आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 29, कुल 232 में से
संदर्भ में पढ़ें१० आयुर्वेदियग्रन्थमाला । [ अध्यायः
ऊर्ध्वभाण्डोदरं लिप्त्वाऽधोभाण्डे जलं क्षिपेत् ।
सन्धिलेपं द्वयोः कृत्वा तद्यन्त्रं भुवि पूरयेत् ॥ ७६ ॥
उपरिष्टात्पुटे दत्ते जले पतति पारदः ।
अधःपातनमित्युक्तं सिद्धाद्यैः सूतकर्मणि ॥ ७७ ॥
त्रिफलेति व्याख्याता । अधोभाण्डे जलं क्षिपेदिति वच-
नात्संपुटपात्रमध्ये जलं प्राप्यते, तच्च संप्रदायविरुद्धं, अतः
संपूर्णाम्बुनि पात्रान्तरे भूमौ निखातिते तस्योपरि संपुटं
दद्यात्, पश्चात्स संपुटस्याधःपात्रस्य च संधिरोधः कार्य इति
तात्पर्यतो ज्ञेयम् । उपरिष्टात्पुटे दत्ते इति पुटं चात्र कौकुटं
यथायथरसमात्रापेक्षया वा विंशतिवनोत्पलैरधिकैर्वा निवात-
स्थले शनैः शनैर्देयमिति गुरुसंप्रदायः ॥
अथान्यन्मतम् ।—
नवनीताभ्रकं सूतं घृष्ट्वा जम्भारम्भसा दिनम् ।
वानरीशिग्रुशिखिभिर्लवणासुरिसंयुतैः ॥ ७८ ॥
'नष्टपिष्टं रसं कृत्वा' इत्यादि पूर्ववत् ॥
अथ तिर्यक्पातनम् ।
घटे रसं विनिक्षिप्य सजलं घटमन्यकम् ।
तिर्यङ्मुखं द्वयोः कृत्वा संमुखं रोधयेत्सुधीः ॥ ७९ ॥
तथैव चुल्ल्यां संस्थाप्य यत्नतस्तु ततो भिषक् ।
रसाधो ज्वालयेदग्निं यावत्सूतौ जलं विशेत् ८० ॥
तिर्यक्पातनमित्युक्तं सिद्धैर्नागार्जुनादिभिः ।
मिश्रितौ चेन्नागवङ्गौ रसे विक्रयहेतुना ॥ ८१ ॥
ताभ्यां स्यात् कृत्रिमो दोषस्तन्मुक्तिः पातनत्रयात् ।
एवं सुसंस्कृतः सूतः पातनावधि यत्नतः ॥ ८२ ॥
सर्वदोषविनिर्मुक्तो जायते नात्र संशयः ॥ ८३ ॥