सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished1,023 पृष्ठ

इस ग्रन्थ के बारे में

मुद्गल पुराण गणपति-उपासना (गाणपत्य सम्प्रदाय) का प्रमुख उपपुराण है, जिसकी कथा परम्परा महर्षि मुद्गल से जोड़ती है। गणेश पुराण के साथ यह भगवान् गणेश के स्वरूप और लीलाओं का सबसे विस्तृत स्रोत माना जाता है। इसकी विशेषता गणेश के आठ अवतारों (वक्रतुण्ड, एकदन्त, महोदर, गजानन, लम्बोदर, विकट, विघ्नराज और धूम्रवर्ण) की कथाएँ हैं, जिनमें प्रत्येक अवतार मत्सर, मद, मोह, लोभ, क्रोध, काम, ममता और अभिमान जैसे विकारों के प्रतीक असुरों को जीतता है। इसीलिए इसे 'अष्टावतार चरित' भी कहा जाता है।

यह संस्कृत मूल पाठ का पोथी-शैली में छपा संस्करण है, जिसके हर पृष्ठ पर खण्ड और अध्याय की संख्या अंकित है। ग्रन्थ गणेश-वन्दना से आरम्भ होता है और नैमिषारण्य में शौनक आदि ऋषियों के पास सूत लोमहर्षण के आगमन से कथा का सूत्रपात होता है। पुराण नौ खण्डों में बँटा है और प्रत्येक खण्ड के अन्त में उसका माहात्म्य दिया गया है।

लगभग 1023 पृष्ठों का यह ग्रन्थ गाणपत्य दर्शन, स्वानन्देश गणेश की उपासना और महाराष्ट्र की गणेश-भक्ति परम्परा के अध्ययन में उपयोगी है।

पृष्ठ 595 स्कैन

पान ६६

दानमार्गेण स ददौ द्रव्यं नानाविधं विधे । तथापि तादृशं तत्र रेजे सोऽपि सुविस्मितः ॥७४॥ एतत्ते कथितं किंचित्
दूर्वामाहात्म्यमुत्कटम् । गणेशतोषकं पूर्णं सर्वसिद्धिप्रदायकम् ॥७५॥ गणेशरोमकूपेषु ब्रह्मांडानि ह्यनेकशः । ब्रह्म
नानाविधं देहे स्थितं तस्य प्रजापते ॥७६॥ तत्सर्वं तृप्तिमायाति तृप्ते विघ्नेश्वरे परे । फलं तस्य च लोके को वर्णयेद्बद
मानद ॥७७॥

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 596 स्कैन

[खं. ५ अ. ३०] [पान ६७]

विधिनिषेधहीनाश्च योगरूपधरा इव ॥१४॥ गणेशस्य चरित्राणि कथयंतः परस्परम् । तद्रूपास्तस्य नामानि वदंतो
हर्षसंयुताः ॥१५॥ स्वपरभ्रांतिशून्याश्च समलोष्टाश्मकांचनाः । भेदाभेदविहीना वै वर्णाश्रमविवर्जिताः ॥१६॥ स्वेच्छया
कर्म कर्तारः स्वेच्छया ज्ञानधारकाः । स्वेच्छया समशीला वै स्वेच्छया सहजप्रियाः ॥१७॥ स्वेच्छया स्वस्वरूपस्था स्वेच्छया
योगतत्पराः । स्वेच्छया पूर्णयोगस्था वर्णवंतश्च स्वेच्छया ॥१८॥ स्वेच्छयाऽऽश्रमसंयुक्ताः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 597 स्कैन

परित्यजेत् ॥३८॥ असंप्रज्ञातयोगस्थः भवेद्यदि स मानवः । तथापि विघ्नराजस्य सदा ध्यानं समाचरेत् ॥३९॥ गणेशध्यान-
संयुक्तो योगभूमिं नृपात्मज । स च स्वल्पेन कालेनोल्लंघयेद्विघ्नहानतः ॥४०॥ ततो योगी भवेन्नूनं शांतियोगपरायणः ।
चित्ते चिंतामणौ सोऽपि तदाकारः सुसाधनात् ॥४१॥ न गणेशसमं किंचिज्जगत्सु ब्रह्मदं भवेत् । सर्वेभ्यो योगदानार्थं
बभूवे देहधारकः ॥४२॥ एतत्ते कथितं भूप योगप्राप्तौ सुसिद्धिदम् । भजनं सिद्धिनाथस्य योगसिद्धिप्रदायकम् ॥४३॥
जनक उवाच ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 598 स्कैन

[Header]
खं. ५ अ. ३० | पान ६९

[Body]
संयोगो ब्रह्माकारेण जायते ॥६४॥ अन्यद्योगरूपं वै निवृत्तेर्धारकं परम् । ब्रह्म मायाविहीनं तु व्यतिरेकप्रभावतः ॥६५॥
केषांचित्तत्र संयोगो ब्रह्मणं जगतां भवेत् । नैव केषु च तस्यापि ब्रह्मयोगं प्रकथ्यते ॥६६॥ स्वकीयभेदनाशेन लभ्यते
नात्र संशयः । तदेव ब्रह्मभूतत्वं निरोधवृत्तिजं मतम् ॥६७॥ निरोधे चित्तके राजन् प्रकाशद्गणेश्वरम् । चिंतामणिं
भजस्व त्वं परं तत् खेललालसम् ॥६८॥ पंचधा चित्तभूमिस्थं त्यक्त्वा योगपरो

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 599 स्कैन

योगमयो लाभः सदा भवति योगिनाम् ॥८९॥ हृदि लक्षः स्थितो नित्यं सर्वत्र लक्षदायकः । पदार्थेषु स्थितो लाभो मतो
नाना फलप्रदः ॥९०॥ ताभ्यां स युवराजाभ्यां विघ्नेशो मायया चरन् । बंधहीनः खेलति च स्वेच्छाचारिस्वरूपधृक् ॥९१॥
तत्र भ्रांतिकरी प्रोक्ता सिद्धिः सर्वत्र वर्तते । सिद्ध्यर्थं सर्वलोकाश्च बभ्रमुस्त्वं विचारय ॥९२॥ धर्मसिद्धिस्तथार्थस्य सिद्धिः
कामप्रदायिनी । मोक्षसिद्धिस्तथा राजन् ब्रह्मभूयकरी मता ॥९३॥ अहं गणेशरूपश्चेत् कथमत्र प्रवर्तते ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 600
स्थायी लिंक
पृष्ठ 600 स्कैन

