Skip to content
SarvaKosh
Back to the archive

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

by माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य)

DevanagariHindipublished232 pages

१. प्रथम अध्याय: पारद-प्रशंसा, अष्ट-संस्कार, मूच्छर्ना एवं शोधन-प्रक्रिया

Page 16Permalink

५
विषयः पृ. पं.
स्वर्णादीनां लोहत्वेन व्यव-
हारकथनं ... ११४ ११
लोहानां सामान्यशोधनं ,, १४
नागवङ्गयोर्विशेषशोधनं ११५ ६
सामान्यतःसर्वधातुमारणं ,, १३
स्वर्णमारणं ... ... ,, १८
स्वर्णभस्मपरीक्षा ... ११७ १४
स्वर्णद्रुतिः ... ... ,, १६
रूप्योत्पत्तिः ... ,, २१
रूप्यभेदाः, तल्लक्षणं च ११८ ४
रूप्यगुणाः ... ... ,, १३
अशुद्धरजतमारणे दोषाः ,, २५
रजतशोधनं ... ११९ २
रजतमारणं... ... ,, १२
रजतद्रुतिः ... १२० १७
ताम्रोत्पत्तिः ... ,, २१
ताम्रनामानि ... १२१ २
ताम्रलक्षणम् ... ,, ५
ताम्रदोषाः ... ... ,, १०
ताम्रशोधनं... ... ,, १७
ताम्रमारणं ... ... ,, २३
ताम्रभस्मलक्षणं ... १२४ १९
ताम्रगुणाः ... ... ,, २२
वङ्गनामलक्षणं ... १२५ ४
वङ्गगुणाः ... ... ,, १०
अशुद्धवङ्गदोषाः ... ,, २४
वङ्गमारणं ... ... १२६ २
यशदलक्षणगुणमारणानि १२९ ६
नागोत्पत्तिः ... ... ,, १४
नागनामानि... ... ,, १६
नागगुणाः ... ... ,, १८
अशुद्धनागदोषाः ... १३० ३
विषयः पृ. पं.
अपक्वनागदोषाः ... १३० ६
नागमारणं ... ... ,, ९
नागेश्वरः ... ... १३२ १४
लोहोत्पत्तिः ... ... १३३ १२
लोहनामानि ... ,, १५
लोहभेदाः, तल्लक्षणं च ,, १६
तीक्ष्णलोहलक्षणं ... १३४ ९
सारलोहगुणाः ... ,, १५
कान्तलोहलक्षणगुणाः ,, १९
लोहसामान्यगुणाः ... १३५ ४
लोहनैसर्गिकदोषाः ... ,, ९
अशुद्धलोहंगुणाः ... ,, १२
अपक्वलोहगुणाः ... ,, १५
लोहानुपानं ... ... ,, २४
लोहसेवनेऽपथ्यानि ... १३६ २
लोहोपद्रवचिकित्सा... ,, ५
लोहमारणं ... ... ,, १५
मृतामृतलोहपरीक्षा १४२ ४
मृतलोहस्यामृतीकरणं ,, १६
लोहद्रुतिः ... ... ,, २२
लोहकिट्टलक्षणं ... १४३ २
लोहकिट्टमारणं ... ,, २०
लोहकिट्टगुणाः ... ,, २४
द्वादशोऽध्यायः।
स्वर्णमाक्षिकनामभेदाः १४४ १२
स्वर्णमाक्षिकलक्षणम् ,, २५
स्वर्णमाक्षिकगुणाः ... १४५ ५
अशुद्धस्यामृतस्य च
माक्षिकस्य दोषाः ,, १०
स्वर्णमाक्षिकशोधनं.... ,, १४
माक्षिकमारणं ... .. ,, १९

Page 17Permalink

६
विषय: पृ. पं. | विषय: पृ. पं.
माक्षिकसत्त्वपातनं ... १४६ २ | अशुद्धशिलाजतुगुणा: १५८ ५
तारमाक्षिकलक्षणं ... ,, ५ | शिलाजतुशोधनं ... ,, ८
तारमाक्षिकशोधनं ... ,, १६ | शुद्धशिलाजतुपरीक्षा १५९ ८
तारमाक्षिकमारणम् ,, २० | शिलाजतुनामानि ... ,, १२
विमलालक्षणम् ... ,, २४ | शिलाजतोर्गुणोत्कर्षाय
विमलागुणा: ... ... १४८ ८ | भावनादानं ... ,, १९
विमलानुपानं ... ,, ११ | शिलाजतुमारणं ... १६० १२
माक्षीकलक्षणशोधन- | शिलाजतुसत्त्वाकृष्टि: ,, १५
मारणानि ... ,, १४ | कर्पूरशिलाजतुलक्षणं ,, १८
तुत्थोत्पत्तिलक्षणं ... १४९ १३ | कर्पूरशिलाजतुगुणा: ,, २१
तुत्थगुणा: ... ... ,, २२ | कर्पूरशिलाजतुशोधनं १६१ १
तुत्थशोधनं ... ... १५० २ | चपललक्षणभेदा: ... ,, ६
तुत्थमारणं ... ... ,, १२ | चपलगुणा:... ... ,, १७
तुत्थसत्त्वाकृष्टि: ... ,, १५ | त्रयोदशोऽध्यायः ।
भूनागलक्षणभेदा: ... ,, २१ | मणिगुणा: ... ... १६२ ४
भूनागसत्त्वाकृष्टि: ... १५१ ६ | रत्ननिरुक्ति: ... ... ,, ७
तुत्थसत्त्वभूनागसत्त्वयो- | रत्ननामानि ... ... ,, १०
र्मुद्रिकाकरणं ... ,, २२ | रत्नभेदा: ... ... ,, १३
कांस्यलक्षणगुणा: ... १५३ २० | हीरकादीनां नामानि १६३ ६
कांस्यगुणा: ... ... १५४ २ | हीरकोत्पत्ति: ... ,, १७
पित्तलनामलक्षणभेदा: ,, ८ | हीरकजातयस्तल्लक्षणानि च ,, १९
रीतिकागुणा: ... ,, २२ | हीरकोत्पत्तौ मतान्तरं १६४ १०
कांस्यपित्तलयोः शोधन- | अष्टप्रकारहीरकविज्ञान-
मारणं ... ... १५५ ५ | निरूपणं... ... १६५ ४
पञ्चलोहलक्षणं ... ,, २५ | हीरकभेदा:... ... ,, १२
पञ्चलोहनामानि ... १५६ २ | हीरकधारणगुणा:... ,, २३
पञ्चलोहशोधनमारणं ,, ४ | वज्रदोषा: ... ... १६६ ९
सिन्दूरनामलक्षणगुणा: ,, १२ | बिन्दुलक्षणं... ... ,, १०
सिन्दूरशोधनं ... ,, १८ | काकपदलक्षणं ... ,, १५
शिलाजतुभेदा: ... १५७ २ | यवलक्षणं ... ... ,, १८
शिलाजतुलक्षणं ... ,, ५ | मललक्षणं ... ... ,, २१
शिलाजतुगुणा: ... ,, २६ |

