सामग्री पर जाएँ
सर्वकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 603, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 603
पृष्ठ 603 स्कैन

मत आत्मनिवेदकः ॥१९०॥ मनोगतिः प्राज्ञ यत्र तत्र विघ्नेश्वरं सदा । भजते रससंयुक्तः स वै भक्तः प्रकीर्तितः ॥१९१॥
रसरूपा स्वयं भक्तिर्यत्र पूर्णस्वभावतः । यस्य तिष्ठति जंतुः स तद्भक्तः संमतो नृप ॥१९२॥ भोगेषु न रसोत्पत्तिर्मुक्तौ
च ब्रह्मभूयके । गणेशभक्तिभावेन भक्तस्यैवावतिष्ठति ॥९३॥ आदौ ते कथितं राजन् गणेशस्य स्वरूपकम् ।
ब्रह्माकारैर्महाचिह्नैः संयुक्तं योगदायकम् ॥९४॥ तत्र विश्वासभावेन तादृगुत्पद्यते रसः । तदा भक्तो महाराज भवते
योगिवंद्यकः ॥९५॥ नारदेनैव राजेंद्र बोधितस्त्वं न बुद्ध्यसे । तव भावपरीक्षार्थं भक्तिदानार्थमंजसा ॥९६॥ प्रेषितस्तेन
विघ्नेशो वृद्धः कुष्ठयुतो द्विजः । समायातः सर्वभक्षी छलथामास साधुपम् ॥९७॥ नरदेहं समासाद्य गणेशं भजेत न यः ।
पशुतुल्यः स राजेंद्र तस्य धिक् जन्म निश्चितम् ॥९८॥ मुद्गल उवाच । एवमुक्त्वा विदेहं तं जनकं योगिनो नव । अनुज्ञाप्य
ययुस्तस्मात् स्वेच्छया गणपे रताः ॥९९॥ जनकस्तानमस्कृत्य स्वगृहे गणनायके । योगी नवविधां भक्तिमकरोद्भाव-
संयुतः ॥२००॥ अहर्निशं गणेशानमभजन्नान्यचेतसा । जनकः सर्वभावेन योगिवंद्यो बभूव ह ॥१॥ तिष्ठन् स्वपन् पिबन्
वाऽदन् गच्छन् विघ्नेश्वरे रतः । अतो गणेशसंतुष्ट्या तद्वंशे जनका बभुः ॥२॥ सर्वज्ञानसमायुक्ताः सर्वे साधुगुणान्विताः ।
गणेशभजने सक्ता बभूवुश्च प्रजापते ॥३॥ नवयोगिषु यातेषु जनकस्त्रिशिरोभवम् । वृत्तांतं परिशुश्राव गणेश-
गमनात्मकम् ॥४॥ स्वयं तस्य गृहं गत्वा ननाम मुनिपुंगवम् । दैवीसंवृद्धिसंयुक्तं योगपारंगतं परम् ॥५॥ तेन संबो-
धितो राजा नित्यं दूर्वापरायणः । पुपूज गणनांथं तं सदा भक्तिसमन्वितः ॥६॥ दूर्वाहीनां न पूजां स चकार मरणावधि ।
अंते स्वानंदगो भूत्वा भजते गणनायकम् ॥७॥ इदं जनकमाहात्म्यं कथितं ते प्रजापते । भुक्तिमुक्तिप्रदं नृभ्यः
श्रवणात् पठनाद्भवेत् ॥२०८॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पंचमे खण्डे लंबोदरचरिते दूर्वामाहात्म्यवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