[Header]
खं. ५ अ. ३० | पान ७१

महामते। देहसौख्यप्रदं प्रोक्तं जन्ममृत्युप्रदं भवेत् ॥१४॥ स्वस्वधर्मविहीनं यद्विधिहीनं विशेषतः। विकर्म विद्धि राजेंद्र
तदेवं पापरूपकम् ॥१५॥ पापाचरणमात्रेण नरो दुर्गतिमाप्नुयात् । देहदुःखकरं प्रोक्तं परिणामे न संशयः ॥१६॥
सत्कर्म मुक्तिकामार्थं कुरुते नित्यमादरात्। ब्रह्मार्पणस्वभावेनाकर्म विद्धि महामते ॥१७॥ शुक्लगत्या नरो वेदे मुक्तिं प्राप्नोति
शाश्वतीम्। अकर्मणः प्रभावेण स निष्कामपरो मतः ॥१८॥ कर्मयोगमयं विश्वं सर्वं जानीहि पार्थिव । क्रियायां यत्
स्थितं ब्रह्म स एव कर्मयोगकः ॥१९॥ क्रियमाणं च यत्प्रोक्तं तदेव कर्म उच्यते। तस्य भेदान् प्रवक्ष्यामि समाहितमनाः
शृणु ॥२०॥ मौनं यदि धृतं तेन तदा जातं नृपात्मज । अतः कर्ममयं विद्धि धारणान्नात्र संशयः ॥२१॥ वायुबंधन-
योगेन प्राणो नीतः स्वमस्तके। तदेव कर्मरूपं वै वायुचालनतः परम् ॥२२॥ ध्यानं करोति चेच्चित्ते दमयित्वा मनः
स्वयम्। तदेवं कर्मरूपं तु मनोनिग्रहकारणात् ॥२३॥ जागृतिर्जागरं कर्म स्वप्नः सुप्तिमयं भवेत्। अज्ञानं विद्धि सौषुप्तं
कर्मरूपं न संशयः ॥२४॥ इत्याद्या बह्वो भेदा मया वक्तुं न शक्यते। नामरूपधरः कोऽपि कर्महीनो न वर्तते ॥२५॥
उत्पत्तिश्च स्थिती राजन् संहारस्त्रिविधं परम् । सर्वं कर्ममयं विद्धि कर्मयोगेन जायते ॥२६॥ असङ्गरूञ्च यत् प्रोक्तं वेदे
तन्मायया बभौ। कर्मरूपं न संदेहो नामरूपप्रधारणात् ॥२७॥ नामरूपपरित्यागे ह्यसत् स्वानंदगं भवेत् । मानवो ब्रह्मरूपः
स कर्मयोगी प्रकथ्यते ॥२८॥ एतत् कर्मस्वरूपं ते कथितं ब्रह्मवाचकम् । कर्माधीनं जगत् सर्वं ब्रह्म नानाविधं तथा ॥२९॥
जनक उवाच । ज्ञानं च कीदृशं प्रोक्तं तन्मे वदत योगिनः। येन योगी भवेज्जंतुर्ज्ञानयोगपरायणः ॥३०॥ द्रुमिल उवाच । हृदि
स्फूर्तिमयं ज्ञानं ज्ञातव्यं विबुधैः सदा। स्फूर्तिदातृस्वरूपेण ब्रह्म तत्र स्थितं भवेत् ॥३१॥ नामरूपविहीनं यत् सदाऽमृतमयं
भवेत्। आद्यंतभावहीनं वै तद्विद्धि ज्ञानमुत्तमम् ॥३२॥ ज्ञानचक्षुः स्वभावेन ब्रह्मानुभवकारकम् । नानाज्ञानलयं कृत्वा
ज्ञानयोगी भवेत्ततः ॥३३॥ सत्यस्वानंदरूपं त्वं जानीहि ज्ञानमूलकम् । ज्ञानानां योगभावेन लभ्यते योगसेवया ॥३४॥ जनक
उवाच । आनंदः कीदृशः प्रोक्तः सहजं कीदृशं मतम्। ब्रह्मभूयं च योगींद्राः कीदृशं कथयंतु मे ॥३५॥ चमस उवाच । बाह्यांतर-
विभेदेनानंदः सर्वत्र वर्तते। उभयात्मकभावस्थः समरूपधरो मतः ॥३६॥ नानाद्वंद्रेषु राजेंद्र स्थितमानंदरूपकम्। समं विद्धि
च सर्वत्र जगत्सु ब्रह्मसु परम् ॥३७॥ सत्यासत्यमयं तद्धि समस्वानंदगं परम् । ब्रह्म राजन् सदानंदरूपं तदेव संमतम् ॥३८॥
द्वंद्रेषु त्वासमंताद्यच्चंदनात्तन् महीपते । आनंदः परमानंदो ब्रह्मानंदः प्रकथ्यते ॥३९॥ समभावस्थितानां च योगेन ब्रह्म

