हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 403, कुल 742 में से
संदर्भ में पढ़ें३८४ पालकाप्यमुनिविरचितो— [३शल्यस्थाने-
स्नेहपानं च सेकं च सर्पिः स्निग्धं च भोजनम् ॥
नित्यमेव हितं तस्य कारयेत्स सुखी भवेत् ॥ ३५ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने षड-
त्ययोपचारो नाम चतुर्थोऽध्यायः ॥ ४ ॥
———
अथ पञ्चमोऽध्यायः ।
———
अथ भगवन्तं पालकाप्यं रोमपादः पुनरेवापृच्छत्—'भगवन्निरवशेषा-
णामामन्तुकानां लक्षणमभिहितम्, ये त्विमे व्रणा आसन्नप्रत्ययाः, तेषां प्रयोग-
सामर्थ्यं योनिदोषं पृथक्त्वेनाऽऽकृतिविशेषानुपक्रमविशेषांश्च (?) कति च व्रणो-
पक्रमाः, किं साध्यासाध्यलक्षणम्, अन्वयप्रकृतिसात्म्यम्, इत्येतद्यथोपदिष्यमा-
नमिच्छामि वेदितुम्' इति ॥
एवं महर्षिभिरभिहितः, शुश्रूषा च (?) रोमपादाय संस्कृतपदविचित्रं हेतूप-
नयननिगमयुक्तमुवाच वाक्यम्—'वत्स, एतेषु चतुर्षु कर्मस्कन्धेषु द्विरदपतयो
व्याख्याताः । तेषां यथास्थानोपगतानां व्रणानां लक्षणविशेषमनुव्याख्या-
स्यामः । तद्यथा—अल्पवयसः कवलकुवलभोजना महान्तमध्वानं च यदा
वाह्यन्ते (*दिवसकरकराभिसंतप्तशरीरा बह्वपगूढैरिव च पवनबलप्रवेगैरभिह-
न्यमानाः क्षितितलमभिपतन्ति पांशुप्रमाथान्निषेवमाणाश्च न सलिलमवगा-
हन्ते ।) शुष्कोष्ठकण्ठवदनाः केचित्, केचित्सुदूराध्वानमुपगताः पांशुकर्द-
मशैवालपर्णकर्दमजुष्टं सलिलमुपसेवन्ते । तेषां वायुरतिबलः खरपरुषः शीतो
ध्मानात्मकः संघातवियोगकारी प्रकोपमुपगच्छति द्विरदपतीनां देहेषु । तेषां
त्वक्चरणहस्तकुक्षिवदननखकर्णेष्वेवमादिषु चाङ्गप्रदेशेषु व्रणाः संभवन्ति खराः
स्फोटवन्तः परुषाः फेनानुविद्धाः पिच्छिलाः स्राविणः प्रायशश्च गम्भीरा-
नुगतभावा भवन्ति, अस्थिविवरभागाश्रयाश्च मांसमभि विगाहन्ते, तद्वातव्रण-
लक्षणं भवति ॥
अथ सलिलधरविसर्गकाले वीरुद्वनस्पतिवानस्पत्यानामौषधीनामुपर्यात-
त्कीर्यत्वादम्लरसभूयिष्ठत्वंम(मु)पगतानां सेवनात्पित्तसंजननं भवति ।
भूयश्च शरदि दिवसकरकराभिहतदेहानां सुजातपवसकवलकुवलानां वीर्य-
- धनुश्चिह्नान्तरगतो नास्ति पाठः खपुस्तके ।
१ ख. रोमपादीयं । २ क. ०मिदुष्टं । ३ ख. ०नामप० । ४ क. ०त्वमग० ।
५ क. ०तबयसः क० ।