सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 613, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 613

पान ८४
भिषिंचन् मंडले स्थितम् । जपं चकार भावेन ब्राह्मणत्वस्य कारणात् ॥२६॥ ऐल उवाच । ब्रह्मणस्पतिसूक्तानां मंडलं कीदृशं
स्मृतम् । फलं च कीदृशं तत्र लभते मानवः प्रभो ॥२७॥ कथयस्व विधानेन सर्वज्ञोऽसि दयानिधे । येन विघ्नेश्वरः प्रीतो
भवेत् सर्वार्थदायकः ॥२८॥ गार्ग्य उवाच । ब्रह्मणस्पतिसूक्तानां विधिं शृणु महामते । यथा गृत्समदः सिद्धो बभूवे तस्य
सेवनात् ॥२९॥ गणानां त्वेति मंत्रेण षोडशांगेषु भूमिप । न्यासं कुर्यात्तथा पूज्याऽभिषेकं तु समाचरेत् ॥३०॥ एक-
विंशतिभिर्भूपा वृत्तिभिरेकविंशतिः । समाख्याता च सूक्तानामभिषेके तथा जपे ॥३१॥ एतादृशाश्च राजेंद्र भवन्त्येकाधिका-
स्ततः । विंशत्यो मंडलं ह्येकं ज्ञातव्यं विबुधैः परम् ॥३२॥ मंडलानि महाभाग एकविंशन्मितानि च । भवंति चेत्
समाख्यातं महामंडलकं बुधैः ॥३३॥ अभिषेके समाख्यातं जपे वा राजसत्तम । सर्वसिद्धिप्रदं पूर्णं महामंडलकं सुरैः ॥३४॥
धर्मार्थकाममोक्षेषु प्रशस्तं कर्म सिद्धिदम् । गणेशप्रीतये भक्त्या ब्रह्मभूतकरं भवेत् ॥३५॥ ब्राह्मणत्वस्य कार्यार्थ कृतं तेन
महात्मना । गृत्समदेन सूक्तानां महामंडलकं नृप ॥३६॥ एतत्ते कथितं भूपाधुना शृणु कथानकम् । विघ्नेशप्रापकं
गृत्समदस्य दुरितापहम् ॥३७॥ स्वयं गृत्समदस्तत्र नित्यं कृत्वा यथाविधि । गणानां त्वेति मंत्रेण पुपूज विघ्ननायकम् ॥३८॥
एकविंशतिमेकां स नित्यं चकार भूमिप । अभिषेकार्थमेवं तु ततो जपपरोऽभवत् ॥३९॥ गणानां त्वेति मंत्रस्य जपं
चकार नित्यदा । शतानि ध्याननिष्ठः स सैकविंशतिकानि तु ॥४०॥ नासाग्रन्यस्तदृष्टिश्च सदा यत्नपरायणः । महोग्रतपसा
देवं तोषयामास विघ्नपम् ॥४१॥ एवं वर्षसहस्रैस्तु दिव्यैर्विघ्नेश्वरो ययौ । मुनिं तं भक्तवात्सल्यादुवाच ध्यानसंस्थितम् ॥४२॥
श्रीगणेश उवाच । पश्य मां मुनिशार्दूल ब्रह्मणस्पतिमागतम् । वरयस्व वरान् मत्तो दास्यामि तुभ्यमादरात् ॥४३॥ गणेश-
वचनं श्रुत्वा गृत्समदः सुहर्षितः । उन्मील्य लोचने ढुंढिमपश्यन्निकटे स्थितम् ॥४४॥ ततोऽतिहर्षसंयुक्तः प्रणनाम
विनायकम् । भक्त्या संपूज्य तुष्टाव साश्रुनेत्रो नराधिप ॥४५॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते गृत्समदगणेशसमागमो नाम पंचत्रिंशत्तमोऽध्यायः ॥