पृष्ठ 601
स्थायी लिंक
पृष्ठ 601 स्कैन

खं. ५ अ. ३० पान ७२

लभ्यते । आनंदाख्यं प्रजानाथ योगसाधनतः परम् ॥४०॥ एतत्ते कथितं पूर्णमानंदस्य स्वरूपकम् । आनंदानां समायोगे
समस्वानंदगो भवेत् ॥४१॥ द्विविधा तस्य माया तु द्वंद्वभावधरा मता । तयोः संयोगभावे स उभयात्मक उच्यते ॥४२॥
तदेव द्विविधेष्वेव मोहयुक्तं नराधिप । समं सर्वत्र जानीहि द्वंद्वमोहादिदायकम् ॥४३॥ त्रिषु मोहविहीनं यत् सदा नेति
स्वरूपकम् । स्वाधीनं सहजं विद्धि चतुर्थं राजसत्तम ॥४४॥ स्वेच्छया सत् समायुक्तं स्वेच्छया सत् परायणम् ।
स्वेच्छयाऽऽनंदसंयुक्तं त्रिभिर्हीनं निजेच्छया ॥४५॥ आज्ञया त्रिविधं ब्रह्म वर्तते नात्र संशयः । सर्वेषां नाशकं तुर्यं
सहजं नेति भावतः ॥४६॥ न तस्य नेति कर्ता वै विद्यते योगभावतः । तेन नेतिमयं स्वच्छंदगं प्रोक्तं सनातनम् ॥४७॥
स्वेच्छया बंधयुक्तश्च स्वेच्छया बंधवर्जितः । स्वेच्छया समभावस्थो भवते सहजाख्यकः ॥४८॥ अव्यक्तेन त्रिभावेषु तेन
योगेन लभ्यते । सहजं ब्रह्म वेदेषु यत् प्रोक्तं वेदवादिभिः ॥४९॥ स्वाधीनानां समायोगे व्यक्तः स्वानंद उच्यते ।
अव्यक्तयोगभावत्वान्निराकर्तुं न शक्यते ॥५०॥ एतत्ते कथितं भूप सहजं मोहवर्जितम् । अधुना शृणु योगं त्वं ब्रह्मभूय-
प्रकाशकम् ॥५१॥ स्वानंदः सर्वसंयोगे भवति ब्रह्मधारकः । चतुर्णां तत्र संयोगः कर्तव्यः स्वसमाधिना ॥५२॥ त्रिविधं
मोहयुक्तं च मोहहीनं चतुर्थकम् । नैव ब्रह्मणि राजेंद्र मोहयुक्तविहीन ते ॥५३॥ स्वाधीनं न भवेत्तत्तु पराधीनं न
वर्तते । ब्रह्मणां जगतां तत्र संयोगो जायते परः ॥५४॥ स्वसंवेद्यमयो भूत्वा यस्तु तिष्ठति मानवः । तत्र किं
भिन्नभावाख्यं वर्तते योगनाशकम् ॥५५॥ संयोगे नाशभूते तु ब्रह्मयोगः प्रकीर्तितः । न तत्र जगतां भूप
संयोगो ब्रह्मणां भवेत् ॥५६॥ अयोगस्य न संयोगः केषु ब्रह्मसु कीर्तितः । योगिभिर्योगप्राप्त्यर्थं व्यतिरेकाद्वि-
चारय ॥५७॥ संयोगे मायया युक्तो भवते गणनायकः । मायाधीनस्वरूपेण सदाऽयोगः प्रवर्तते ॥५८॥ मायया
सर्वभावस्थो भवति द्विरदाननः । संयोगाभेदभावेन निजमायामयः स्मृतः ॥५९॥ स्वानंदे गणनाथस्य दर्शनं योगिनां
भवेत् । संयोगाभेदकं तेन विदुः स्वानंदवासिनम् ॥६०॥ अयोगे माययाहीनो गणेशः सर्वदा मतः । यादृशस्तादृशः
सोऽपि नागतो न गतो भवेत् ॥६१॥ वृथा भ्रांतिमयं सर्वं भासते मायया किल । भ्रांतानां तेन सर्वत्र निवृत्तिर्जायते
परा ॥६२॥ स्वकीया भेदभावाच्च निवृत्तिं व्यतिरेकतः । धृत्वा ह्ययोगयोगस्थः स्वयं भवति मानवः ॥६३॥ अयोगे
मायया हीनः संयोगे मायया युतः । नरो भवति राजेंद्र पंचपंचस्वरूपया ॥६४॥ ब्रह्मणि ब्रह्मभूतस्य संयोगः कुत्र वर्तते ।

पृष्ठ 602
स्थायी लिंक
पृष्ठ 602 स्कैन

खं. ५ अ. ३०
पान ७३
अयोगश्च महीपाल नान्वयव्यतिरेकतः ॥६५॥ चित्तं पंचविधं त्यक्त्वा चित्तभ्रांतिं च पंचधा । स्वयं चिंतामणिः
साक्षाद् ब्रह्मभूतो नरो भवेत् ॥६६॥ संयोगात्मा गकारश्च णकारोऽयोगवाचकः । तयोः स्वामी गणाधीशः संयोगायोग-
वर्जितः ॥६७॥ इति ते कथितं भूप ब्रह्मभूतस्वरूपकम् । किं श्रोतुमिच्छसि प्राज्ञ गमिष्यामो यदृच्छया ॥६८॥ जनक उवाच ।
गणेशो भक्तिभावेन नराधीनो भवेत् स्वयम् । न भक्तिसमभावाख्यं मोहदं तस्य संभवेत् ॥६९॥ अतो वदत मे भक्तिस्वरूपं
योगिसत्तमाः । तया विघ्नेश्वरं नित्यं भजिष्यामि विशेषतः ॥७०॥ करभाजन उवाच । भक्तिश्च नवधा प्रोक्ता हृदये रसधारिणी ।
कथयामि समासेन स्वरूपं रसदायकम् ॥७१॥ श्रवणं कीर्तनं तस्य स्मरणं पादसेवनम् । अर्चनं वंदनं दास्यं सख्यमात्मनिवेदनम्
॥७२॥ नवधा मानसी राजन् गतिः सर्वत्र वर्तते । भावेषु रससंयुक्ता दशमी नैव विद्यते ॥७३॥ यदा भक्तौ नरस्यैव रसः
पूर्णः प्रवर्तते । तदाऽस्य नवधा नित्यं चित्तं तस्यां वसेत् स्वयम् ॥७४॥ यदा मुक्तौ तथा जंतो रसः पूर्णो जनाधिप । तदा
मुक्तिपदार्थेषु चित्तं तु नवधा भवेत् ॥७५॥ यदा च ब्रह्मभूतेषु रसस्तस्य प्रवर्तते । तदा नरस्य योगेषु चित्तं तन्नवधा
भवेत् ॥७६॥ योगी भूत्वा नरो यस्तु भजते गणनायकम् । तस्यैव नवधा चित्तं गणेशे सर्वदा भवेत् ॥७७॥ योगिनां हृदि विघ्नेशः
पूर्णरूपधरो वसेत् । अयोगिनां कलांशश्च तस्माद्योगी भवेन्नरः ॥७८॥ ततो गणेशरूपस्य भजनं पूर्णभावतः । भवत्यत्र न
संदेहो रसयुक्तं विशेषतः ॥७९॥ गणेशगुणवादानां प्रीत्या संपूर्णभावतः । प्रकुर्यात् स नरो नित्यं श्रवणं रससंयुतः ॥८०॥
सर्वश्रवणजातीनां रसं ज्वाल्य महामतिः । गणेशगुणवादेषु रसं पूर्ण स पश्यति ॥८१॥ एवं श्रवणभक्तिं
त्वं प्राप्तां जानीहि भूमिप । समतो योगिषु श्रेष्ठो बुधैर्नृप न संशयः ॥८२॥ तथा कीर्तनभावश्च उत्पद्येत नरा-
धिप । गाणेशकीर्तने भक्तिः प्राप्ता तेन विनिश्चितम् ॥८३॥ गणेशार्थं च या किंचिद्विस्मृतिस्तत्र नो भवेत् । तदा
स्मरणभक्तिः सा प्राप्ता संपूर्णभावतः ॥८४॥ गणेशपादपद्मं यो मत्वा शाश्वतकं परम् । तत्रैव सकलो यत्नो
भवेत्तत् पादसेवनम् ॥८५॥ सांगं गाणेश्वरं सर्वं कुरुते नित्यमादरात् । अर्चनात्मकरूपां तां भक्तिं प्राप्तो महामतिः ॥८६॥
गणेशात् परं श्रेष्ठं वेदशास्त्रविचारतः । न चलेत् क्वापि जानीहि तदा वंदनवान् भवेत् ॥८७॥ गाणपत्यानि चिह्नानि
धृत्वा तत्परचेतसा । तदा दास्यात्मिका भक्तिः प्राप्ता तेन नराधिप ॥८८॥ अंतर्बाह्यकृतं यद्वै तत्र साक्षी गणेश्वरः ।
अंतर्भयेन भक्त्यार्या सा प्रोक्ता सख्यरूपिणी ॥८९॥ पंचधा मोहयुक्तं स चित्तमुत्सृज्य योगतः । न भिन्नोऽहं गणेशाननान्