Page 18Permalink

७
विषयः पृ. पं. विषयः पृ. पं.
रेखालक्षणं ... ... १६६ २४ श्रेष्ठमाणिक्यलक्षणं ... १७८ २१
वज्रगुणाः ... ... १६७ ७ त्याज्यमाणिक्यलक्षणं ,, २३
वज्रखनिनिरूपणं ... ,, १२ गारुत्मतनामलक्षणगुणाः १७८ ६
मानपरिभाषा ,, २० वैदूर्यनामलक्षणगुणाः ,, १७
वज्रमौल्यनिरूपणं ... १६८ २ गोमेदनामलक्षणगुणाः १७९ ८
मौल्यप्रयोक्तृगुणाः ... १६९ ४ इन्द्रनीलनामलक्षणगुणाः ,, १९
मुद्रादौ वज्रविन्यासक्रमः ,, १५ पुष्परागनामलक्षणगुणाः १८० ६
वज्रपरीक्षाप्रकारः ... ,, २१ सर्वेरत्नानां समुचितं लक्षणं ,, १९
वज्रपरीक्षायां विचार- पञ्चरत्ननिरूपणं ... १८१ २
णीया विषयाः... १७० १ मणिनिरूपणं ... ,, ५
वज्रपरीक्षक मण्डली- वज्रव्यतिरिक्तानां मणीनामुत्पत्तिः,, ९
प्रवेशानर्हाः ... ,, १३ स्फटिकनामलक्षणगुणाः ,, १३
मौक्तिकभेदाः, तेषां सूर्यकान्तनामलक्षणगुणाः ,, २१
लक्षणानि च ... १७१ १ चन्द्रकान्तनामलक्षणगुणाः १८२ ३
मौक्तिकोत्पत्तिस्थानानि १७२ १२ राजावर्तनामलक्षणगुणाः ,, ११
मौक्तिकदोषास्तल्लक्ष- पेरोजनामलक्षणगुणाः ,, १७
णानि च... ... १७३ ७ उपरत्नानां शोधनमारणं ,, २३
मौक्तिकगुणास्तल्लक्ष- रत्नमारणे विचारः १८३ ११
णानि च ... ,, १७ वैक्रान्तोत्पत्तिनामगुणशोधन-
वज्रगुणाः ... ... १७४ ३ मारणानि ... ,, २३
वज्रदोषाः ... ... ,, ५ रत्नोपरत्नगुणाः ... १८४ १३
श्रेष्ठवज्रलक्षणम् ... ,, ८ मुद्रिकायां दिग्भेदेन रत्न-
अशुद्धवज्रदोषाः ... ,, २४ विन्यासक्रमः ,, २१
वज्रशोधनं ... ... १७५ ४ ग्रहप्रातिकूल्यनिवारणार्थं
वज्रमारणं ... ... ,, १९ रत्नानां धारणदानं १८६ ३
श्रेष्ठप्रवाललक्षणं ... १७६ १९ रत्नद्रुतीकरणं ... ,, १०
त्याज्यप्रवाललक्षणं ... ,, २१ सौराष्ट्रीसत्त्वपातनं ... ,, १६
प्रवालगुणाः ... ,, २५ सस्यकसत्त्वपातनं ... ,, २०
श्रेष्ठमौक्तिक लक्षणं ... १७७ ४ चतुर्दशोऽध्यायः ।
मौक्तिकगुणाः ... ,, १४ विषोत्पत्तिः ... ... १८७ ४
माणिक्यगुणाः ... ,, १९ विषभेदाः, तेषां लक्षणानि च ,,
विषगुणाः ... ... १९१ ४३

Page 19Permalink

विषयः पृ. पं. | विषयः पृ. पं.
विषशोधनं ... ... १९१ १८ | विषचिकित्सा ... १९५ १०
विषमारणं ... ... १९३ १ | विषहरा मन्त्राः ... १९६ ६
विषसेवनप्रकारः ... ,, ७ | उपविषनिरूपणं ... १९७ २४
विषानधिकारिणः ... ,, १८ | उपविषाणां शोधनविधिः १९८ ९
विषमात्राकथनं ... १९४ २ | विषतैलं ... ... १९९ ५
विषे पथ्यानि ... ,, १८ | विषवज्रपातरसः ... ,, १०
विषवेगाः, तेषां लक्षणा- | विषरोगे सुधानिधिरसः ,, १६
नि च ... ,, २३ | क्षारकल्पना... ... २०० ४

Page 20Permalink

/भू (यङ्-लुगन्त of भू: बोभोति / बोभवीति / बोभवीतु, imperative 3rd person singular!).
"आयुगं बोभवीतु" = let it repeatedly become/be until the end of the yuga (आ-युगं बोभवीतु)!
What should be "भस्मीकुर्वन्"?
"...श्रमोष्मा भस्मीकुर्वन्नायुगं बोभवीतु" = May the heat of my labor (अस्मदीयश्रमोष्मा) repeatedly burn to ashes (भस्मीकुर्वन्) their families/lineages (गोत्राण्येषां)!
AHA!!!!!
"गोत्राण्येषां मस्मदीयश्रमोष्मा भस्मीकुर्वन्नायुगं बोभवीतु"
OR
"गोत्राण्येषामस्मदीयश्रमोष्मा भस्मीकुर्वन्नायुगं बोभवीतु"!
Wait! "गोत्राण्येषां" + "अस्मदीयश्रमोष्मा"!
If "गोत्राण्येषां" + "अस्मदीयश्रमोष्मा", in sandhi:
गोत्राण्येषां + अस्मदीय... -> गोत्राण्येषामस्मदीयश्रमोष्मा!
Wait, but why does the print look like:
"गोत्राण्येपासमस्मदीय"?
Wait! Look at:
गोत्राण्ये (gotrāṇye)
षा (ṣā) -> wait, the letter is षा! But it has no

