराध्य देवं प्रणिपत्य भूयः ।
कृत्वास्त्रयागं परिपूज्य शस्त्रा-
ण्यस्त्रेण लिङ्गार्थमभिप्रयच्छेत् ॥ ४ ॥
परीक्ष्य पूर्वाभिमुखो निमित्तं
गच्छेन्निमित्तेऽथ शुभे प्रदिष्टे ।
G. P. T. 1254. 500. 8-11-1103 B