पृष्ठ 603
स्थायी लिंक
पृष्ठ 603 स्कैन

मत आत्मनिवेदकः ॥१९०॥ मनोगतिः प्राज्ञ यत्र तत्र विघ्नेश्वरं सदा । भजते रससंयुक्तः स वै भक्तः प्रकीर्तितः ॥१९१॥
रसरूपा स्वयं भक्तिर्यत्र पूर्णस्वभावतः । यस्य तिष्ठति जंतुः स तद्भक्तः संमतो नृप ॥१९२॥ भोगेषु न रसोत्पत्तिर्मुक्तौ
च ब्रह्मभूयके । गणेशभक्तिभावेन भक्तस्यैवावतिष्ठति ॥९३॥ आदौ ते कथितं राजन् गणेशस्य स्वरूपकम् ।
ब्रह्माकारैर्महाचिह्नैः संयुक्तं योगदायकम् ॥९४॥ तत्र विश्वासभावेन तादृगुत्पद्यते रसः । तदा भक्तो महाराज भवते
योगिवंद्यकः ॥९५॥ नारदेनैव राजेंद्र बोधितस्त्वं न बुद्ध्यसे । तव भावपरीक्षार्थं भक्तिदानार्थमंजसा ॥९६॥ प्रेषितस्तेन
विघ्नेशो वृद्धः कुष्ठयुतो द्विजः । समायातः सर्वभक्षी छलथामास साधुपम् ॥९७॥ नरदेहं समासाद्य गणेशं भजेत न यः ।
पशुतुल्यः स राजेंद्र तस्य धिक् जन्म निश्चितम् ॥९८॥ मुद्गल उवाच । एवमुक्त्वा विदेहं तं जनकं योगिनो नव । अनुज्ञाप्य
ययुस्तस्मात् स्वेच्छया गणपे रताः ॥९९॥ जनकस्तानमस्कृत्य स्वगृहे गणनायके । योगी नवविधां भक्तिमकरोद्भाव-
संयुतः ॥२००॥ अहर्निशं गणेशानमभजन्नान्यचेतसा । जनकः सर्वभावेन योगिवंद्यो बभूव ह ॥१॥ तिष्ठन् स्वपन् पिबन्
वाऽदन् गच्छन् विघ्नेश्वरे रतः । अतो गणेशसंतुष्ट्या तद्वंशे जनका बभुः ॥२॥ सर्वज्ञानसमायुक्ताः सर्वे साधुगुणान्विताः ।
गणेशभजने सक्ता बभूवुश्च प्रजापते ॥३॥ नवयोगिषु यातेषु जनकस्त्रिशिरोभवम् । वृत्तांतं परिशुश्राव गणेश-
गमनात्मकम् ॥४॥ स्वयं तस्य गृहं गत्वा ननाम मुनिपुंगवम् । दैवीसंवृद्धिसंयुक्तं योगपारंगतं परम् ॥५॥ तेन संबो-
धितो राजा नित्यं दूर्वापरायणः । पुपूज गणनांथं तं सदा भक्तिसमन्वितः ॥६॥ दूर्वाहीनां न पूजां स चकार मरणावधि ।
अंते स्वानंदगो भूत्वा भजते गणनायकम् ॥७॥ इदं जनकमाहात्म्यं कथितं ते प्रजापते । भुक्तिमुक्तिप्रदं नृभ्यः
श्रवणात् पठनाद्भवेत् ॥२०८॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते दूर्वामाहात्म्यवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥

पृष्ठ 604
स्थायी लिंक
पृष्ठ 604 स्कैन

खं. ५ अ. ३१ पान ७५
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । तुलसीवर्जिता पूजा कर्तव्या कथितं त्वया । किमर्थं पावनी सा तु दोषयुक्ता बभूव ह
॥१॥ तुलस्या किं कृतं विप्र गणेशानस्य विप्रियम् । येन रुष्टोऽमरेशानस्तां तत्याज यशस्विनीम् ॥२॥ मुद्गल उवाच ।
धर्मध्वजो महीपालो बभूवे धर्मसंयुक्तः । दाता मान्यो विशेषेण सुज्ञैः सर्वगुणान्वितः ॥३॥ तस्य पुत्री बभूवाऽसौ
रूपलावण्यसंयुता । न तया सदृशी कुत्र वर्तते कामिनी विधे ॥४॥ वृंदा नाम्नी च विख्याता प्रणम्य पितरं कदा । जगाद
भावगंभीरा चतुरा सुवयोयुता ॥५॥ वृंदोवाच । तात विष्णुं परित्यज्य वृणोम्यन्यं न निश्चितम् । वरं तदर्थमेवं मां देहि तस्मै
महामते ॥६॥ धर्मध्वज उवाच । विष्णुर्देववरः साक्षाद् भगवान् विश्वभावनः । स कथं च त्वया लभ्यो वरो लक्ष्मीपतिः सुते
॥७॥ मानुषेषु वरं पुत्रि वरयस्व हृदि स्थितम् । नरा वयं स वै साक्षाद् भगवान् भगधारकः ॥८॥ एवं नानाविधैर्भावै-
र्बोधिता न बुबोध सा । तदर्थं मंत्रराजं संगृह्य विष्णोर्वनं ययौ ॥९॥ ध्यात्वा चतुर्भुजं विष्णुं निराहारपरायणा ।
तताप तप उग्रं सा पतिं विष्णुमभीप्सितम् ॥१०॥ तीर्थेषु माधवं दृष्ट्वा तेषु क्षेत्रेषु मानद । तपस्तताप वृंदोग्रं नाना-
मार्गपरायणा ॥११॥ शुष्कपत्राणि वायुं सा जलं मूलं फलं तथा । भुक्त्वा संतोषयामास विष्णुं देववरं विधे ॥१२॥
वर्षाणि लक्षसंख्यानि गतानि तपसो बलात् । राजपुत्र्याश्च वृंदाया न तुतोष जनार्दनः ॥१३॥ अतीव तपसा तस्या
अंतर्ज्ञानं बभूव ह । आत्माकारं जगत् सर्वमपश्यद् बोधसंयुता ॥१४॥ कदा विघ्नेश्वरं वृंदा ददर्श नियमे रतम् । संपूज्य
गणनांथं वै हृदि ध्यानपरायणम् ॥१५॥ तं दृष्ट्वा कुंजरास्यं सा शिवपुत्रं नृपात्मजा । भागीरथीसंनिधिस्थं विस्मिताऽभूत्
प्रजापते ॥१६॥ गणेशार्थं समालोक्य मोहिताऽभूत् स्वचेतसि । अहो गणेश्वरः साक्षाद् ब्रह्मणां नायकः स्मृतः ॥१७॥
अस्य कलांशसंभूताः शिवविष्ण्वादयोऽपरे । पूर्णभावात्मकः साक्षाद् गणेशो नात्र संशयः ॥१८॥ शिवेन तपसोग्रेणा-
राधितो गणनायकः । पुत्रोऽभूद्योगशांतिस्थो भक्तभक्तिपदप्रदः ॥१९॥ खेलत्यात्मानमाभज्य चतुर्धाऽनन्यभावतः ।
अयं विष्णुस्तथा शंभुः शक्तिः सूर्यो न संशयः ॥२०॥ पूर्णभावमविज्ञायाऽहं विष्णुपरमाऽभवम् । अधुना तं समालोक्य
बोधयुक्ता न संशयः ॥२१॥ तपःप्रभावसामर्थ्याद् वृणोमि गणनायकम् । व्यभिचारो न मे भावी विष्णुरूपोऽयमंजसा
॥२२॥ एवं विचार्य विघ्नेशमाययौ ध्यानसंस्थितम् । ध्यानभंगार्थमुद्युक्ता वृंदा तं प्रत्युवाच ह ॥२३॥ वृंदोवाच । त्वं साक्षाद्
गणराजश्च तपसाऽऽराधितो भवान् । शिवपुत्रत्वमापन्नः किं ध्यायसि वदस्व माम् ॥२४॥ शिवविष्ण्वादयो देवास्त्वां