Page 21Permalink

२ आयुर्वेदिकग्रन्थमाला । [अध्यायः
यद्यन्मयाऽक्रियत कारयितुं च शक्यं
सूतेन्द्रकर्म तदिह प्रथयांबभूवे ।
अध्यापयन्ति य इदं न तु कारयन्ति
कुर्वन्ति नेदमधियन्त्युभये मृषार्थाः ॥ ८ ॥
संस्काराः शिवजनुषो बहुप्रकारा-
स्तुल्या ये लघुबहुप्रयाससाध्याः ।
यद्येकं सुकरमुदाहरामि तेषां
व्याहारैः किमिह फलं ततः परेषाम् ॥ ९ ॥
कर्म यद्यदसाध्यं स्याद्दुर्लभं यद्यदौषधम् ।
तत्तत्सर्वं परित्यज्य सारभूतं प्रकाशितम्¹ ॥ १० ॥
क्वचिच्छास्त्रे क्रिया नास्ति कर्मसंख्या² न च क्वचित् ।
रसयुक्तिः क्वचिन्नास्ति संप्रदायः क्वचिन्न च ॥ ११ ॥
अतः³ सिद्धिर्न सर्वत्र रसे वापि रसायने ।
वैद्यवादे प्रयोगे च तस्माद्यत्नो मया कृतः ॥ १२ ॥
यद्यद्गुरुमुखोद्गीतं⁴ स्वानुभूतं च यन्मया ।
तत्तल्लोकहितार्थाय वक्ष्याम्यनैतिविस्तरम्⁵ ॥ १३ ॥
यदन्यत्र तदत्रास्ति यदत्रास्ति न कुत्रचित्⁶ ।
मुक्त्वैकं रसवैद्यं तु लाभं पूजां च कीर्तनम् ।
तृणकाष्ठौषधैर्वैद्यः को लभेत वराटिकाम् ॥ १४ ॥
यावत्सूतॊ न शुद्धो नच मृत अथवा मूर्च्छितो गन्धबद्धो
नो वज्रं मारितं स्यान्न च गगनवधो नोपसूताश्च शुद्धाः ।
स्वर्णाद्यं सर्वलोहं विषमपि न मृतं तैलपाको न जात-
स्तावद्वैद्यः क सिद्धो भवति वसुभुजां मण्डले श्लाघनीयः ॥
१ 'समुद्धृतम्' क. । २ 'क्रमसंख्या' क. । ३ 'तेन सिद्धिर्न तत्रास्ति'
क. । ४ 'मुखात् ज्ञातं' क. । ५ 'प्रकटीक्रियतेऽधुना' क. । ६ 'तत् क्वचित्'
क. ।

Page 22Permalink

१. ] आयुर्वेदप्रकाशः । ३
अथ रसदोषाः ।
नागो वङ्गो मलो वह्निश्चापल्यं च विषं गिरिः ।
असह्याग्निर्महादोषा निसर्गात्पारदे स्थिताः ॥ १६ ॥
जाड्यगण्डौ तनौ नागात् कुष्ठं वङ्गाद्धुजो मलात् ।
दाहो वह्नेर्वीर्यनाशश्चापल्यान्मरणं विषात् ॥ १७ ॥
गिरेः स्फोटोऽप्यसहतादोषान्मोहोऽभिजायते ।
विषं वह्निर्मलश्चेति दोषा मुख्यतमास्त्रयः ॥ १८ ॥
रसे मरणसंतापमूर्च्छानां हेतवः क्रमात् ।
यौगिकौ नागवङ्गौ द्वौ तौ जाड्याध्मानकुष्ठदौ ॥१९॥
औपाधिकाः पुनश्चान्ये कीर्तिताः सप्त कञ्चुकाः ।
भूमिजो गिरिजो वारिजौ द्वौ च द्वौ नागवङ्गजौ ॥ २० ॥
द्वादशैते रसे दोषाः प्रोक्ता रसविशारदैः ।
भूमिजः कुरुते कुष्ठं गिरिजो जाड्यमेव च ॥ २१ ॥
वारिजो वातसंघातं दोषाढ्यौ नागवङ्गजौ ।
अतो दोषनिवृत्त्यर्थं रसः शोध्यः प्रयत्नतः ॥ २२ ॥
शोधितो रसराजस्तु सुधातुल्‍यफलप्रदः ।
दोषहीनो यदा सूतस्तदा मृत्युजरापहः ॥ २३ ॥
साक्षादमृतमप्येष दोषयुक्तो रसो विषम् ।
तस्माद्दोषनिवृत्त्यर्थं सहायैर्निपुणैर्भिषक् ॥ २४ ॥
सर्वोपस्करमादाय रसकर्म समाचरेत् ।
रसो ग्राह्यः शुभे काले पलानां शतमात्रकम् ॥ २५ ॥
पञ्चाशत्पञ्चविंशद्वा दश पञ्चैकमेव च ।
पलादूने न कर्तव्यो रसे संस्कार उत्तमः ॥ २६ ॥
बहुप्रयाससाध्यत्वात्फलं स्वल्पं यतो भवेत् ।
संपूज्य श्रीगुरुं कन्यां बटुकं च गणाधिपम् ॥ २७ ॥

