सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 606, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 606

खं. ५ अ. ३२ पान ७७
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
पतिष्यसि ॥४९॥ गणेशवचनं श्रुत्वा दारुणं भयसंयुता । त्यक्त्वा तं कंपमानांगी ननाम रुदती भृशम् ॥५०॥ उवाच
तं गणाधीशं मां क्षमस्व महांगसाम् । न योग्याऽहं गणाधीश तव वामांगके कदा ॥५१॥ कंपंतीं रुदतीं वीक्ष्य दयायुक्तो
गजाननः । जगाद तां प्रजानाथ परां ज्ञात्वा तपोधुताम् ॥५२॥ श्रीमद्गणपतिरुवाच । गच्छ देवि न ते दुःखं भविष्यति कदा-
चन । असुरेण वने दृष्टा तत्र सक्ता भविष्यसि ॥५३॥ तत्र त्वां केशवः कापि शंखचूडस्वरूपधृक् । यप्स्यते स तदा दैत्यः
शंभुहस्तान् मरिष्यति ॥५४॥ ज्ञात्वा तं देहसंत्यागं करिष्यसि हुताशने । पुर्नवृक्षस्वरूपस्था भविष्यसि न संशयः ॥५५॥
त्वया शप्तो महाविष्णुः शिलारूपधरो भवेत् । तेन सार्धं सदा देवि रंस्यसे त्वं निरंतरम् ॥५६॥ पतिस्ते भविता विष्णुः
सदा सुखप्रदायकः । मदीयकृपया देवि सर्वमान्या भविष्यसि ॥५७॥ देवानां पत्रपुष्पैस्त्वं प्रियाऽत्यंतं भविष्यसि ।
त्वत्काष्ठसंभवां मालां धरिष्यंति गले जनाः ॥५८॥ त्वामन्यकाष्ठवत् सर्वे मानयिष्यंति निश्चितम् । त्रिलोकस्था जना
नैव मा चिंतां कुरु भामिनि ॥५९॥ देवानां त्वं प्रिया भूया विष्णोरत्यंतभावतः । पत्रैः पुष्पैश्च वृंदे त्वां पूजयिष्यंति
मानवाः ॥ ६० ॥ मम वर्ज्या सदा देवि भविष्यसि न संशयः । गच्छ त्वं यत्र भावस्ते चिंतां त्यक्त्वा विशेषतः ॥६१॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते तुलसीवर्जनकारणं नामैकत्रिंशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । यथा गजाननः प्राह तथा जातं प्रजापते । वृंदा तं प्रणिपत्यैव तपसे वनमाययौ ॥१॥
चिंताक्रान्ता स्वयं देवी गणेशे भावलालसा । गणेशं मनसि ध्यात्वा तताप तप उत्तमम् ॥२॥ नाममंत्रं जजापैव
पूजयामास सादरम् । एवं लक्षं च लक्षार्धं वर्षाणि प्रगतानि च ॥३॥ ततस्तां गणराजस्तु वरदः सहसाऽऽययौ । प्रणम्य
तं प्रपूज्यैव वृंदा तुष्टाव हर्षिता ॥४॥ वृंदोवाच । नमस्ते विघ्नराजाय भक्तविघ्नहराय च । अभक्तेभ्यो विशेषेण विघ्नदाय
नमो नमः ॥५॥ परेशांय पराणां ते परात्परतराय च । भक्तेशाय सदा भक्तिप्रियाय ते नमो नमः ॥६॥ ब्रह्मेशाय
गणाधीश ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणां पतये तुभ्यं गणाधिपतये नमः ॥७॥ अमेयायाप्रतर्क्याय सदा स्वानंदवासिने ।
ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