पृष्ठ 605
स्थायी लिंक
पृष्ठ 605 स्कैन

भजंति निरंतरम् । कुलदैवतरूपस्थं सर्वसिद्धिप्रदायकम् ॥२५॥ गणेश्वरं समास्थाप्य कथं पूजयसेऽप्यहो । गणेश्वरो विशे-
षेण स्वयं ध्यायसि तं प्रभो ॥२६॥ अहो चित्रं मया दृष्टं गणेशो गणनायकम् । भजतेऽनन्यभावस्थः शिवपुत्रत्वकारणात्
॥२७॥ न त्वं शिवसुतः स्वामिन् न ते विघ्नेश्वरः कदा । कुलदेवस्तथाऽपि ध्यायसि किं गणपं प्रभो ॥२८॥ तव स्मरण-
मात्रेण ब्रह्मभूता भवंति ते । नरा देवेंद्रमुख्याश्च योगिनो वेदकादयः ॥२९॥ स्वयं शांतिप्रदाता त्वं किं ध्यायसि गणे-
श्वरम् । गणेश्वराशु वद मां वाक्यं सगुणनिर्गुण ॥३०॥ कामबाणार्दिता सा तं वृंदा नानाप्रकारतः । बोधयामास विघ्नेशो
ध्यानस्थो न बुबोध ताम् ॥३१॥ ततः सा जलबिंदुं वै चिक्षेप गणपोपरि । तथापि ध्यानसंस्थो नालोकयत्तां गजाननः
॥३२॥ जघान मोहसंयुक्ताऽंगुल्या तं सा ततोऽसकृत् । ध्यानं त्यक्त्वा गणाधीशस्तामपश्यत् पुरः स्थिताम् ॥३३॥ गणेशाय
नम इति मंत्रमुच्चार्य विघ्नपः । जगाद तां सकामां स निष्कामो गणपे रतः ॥३४॥ श्रीमहागणपतिरुवाच । काऽसि त्वं
वद मातर्मां चापल्यगुणसंयुते । ध्यानभंगो न कर्तव्यः साधुभिश्च कदाचन ॥३५॥ गणेशकर्मसंस्थं तं नरं यश्च नराधमः ।
पृच्छते बोधयति वा स वै नरकगो भवेत् ॥३६॥ ध्यानभंगस्य दोषस्ते माऽस्तु बाले सुलक्षणे । मा कुरुष्व पुनस्त्वं
च कर्म चापल्यसंयुता ॥३७॥ किमर्थमागता बाले वद मां काममोहिते । निष्कामं गणपे संस्थं गच्छ वा यत्र ते
रुचिः ॥३८॥ वृंदोवाच । धर्मध्वजस्य पुत्रीं मां विद्धि नानातपोयुताम् । वरो मम भव स्वामिन् भर्ता त्वं सर्वनायक
॥३९॥ सर्वासां त्वं विशेषेण भर्ताऽस्यत्र न संशयः । तथापि मां भजस्व त्वं भजमानां गजानन ॥४०॥ तस्यास्तद्वचनं
श्रुत्वा प्रहस्य गणनायकः । उवाच कामबाणैस्तामर्दितां शांतिधारकः ॥४१॥ श्रीमहागणपतिरुवाच । नाहं वृणोमि धर्मज्ञे स्त्रियं
मोहयुतां कदा । तपसा त्वं वरं तुल्यं सुतुष्टं वरयस्व च ॥४२॥ सकामं पुरुषं पश्य सकामा त्वं नृपात्मजे । अहं
गणेश्वरस्यैव दासो देवं भजामि तम् ॥४३॥ वृणोमि नैव निष्कामः सकामां देवि निश्चितम् । शांतिस्था मे भवेत् पत्नी
गच्छातो यत्र ते समः ॥४४॥ तस्य तद्वचनं श्रुत्वा पुनः सा तमुवाच ह । अहं शांतिसमायुक्ता मां भजस्व दयानिधे
॥४५॥ तिरस्कृता गणेशेन निर्लज्जे गच्छ पुंश्चलि । तथाऽपि तं हठाद्देवी चालिलिंग सुविह्वला ॥४६॥ अंशुकं गणनाथस्या-
कृष्य तं काममोहिता । नग्नं कर्तुं समुद्युक्ता क्रुद्धस्तां स शशाप ह ॥४७॥ दैत्यग्रस्ता सुदुर्बुद्धे भविष्यसि न संशयः ।
असुरीव स्पृशसि च मां दुष्टे हठसंयुता ॥४८॥ मूढेव मां समाकृष्य नग्नं कर्तुं समुद्यता । अतो वृक्षस्वरूपा त्वं मूढयोनौ