Page 23Permalink

४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
योगिनीं क्षेत्रपालांश्च चतुर्धा बलिपूर्वकम् ।
ततो रहस्यनिलये सुमुहूर्ते विधोर्बले ॥ २८ ॥
सुदिने शुभनक्षत्रे रसशोधनमाचरेत् ।
अघोरेण च मन्त्रेण रसं प्रक्षाल्य पूज्य च ।
स्वेदनादिमुखान् पश्चात्संस्कारान् सम्यगाचरेत् ॥ २९ ॥
'अघोरेभ्योऽथ घोरेभ्य' इत्यादि वैदिको मन्त्रः ॥
खल्वो लोहमयः श्रेष्ठस्तस्माच्छ्रेष्ठस्तु सारजः ।
कान्तलोहभवस्तस्मात्, मर्दकश्च तथाविधः ॥ ३० ॥
अभावे लोहखल्वस्य स्निग्धपाषाणजः शुभः ।
तादृशस्वच्छमसृणमर्दकेन समन्वितः ॥ ३१ ॥
अष्टादशैव संस्कारा ऊनविंशतिकाः क्वचित् ।
संप्रोक्ता रसराजस्य वसुसंख्याः क्वचिन्मताः ॥ ३२ ॥
यथा—स्यात्स्वेदनं तदनु मर्दनमूर्च्छनं च
स्यादुत्थितः पतनरोधनियामनानि ।
संदीपनं गगनभक्षणमानमत्र
संचारणं तदनु गर्भंगता द्रुतिश्च ॥ ३३ ॥
बाह्या द्रुतिः सूतकजारणा स्याद्रागस्तथा सारणकर्म पश्चात् ।
संक्रामणं वेधविधिः शरीरयोगस्तथाऽष्टादशधाऽत्र कर्म ॥३४॥
रसपद्धत्यां—
स्वेदो मर्दनमूर्च्छनोत्थिति ततः पातोऽपि भेदान्वितो
रोधः संयमनं प्रदीपनमिति स्पष्टाऽष्टधा संस्कृतिः ।
अस्याः सर्वरसोपयोगिकतया त्वन्या न विन्यस्यते
ग्रन्थेऽस्मिन् प्रकृतोपयोगविरहाद्विस्तारभीत्याऽथवा ॥३५॥
वाग्भटोऽपि—
इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ।
शेषा द्रव्योपयोगित्वान्न ते वैद्योपयोगिनः ॥ ३६ ॥

Page 24Permalink

१. ] आयुर्वेदप्रकाशः । ५
अथोनविंशतिकर्माणि।
यथा—स्वेदनमर्द्दनमूर्च्छनोत्थापनपातनबोधननियमनसंदी-
पनानुवासनगगनादिग्रासप्रमाणचारणगर्भद्रुति-वाह्यद्रुति-योग-
जारणरञ्जनसारणक्रामणवेधनभक्षणाख्या ऊनविंशतिसंस्काराः
सूतसिद्धिदा भवन्ति; दीपमान्ता अष्टौ संस्कारा वा देहसि-
द्विदा भवन्ति ॥
अथ तेषु स्वेदनविधिः ।—
नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः ।
मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥ ३७ ॥
तन्मध्ये घनवाङ्गुण्डीविष्णुक्रान्तापुनर्नवाः ।
मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥ ३८ ॥
त्रिफला गिरिकर्णी च हंसपदी च चित्रकः ।
संमूलकाण्डं पिष्ट्वा तु यथालाभं विनिक्षिपेत् ॥ ३९ ॥
पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् ।
स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् ।
अत्यम्लमारनालं वा तदभावे प्रयोजयेत् ॥ ४० ॥
घनो मुस्ता, वाङ् ब्राह्मी, केचित् 'तन्मध्ये भङ्गुरामुण्डी'
इति पठन्ति, मुण्डी प्रसिद्धा, विष्णुक्रान्ता श्वेतपुष्पा अपरा-
जिता, पुनर्नवा गन्धपूर्णेति भाषा, मत्स्याक्षी मीनाक्षी
'मछेछी' इति भाषा, (हुँनगुंदा इत्यपि,) सर्पाक्षी सर्पनेत्रोपमा
'चुर्ची' इति भाषा, सहदेवी प्रसिद्धा, शतावरी शतावरीति
भाषा, त्रिफला प्रसिद्धा, गिरिकर्णी नीलपुष्पा अपराजितैव,
हंसपदी हंसचरणा, चित्रकः प्रसिद्धः । समूलकाण्डं मूल-
शाखं... ...शिखिलवणासुरिसंयुतैः ।
नष्टपिष्टं रस कृत्वा लेपयेदूर्ध्वभाण्डके ॥ ७५ ॥

Page 25Permalink

६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
त्र्यूषणं लवणं राजी लशुनं त्रिफलाऽऽर्द्रकम् ।
महाबला नागबला मेघनादः पुनर्नवा ॥ ४१ ॥
मेषशृङ्गी चित्रकञ्च नवसारः समं समम् ।
रसस्य षोडशांशेन सर्वं युञ्ज्यात् पृथक् पृथक् ॥ ४२ ॥
एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत् ।
प्रलिम्पेत्तेन कल्केन वस्त्रं चाङ्गुलिमात्रकम् ॥ ४३ ॥
तन्मध्ये निक्षिपेत्सूतं बद्ध्वा तत्रिदिनं पचेत् ।
दोलायन्त्रेऽम्लसंयुक्ते जायते स्वेदितो रसः ॥ ४४ ॥
मेघनादस्तण्डुलीयभेदः पत्रशाकविशेषः 'चवलाई' इति
भाषा, शृङ्गी मेषशृङ्गी तदलाभे कर्कटशृङ्गी ग्राह्या, नवसारो
नवसागरः क्षारविशेषः ॥
अथान्यत्सिद्धमतम् ।—
त्र्यूषणं लवणासुर्यौ चित्रकार्द्रकमूलकम् ।
पिष्ट्वा सूतो मुहुः स्वेद्यः काञ्जिकेन दिनत्रयम् ॥ ४५ ॥
त्र्यूषणं त्रिकटु, लवणं सैन्धवं, आसुरी राई, चित्रकः प्र-
सिद्धः, आर्द्रकं शृङ्गवेरं, मूलकं श्वेतमूलकः 'मुली' इति भाषा ।
पिष्ट्वा तत्कल्केन वस्त्रं लिप्त्वात्यादि पूर्ववत् । मुहुरिति प्रति-
दिनं कल्कावृत्तिरित्यर्थः ॥
अथान्यत्सिद्धमतम् ।—
दिनं व्योषवरावह्निकन्याकल्केषु काञ्जिके ।
रसं चतुर्गुणे वस्त्रे बद्ध्वा दोलाकृतं पचेत् ॥ ४६ ॥
व्योषं त्रिकटु, वरा त्रिफला, वह्निश्चित्रकः; कन्या 'कुवारी'
इति भाषा, तन्मध्यगर्भो ग्राह्यः ॥
इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ।
शेषा द्रव्योपयोगित्वान्न ते वैद्योपयोगिनः ॥ ३६ ॥

