शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 8, कुल 280 में से
संदर्भ में पढ़ेंनिवेदना ।
उत्तरभागोऽयमितः प्रकाशितस्य श्रीकुमारकृतेः शिल्परत्नस्य,
यो बिम्बसाधनादिशस्त्रलक्षणान्तैरध्यायैः पञ्चत्रिंशता सम्पुटितः ।
इदं च रत्नं मान्त्रिकाणां तान्त्रिकाणां च सर्वदा हृदि धार्यं रुचिमत्
किमप्यनर्घं भूषणम् । प्राक्तनैर्मतङ्गभृगुमुख्यैर्मुनिमुख्यैर्दृष्टम्, अर्वाक्तनैः
श्रीनारायणरविप्रभृतिभिः पण्डितप्रकाण्डैर्घृष्टं, श्रीकुमारेण समुत्तेज्य
संसाधितं, साम्प्रतिकश्रीवञ्चिराज्यान्तर्गतस्य अम्बलप्पुळदेशस्य पूर्वाधि-
पतिश्रीदेवनारायणसन्निधावुपहृतमद्य अनन्तशयनसंस्कृतग्रन्था-
वलेरलङ्कारतामधिगतमिति स एष आगमप्रकारोऽस्य रत्नस्य ।
अस्य प्रणेता श्रीकुमारः पूर्वभागस्योपक्रमे -
“सम्पूज्यते सदसि भार्गवसृष्टभूमा-
वेऽस्मिन् बुधैः सकलशिल्पकथासु योऽसौ ।
तं मे नमामि पितरं भृगुवंशजातं
शश्वत् स्वपुत्रहितपूरणजागरूकम् ॥”
(पा० २. श्लो० ६)
इति,
उपसंहारे -
“श्रीरामपुत्रेण भार्गवगोत्रसम्भूतभूदेवेन श्रीकुमारनामधेयेन
श्रीदेवनारायणराजचूडामणिपादसेवकेन लिखितमिदम्”
इति च दृश्यमानाभ्यां भागाभ्यां केरलीयः कोऽपि भृगुवंशाभिजनो भूदेव
इति ज्ञायते । श्रीदेवनारायणाश्रयमात्रेण प्रक्रियासर्वस्वकारश्री-
नारायणभट्टपादोपजीव्यं श्रीदेवनारायणं सम्मत्य क्रिस्तवब्दीय-
षोडशशतकान्तिमभागोऽस्य जीवितसमय इति पूर्वभागनिवेदनायां निरूपितं
दृश्यते । इदं - “अम्बलप्पुळ-देशाधिपतीनां राज्ञां देवनारायणा-
ख्यातिराधिपत्यस्थानप्रयुक्तैव न व्यक्तिप्रयुक्ते”ति प्रसिद्धेः प्रबलतरमुपष्ट-
म्भकमन्यत् किमपि प्रमाणं प्रतीक्षमाणं मन्ये न सद्यो व्यवस्थापनमर्हति ।