पृष्ठ 606
स्थायी लिंक
पृष्ठ 606 स्कैन

खं. ५ अ. ३२ पान ७७
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
पतिष्यसि ॥४९॥ गणेशवचनं श्रुत्वा दारुणं भयसंयुता । त्यक्त्वा तं कंपमानांगी ननाम रुदती भृशम् ॥५०॥ उवाच
तं गणाधीशं मां क्षमस्व महांगसाम् । न योग्याऽहं गणाधीश तव वामांगके कदा ॥५१॥ कंपंतीं रुदतीं वीक्ष्य दयायुक्तो
गजाननः । जगाद तां प्रजानाथ परां ज्ञात्वा तपोधुताम् ॥५२॥ श्रीमद्गणपतिरुवाच । गच्छ देवि न ते दुःखं भविष्यति कदा-
चन । असुरेण वने दृष्टा तत्र सक्ता भविष्यसि ॥५३॥ तत्र त्वां केशवः कापि शंखचूडस्वरूपधृक् । यप्स्यते स तदा दैत्यः
शंभुहस्तान् मरिष्यति ॥५४॥ ज्ञात्वा तं देहसंत्यागं करिष्यसि हुताशने । पुर्नवृक्षस्वरूपस्था भविष्यसि न संशयः ॥५५॥
त्वया शप्तो महाविष्णुः शिलारूपधरो भवेत् । तेन सार्धं सदा देवि रंस्यसे त्वं निरंतरम् ॥५६॥ पतिस्ते भविता विष्णुः
सदा सुखप्रदायकः । मदीयकृपया देवि सर्वमान्या भविष्यसि ॥५७॥ देवानां पत्रपुष्पैस्त्वं प्रियाऽत्यंतं भविष्यसि ।
त्वत्काष्ठसंभवां मालां धरिष्यंति गले जनाः ॥५८॥ त्वामन्यकाष्ठवत् सर्वे मानयिष्यंति निश्चितम् । त्रिलोकस्था जना
नैव मा चिंतां कुरु भामिनि ॥५९॥ देवानां त्वं प्रिया भूया विष्णोरत्यंतभावतः । पत्रैः पुष्पैश्च वृंदे त्वां पूजयिष्यंति
मानवाः ॥ ६० ॥ मम वर्ज्या सदा देवि भविष्यसि न संशयः । गच्छ त्वं यत्र भावस्ते चिंतां त्यक्त्वा विशेषतः ॥६१॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते तुलसीवर्जनकारणं नामैकत्रिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यथा गजाननः प्राह तथा जातं प्रजापते । वृंदा तं प्रणिपत्यैव तपसे वनमाययौ ॥१॥
चिंताक्रान्ता स्वयं देवी गणेशे भावलालसा । गणेशं मनसि ध्यात्वा तताप तप उत्तमम् ॥२॥ नाममंत्रं जजापैव
पूजयामास सादरम् । एवं लक्षं च लक्षार्धं वर्षाणि प्रगतानि च ॥३॥ ततस्तां गणराजस्तु वरदः सहसाऽऽययौ । प्रणम्य
तं प्रपूज्यैव वृंदा तुष्टाव हर्षिता ॥४॥ वृंदोवाच । नमस्ते विघ्नराजाय भक्तविघ्नहराय च । अभक्तेभ्यो विशेषेण विघ्नदाय
नमो नमः ॥५॥ परेशांय पराणां ते परात्परतराय च । भक्तेशाय सदा भक्तिप्रियाय ते नमो नमः ॥६॥ ब्रह्मेशाय
गणाधीश ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणां पतये तुभ्यं गणाधिपतये नमः ॥७॥ अमेयायाप्रतर्क्याय सदा स्वानंदवासिने ।
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ

पृष्ठ 607
स्थायी लिंक
पृष्ठ 607 स्कैन

शिवविष्णुमुखेभ्यश्च पददात्रे नमो नमः ॥८॥ अनाथाय च सर्वेषां नाथाय परमात्मने । वक्रतुंडाय सर्वेषामादिपूज्याय
ते नमः ॥९॥ विनायकाय वीराय शूर्पकर्णाय ढुंढये । गजाननाय चिंतामणये हेरंब ते नमः ॥१०॥ अनंतगुणधाराय
नानाखेलकराय ते । परेषां तु परेशाय मूषकध्वजिने नमः ॥११॥ पूर्णानंदाय सर्वेषां मात्रे पित्रे नमो नमः । ज्येष्ठेभ्यो
ज्येष्ठराजाय ज्येष्ठपदप्रदायिने ॥१२॥ किं स्तौमि त्वां गणाधीश योगाकारं परात्परम् । अतस्त्वां प्रणमाम्येवं तेन तुष्टो
भव प्रभो ॥१३॥ गाणेशं देहि मे योगं गाणपत्यां च मां कुरु । क्षमस्व मेऽपराधं त्वं त्वदुल्लंघनभावजम् ॥ १४ ॥
अन्यत्त्वं मां गणाधीश मान्यां कुरु त्वदीयके । पूजने किंचिदल्पेन भावेन वरदायक ॥१५॥ काऽहं ते समतां नाथ
संप्राप्नोमि कदापि न । तथा तपोमदेनैतत् कृतं क्षंतुं त्वमर्हसि ॥१६॥ एवं स्तुत्वा गणाधीशं प्रणनाम प्रजापते । वृंदा
तां प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥१७॥ श्रीगणेश उवाच । मदीयं योगमाद्यं त्वं प्राप्स्यसे नात्र संशयः । गाणपत्या
महाभागे भविष्यसि सदा सुते ॥१८॥ भाद्रशुक्लचतुर्थ्यां ये महोत्सवपरायणाः । पूजयिष्यंति मां भक्त्या तत्र त्वां
धारयाम्यहम् ॥१९॥ एकविंशतिपत्राणि ह्यर्पयिष्यंति मानवाः । तत्र ते पत्रमेकं मे मान्यं देवि भविष्यति ॥२०॥
उल्लंघनसमं पापं न भूतं न भविष्यति । स्वल्पोलंघनमात्रेण त्वं त्यक्ता च मया सदा ॥२१॥ ये मामुलंघयिष्यंति
तांस्त्यजामि निरंतरम् । तत्रापि तपसा बद्धो वृंदे त्वां मानयाम्यहम् ॥२२॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
ब्रह्मभूयप्रदं पूर्णं पठते शृण्वते सदा ॥२३॥ तुलसीं ये नरा मह्यमर्पयंति कदा सुते । तत्पापहरं स्तोत्रं भविष्यति कृतं
त्वया ॥२४॥ उल्लंघनाद्यहं नित्यं भविष्यति विशेषतः । अनेन स्तुवतां नित्यं न सर्वं दुर्लभं भवेत् ॥२५॥ एवमुक्त्वा
गणाधीशोऽंतर्धानमगमत् स्वयम् । तुलसी हर्षसंयुक्ता बभूवे च प्रजापते ॥२६॥ तदादि सा महाभागा बभूव विगतज्वरा ।
क्रमेण तुलसी जाता विष्णुपत्नी सुपूजिता ॥२७॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खंडे लंबोदरचरिते तुलसीवरप्रदानं नाम द्वात्रिंशत्तमोऽध्यायः ॥