Page 26Permalink

१. ] आयुर्वेदप्रकाशः । ७
त्रिदिनं स्वेदनाशक्तौ दिनमेकं निरन्तरम् ।
स्वेदयेद्रसराजं तु नातितीक्ष्णेन वह्निना ॥ ४८ ॥
केचित्तु मर्दनपूर्वकं स्वेदनमिच्छन्ति, ते उपपत्तिज्ञान-
रहिताः, क्रमविरोधश्च तेषां (मते) दूषणम् ॥
अथ मर्दनम् ।
भिषग्विमर्दयेच्चूर्णैर्मिलित्वा षोडशांशतः ।
सूतस्य गालितैर्वस्त्रैर्वक्ष्यमाणद्रवादिभिः ॥ ४९ ॥
गृहधूमेष्टिकाचूर्णं तथा दधिगुडान्वितम् ।
लवणासुरिसंयुक्तं क्षिप्त्वा सूतं विमर्दयेत् ॥ ५० ॥
जीर्णाभ्रकं तथा जीर्णं बीजं सूतस्तथैव च ।
गृह्णाति निर्मलो रागान् ग्रासे ग्रासे विमर्दितः ॥ ५१ ॥
अथान्यत्सिद्धमतम् ।—
रक्तेष्टिकानिशाधूमसारोर्णाभस्मचूर्णकैः ।
जम्बीरद्रवसंयुक्तैर्मुहुर्मर्द्यो दिनत्रयम् ॥ ५२ ॥
दिनैकं वापि सूतः स्यान्मर्दनान्निर्मलः परम् ।
ऊर्ध्वपातनयन्त्रेण गृह्णीयाच्च पुनः पुनः ॥ ५३ ॥
पटसारणतो वाऽपि क्षालनादारनालतः ।
अथ मूर्च्छनम् ।
गृहकन्या मलं हन्ति त्रिफला वह्निनाशिनी ॥ ५४ ॥
चित्रमूलं विषं हन्ति तस्मादेभिः प्रयत्नतः ।
मिश्रितं मर्दयेत्सूतं सप्तवाराणि मूर्च्छयेत् ॥ ५५ ॥
इत्थं संमूर्च्छितः सूतो दोषशून्यः प्रजायते ।
सप्तवाराणि मूर्च्छयेदिति धातुवादे, न रसेषु ॥ ५६ ॥
अथान्यन्मतम् ।—
[क]न्याशिग्रुशिखिभिर्लवणासुरिसंयुतैः ।
नष्टपिष्टं रसं कृत्वा लेपयेदूर्ध्वभाण्डके ॥ ७५ ॥

Page 27Permalink

८ आयुर्वेदौयग्रन्थमाला । [ अध्यायः
कृष्णधत्तूरकद्रवैश्चाञ्चल्यविनिवृत्तये ।
मर्दनोत्थापने कुर्यात् सूतराजस्य चाऽसकृत् ॥ ५८ ॥
त्रिफलाकन्यकातोयैर्विषदोषोपशान्तये ।
गिरिदोषं त्रिकटुना कन्यातोयेन यत्नतः ॥ ५९ ॥
चित्रकस्य च चूर्णेन सकन्येनाग्निनाशनम् ।
आरनालेन चोष्णेन प्रतिदोषं विशोधयेत् ॥ ६० ॥
एवं संशोधितः सूतः सप्तदोषविवर्जितः ।
जायते कार्यकर्त्ता च अन्यथा कार्यनाशकः ॥ ६१ ॥
अथ रसस्य कञ्चुकहरणम् ।
कुमारिकाचित्रकरक्तसर्षपैः
कृतैः कषायैर्बृहतीविमिश्रितैः ।
फलत्रिकेनापि विमर्दितो रसो
दिनत्रयं सप्तमलैर्विमुच्यते ॥ ६२ ॥
इति युगपत्सप्तमलनाशनम् ॥
अथोत्थापनम् ।
तत उत्थापयेत्सूतमातपे निम्बुकार्दितम् ।
उत्थापनावशिष्टं तु चूर्णं पातनयन्त्रके ॥ ६३ ॥
धृत्वाऽधोर्ध्वभाण्डात्तं संगृह्णेत्पारदं भिषक् ॥ ६४ ॥
वाग्भटोऽपि—
अस्माद्विरेकात्संशुद्धो रसः पात्यस्ततः परम् ।
उत्थितः काञ्जिकक्वाथैः क्षालनीयस्ततः परम् ॥ ६५ ॥
रसरत्नाकरस्तूत्थापनक्लेशमसहमानः सुगमोपायमाह; यथा—
वाग्भटोऽपि—
इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ।
शेषा द्रव्योपयोगित्वान्न ते वैद्योपयोगिनः ॥ ३६ ॥

Page 28Permalink

१.] आयुर्वेदप्रकाशः । ९
अन्यत्राऽपि।—
जलैः सोष्णारनालैर्वा क्षालनादुत्थितो भवेत् ।
अथवा पातनायन्त्रे पातनाडुत्थितो भवेत् ॥६७॥ इति ।
अथ पातनम् ।
तच्च त्रिविधं—ऊर्ध्वाधस्तिर्यग्भेदात्; तत्रोर्ध्वपातनं यथा—
भागास्त्रयो रसस्यार्कचूर्णस्यैकोऽथ निम्बुकैः ॥ ६८ ॥
एतत्संमर्दयेत्तावद्यावदेति पिण्डताम् ।
तत्पिण्डं तलभाण्डस्थमूर्ध्वभाण्डे जलं क्षिपेत् ॥ ६९ ॥
कृत्वाऽऽलवालं केनापि दत्त्वा चार्द्रं हि प्लोत कम् ।
संमुद्रयाग्निमधस्तस्य चतुर्यामं प्रबोधयेत् ॥ ७० ॥
युक्त्योर्ध्वभाण्डसंलग्नं गृह्णीयात्पारदं ततः ।
ऊर्ध्वपातनमित्युक्तं भिषग्भिः सूतशोधने ॥ ७१ ॥
ससूतभाण्डविवरमन्यद्विलति भाण्डकम् ।
तथा संधिर्द्वयोः कार्यः पातनात्रययन्त्रके ॥ ७२ ॥
यन्त्रप्रमाणं वदनाङ्कुरोर्ज्ञेयं विचक्षणैः ।
रसस्य मानानियमात्कथितुं नैव शक्यते ॥ ७३ ॥
अर्कचूर्णस्य ताम्ररजसः ॥
अथान्यन्मतम् ।—
मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतस्य च ।
यन्त्रे डमरुके कुर्याद्रसेन्द्रस्योर्ध्वपातनम् ॥ ७४ ॥
मयूरग्रीवं तुत्थकं, ताप्यं स्वर्णमाक्षिकं, नष्टपिष्टीकृतस्य
'कुमारिकाद्रवयोगेन' इति शेषः ॥
अथाधःपातनम् ।
त्रिफलाशिग्रुशिखिभिर्लवणासुरिसंयुतैः ।
नष्टपिष्टं रसं कृत्वा लेपयेदूर्ध्वभाण्डके ॥ ७५ ॥

Page 29Permalink

१० आयुर्वेदियग्रन्थमाला । [ अध्यायः
ऊर्ध्वभाण्डोदरं लिप्त्वाऽधोभाण्डे जलं क्षिपेत् ।
सन्धिलेपं द्वयोः कृत्वा तद्यन्त्रं भुवि पूरयेत् ॥ ७६ ॥
उपरिष्टात्पुटे दत्ते जले पतति पारदः ।
अधःपातनमित्युक्तं सिद्धाद्यैः सूतकर्मणि ॥ ७७ ॥
त्रिफलेति व्याख्याता । अधोभाण्डे जलं क्षिपेदिति वच-
नात्संपुटपात्रमध्ये जलं प्राप्यते, तच्च संप्रदायविरुद्धं, अतः
संपूर्णाम्बुनि पात्रान्तरे भूमौ निखातिते तस्योपरि संपुटं
दद्यात्, पश्चात्स संपुटस्याधःपात्रस्य च संधिरोधः कार्य इति
तात्पर्यतो ज्ञेयम् । उपरिष्टात्पुटे दत्ते इति पुटं चात्र कौकुटं
यथायथरसमात्रापेक्षया वा विंशतिवनोत्पलैरधिकैर्वा निवात-
स्थले शनैः शनैर्देयमिति गुरुसंप्रदायः ॥
अथान्यन्मतम् ।—
नवनीताभ्रकं सूतं घृष्ट्वा जम्भारम्भसा दिनम् ।
वानरीशिग्रुशिखिभिर्लवणासुरिसंयुतैः ॥ ७८ ॥
'नष्टपिष्टं रसं कृत्वा' इत्यादि पूर्ववत् ॥
अथ तिर्यक्पातनम् ।
घटे रसं विनिक्षिप्य सजलं घटमन्यकम् ।
तिर्यङ्मुखं द्वयोः कृत्वा संमुखं रोधयेत्सुधीः ॥ ७९ ॥
तथैव चुल्ल्यां संस्थाप्य यत्नतस्तु ततो भिषक् ।
रसाधो ज्वालयेदग्निं यावत्सूतौ जलं विशेत् ८० ॥
तिर्यक्पातनमित्युक्तं सिद्धैर्नागार्जुनादिभिः ।
मिश्रितौ चेन्नागवङ्गौ रसे विक्रयहेतुना ॥ ८१ ॥
ताभ्यां स्यात् कृत्रिमो दोषस्तन्मुक्तिः पातनत्रयात् ।
एवं सुसंस्कृतः सूतः पातनावधि यत्नतः ॥ ८२ ॥
सर्वदोषविनिर्मुक्तो जायते नात्र संशयः ॥ ८३ ॥

Page 30Permalink

१.] आयुर्वेदप्रकाशः । ११
अत्रावसरे केचित्पुनः स्वेदनमिच्छन्ति; यथा—
रसं चतुर्गुणे वस्त्रे सरसोनशरावके ।
नियम्य दोलिकायन्त्रे मध्याग्नौ दिवसं पचेत् ॥ ८४ ॥
सव्योषत्रिफलावह्निकन्याकल्के तुषाम्बुनि ।
दोषशेषापनुत्त्यर्थमिदं स्वेदनमिष्यते ॥ ८५ ॥
अथ बोधनम् ।
एवं कदर्थितः सूतः षण्ढत्वमधिगच्छति ।
तन्मुक्तयेऽस्य क्रियते बोधनं कथ्यते हि तत् ॥ ८६ ॥
वाग्भटोऽपि—
मर्दनैर्मूच्छनैः पातैर्मरणान्तो भवेद्रसः ।
शक्त्युत्कर्षाय बोध्योऽसौ गुरुदर्शितवर्त्मना ॥ ८७ ॥
यथा—
विश्वामित्रकपाले वा काचकूप्यामथापि वा ।
सृष्ट्यम्बुजं विनिक्षिप्य तत्र तन्मज्जनावधि ॥ ८८ ॥
पूरयेत्रिदिनं भूम्यां राजहस्तप्रमाणतः ।
अनेन सूतराजोऽयं षण्ढभावं विमुञ्चति ॥ ८९ ॥
विश्वामित्रकपालं नारिकेलपात्रं; ‘सृष्ट्यम्बुजं सैन्धववारि’
इत्येके, अपरे तु ‘मूत्रं रजः शुक्रं च’ इत्याहुः । युक्तं तु सृष्ट्य-
म्बुजं अरुणायाः षोडशवार्षिकीयाः स्त्रिय आर्तवम् । राजहस्तः
सपादकरः ॥
मतान्तरं सुगमं च—
कदर्थनेनैव नपुंसकत्वमेवं भवेदस्य रसस्य पश्चात् ।
वीर्यप्रकर्षाय तु भूर्जपत्रे स्वेद्यो जले सैन्धवचूर्णगर्भे ॥ ९० ॥
१ ‘पातैर्मन्दः शान्तो’ ख. ।