पृष्ठ 608
स्थायी लिंक
पृष्ठ 608 स्कैन

शीर्षक (Header):
खं ५ अ. ३३ | पान ७९


॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । अज्ञानेन महायोगिन् ज्ञानेन तुलसीयुतम् । पूजनं गणनाथस्य कृतं तस्य फलं वद ॥१॥
श्रुत्वा कथामृतं त्वत्तो न तृप्तोऽहं भवामि भोः । अहो गणेशभक्तिर्वै दुर्लभा नात्र संशयः ॥२॥ मुद्गल उवाच । अत्र ते
कथयिष्यामि इतिहासं पुरा भवम् । श्रवणात् संशयः सर्वो नाशं यास्यति तत्त्वतः ॥३॥ ब्राह्मणः कोऽपि दुर्बुद्धिर्बभूवे
काश्यपे कुले । स तु नित्यं गणपतिं तुलस्याऽपूजयद्दृढात् ॥४॥ अन्ये तत्र द्विजास्तं वै वारयंतो विशेषतः । न वाक्यं
जगृहे तेषां ज्ञानं बौद्धं खलोऽब्रवीत् ॥५॥ गणेशः सर्वरूपश्चैत् कुतस्तत्र प्रवर्तते । विधिनिषेधकार्यं हि मा वदेत
क्रियात्मकाः ॥६॥ ततः सर्वे भयोद्विग्ना बभूवुस्ते द्विजोत्तमाः । परस्परं समूचुर्वै गाणपत्याः प्रजापते ॥७॥ अहो गणेश्र्वरे
देहे तुलसी मस्तकेऽथवा । दृष्टा सद्यश्च निष्कास्या गाणपत्यैर्विशेषतः ॥८॥ अन्यैरपि न संदेहो नो चेन्नरकगामिनः ।
उपानदादिसंयुक्तैरशुचिभिस्तदप्यहो ॥९॥ तत्र विलंबभावेन पापभागी नरो भवेत् । किं कर्तव्यं द्विजैरन्यैर्दुष्टोऽयं
कथ्यतां द्विजाः ॥१०॥ यथा वज्रेण पीडां तु बुभुजुः पर्वतादयः । तथा विघ्नेश्वरः साक्षात्तुलस्या पीडितो भवेत् ॥११॥
ततः सर्वैर्विनिश्चित्य स गाणेशालयात्तदा । बहिष्कृतो महापापी स्वगृहे तादृशो रतः ॥१२॥ ततः स्वल्पेन कालेन ममार
काश्यपाधमः । नरकेषु च तं यामाः पातयामासुरंजसा ॥१३॥ एककल्पसमं कालं नरकेषु स्थितोऽभवत् । क्रमेण सकलान्
भुक्त्वा राक्षसोऽभूत् सुदारुणः ॥१४॥ सदा क्षुधा समाविष्टो दाहरोगादिसंयुतः । अशक्तः सर्वकार्येषु वनेषु विचचार
ह ॥१५॥ एकदा तत्र गार्ग्यश्च समायातो निजेच्छया । गणेशभक्तमुख्यः स महायोगी प्रजापते ॥१६॥ तं दृष्ट्वा राक्षसो
दुष्टो भक्षितुं च समाययौ । गार्ग्यो गणेशमंत्रेण मंत्रितं जलमाक्षिपत् ॥१७॥ जलस्पर्शजपुण्येन गार्ग्यदर्शनजेन सः ।
धर्मधृक् राक्षसो जातिस्मरस्तत्र बभूव ह ॥ १८ ॥ ततोऽतिखेदसंयुक्तः स रुरोद प्रणम्य तम् । जगाद प्रांजलिं बद्ध्वा
हाहाकाररवाऽऽकुलः ॥१९॥ धर्मधृगुवाच । रक्ष मां मुनिशार्दूल गाणपत्य महायशाः । त्वत्पादप्रवणं गार्ग्य मोचयाशु
भवार्णवात् ॥२०॥ ततः स सर्ववृत्तांतं कथयामास राक्षसः । पूर्वजन्मभवं तस्मै गार्ग्याय भयसंकुलः ॥२१॥ त्वदीय-
दर्शनेनैव मंत्रितेन जलेन च । जातिस्मरत्वमापन्नो दुःखं ते कथयाम्यहम् ॥२२॥ श्रुत्वा शरणंगं वीक्ष्य दयायुक्तो
महामुनिः । गणेशनाममंत्रं स ददौ तस्मै हितावहम् ॥२३॥ जगाद तं महायोगी जप त्वं नाममंत्रकम् । नित्यं तथा तुलस्या
वै कृतं स्तोत्रं पठस्व च ॥२४॥ एवमुक्त्वाऽंतर्दधेऽसौ गार्ग्यः परमपावनः । दुष्टो नित्यं तथा चक्रे दुःखं दृष्ट्वा भयाकुलः ॥२५॥