Page 31Permalink

१२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
मतान्तरम्—
लवणेनाम्लपिष्टेन हण्डिकान्तर्गतं रसम् ।
आच्छाद्याथ जलं किंचित् क्षिप्त्वा शरावेण रोधयेत् ॥९१॥
ऊर्ध्वं लघुपुटो देयः प्राप्तपुंस्त्वो रसो भवेत् ॥ ९२ ॥
मतान्तरम्—
एवं कदर्थितः सूतः षण्ढभावं प्रयाति हि ।
बह्वौषधिकषायेण खेदितः सबलो भवेत् ॥ ९३ ॥
यथा—
सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दैः खेदितो बली ।
निरस्तषण्ढभावोऽसौ जायते हि रसोत्तमः ॥ ९४ ॥
सर्पाक्षी नागिणी, चिञ्चा अम्लिका, वन्ध्या वांझखखसा,
भृङ्गो भृङ्गराजः, अब्दो मुस्ता नागरसंज्ञको ग्राह्यः । एषां
रसो ग्राह्यः ॥
अथ नियमनम् ।
सर्पाक्षी चिञ्चिका वन्ध्याभृङ्गाब्दकनकाम्बुभिः ।
दिनं संस्वेदितः सूतो नियमात् स्थिरतां व्रजेत् ॥ ९५ ॥
मतान्तरम्—
उत्तराशाभवस्थूलरक्तसैन्धवलोष्टकः।
तद्गर्भे रन्ध्रकं कृत्वा सूतं तत्र विनिक्षिपेत् ॥ ९६ ॥
ततस्तु चणकक्षारं दत्त्वा चोपरि निम्बुजम् ।
रसं प्रक्षिप्य दातव्यं तादृक्सैन्धवखण्डकम् ॥ ९७ ॥
गर्तं कृत्वा धरागर्भे दत्त्वा सैन्धवसंपुटम् ।
धूलिमष्टाङ्गुलां दत्त्वा कारीषं दिनसप्तकम् ॥ ९८ ॥
वह्निं प्रज्वाल्य तद्ग्राह्यं क्षालयेत्काञ्जिकेन च ।
अयं नियमनो नाम संस्कारो गदितो बुधैः ॥ ९९ ॥

Page 32Permalink

१. ] आयुर्वेदप्रकाशः । १३
अभावे चणकक्षारस्यार्पयेन्नवसादरम् ।
खर्जिका वा प्रदातव्या नूनमित्याह भास्करः ॥ १०० ॥
अथ संदीपनम् ।
कासीसं पञ्चलवणं राजिका मरिचानि च ।
द्विशिग्रुबीजमेकत्र टङ्कणेन समन्वितम् ॥ १०१ ॥
आलोड्य काञ्जिके दोलायन्त्रे पाच्यो दिनैस्त्रिभिः ।
दीपनं जायते सम्यक् सूतराजस्य जारणे ॥ १०२ ॥
अथवा चित्रकद्रावैः काञ्जिके त्रिदिनं पचेत् ।
दीपनं जायते तस्य रसराजस्य चोत्तमम् ॥ १०३ ॥
अथानुवासनम् ।
दीपितं रसराजं तु जम्बीररससंयुक्तम् ।
दिनैकं धारयेद्धर्मे मृत्पात्रे वा शिलोद्भवे ॥ १०४ ॥
इत्यनुवासनम् ॥
सहस्रनिम्बूफलतोयघृष्टो रसो भवेद्वह्निसमप्रभावः ।
सव्योषराजीलवणः सचित्रः सरामठो विंशतिवासराणि ॥ १०५
इति रसचिन्तामणावनुवासनम् ॥
एतैरनुवासनान्तैर्नवभिः संस्कारैः शुद्धः सूतोऽष्टमांश अव-
शिष्यत इत्याह रसरत्नाकरकृन्नित्यनाथः—
स्वेदनादिनवकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् ।
अष्टमांश अवशिष्यते तदा शुद्धसूत इति कथ्यते बुधैः ॥ इति ।
शुद्धसूतपरीक्षेयमिति भावः। कीदृशः स्वेदनादिनवकर्मभिः
संस्कृतः पारदः सप्तकञ्चुकविवर्जितो भवेदत्र दृष्टप्रत्यय-
माह—(कञ्चुकविवर्जितस्येयं परीक्षा) यदा अष्टमांश अवशि-
ष्यते, सप्तभागाः सप्तकञ्चुकसंबन्धिनो गच्छन्त्यष्टमो भागः
पारदस्यावशिष्यते तदा शुद्धसूतः कञ्चुकदोषविनिर्मुक्तो
२

Page 33Permalink

१४ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
भवति। सप्तकञ्चुकाः सप्तावरणानि शिवशापाज्जातानि, तद्वि-
मुक्ततया शुद्धसूतो बुधैः कथ्यत इति ॥
अथ जारणम् ।
जारणा हि नाम गालनपातनव्यतिरेकेण घनहेमादिग्रास-
पूर्वकपूर्वावस्थाप्रतिपन्नत्वं, फलं चास्य प्रोक्तं स्वयं महेश्वरेण—
सर्वपापक्षये जाते प्राप्यते रसजारणा ।
तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं मुक्तिलक्षणम् ।
मोक्षाभिव्यञ्जकं देवि जारणा साधकस्य तु ॥ १०७ ॥
खल्वस्तु पिण्डिका देवि रसेन्द्रो लिङ्गमुच्यते ।
मर्दनं चन्दनं चैव ग्रासः पूजाऽभिधीयते ॥ १०८ ॥
यावद्दिनानि देवेशि वह्निस्थो धार्यते रसः ।
तावद्दशसहस्राणि शिवलोके महीयते ॥ १०९ ॥
दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् ।
द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ॥ ११० ॥
इत्यादि ॥
विपिनौषधिपाकसिद्धमेतद्द्भुततैलाद्यपि दुर्निवारवीर्यम् ।
किमयं पुनरीश्वराङ्गजन्मा घनजाम्बूनदचन्द्रभानुजीर्णः ॥१११
रसगुणबलिजारणं विनाऽयं न खलु रुजां हरणक्षमो रसेन्द्रः ।
न जलदकलधौतपाकहीनः स्पृशति रसायनतामिति प्रतिज्ञा ॥
अजारयन्तः पविहेमगन्धं वाञ्छन्ति सूतात् फलमप्युदारम् ।
क्षेत्रादनुप्तादपि सस्यजातं कृषीवलास्ते भिषजश्च मन्दाः ॥११३
घनरहितबीजजारणसंप्राप्तदलादिसिद्धिकृतकृत्याः ।
कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥ ११४ ॥
अभ्रकजारणमादौ गर्भद्रुतिजारणं च हेम्नोऽन्ते ।
यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥ ११५ ॥
गन्धकजारितसूतस्य फलमुक्तं शिवागमे।—

Page 34Permalink

१. ] आयुर्वेदप्रकाशः । १५
तुल्ये तु गन्धके जीर्णे शुद्धाच्छतगुणो रसः ।
द्विगुणे गन्धके जीर्णे सर्वथा सर्वकुष्ठहा ॥ ११६ ॥
त्रिगुणे गन्धके जीर्णे सर्वजाड्यविनाशनः¹ ।
चतुर्गुणे तत्र जीर्णे वलीपलितनाशनः ॥ ११७ ॥
गन्धे पञ्चगुणे जीर्णे क्षयक्षयकरो रसः ।
षड्गुणे गन्धके जीर्णे सर्वरोगहरो रसः² ॥
अवश्यमित्युवाचेदं देवीं श्रीभैरवः स्वयम् ॥ ११८ ॥
अन्यत्रापि ।—
समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मजित् ।
जीर्णे तु त्रिगुणे गन्धे कामिनीदर्पनाशनः ॥ ११९ ॥
चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः ।
भवेत्पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत् ॥ १२० ॥
'षड्गुणे रोगघ्न' इत्युक्तं यत्तत्तु मूर्च्छायामेवाधिगन्तव्यं, तत्र
गन्धकस्य समग्रजारणाया अभावात् । अत्र तु समे गन्धे इति
तृतीयार्थे सप्तमी; ( तेन³ समेन गन्धेन तुल्यगन्धेन जीर्णः
पारदो मूर्च्छनाविधिना मृतः, तत्फलं रोगघ्नता ) एवं
द्विगुणादिष्वपि व्याख्येयमिति प्रतिभाति ॥
तस्माच्छतगुणो व्योमसत्त्वे जीर्णे तु तत्समे ।
ताप्यखर्परतालादिसत्त्वे जीर्णे गुणावहः ॥ १२१ ॥
हेम्नि जीर्णे सहस्रैकगुणसंपत्प्रदायकः ।
वज्रादिजीर्णसूतस्य गुणान् वेत्ति शिवः स्वयम् ॥ १२२ ॥
देव्या रजो भवेद्गन्धो धातुः शुक्लं तथाऽभ्रकम् ।
आलिङ्गने समर्थौ द्वौ प्रियत्वाच्छिवरेतसः ॥ १२३ ॥
शिवशक्तिसमायोगात् प्राप्यते परमं पदम् ।
यथा स्याज्जारणौ वह्नी⁴ तथा स्याद्गुणदो रसः ॥ १२४ ॥
१ 'सर्वषाण्ड्यविनाशनः' क. । २ 'भवेत्' ख. । ३ अयं पाठः ख. पुस्तके
नोपलभ्यते । ४ 'स्याज्जारणावह्निस्तथा' क. ।

Page 35Permalink

१६ \qquad\qquad आयुर्वेदीयग्रन्थमाला । \qquad\qquad [ अध्यायः
अथादौ गन्धकजारणम् ।
तत्तु तत्तन्निगदितदेवतापरिचरणसमनन्तरं तत्तच्छोधनप्र-
क्रियाभिर्बह्वीभिः संक्षिप्ताभिर्वा शुद्धस्य रसेन्द्रस्य तृणारणिम-
णिजन्यवह्विन्यायेन तारतम्यमवलोकमानैः सूक्ष्ममतिभिः
‘पलार्धेनापि संस्कारः कर्तव्यः सूतकस्य च’ इति रसार्णवव-
चनाद्व्यावहारिकतोलकद्वयप्रमाणेनापि कश्चन सूतं समादाय,
तत्र गन्धको नवनीताख्यः संशोध्य जार्य आषड्गुण-
मिति । ततो मारणविधिना हत्वा मात्रयाऽशितः पथ्य-
योगेन ‘समे गन्धे तु रोगघ्न’ इत्याद्युक्तफलकारी रसो
भवति । अथ यदि रसायनगुणेच्छा चेद्गन्धकजारणोत्तरं
हेमाभ्रसत्त्वादि यथाविभवं गन्धकजारणोत्थिते रसे प्रोक्तवि-
धिना संशोध्य जार्य मारणविधिना हत्वा मात्रया क्षेत्रीकरण-
पूर्वकं पथ्ययोगेन मण्डलावधि षण्मासं वर्षैकं द्विवर्षं त्रिवर्षं
वा संसेव्यः । तदा तदुक्तफलमाप्नोति । यावज्जीवं सेव्यो वा
संपत्तिश्चेत् । यद्वा यथावकाशं पौनःपुन्येन संसेव्यः । अथ
यदि केवलं रोगघ्नेच्छा चेत्स्वेदनादिदीपनान्तैः संस्कारै रसं
संशोध्य प्रोक्तविधिना गन्धकेन संमूर्च्छय मात्रया पथ्ययोगेन
संसेव्यो यावदारोग्यमिति । अथ रसादौ पाकावलेहगुटिका-
चूर्णादौ वा रसयोगे विहिते यथावचनं संशुद्धो मूर्च्छितो
गन्धजीर्णो हेमादिजीर्णो वा मृतोऽमृतो वा रसो योज्य इति
गुरुसङ्केतः । गन्धकजारणरहितः संशुद्धोऽपि रसो योगेषु
न योज्यः, गदहन्तृत्वशक्त्यनुदयात् । हेमादिजीर्णोऽप्यशु-
द्धस्तु कुत्रापि न योज्यः, वैगुण्यप्रदत्वात् । एवं सर्व उपरसा
धातव उपधातवो रत्नान्युपरत्नानि विषोपविषप्रभृतयश्च
१ ‘तरणिमणि-’ क. । २ ‘संशुद्धं’ ख. । ३ चत्वारिंशद्दिनपर्यन्तमित्यर्थः ।