पृष्ठ 609
स्थायी लिंक
पृष्ठ 609 स्कैन

पान ८०
ततः क्षुधा सुशांता वै बभूवे तस्य दुर्मतेः। रोगहीनः सशक्तश्च गाणपत्यप्रियोऽभवत् ॥२६॥ अंते गणेश्वरं सोऽपि
जगाम दुःखवर्जितः। तत्र योगस्वभावेनाऽभजद्विघ्नेश्वरं विधे ॥२७॥ एतत्ते कथितं सर्वं संक्षेपेण चरित्रकम्। तुलसी-
वर्जने भूतं सर्वसंशयनाशनम् ॥२८॥ तुलसीं गणनाधाय समर्पयति यो नरः। स चांडालो न संदेहो नारकीभूमि-
संस्थितः ॥२९॥ वंशहानिर्भवेत्तस्य लक्ष्मीनारास्तथा विधे। रोगाद्यैः पीडितोऽत्यंतमंते नरकगो भवेत् ॥३०॥ तस्य स्पर्शं
न कुर्यात् कः कृत्वा स्नानं समाचरेत्। सचैलस्नानहीनश्चेत् ज्ञात्वा पापी सदा भवेत् ॥३१॥ नाम तस्य प्रजानाथ न ग्राह्यं
पापदायकम्। बहुनाऽत्र किमुक्तेन पापरूपः स वै स्मृतः ॥३२॥ इदं ते कथितं सर्वं पृच्छते च यथातथम्। श्रोतुमिच्छसि
किं भूयश्चरित्रं वद सांप्रतम् ॥३३॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते तुलसीसमर्पणवर्जनवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच। वद पूजां विधियुतां गणेशस्य सविस्तराम्। मानसीं बाह्यरूपं च सर्वसिद्धिप्रदा-
यिनीम् ॥१॥ गणेशलोकगं सर्वं माहात्म्यं कथयस्व मे। कीदृशोऽयं निजो लोको मुने केनैव लभ्यते ॥२॥ मुद्गल उवाच।
अत्र ते कथयिष्यामि पुरातनभवं शुभम्। इतिहास महाभाग सर्वसिद्धिप्रदायकम् ॥३॥ पुरा ते कथितं स्थानं गणेशस्य
महात्मनः। कार्तिकेयवराजातं लक्षवैनायकात्मकम् ॥४॥ तत्र राजा बभूवाऽपि सर्वशास्त्रविशारदः। ऐलः शस्त्रास्त्र-
तत्त्वज्ञो धर्मशीलश्च सत्यवाक् ॥५॥ सदा गणेशभक्तश्चाभजद्विघ्नेश्वरं सदा। सार्वभौमः सुविख्यातो गाणपत्यप्रियो-
ऽभवत् ॥६॥ तत्राऽऽजगाम गाणेशो गार्ग्यः सर्वार्थकोविदः। तं प्रणम्य प्रपूज्यैव पप्रच्छैलो महायशाः ॥७॥ ऐल उवाच।
स्वामिंस्त्वं गणराजस्य भक्तस्तादृशयोगधृक्। साक्षाद्गणपतिः किं वा त्वमेवात्र न संशयः ॥८॥ मयूरेशावतारे त्वं
मयूरेशसमन्वितः। स्थितस्तत्र त्वया विप्र मयूरेशो निरीक्षितः ॥९॥ धन्यस्त्वं योगिनां मध्ये प्रत्यक्षं गणनायकम्।
मित्रं कृत्वा सुहर्षेणाऽहो तिष्ठसि विशेषतः ॥१०॥ मयूरेशस्य विप्रेज्ञाज्ञया योगविदांवर। भाष्यं कृतं गणेशस्य गीतायाः

पृष्ठ 610 स्कैन

खं. ५ अ. ३४ पान ८१

शांतिदं परम् ॥११॥ त्वदीयभाष्ययोगेन गीताज्ञा ब्राह्मणादयः । बभूवुर्गाणपत्याश्च त्वच्छिष्यास्ते मता मुने ॥१२॥
यादृशं गणनाथेन कथितं तादृशं प्रभो । त्वया ज्ञातं न संदेहो गणेशस्त्वमतो मतः ॥१३॥ गणेशगीताहार्दं यद्गणेशश्च
वरेण्यकः । त्वं त्रयः संमताः शास्त्रे जानते पूर्णयोगतः ॥१४॥ धन्येन येन भाग्येन दृष्टं ते पादपंकजम् । विद्याव्रत-
तपोदानं पितरौ कुलमेव मे ॥१५॥ यशो राज्यादिकं सर्वं धन्यं ते पाददर्शनात् । न ह्यल्पपुण्ययोगेन

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 611 स्कैन

यहाँ पृष्ठ का मूल देवनागरी पाठ पंक्ति-दर-पंक्ति दिया गया है:

[शीर्षक] खं. ५ अ. ३४ | पान ८२
पूजितोऽभवत् । सहस्रभगनाशार्थं स देवो वरदोऽभवत् ॥३६॥ गणेशवरदानेन महेंद्रस्तेजसा युतः । योगयुक्तोऽपालयत
त्रैलोक्यं सचराचरम् ॥३७॥ तत्र तीर्थं सुविख्यातं गणेशपदलाञ्छितम् । चिंतामणिर्गणेशश्च तेन संस्थापितोऽभवत् ॥३८॥
तत्र गत्वा महीपाल कुरु स्नानं च तत्क्षणात् । कुष्ठहीनः सुवर्णस्त्वं भविष्यसि न संशयः ॥३९॥ तत्र तीर्थप्रभावेण
कुष्ठरोगविवर्जिताः । भवंति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 612 स्कैन

॥ श्रीगणेशाय नमः॥ गार्ग्य उवाच। मुकुन्दा कामदग्धा सा पपात धरणीतले। न किंचित् सुखदं तस्या बभूव पृथिवीतले ॥१॥
ततोऽतिशोकसंयुक्ता तमेवाचिंत्य संस्थिता। निद्रां लेभे ततस्तां सोऽबोधयद्देवनायकः ॥२॥ तस्याः शान्तिप्रदानार्थं
स्वयं तत्राजगाम ह। रुक्मांगदस्वरूपी स बुभुजे तां सुराधिपः ॥३॥ सा हर्षिता जगामैव स्वगृहं गर्भसंस्थिता। इंद्रः
स्वर्गं ययौ भूप हर्षयुक्तो विहायसा ॥४॥ वाचक्रविः समायातः कृत्वा नित्यक्रियां मुनिः। न बुबोध

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 613 स्कैन

पान ८४
भिषिंचन् मंडले स्थितम् । जपं चकार भावेन ब्राह्मणत्वस्य कारणात् ॥२६॥ ऐल उवाच । ब्रह्मणस्पतिसूक्तानां मंडलं कीदृशं
स्मृतम् । फलं च कीदृशं तत्र लभते मानवः प्रभो ॥२७॥ कथयस्व विधानेन सर्वज्ञोऽसि दयानिधे । येन विघ्नेश्वरः प्रीतो
भवेत् सर्वार्थदायकः ॥२८॥ गार्ग्य उवाच । ब्रह्मणस्पतिसूक्तानां विधिं शृणु महामते । यथा गृत्समदः सिद्धो बभूवे तस्य
सेवनात् ॥२९॥ गणानां त्वेति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 614 स्कैन

खं. ५ अ ३६
पान ८५

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । नमस्ते ब्रह्मणां नाथ ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणस्पतये तुभ्यं गणेशाय नमो
नमः ॥१॥ ज्येष्ठराजाय ज्येष्ठानां ज्येष्ठपदप्रदायिने । ज्येष्ठानां ज्येष्ठरूपाय सर्वपूज्याय ते नमः ॥२॥ कर्तॄणां कर्तृरूपाय
कवये कविनायक । कर्तृभ्यः कर्तृदात्रे वै कविराजाय ते नमः ॥३॥ जगत्सु ब्रह्मसु प्राज्ञ नानाभोगकराय ते । उपमान्न-
प्रभोक्त्रे तु ब्रह्मभोक्त्रे नमो नमः ॥४॥ सदा मोहयुतायैव मोहमोहकराय ते । जीवाय

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें