ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
by महर्षि ऐतरेय महिदास
Source: Aitareya Aranyakam with Vedic Accents & Commentary (origin)
Public domain in India · Report a copyright issue
About this granth
The Aitareya Aranyaka (ऐतरेयारण्यकम्) is the forest-text of the Aitareya branch of the Rigveda, following the Aitareya Brahmana. Tradition credits its first three books to Mahidasa Aitareya. It deals with the Mahavrata day of the soma ritual, the recitations performed on it and their inner meaning. Chapters four to six of the second book form the Aitareya Upanishad, and the third book, the Samhita Upanishad, reflects on the forms of Vedic recitation.
The text is divided into five aranyakas, each split into adhyayas and khandas. This edition prints it with the Sanskrit commentary of Sayanacharya, who explains its ritual terms and Vedic words.
The scanned title page identifies it as number 38 of the Anandashrama Sanskrit Series, revised by Babashastri Phadke and published by Hari Narayan Apte from the Anandashrama press, Pune, in Shaka 1820 (1898). A list of the manuscripts used for the text precedes it. The copy has 304 pages.
६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके—
हसा युक्तां धाय्यां परिशंसेत् । पुरुषपरिष्वक्तयोषित्प्रभूतसूददोहसा सह धाय्या संयोजिता, तस्मादेव लोकेऽपि द्वयोः स्त्रीपुरुषयोः संबन्धि रेतो गर्भाशये निषिक्तं सदैकत्वमेवाभिलक्ष्य तन्मिलितमेवावतिष्ठते न पुरुषशरीरः (?) । हि यस्मात्कारणादियं योषाऽऽजानाना(षाऽऽजाना), अस्मान्मिलिताद्रेतोद्वयात्साकल्येन शरीरो व्यवतिष्ठते यस्यां योषायों सेयमतः प्र(त आ)जाना । अथवा विवक्ष्यते—“तद्यथा(दा) स्त्रियां सिञ्चत्यथैनज्जनयति” [ऐ० आ० २ अ० १ ख० १] इति । अतः कारणादियं योषा प्रजानाना(प्रजाना) । प्रकृष्टो जातः(नः?) पुत्रपौत्रोत्पादनं यस्याः सा प्रजाना । यस्मादेवं धाय्या प्रशस्ता तस्मादेतां धाय्यामस्मिन्विजवभागे पठेत् । पक्षमूला ऋचो विजवा विवक्षिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके चतुर्थाध्याये द्वितीयः खण्डः ॥ २ ॥ ( १८ )
अथ तृतीयः खण्डः । ( ऊनविंशः )
अथ तस्य पक्षिणोऽन्नरूपा अशीतयो वक्तव्यास्तत्रैकाऽशीतिः —
[*गायत्रीं तृचाशीतिं शंसत्ययं वै लोको गायत्री तृचाशीतिर्यदेवास्मिँल्लोके यशो यन्महो यन्मिथुनं यदन्नाद्यं याऽपचितिस्तदश्रवै तदामवानि तदवरुणधै तन्मेऽसदिति, इति ।
गायत्री तृचाशीतिरयमेव लोकोऽतो यदस्मिँल्लोके] यशः कीर्तिर्यच्च महः पूजा यच्च मिथुनं भार्यासंबन्धि यच्चान्नाद्यं भक्ष्यभोज्यादिकं याऽपचितिः पूजा । वेदशास्त्रप्रयुक्ता पूजा महःशब्देन पूर्वमुक्ता । तेजो वा तत्रोक्तमत्र तु धनधान्यादिसमृद्धिरूपा पूजोच्यते । तद्यशःप्रभृतिकमपचित्यन्तं सर्वमश्रवै प्राप्त(व्याप्र)वानि । पुत्रपौत्रादिषु तत्संपदधीनत्वं व्याप्तत्वम् । तत्सिद्धयर्थमादौ तद्यशःप्रभृतिकमामवानि संपादयामि । संपादितं तत्सर्वं +तदवरुणधै स्वाधीनं करवाणि । तच्च स्वाधीनं मे मदीयगृहेष्वसत्, अस्तु¹ । तदानीमित्यभिप्रेत्य गायत्रीं तृचाशीतिं पठेत् । “ ता अस्य ” [ ऋ० सं० म० ८ सू० ६९ ऋ० ३ ] इत्येतामृचं विधत्ते—
अथ सूददोहाः प्राणो वै सूददोहाः
[*प्राणेनेमं लोकं संतनोति, इति ।
* एतच्चिह्नान्तर्गतं मूलं मूलपुस्तकेभ्य उद्धृत्य तदतिरिक्तं च प्रकल्प्यात्र निवेशितम् ।
+ तच्छब्दोऽयमधिकः । * एतच्चिह्नान्तर्गतं मूलं मूलपुस्तकेभ्य उद्धृतं तदतिरिक्तं कल्पितम् ।
१ ख. ग. घ. 'स्तु । दानित्वित्य' ।
अध्या० ४ ख० ३ (१९)] ऐतरेयारण्यकम् । ६७
बृहतीछन्दस्कां तृचाशीतिं विधत्ते—
बार्हतीं तृचाशीतिं शंसत्यन्तरिक्षलोको वै बार्हती
तृचाशीतिर्यदेवान्तरिक्षलोके यशो यन्महो यन्मि-
थुनं यदन्नाद्यं याऽपचितिस्तदश्नवै तदाप्नवानि
तदवरुणधै तन्मेऽसदित्यथ सूददोहाः प्राणो वै
सूददोहाः] प्राणेनान्तरिक्षलोकं संतनोति, इति ।
सेयं बार्हती तृचाशीतिः “मा चिदन्यः” ( ऐ० आ० ५ अ० २ ख० ४ )
इत्यादिः पञ्चमे शौनकेनोदाहृता । द्वितीयत्वादस्या अन्तरिक्षरूपत्वम् । अन्यत्पूर्व-
व्याख्येयम् ।
उष्णिग्छन्दस्कां तृचाशीतिं विधत्ते—
औष्णिहीं तृचाशीतिं शंसत्यसौ वै लोको द्यौरौष्णिही
तृचाशीतिर्यदेवामुष्मिंल्लोके यशो यन्महो यन्मिथुनं यद-
न्नाद्यं याऽपचितिर्यद्देवानां दैवं तदश्नवै तदाप्नवानि
तदवरुणधै तन्मेऽसदित्यथ सूददोहाः प्राणो वै सूद-
दोहाः प्राणेनामुं लोकं संतनोति संतनोति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थाध्याये
तृतीयः खण्डः ॥ ३ ॥ ( १९ )
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके
चतुर्थोऽध्यायः ॥ ४ ॥
सेयमौष्णिही पञ्चमे—“य इन्द्र सोमपातमः” [ ऐ० आ० ५ अ० २ ख० ५ ]
इत्यादिनोदाहृता । अस्या उपरितनत्वादुद्युलोकरूपत्वम् । यद्यपि प्रायेण वेदेष्वयं
लोकोऽसौ लोक इति भूलो[कद्युलो]कावेवाभिधीयेते तथाऽपि द्यौरित्यभिधानं विस्पष्टा-
र्थम् । देवानामिन्द्रादीनां दैवं पूज्यं ब्रह्म । तथा च श्वेताश्वतरा आमनन्ति—“तमी-
श्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम्” इति । अन्यत्पूर्ववद्व्याख्येयम् ।
अभ्यासोऽध्यायसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये प्रथमारण्यके चतुर्थाध्याये तृतीयः खण्डः ॥ ३ ॥ ( १९ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म-
णारण्यकभाष्ये प्रथमारण्यके चतुर्थोऽध्यायः ॥ ४ ॥
अथ प्रथमारण्यके पञ्चमोऽध्यायः ।
तत्र प्रथमः खण्डः । (विंशः)
चतुर्थे शस्त्रपक्षिणो ग्रीवास्यभाग उक्तः । अन्ते तृचाशीतयोऽन्नरूपा अभिहिताः । तस्यान्नस्य धारणार्थमुदरं वक्तव्यमतस्तद्रूपं वशानामकं शस्त्रभागं विधत्ते—
वशं शंसति वशे म इदं सर्वमसदिति, [ इति । ]
यदिदं स्थावरजङ्गमस्वरूपं जगदस्ति तत्सर्वं मे वशे भूयादित्यभिप्रेत्य वशाख्यं शस्त्रभागं *पाठं पठेत् । स च भागः “त्वाऽवतः पुरूवसो” [ ऐ० आ० ५ अ० २ ख० ५ ] इत्यादिना पञ्चमे स्पष्टमुदाहृतः । वशानामकेन महर्षिणा दृष्टत्वात्तदेतत्सूक्तं वशमित्युच्यते ।
तत्सूक्तगतामृक्संख्यां प्रशंसति—
ता एकविंशतिर्भवन्त्येकविंशतिर्हि ता अन्तरुदरे विकृतयः, इति ।
“त्वाऽवतः” [ ऋ० सं० म० ८ सू० ४६ ऋ० १ ] इत्यारभ्य “सनितः सुसनितः” [ ऋ० सं० म० ८ सू० ४६ ऋ० २० ] इत्यन्ता विंशतिः । ततः सूददोहा एकेत्येवमेकविंशतिर्द्रष्टव्या । हि यस्मादुदरमध्ये विद्यमानाः क्लोमैप्लीहाद्यवयवरूपा विकृतय एकविंशतिसंख्याकास्तस्माद्वशभागे संख्या प्रशस्ता । ते चावयवास्तत्र तत्रानुवर्तमानप्रकरणादौ द्रष्टव्याः ।
प्रकारान्तरेण संख्यां प्रशंसति—
अथो एकविंशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठोदरमन्नाद्यानाम्, इति ।
त्रिवृदादिस्तोमानां मध्य एकविंशस्तोमस्य प्रतिष्ठात्वं पूर्वत्रोक्तम् । उदरस्य स्वन्नाधारत्वं प्रसिद्धम् ।
तास्वृक्षु विद्यमानं परस्परविलक्षणच्छन्दस्त्वं प्रशंसति—
ता विच्छन्दसो भवन्ति विश्रुद्रमिव वा अन्त-
स्त्यमणीय इव च स्थवीय इव च, इति ।
“त्वाऽवतः” [ऋ० सं० म० ८ सू० ४६ ऋ० १] इत्यादिको ऋचो वशनाम्ना विहिताः परस्परविलक्षणच्छन्दोयुक्ताः । एतच्चानुक्रमणिकायां विस्पष्टमुक्तम्—“त्वाऽवतस्त्रयस्त्रिंशद्दशारुया आद्या पादनिचृत्” इत्यारभ्य “पञ्चम्यादिककुप्प्रगाथगायत्री-
* अत्र पाठशब्दोऽधिक इव भाति ।
१ क. ख. घ. 'मकैः शस्त्रैर्भागं । २ क. 'माना या लोम' । ख. ग. घ. ᵒमाना या क्लो' ।
३ ख. ग. घ. 'मग्नीवाद्य' । ४ ख. ग. घ. तत्र यमुर्वर्तं' । ५ क. ख. ग. घ. 'का या ऋ' ।
अध्या० ५ ख० १(२०)] ऐतरेयारण्यकम् । ६९
बृहत्यनुष्टुप्सतो बृहती गायत्री" इत्यादि। तदेतन्नानाछन्दस्त्वमुदररूपस्य वशस्य योग्यम्।
लोकेऽप्यन्तस्त्यमुदरमध्यवर्ति क्लोमप्लीहादिकं^१ विक्षुद्रमिव वै विविधत्वेनाल्पमेवा-
ल्पत्वेन दृश्यते। एकस्मादितरदल्पं ततोऽप्यन्यदल्पमित्येवं विविधं क्षुद्रत्वम्। तदेवा-
णीय इत्यादिनोदाह्रियते। द्विविधमात्रं(त्रं) स्थूलं सूक्ष्मं च तस्मादुभयातिशयेन स्थूलं
हृदयमत्र। एवं क्लोमप्लीहादिषु यथायोग्यं द्रष्टव्यम्।
शंसने प्रकारविशेषं विधत्ते—
ताः प्रणवं छन्दस्कारं यथोपपादं शंसति यथोपपादामिव
वा अन्तस्त्यं ह्रसीय इव च द्राघीय इव च, इति।
या ऋचः—"त्वाऽवतः" [ऋ० सं० म० ८ सू० ४६ ऋ० १] इत्यादिकाः
सन्ति तासां शंसनकाले प्रणवं प्रणुत्य पुनः पुनः प्रणवमुच्चार्य च्छन्दस्कारं तत्तच्छन्दो
यथा न विपर्येति तथा तत्र कृत्वा यथोपपादमुक्तनियगमनतिक्रम्य यथा शंसनमुप-
पद्यते तथा शंसेत्। एतदर्थमेव संदिग्धामृचं विभज्य शौनको दर्शयति—"ददी-
रेक्ण इति द्विपदा नूनमथेत्येकपदा" [ऐ० आ० ५ अ० २ ख० १] इति।
तत्र शंसनप्रकार आश्वलायनेनोदाहृतः—"पच्छो द्विपदा उपसंतनुयादेकपदाः"
इति। अयमर्थः—या ऋचो द्विपदाः सन्ति ताः पच्छः शंसनीयाः, प्रथमपादं पठित्वा
ततोऽवसाय पश्चाद्वितीयं पादं^२ पठित्वाऽन्ते प्रणवं कुर्यात्। या एकपदाः सन्ति ताः
पुरस्तादुपरिष्टाच्च प्रणवाभ्यां संतनुयात्। मध्ये च नावस्येती(दी)दृशं शंसनं यथोपपा-
दमित्युच्यते। अन्तस्त्यमुरो मध्येऽवस्थितमप्यत्र क्लोमप्लीहादिकं यथोपपन्नं भवति
तथैवावतिष्ठते। किंचिदङ्गमतिह्रस्वमिवान्यदङ्गमतिदीर्घमिव स्थितं तस्मात्तत्सादृश्याय
न्यूनाधिकच्छन्दांसि यथा तथा शंसेत्।
ता अस्येत्येतामृचं विधत्ते—
अथ सूददोहाः प्राणो वै सूददोहाः
प्राणेन पर्वाणि संदधाति, इति।
वशाभागस्य शंसनादूर्ध्वं "ता अस्य" [ऋ० सं० म० ८ सू० ६९ ऋ० ३]
इत्यस्या ऋचः परित्यागं विधत्ते—
तामत्रोत्सृजति द्वादशकृत्वः शस्त्वा द्वादश-
विधा वा इमे प्राणाः सप्त शीर्षण्या द्वौ
स्तन्यौ त्रयोऽवाञ्चोऽत्र वै प्राणा आप्यन्तेऽत्र
संस्क्रियन्ते तस्मादेनामत्रोत्सृजति, इति।
१ क. ˚त्ति यत्क्लोम˚। २ ग. घ. पादमवसायान्ते।
७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
तां सूददोहसं द्वादशवारं पठित्वा तत ऊर्ध्वमत्र वशाशंसनस्थाने परित्यजेत् । न
त्वित ऊर्ध्वमूरुभागस्थाने तां सूददोहसं पठेत् । शस्त्रपक्षिणः पूर्वोक्ता एकादशावयवा
आत्मा ग्रीवा शिरो विजबौ द्वौ पक्षौ पुच्छं तृचाशीतिरूपाणि त्रीण्यन्नानि वशाख्य-
मुदरं चेति, तत्र सर्वत्र सूददोहाः सकृत्पठिता पुच्छे तु धाय्यायाः पुरस्तादुपरिष्टाच्च
द्विः पठिता, एवं द्वादशावृत्तिः । शरीरगता इमे प्राणाश्च छिद्रभेदेन द्वादशविधाः ।
शिरसि सप्त छिद्राणि, स्तनयोर्द्वे छिद्रे, नाभ्यां पायुगुदयोश्च त्रीणि । एतेषु द्वादशसु
च्छिद्रेष्वेव सर्वे प्राणाः प्राप्यन्ते । अत एव मन्त्रात्मना ते प्राणाः संस्क्रियन्ते । यस्मा-
द्द्वादशविधप्राणसाम्यमत्र समाप्तं तस्मादेनामूर्ध्वमत्र परित्यजेत् । न तूपरितन
ऊरुभागे पठेत् ।
उदरभागमुक्त्वा शस्त्रपक्षिण ऊरुभागं विधत्ते—
इन्द्राग्नी युवं सु न इत्यैन्द्राग्ना ऊरू उर्वष्ठीवे प्रतिष्ठे, इति ।
‘‘इन्द्राग्नी युवम्’’ इत्यादिसूक्तं द्वादशर्चं तच्च शस्त्रपक्षिण ऊरुत्वेन पठनीयम् ।
अस्मिन्सूक्ते याविन्द्राग्नी प्रतीयेते तयोः संबन्धिनौ पक्षिण ऊरू । ‘‘इन्द्राग्नी वै देवा-
नामोजिष्ठौ बलिष्ठौ’’ [ तै० ब्रा० का० ३ प्र० ८ अ० ७ ] इति तयोः प्रवलत्व-
श्रवणादूर्वोश्च गमनादिव्यवहारहेतुत्वेन प्रबलत्वात् ।
[एतत्सूक्तगतानामृचां षट्पदत्वं प्रशंसति—]
ताः षट्पदा भवन्ति प्रतिष्ठाया एव द्विप्रतिष्ठो
वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्वि-
प्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति, इति ।
अस्मिन्सूक्ते द्वितीयस्या अन्तिमायाश्च विशेषस्य वक्ष्यमाणत्वाद्या अवशिष्टा दशर्चः
सन्ति ताः प्रत्येकं षट्पदा भवन्ति । तच्च प्रतिष्ठार्थमेव संपद्यते । तत्कथमिति तदु-
च्यते—लोके मनुष्यः पादद्वयेन भूमौ प्रतिष्ठति । पशवस्तु चतुष्पादा वर्तन्ते । एवं
सत्यत्रापि तत्तेन पादषट्कपाठेन पादद्वयोपेतं यजमानं चतुष्पात्सु प्रतिष्ठितं करोति ।
द्वितीयायां—‘‘न हि वां ववृयामहे’’ [ ऋ० सं० म० ८ सू० ४० ऋ० २ ]
इत्येतस्यामृचि विशेषं विधत्ते*—
द्वितीया सप्तपदा भवति तां गायत्रीं चानुष्टुभं च करोति
ब्रह्म वै गायत्री वागनुष्टुब्ब्रह्मणैव तद्वाचं संदधाति, इति ।
इन्द्राग्नी युवं सु०—ऋ० सं० म० ८ सू० ४० ऋ० १ ।
* क. ख. पुस्तकयोरेतदग्रे—‘‘एकस्मिन्पादेऽवसायोत्तरस्मिन्पादे प्रणवप्रयोगः पादशं-
सनम् । इत्यधिकम् ।
अध्या० ५ ख० २ (२१)] ऐतरेयारण्यकम् । ७१
द्वितीयास्या ऋचः संबन्धिभिः सप्तभिः पादैर्गायत्रीं कृत्वा शंसेत् । पादद्वयेऽवसाय तृतीयपादे प्रणवो गायत्रीकरणम् । अवशिष्टेन पादचतुष्टयेनानुष्टुभं कृत्वा शंसेत् । पादद्वयेऽवसाय चतुर्थपादे प्रणवप्रयोगोऽनुष्टुप्करणम् । तत्र या त्वत्र निष्पाद्या गायत्री सा ब्रह्मैव “तत्सवितुर्वरेण्यम्”— [ऋ० सं० म० ३ सू० ६२ ऋ० १०] इत्यनया गायत्र्या परब्रह्मणः प्रतिपादितत्वात् । या तु पादचतुष्टयसंपन्नाऽनुष्टुप्सा वाग्रूपा वाग्विशेषाणां मध्ये प्रशस्तत्वात् । गायत्र्यनुष्टुभोः संपादनेन परब्रह्मणैव सह वाग्देवता संयोजिता भवति ।
[*अन्तिमाया विशेषं विधत्ते—
त्रिष्टुभमन्ततः शंसति वीर्यं वै त्रिष्टुब्वीर्येणैव तत्पशून्परिगच्छति तस्मात्पशवो वीर्यमनूपतिष्ठन्त ईर्यतां चैत्राभ्युत्थानं च, इति ॥ ]
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये
प्रथमः खण्डः ॥ १ ॥ ( २० )
अन्ततः सूक्तस्यावसाने या त्रिष्टुप्छन्दस्काऽऽम्नाता तां त्रिष्टुभः समयनैव शंसेत् । [+तदेव त्रिष्टुप्समयः । १) त्रिष्टुभो वीर्यहेतुत्वाद्वीर्यरूपत्वं तत्तेन त्रिष्टुप्संशसनेनायं पुरुषः स्वसामर्थ्येनैव पशून्परितः प्राप्नोति । यस्मादेवं तस्माल्लोके पशवो वीर्यमनूपतिष्ठन्ते वाक्पारुष्येण दण्डपारुष्येण वा गोपालवीर्यमवधार्य प्रत्याव्रजन्ति । तथा तद्वीर्यवशादीर्यतां च शयनादभ्युत्थानं च प्राप्नुवन्त्ये(*व न) वेति शेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २० )
अथ द्वितीयः खण्डः । ( एकविंशः )
[ अथ शस्त्रपक्षिणोऽन्यावयवविधानार्थं सूक्तान्तरविधानार्थं च खण्डान्तरारम्भः । ]
तस्य चैवाऽऽरम्भे सूक्तान्तरं विधत्ते—
प्र वो महे मन्दमानायान्धस इत्यैन्द्रे निष्केवल्ये
प्र वो महे०—ऋ० सं० म० १० सू० ९० ऋ० १ ।
* एतच्चिह्नान्तर्गतो मूलातिरिक्तो ग्रन्थः प्रकल्प्य मूलग्रन्थश्च मूलपुस्तकेभ्य उद्धृत्यात्र निवेशितः । + एतच्चिह्नान्तर्गतो ग्रन्थोऽधिकः । * एतच्चिह्नान्तर्गतमधिकम् । अथवा वाशब्दस्थाने एवशब्दं पठित्वा योज्यम् ।
१ ख. ग. घ. ‘त् । को नाम गा’ ।
७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके--
निविदं दधाति प्रत्यक्षाद्ध्येव तदात्मन्वीर्यं धत्ते, इति ।
“प्र वो महे” इत्यादिकं सप्तर्चं सूक्तं तत्रेन्द्र एव नामै[?] तदाद्यादि[?] निष्के-
वल्यशस्त्रं प(पा)ठ्यम् । तत्रेदानीं निवित्संज्ञकं तदवशेषज्ञानं (?) प्रक्षिपेत् । इन्द्रो देवः
सोम पिन्वमान इत्यादिकं निवित्पदजातं निवित्संज्ञके संघे पठितम् । सूक्तगतासु सप्त-
स्वृक्षु चतस्रः पठित्वा तिस्रोऽवशेष्य मध्ये निविदं दध्यात्तत्तेन निवित्प्रक्षेपेण प्रत्य-
क्षाद्ध्येव मुख्यमेव वीर्यमत्र शस्त्ररूपे पक्षिणि संपादयति ।
तत्सूतगतानामृचां छन्दोद्वयं दर्शयति—
तास्त्रिष्टुब्जगत्यो भवन्ति, इति ।
आदौ पञ्च त्रिष्टुभ उत्तरे द्वे जगत्यौ । यद्वा प्रथमा सप्तमी चोभे जगत्याववशि-
ष्टास्त्रिष्टुभः । तदाहानुक्रमणिकाकारः—“प्र वो महे सप्त द्विजगत्याद्यन्तम्” इति ।
सप्तसु च्छन्दोद्वयविशिष्टास्वृक्षु निवित्प्रक्षेपं प्रश्नोत्तराभ्यां विशदयति —
तदाहुरथ कस्मात्त्रिष्टुब्जगतीषु निविदं दधातीति न ह वा
एतस्याह एकं छन्दो निविदं दाधार न विव्या-
चेति तस्मात्त्रिष्टुब्जगतीषु निविदं दधाति, इति ।
[ *प्रकृतस्याह्नो निविद्वैशिष्ट्यं त्रिधा विधत्ते—
तदेतदहस्त्रिनिवित्कं विद्यादृशो निविद्वालखिल्या निवित्रि-
न्निविदेव निविदेवमेतत्रिनिवित्कं विद्यात्, इति ।
सूक्तान्तरशंसनं विधत्ते —
अथ सूक्ते वनेन वायो न्यधायि चाकन्यो
जात एव प्रथमो मनस्वानिति , इति ।
शंसने फलविशेषं दर्शयति —
तयोरस्त्यन्ने समस्य यदसन्मनीषा इत्यान्नाद्यस्यावरुद्धयै, इति ।
अन्यासामृचां शंसनं सफलं विधत्ते —]
अथाऽऽवपनमेते अन्तरेणैन्द्रीणां दशतीनां त्रिष्टुब्जग-
तीनां संपन्नानां यावतीरावपन्ते तावन्त्यूर्ध्वमायुषो
वर्षाणि जीवन्त्येतेन हैवाऽऽवपनेनाऽऽयुराप्यते, इति ।
वनेन वा०—ऋ० सं० म० १० सू० २९ ऋ० १ । यो जातः प्रथमः०-
ऋ० सं० म० २ सू० १९ ऋ० २ ।
* एतच्चिह्नान्तर्गतो मूलातिरिक्तो ग्रन्थः प्रकल्प्य मूलग्रन्थश्च मूलपुस्तकेभ्य उद्धृत्यात्र निवेशितः
१ ख. ग. घ. ˚मकं त˚ ।
अध्या०१ख०२(२१)] ऐतरेयारण्यकम् । ७३
अथ पूर्वयोः सूक्तयोरेकस्य शंसनानन्तरमेते अन्तरेणैतयोः “ वनेन वा ” [ ऋ० सं० म० १० सू० २९ ऋ० १ ] “यो जातः” [ ऋ० सं० म० २ सू० १२ ऋ० १ ] इति सूक्तयोर्मध्ये कासांचिदिन्द्रदेवताकानां त्रिष्टुब्जगत्याख्य-च्छन्दोद्वययुक्तानां स्वबुद्धिकौशलेन बृहतीत्वमापादितानामृचां मध्ये यावतीर्ऋच आवपेत्तावन्ति वर्षाणि कृप्ताच्छतसंवत्सरादायुष ऊर्ध्वं यजमाना जीवन्ति । एतेन-गार्वापनेनैवावश्यमायुः प्राप्यते । अत्र बुद्धिकौशलेन त्रिष्टुभां जगतीनां कथं बृहतीत्व-संपत्तिवश(?) उच्यते । तिसृषु बृहतीषु चतुष्टये(?) संपादिते सति* ।
सजनीयसूक्तस्य शंसने फलविशेषं दर्शयति—
प्रजां मे पशवोऽर्जयन्नित्येव सजनीयमनु शंसति, इति ।
मदीयां पुत्रादिरूपां प्रजां गवाश्वादयः +पशवो मार्जयन्नित्यभिप्रेत्याऽऽवपनमनु सजनीयसूक्तं शंसेत् ।
अथ—“ त्यमू षु ” [ ऋ० सं० म० १० सू० १७८ ऋ० १ ] इत्येतत्सूक्तं तृचरूपं विधत्ते—
तार्क्ष्यं शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्ति-
तायै स्वस्त्ययनमेव तत्कुरुते , इति ।
तार्क्ष्यो गरुडः स एवैष देवो यस्य “ त्यमू षु ” इत्यादिसूक्तस्य तत्सूक्तं तार्क्ष्यं शंसेत् । तस्मिन्सूक्ते प्रतिपाद्यो यस्तार्क्ष्यः सोऽयं स्वस्त्ययनं वै क्षेमप्राप्तिमेव संपादयतीति शेषः । अतस्तत्सूक्तं स्वस्तितायै संपद्यते यस्मात्तस्मादयं होता तत्तेन शंसनेन स्वस्त्ययनमेव क्षेमप्राप्तिमेव कुरुते ।
तत ऊर्ध्वम्—“इन्द्रो विश्वं विराजति” इति । तस्या एकपदाया ऋचः शंसनं विधत्ते—
एकपदां शंसत्येकधेदं सर्वमसानीत्यथो
सर्वां छन्दस्कृतिमाप्नवानीति, [इति] ।
एकेनैव प्रयत्नेनेदं सर्वमसानि प्राप्तव्यं फलमाप्नवानीत्यभिप्रेत्य तामेकपदां शंसति । अपि च सर्वां छन्दस्कृतिं सर्वेषामपि च्छन्दसां संपादनं प्राप्तवानीत्येतां शंसेत् । न ह्येकपदाया अर्वाचीनं किंचिच्छन्दोऽस्ति । उत्तरेषु तु द्विपदादिषु सर्वेष्वपि च्छन्दःस्वेकपद्दम् ।
* एतदग्रे त्रुटितं किंचित् । + पशवोऽर्जयन्नित्येव पाठोऽपेक्षितः ।
१ क. ख. 'के मसूक्तो प्र° ।
१०
७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-
अथ—" इन्द्रं विश्वाः " [ ऋ० सं० म० १ सू० ११ ऋ० १ ] इत्यादिक-
मष्टचं सूक्तं प्रयोगप्रकारविशेषयुक्तं विधत्ते—
इन्द्रं विश्वा अवीवृधन्निति पदानुषङ्गांस्ताः समानुषजति
सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधात्यष्टमीं नानु-
षजति वागष्टमी नेन्मे वाक्प्राणैरनुषक्ताऽसदिति तस्मादु
सा वाक्समानायतना प्राणैः सत्यननुषक्ता, इति ।
" इन्द्रं विश्वाः " इत्यस्मिन्नष्टर्चे सूक्ते पादानां परस्परमनुषङ्गः कर्तव्यः । तत्र सूक्तस्य यः प्रथमोऽर्धर्चो यश्चान्तिमस्तावूभावर्धर्चौ यथाध्ययनमेव पठनीयौ न त्वनुषज-(ञ्ज)नीयौ । तयोर्मध्ये ये चतुर्दशार्धर्चास्तेष्वेकैकपादान्तरितत्वेन परस्परानुषङ्गः कर्तव्यः । तद्यथा—प्रथमायामृचि यस्तृतीयः पादस्तं द्वितीयस्यामृचि प्रथमपादेन संयोज्यैकोऽर्धर्चः कर्तव्यः । तथा प्रथमायामृचि यश्चतुर्थः पादः सोऽयं द्वितीयस्यामृचि द्वितीयपादेन संयोजनीयः । एतेनार्धर्चद्वयेनैका संपद्यते । अनेनैव प्रकारेण सूक्तस्याऽऽद्यन्तयोरर्धर्चयोर्मध्यगतास्ताः सप्तर्चः परस्परमनुषजेत् । शिरसि छिद्रगताः प्राणाः सप्तैव तेन सप्तानामनुषङ्गेण शिरस्येव प्राणान्संपादयति । अष्टमीशब्देन सूक्तस्य चरमोऽर्ध एको विवक्षितस्तस्यानुषङ्गो नास्ति । उपरितनपादस्य कतमस्याप्यभावात् । अत एव शौनकः पञ्चमे—" प्रथमायाः पूर्वमर्धर्चं शस्त्वा " [ ऐ० आ० ५ अ० ३ ख० १ ] इत्यादिना " प्रकृत्या शेषः " इत्यन्तेन ग्रन्थेन सूक्तगतयोराद्यन्तयोरर्धर्चयोर्यथापाठमभिधाय मध्यगतानामेव चतुर्दशानामर्धर्चानां पाद्व्यतिषङ्गमुक्तवान् । केनाभिप्रायेणाष्टम्या व्यतिषङ्गो नास्तीति चेद्येनेयमृगष्टमी सा वाग्रूपा । अत एव वाजसनेयिनश्चक्षुरादीन्द्रियेषु गौतमभरद्वाजर्षिध्यानमधीयानाः " वागष्टमी ब्रह्मणा संविदाना" इत्येवं वाचोऽष्टमीत्वमामनन्ति । ईदृगष्टमी मदीया वाक्प्राणैरन्यैरनुषक्ता सती व्यतिषक्ता भवेदिति भीत्या तामष्टमीं नानुषजेत् । नेदिति निपातो भयद्योतनार्थः । यस्मादेवमष्टमीं नानुषजति तस्मादेव कारणात्साऽष्टमी वागन्यैः प्राणैर्जिह्वात्वगादिभिः समानायतनैकाधारा सत्यपि स्वयमननुषक्ता तैः सह नैव संकीर्णा किंतु विविक्ता सती शब्दमुच्चारयति ।
अथ—"पिबा सोममिन्द्र" [ ऋ० सं० म० ७ सू २३ ऋ० १ ] इत्यादिकानां विराच्छन्दस्कानां शंसनं विधत्ते—
विराजः शंसत्यन्नं वै विराजोऽन्नाद्यस्यावरुद्ध्यै, इति ।
विराच्छन्दसोऽन्नहेतुत्वादन्नत्वं तस्मात्तच्छंसनमन्नप्राप्तये संपद्यते । यद्यपि—"पिबा
इन्द्रं विश्वा अवीवृधन्०—ऋ० सं० म० १ सू० ११ ऋ० १ ।
अध्या० १ ख० २ (२१)] ऐतरेयारण्यकम् । ७५
'सोमम्" [ ऋ० सं० म० ७ सू० २३ ऋ० १ ] इत्यादिकं नवर्चं सूक्तं तथाऽ-
प्यन्तिमास्तिस्रः परित्यज्य प्राचीनाः षडेव पठेत् । अत एव शौनकः—"पिबा
सोममिन्द्र मन्दतु त्वेति षट्" [ ऐ० आ० ५ अ० ३ ख० १ ] इत्याह ।
तत ऊर्ध्वं वसिष्ठदृष्टेन—"योनिष्ट इन्द्र सदने अकारि" [ ऋ० सं० म० ७ सू०
२४ ऋ० १ ] इत्येतेन सूक्तेन निष्केवल्यशस्त्रस्य समापनं विधत्ते—
वासिष्ठेन परिदधाति वसिष्ठोऽसानीति, इति ।
अहं वसिष्ठः सर्वेषामतिशयेन निवासहेतुर्भवानीत्यभिप्रेत्य वासिष्ठसूक्तेन परिधानं
कुर्यात् । परिधानं समापनम् ।
तत्र कंचिद्विशेषं विधत्ते—
एष स्तोमो मह उग्राय वाह इति महद्वत्या रूपसमृद्धया, इति ।
"योनिष्टे" [ ऋ० सं० म० ७ सू० २४ ऋ० १ ] इत्यादिकं षडर्चं सूक्तं
तत्र षष्ठ्या परिधानं प्राप्तं तदपोह्य—"एष स्तोमः" [ ऋ० सं० म० ७ सू० २४
ऋ० ५ ] इत्यनया पञ्चम्या परिदध्यात् । सा च महद्वती मह उग्रायेति तत्र पठि-
तत्वात्तस्मादियं रूपसमृद्धेति तया परिधानं न्याय्यम् । एतच्च शौनको विस्पष्टं
दर्शयति—"योनिष्ट इन्द्र सदने अकारीत्येतस्य चतस्रः शस्त्वोत्तमामुपसंतत्योपोत्त-
मया परिदधाति" [ ऐ० आ० ५ अ० ३ ख० १ ] इति ।
तस्याः परिधानीयाया द्वितीयपादे धुरीति पदं व्याचष्टे—
धुरी वात्यो न वाजयन्नधायीत्यन्तो वै
धूरन्त एतदहरेतस्याह्नो रूपम् , इति ।
येयं धूः सेयं रथस्यान्तोऽश्वयोजनस्थानम् । अस्य(त्र) हि धूरशब्दे(धूःशब्द)
वाच्ये रथस्यान्तभागे ते(तौ) युग्र्यौ योज्येते । एतन्महाव्रताख्यमहश्च संवत्सरसत्र-
स्यान्त एतस्या ऊ(स्यो)र्ध्वमुदयनीयातिरात्रेणाह्नः समाप्यमानत्वात् । अतो धुरश्चा-
न्तर(त्व)साम्याद्धूःशब्दयुक्तो मन्त्र एतस्याह्नः स्वरूपम् ।
तृतीयपादेऽर्कशब्दं प्रशंसति—
इन्द्र त्वाऽयमर्क ईट्टे वसूनामित्यर्कवत्या रूपसमृद्धया, इति ।
अर्कवाचकोऽयमर्कशब्दस्तच्छब्दयुक्तत्वादियमृग्रूपसमृद्धा, ततस्तया परिधानं
युक्तम् ।
एष स्तोमो महे०—ऋ० सं० म० ७ सू० २४ ऋ० ५ । धुरी वात्यो न०—
ऋ० सं० म० ७ सू० २४ ऋ० ५ । इन्द्र त्वाऽयमर्क ईट्टे०—ऋ० सं० म० ७
सू० २४ ऋ० ५ ।
चतुर्थपाद्युक्तं प्रशंसति—
७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
चतुर्थपाद्युक्तं प्रशंसति—
दिवीव द्यामधिनः श्रोमंतं धा इति यत्र ह क्व च ब्रह्मण्या
वागुद्यते तद्धास्य कीर्तिर्भवति यत्रैवं विद्वानेतया परि-
दधाति तस्मादेवं विद्वानेतयैव परिदध्यात् , इति ।
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये
द्वितीयः खण्डः ॥ २ ॥ ( २१ )
हे देव नोऽस्माकं श्रोमंतं श्रवणीयकीर्तिं दिवीव द्युलोके यथा संपादयसि तथा द्यामधि^१ द्युलोकस्योपरि सोमलोकादावपि धा निधेहि संपाद्येत्यर्थः । एतस्यै पादस्य पाठेन यत्र क्वापि वेदशास्त्रविद्बहुले देशे ब्रह्मण्या वागुद्यते वेदनसंबन्धि वाक्यं पठ्यते तत्रास्य यजमानस्य कीर्तिः प्रसवति । यत्र यस्मिन्महाव्रते य एवं विद्वा-न्कीर्तिहेतुमृचं विद्वानेतयर्चा परिधानं करोति तस्मिन्महाव्रते य(त)स्य यजमानस्य कीर्तिर्भवतीति पूर्वत्रान्वयः । यस्मादेवं तस्या ऋचो महिमा भूयांस्तस्मादेवं विद्वान्म-न्त्रमहिमानं जानन्पुमानेतयैवर्चा परिदध्यात् । निष्केवल्यं समापयेत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-भाष्ये प्रथमारण्यके पञ्चमाध्याये द्वितीयः खण्डः ॥ २ ॥ ( २१ )
अथ तृतीयः खण्डः । ( द्वाविंशः )
माध्यंदिनसवने शस्त(शंसित)व्यं निष्केवल्यं समापितं तृतीयसवने शस्तव्य(शंसित)स्य वैश्वदेवशस्त्रस्यार्द्धयं विधत्ते—
तत्संवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्व-
देवस्य प्रतिपदनुचरावैकाहिकौ रूपसमृद्धौ, इति ।
प्रतिपद्यते प्राप्यते शस्त्रं येन तृचेन सोऽयं प्रतिपत्तत्संवितुरित्यादिकस्तृचस्तं तृचमनुचरति तदनन्तरं पद्य(ठ्य)त^२ इत्यनुचरोऽद्या नो देव सवितरित्यादिकस्तृचस्तावैतौ वैश्वदेवशस्त्रस्य प्रतिपदनुचरौ महाव्रतस्य प्रकृतिभूते विश्वजिदाख्य एकाहे तस्यापि मूलप्रकृतिभूतेऽग्निष्टोमाख्य एकाहे भवत इत्यैकाहिकावत एव स्वरूपेण समृद्धौ तस्मात्तौ कर्त्तव्यौ ।
दिवीव द्याम्०— ऋ० सं० म० ७ सू० २४ ऋ० ९ । तत्सवितुर्वृणीमहे०—
ऋ० सं० म० ५ सू० ८२ ऋ० १ । अद्या नो देव सवितः०— ऋ० सं० म० ५ सू० ८२ ऋ० ४ ।
^१ ख. ग. घ. ॰रि म(स्व)लोंका’ ।
^२ क. ॰स्य पाठे’ ।
अध्या० १ ख० ३(२२)] ऐतरेयारण्यकम् । ७७
अनिष्टशान्तिहेतुत्वेन तृचद्वयं प्रशंसति—
बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते
शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव
तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य
एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।
पूर्ववद्व्याख्येयम् [ ऐ० आ० १—१—३ ] ।
प्रतिपदनुचरयोरूर्ध्वमेकं सूक्तं विधत्ते—
तद्देवस्य सवितुर्वार्थ महदिति सावित्रमन्तो
वै महदन्त एतदहरेतस्याह्नो रूपम् , इति ।
“ तद्देवस्य ” इत्यादिकं सप्तर्चं सवितृदेवताकं सूक्तम् । सवितुर्देवस्य संबन्धि वार्यं सर्वैर्वरणीयं तत्तेजो महत्प्रौढम् । अस्मिन्पादे यन्महदित्युक्तं तदन्तो वै प्रार्थनीयस्य सर्वस्याप्यवसानभूमिः, न हि महत्त्वाद्ध्वं किंचित्प्रार्थनीयमस्ति । एतन्महाव्रतारूयमध्यहः संवत्सरसत्रस्यान्तोऽतोऽन्तत्वसाम्यादिदं सूक्तमेतस्याह्नः स्वरूपम् ।
सूक्तान्तरं विधत्ते—
कतरा पूर्वा कतराऽपराऽयोरिति
द्यावापृथिवीर्यं समानोदर्कं समानो-
दर्कं वा एतदहरेतस्याह्नो रूपम्, इति ।
“ कतरा ” इत्यादिकमेकादशचं सूक्तं द्यावापृथिवीदेवताकं शंसनीयम् । तच्च समानोदर्कं समान एकं उदकों यस्य सूक्तस्य तत्समानोदर्कं तस्मिन्हि सूक्ते बहुष्वृक्षु “ द्यावा रक्षतं पृथिवी नो अभ्वात् ” इत्ययमेव चतुर्थः पादः पठितोऽत एकविधः । एतन्महाव्रतारूपमहश्च समानोदर्कम् । अत्रोदर्क उत्तरकालभावि फलं तच्च सर्वेषां समानं सर्वेऽपि महाव्रतमनुष्ठाय ब्रह्म प्राप्नुवन्ति । अत एव शौनकेन—“ ब्रह्म भवति ” [ ऐ० आ० १ अ० ३ ख० ३ ] इत्युक्तम् । एवं च सति समानोदर्कसाम्यादेतत्सू[क्तमेतस्याह्नः स्वरूपम् ।
सू]क्तान्तरं विधत्ते—
अनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवम् , इति ।
तद्देवस्य सवितुर्वार्यं०—[ ऋ० सं० म० ४ सू० ५३ ऋ० १ । ] कतरा पूर्वा कतराऽपरा०—ऋ० सं० म० १ सू० १८५ ऋ० १ । अनश्वो जातो०—ऋ० सं० म० ४ सू० ३६ ऋ० १ ।
१ ख. ग. घ. ºक ऊर्ध्वोऽर्को ।
७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
“ अनश्वः ” इत्यादिकं नवर्चमृभुदेवताकं सूक्तं द्यामृभवः पृथिवीं यच्च पुष्यथेति तत्र स्वयमाभीत्वा(स्वयमेवाऽऽर्भवत्वा)त् । तत्सूक्तं शंसेत् ।
तत्र प्रथमायामृचि द्वितीयपादे त्रिशब्दं प्रशंसति—
रथस्त्रिचक्र इति पदे तन्त्रिवत्तदन्तो वै
त्रिवदन्त एतदहरेतस्याह्नो रूपम्, इति ।
“रथस्त्रिचक्रः परिवर्तते रजः” इति द्वितीयपादस्तस्मिन्पादे यदेतन्त्रिशब्दोपेतरथविशेषणं त्रिचक्र इत्येतत्पदं विद्यते त्रिशब्दोऽस्मिन्पदेऽस्तीति त्रिवत्पदं तच्चान्तं वा अवसानभूमिरेव । यस्य रथस्य चक्रद्वयेना(यम)निर्वाह्यं यत्र तस्य तृतीयं चक्रं संपाद्यते तावता निर्वाहो भवतीत्यभिप्रेत्य तन्त्रिवत्पदमन्त इत्युच्यते । अन्त एतदहरित्यादिकं पूर्ववत् [ ऐ० आ० १ अ० ५ ख० २ ] ।
सूक्तान्तरं विधत्ते—
अस्य वामस्य पलितस्य होतुरिति वैश्वदेवं
बहुरूपं वा एतदहरेतस्याह्नो रूपम् , इति ।
“ अस्य वामस्य ” इत्यादिकं द्विपञ्चाशदृचं सूक्तं विश्वे(श्व)देवदेवताकं पठेत् तच्च बहुरूपं बह्वर्थप्रतिपादकत्वात् । तच्चानुक्रमणिकायां दर्शितम्—अस्य द्विपञ्चाशदल्पस्तवं त्वेतत्संशयोत्थापनप्रश्नप्रतिवाक्यान्यत्र प्रायेण ज्ञानमोक्षाक्षरप्रशंसा चेति वैदिकमन्त्रादिना लौकिकवृत्त्यादिना$^१$ च विवृतत्वादह्नो बहुरूपत्वमतः साम्यादुभयोरानुरूप्यम् ।
यथोक्तस्य कृत्स्नस्य सूक्तस्य प्रसक्तिं वारयितुं विशिनष्टि—
गौरीर्मिमाय सलिलानि तक्षतीत्येतदन्तम् , इति ।
ऋचां चत्वारिंशति(त)मतिक्रम्यानन्तरभाविनी “ गौरीः ” इत्यादिका तदन्तमे सूक्तभागं पठेन्न तूपरितनम् । अत एव शौनकः—“ एकचत्वारिंशेतम्$^२$ ” [ ऐ० आ० १ अ० ३ ख० २ ] इत्याह ।
सूक्तान्तरं विधत्ते—
आ नो भद्राः क्रतवो यन्तु विश्वत इति वैश्व-
देवं निविद्धानमैकाहिकं रूपसमृद्धम् , इति ।
रथस्त्रिचक्रः०—ऋ० सं० म० ४ सू० ३६ ऋ० १ । अस्य वामस्य०—ऋ० सं० म० १ सू० १६४ ऋ० १ । गौरीर्मिमाय०—ऋ० सं० म० १ सू० १६४ ऋ० ४१ । आ नो भद्राः—ऋ० सं० म० १ सू० ८९ ऋ० १ ।
$^१$ ख. ग. घ. ॰कनृत्यादि’ । $^२$ क. ख. ग. ॰शतिमि’ ।
अध्या०५ख०३(१२)] ऐतरेयारण्यकम् । ७९
“ आ नः ” इत्यादिकं दशर्चं विश्वे(श्व)देवदेवताकं सूक्तं पठेत् । अस्मिन्सूक्ते नवर्चः शस्त्वा दशमीमवशेष्य तन्मध्ये विश्वे देवाः सोमस्य मत्सन्नित्यादीनि निवित्पदानि धीयन्ते प्रक्षिप्यन्ते तस्मादेतन्निविद्धानं तच्च मूलप्रकृतावग्निष्टोम एकाहे समुत्पन्नत्वादैकाहिकं सूक्तं पठेत् । अत एव रूपसमृद्धम् ।
अरिष्टशान्तिहेतुत्वेन सूक्तं प्रशंसति—
बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते
शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव
तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य
एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।
पूर्ववद्व्याख्येयम् [ ऐ०आ० १ अ० १ ख० ३ ] ।
वैश्वदेवशस्त्रपर्यन्तं समाप्याग्निमारुतशस्त्रस्य प्रारम्भे पञ्चदशर्चं सूक्तं विधत्ते—
वैश्वानराय धिषणामृतावृध इत्याग्निमारुतस्य प्रतिप-
दन्तो वै धिषणाऽन्त एतदहरेतस्याह्नो रूपम् , इति ।
अत्र या धिषणा सा बुद्धिः श्रूयते । सेयमन्तो वै पर्यवस्थानभूमिरेव । सर्वस्य व्यवहारस्य बुद्धयधीनत्वात् । अन्त एतदहरित्यादि पूर्ववत् । [ऐ० आ० १ अ० १ ख० २]
सूक्तान्तरं दशर्चं मरुद्देवताकं विधत्ते—
प्र यज्यवो मरुतो भ्राजदृष्टय इति मारुतं समा-
नोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपम्, इति।
अस्मिन्नपि सूक्ते बहुष्वृक्षु—“ शुभं यातामनुरथा अवृत्सत ” इत्यस्यैव चतुर्थपादस्य पठितत्वात्समानोदर्कत्वम् । अन्यत्पूर्ववद्व्याख्येयम् ।
अथ सूक्तात्मिकामेकामृचं विधत्ते—
जातवेदसे सुनवाम सोममिति जातवेदस्यां पुर-
स्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्या
स्वस्तितार्यै स्वस्त्ययनमेव तत्कुरुते, इति ।
जातवेदोनामिका देवता यस्या ऋचः सा जातवेदस्या तामृचं विधास्यमानस्य “ इमं स्तोमम् ” [ ऋ० सं० म० १ सू० ९४ ऋ० १ ] इत्यादिसूक्तस्य पुरस्ताच्छंसेत् । सा च स्वस्त्ययनं क्षेमप्राप्तिहेतुरतः स्वस्तितार्यै, क्षेमप्राप्तये समर्था । तत्तेनर्क्पाठेन क्षेमप्राप्तिमेव संपादयति ।
वैश्वानराय धि०—ऋ० सं० म० ३ सू० २ ऋ० १ । प्र यज्यवो०—ऋ० सं० म० १ सू० ८७ ऋ० १ । जातवेदसे०—ऋ० सं० म० १ सू० ९९ ऋ० १ ।
८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-
सूक्तान्तरं विधत्ते—
इमं स्तोममर्हते जातवेदस इति जातवेदस्यं समानोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपमह्नो रूपम् , इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥ ( २२ )
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यकं समाप्तम् ॥ १ ॥
इममित्यादिकं षोडशर्चं जातवेदोदेवताकं सूक्तं पठेत् । तस्मिन्सूक्ते बहुष्वृक्षु “ अग्ने सख्ये मा रिषामा वयं तव ” इत्यस्य चतुर्थपादस्य पठितत्वात्समानोदर्कत्वम् अन्यत्पूर्ववद्व्याख्येयम् । द्विरभ्यासोऽध्यायसमाप्त्यर्थः प्रथमारण्यकसमाप्त्यर्थः कर्मकाण्डसमाप्त्यर्थः(श्चैश्व) ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥ ( २२ )
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्मणारण्यकाण्डभाष्ये प्रथमारण्यके पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरसायणामात्यकृतौ माधवीये वेदार्थप्रकाश ऐतरेयाऽऽरण्यकाण्डे प्रथमारण्यकं समाप्तम् ॥ १ ॥
( समष्ट्यङ्काः—आर० १ अध्या० ५ ख० २२ )
इमं स्तोम०—ऋ० सं० म० १ सू० ९४ ऋ० १ ।
अथ द्वितीयारण्यकम्।
प्रथमोऽध्यायः।
तत्र प्रथमः खण्डः।
यस्यै निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥ १ ॥
प्रथमारण्यके कर्म महाव्रतमुदीरितम्।
संवत्सराख्यसत्रस्य शेषः पूर्णोऽत्र तावता॥ २ ॥
तदीया विकृतिः सर्वा प्रोक्तैवेति मनीपया।
कर्मकाण्डं समाप्यैव वेदो ज्ञानं विवक्षति॥ ३ ॥
आरण्यकं द्वितीयं च तृतीयं च तदात्मकम्।
ज्ञानकाण्डं ततः सोपनिषदित्यभिधीयते॥ ४ ॥
करोम्युपनिषद्व्याख्यां शंकराचार्यवर्त्मना।
आचार्यस्य प्रसादेन संसारान्मुच्यतां बुधः॥ ५ ॥
उपनिषच्छब्दो ब्रह्मविद्यामाचष्टे। सा हि विवित्सुं पुरुषमुपेत्य नितरामविद्यां सीदति विशीर्णां करोति, यद्वा ब्रह्मतां गमयति, अथवा रागद्वेषाववसादयति शिथिलीकरोति। ततः “षदॢ विशरणगत्यवसादनेषु” [भ्वा० ग० प०] इति प्रोक्तं धातोरर्थत्रयं तस्मिन्नुपनिषच्छब्दो विद्यते। तार्थावधाया ब्रह्मविद्याया उत्पादकत्वाद्व्रन्थोऽप्युपनिषदित्युच्यते। तस्योपनिषद्व्रन्थस्य विषयप्रयोजनाधिकारिसंबन्धप्रामाण्यप्रमेयस्वरूपाणि निरूप्यन्ते। अद्वैतमात्मतत्त्वं विषयः। अनन्यलभ्यमानत्वात्। न हीदृशं तत्त्वमुपनिषदोऽन्येन केनापि प्रमाणेन लभ्यते। न तावच्चक्षुरादिजन्यं बाह्यं प्रत्यक्षं तत्त्वे प्रमाणम्। तत्त्वस्य रूपरसादिरहितत्वात्। नाप्यहं मनुष्य इति वा कर्ता भोक्ताऽहमिति वा मानसप्रत्यक्षं तत्त्वबोधकम्। तयोः क्रमेण स्थूलसूक्ष्मदेहविषयत्वात्। यत्त्वहं ब्रह्मेति मानसप्रत्यक्षं तच्छास्त्रजन्यत्वान्नोपनिषदो व्यतिरिक्तम्। नाप्यस्यानुमानं तत्त्वे प्रवर्तते, तद्व्याप्तस्य लिङ्गस्य कस्याप्यभावात्। न हि निर्धर्मके तत्त्वे किंचिल्लिङ्गं संभवति। शक्यमानस्य यस्य कस्यापि लिङ्गस्य पक्षधर्मत्वाभावेनासिद्धत्वप्रसङ्गात्। आगमेऽपि कर्मकाण्डे तत्त्वं न प्रतीयते। तस्मादुपनिषदेव परिशिष्यते। अत एव श्रुतिः प्रत्यक्षादिगम्यत्वं निराकृत्योपनिषदेकगम्यत्वं दर्शयति— “नावेदविन्मनुते तं बृहन्तम्”
१ क. ॰स्य निःश्व॰। २ ख. ग. ॰दीयवि॰। ३ ग. ॰विधत्र॰। ४ क. ॰व्याप्यस्य।
११
८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
[तै०ब्रा० ३।१२।९] इति। “तं त्वौपनिषदं पृच्छामि” [बृ० ३।९।२६] इति च। तथा
सत्यनान्यलभ्यमौषधादिकं यथा चिकित्सादिशास्त्रस्य विषयस्तथा तत्त्वमद्वैतमुपनिषदो
विषयः। प्रयोजनं चाऽऽत्मतत्त्वाविर्भावादिकम् । तत्र सर्वात्मकपरब्रह्मस्वरूपात्माविर्भावः
प्रथमं फलम्। “आत्मनैवाऽऽत्मानं पश्यति” इति श्रुतेः। तत ऊर्ध्वमविद्याग्रन्थिर्विकीर्यते।
“एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह नाम्यः” [मु० २।१।१०] इति
श्रुतेः । निवृत्तायामावरणाविद्यायामन्तःकरणतादात्म्यग्रन्थिभेदश्चिद्रूपजडरूपत्वादिसंश-
यच्छेदो भाविजन्महेतुकर्मक्षयश्च भवति ।
“भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे” [मु० २।२।८] इति श्रुतेः ॥
इह लोकेऽपि हर्षशोकपरित्यागो भवति । “अध्यात्मयोगाधिगमेन देवं मत्वा धीरो
हर्ष शोकौ जहाति” [का० २।१।१२] इति श्रुतेः । तथा काम्यमानस्य सत्यत-
त्त्वस्य प्राप्तत्वान्नियमितान्तःकरणत्वेन विषयदर्शनाभावाच्च कामविलयो भवति । “पर्या-
प्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः” [मु० ३।२।२] इति श्रुतेः।
तथा तस्य द्यूतादिस्थानिनी क्रीडाऽप्यात्मन्येव । संध्यावन्दनाग्निहोत्रादिरूपा क्रियाऽ-
प्यात्मन्येव । “आत्मक्रीड आत्मरतिःक्रियावानेष ब्रह्मविदां वरिष्ठः” [मु० ३।१।४]
इति श्रुतेः । ईदृशस्य लौकिकवैदिककर्मकर्तव्याभावादयं कृतकृत्यः । “यत्पूर्णानन्दै-
कबोधं तद्ब्रह्माहमस्मीति कृतकृत्यो भवति” [परमहं० ३] इति श्रुतेः ।
“ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
नैवास्ति किंचित्कर्तव्यमस्ति चेन्मानसं तु तत्” इति स्मृतेश्च ॥
एतादृशस्य योगिनः सर्वदा मनसि *विद्यानिमित्त आनन्द आविर्भवति । “रसो वै सः ।
रसꣳ ह्येवायं लब्ध्वाऽऽनन्दी भवति” [तै० उ० २।७।१] इति श्रुतेः । सेयमुपनिषदः
प्रयोजनपरम्परा द्रष्टव्या । संबन्धश्च कर्मकाण्डेन सह साध्यसाधनभावः । उपनिषदि
साध्यं तत्त्वज्ञानं प्रतिपाद्यते । कर्मकाण्डे तु चित्तसंस्काराय पापक्षयेण वा विविदिषोत्पाद-
नेन वा तानि साधनान्यग्निहोत्रादिकर्माणि प्रतिपादितानि । अत्रैतं यथोक्तसंबन्धमसह-
मानाः प्रतिवादिनो बहुधोत्तिष्ठन्ति । तेषां मध्ये केचिद्रूक्षंज्ञाननैरपेक्ष्येणैव मोक्षं वर्ण-
यन्ति । निषिद्धकाम्ययोः कर्मणोः सर्वात्मना परित्यागेन भाविनोरुत्तमाधमजन्मनोरसं-
भवान्नित्यनैमित्तिकानुष्ठानेन प्रत्यवायानुदयात्प्रारब्धकर्मणो भोगेन विनाशाद्देहान्ते
* विभावित इति क. ख. पुस्तकयोः पाठान्तरम् ।
१ ग. ॰मप्रवि॰। २ क. ख. घ. ॰त्मनेव । ३ ख. ॰होत्ररू॰। ४ क. ख. ॰याऽध्यात्म॰ । ५ क. ख. ॰त्मप्रति॰ । ६ क. ख. वरिष्ठः । ७ क. ख. स्मृतेः । ए॰ । ८ ग. घ. ङ. तादृशस्य । ९ घ. 'दि हि सा' । १० ग. 'नि । तत्रैवं ।
अध्या० १। ख० १] ऐतरेयारण्यकम् । ८३
मुक्तिरेव परिशिष्यत इति । तदयुक्तम् । अनन्तयोर्निषिद्धकाम्ययोः सर्वात्मना परि-
त्यागासंभवान्नित्यनैमित्तिकयोरपि फलसद्भावशङ्काज्जन्मान्तरकृतानां च बहुजन्महे-
तूनां संभवान्नास्ति ज्ञानमन्तरेण मुक्तिः । अन्ये तु ज्ञानप्राधान्येन वा कर्म-
प्राधान्येन वोभयप्राधान्येन वा ज्ञानकर्मणोः समुच्चयो मुक्तिहेतुरित्याहुः ।
तदयुक्तम् । परस्परविरुद्धयोः समुच्चयासंभवात् । निर्विकारात्मबुद्धिर्ज्ञानम्, अहं
कर्ता ममेदं कुलमिति भ्रान्त्या कर्मप्रवृत्तिरिति तयोर्विरोधः । अपरे पुनर्शानस्यैव
मुक्तिहेतुत्वेऽपि सोपानपङ्क्त्या हर्म्याधिरोहणन्यायेन संध्यावन्दनमारभ्य सह-
स्रसंवत्सरसत्रान्तेषु वैदिकेषु, कर्मस्वनुष्ठितेषु पश्चाज्ज्ञानाधिकारमिच्छन्ति । तदप्य-
युक्तम् । अल्पायुषां मनुष्याणां तदसंभवात् । अपरे पुनः प्रपञ्चप्रविलापनेन कर्मका-
ण्डस्योपयोगमिच्छन्ति, स्वर्गकामो यजेतेत्युक्ते सत्यर्थाद्देहात्मभावस्य प्रविलाप्यमानत्वा-
दिति तदसत् । बकबन्धनप्रयासप्रसङ्गात् । यथा बकबन्धनकामस्तत्समीपे गत्वा
तदानीमबद्ध्वा शिरसि नवनीतं प्रक्षिप्पाऽऽतपेन विलीनस्य नवनीतस्य चक्षुष्प्रवेशे
सति निमीलितचक्षुष्कं बकं पश्चाद्गृह्णाति तथाऽयं प्रपञ्चप्रविलापवादी साक्षाद्विलाप-
कम्—"अस्थूलमणणु"[बृ० ३।८।८] इत्यादिकमुपनिषद्वाक्यमुपेक्ष्य विलापनस्यान-
भिधायकेन स्वर्गकामपदेनार्थाद्विलापयतीति व्यर्थोऽयं प्रयासः । एके तु वेदोक्तकृ-
त्स्नकर्मभिस्तत्तत्फलेषु भुक्तेषु कामे प्रलीने सति पश्चाज्ज्ञानाधिकार इति वर्णयन्ति ।
तदप्ययुक्तम् । भोगेन कामलयस्यासंभवात् ।
तथा च स्मर्यते—
"न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मव भूय एवाभिवर्धते" इति ॥
[ भा० आदि० अ० ८९ श्लो० १२ ]
तस्मान्मतान्तराणामयुक्तत्वाज्ज्ञानकर्मणोः साध्यसाधनरूपत्वात्तत्प्रतिपाद्यप्रतिपादक-
त्वमेव तयोः संबन्धः । अधिकारी तत्र जिज्ञासुरेव न तु चिकीर्षुः । यश्च चिकीर्षोरधि-
कारं मन्यते स प्रष्टव्यः । वेदान्ताधिकारी यत्कार्यं चिकीर्षति तत्किं कार्यसामान्यं
किंवा कार्यविशेषः । नाऽऽद्यः । कार्यसामान्यस्य वेदान्तेष्वप्रतीतेः । सत्यज्ञानादि-
वाक्येषु कुर्यादितिपदस्यादर्शनात् । विशेषपक्षेऽपि कोऽसौ कर्तव्यो विशेषः किं
वासनानां निरोधः किंवा मनसो निरोध उत प्रतिपत्तिराहोस्वित्प्रसंख्यानम् । सर्वथाऽपि
१ क. ख. फलसाधनेन । २ क. ख. ॰जेयुरित्य' । ३ क. ख. ॰मीलव' । ४ ख. घ. ॰श्ववि-
लयवां । ५ क. ख. ॰श्वात्साधि॰ । घ. ॰श्वात्सामाधिं । ६ क. ख. ॰गे कामफलस्या॰ । ७ ग. ॰त्तत्प्र-
तिरूपत्वात्तत्तत्प्रतिपादकमे॰ । ८ क. ख. ॰पादक्रमे॰ । ९ ग. घ. ङ. ॰री तत्त्वजिं । १० ग. घ.
ङ. यस्तु चिं । ११ क ख. ॰नासनिं । १२ ग. ॰स्वित्संख्या॰ ।
८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-
वेदान्तानां कार्यपरत्वं नोपपद्यते । सत्यज्ञानादिवाक्येषु यथोक्तवासनानिरोधादिविधे-
रप्रतिभासात् । अनर्थनिवारकत्वेन सुषुप्त्यादौ दृष्टत्वाद्वासनामनोनिरोधावपेक्षिताविति
चेत् । एवं तर्हि सुषुप्त्यादिदृष्टान्तेनान्वयव्यतिरेकसिद्धत्वादेतौ शास्त्रेण न विधा-
तव्यौ । नापि तृतीयः पक्षः । कर्तुमकर्तुमन्यथा वा कर्तुमशक्यत्वेनापुरुषतन्त्रायाः
प्रमाणैकजन्यायाः प्रतिपत्तेर्विध्यसंभवात् । नापि चतुर्थः । शब्दयुक्त्यावृत्तिरूपस्य
प्रसंख्यानस्य साक्षात्कारहेतुत्वाभावात् । यथा प्रथमप्रवृत्ते शब्दयुक्ती साक्षात्कारं न
जनयत एवमसकृदावृत्तेरपि । तस्मात्कार्यसामान्यस्य कार्यविशेषस्य वा वेदान्तैरप्रति-
पाद्यत्वान्न चिकीर्षोरत्राधिकारः, किं तु सिद्धब्रह्मतत्त्वस्यैव प्रतिपाद्यत्वाज्जिज्ञासोरेवात्रा-
धिकार इति स्थिरम् । ननु जिज्ञासोरपि वेदान्ताः प्रमिति न जनयन्ति तत्प्रामा-
ण्यस्यैवाभावादिति चेत् । तत्र वक्तव्यम् । किं साधकाभावात्प्रामाण्याभाव आहो-
स्विद्प्रमाणहेतुसद्भावात् । नाऽऽद्यः । स्वतः प्रामाण्याङ्गीकारेण साधकानपेक्षत्वात् ।
द्वितीयेऽपि किमबोधकत्वात्प्रामाण्यमुत बाधितत्वादथ वाऽनुवादकत्वात् । नाऽऽद्यः ।
“आत्मा वा इदमेक एवाग्र आसीत्” [ऐ० आ० २ अ० १ ख० १] इत्याद्यवान्त-
रवाक्यानां(णां) “प्रज्ञानं ब्रह्म” [ऐ० २ । १ । ३] इत्यादिमहावाक्यानां च श्रवणमात्रेण
बोधोपलम्भात् । कर्मकाण्डोक्तज्योतिष्टोमादिवाक्यवत्पदार्थानां संसर्ग एवात्रावबुध्यते न
त्वखण्डार्थ इति चेन्मैवम् । “स एष नेति नेत्यात्मा” [बृहदा०] इत्यादित्वंपदा-
र्थशोधकवाक्यैः “अस्थूलमनणु” [बृ० ३ । ८ । ८] इत्यादितत्पदार्थशोधकवाक्यैश्च
शोधिततत्त्वंपदार्थस्य पुरुषस्याखण्डार्थत्वावबोधात् । नापि द्वितीयः । प्रत्यक्षानुमान-
विधिनिषेधशास्त्रादीनां मायाकल्पितभेदमाश्रित्य चरितार्थानां वास्तवाद्वैतबोधि वेदान्त-
बाधकत्वासंभवात् ।
अत एवान्यत्रोक्तम्—
“वास्तवे ब्राह्मणे स्वप्ने कलिता शूद्रता यथा ।
न विरुद्धा तथा भेदो नाद्वैतेन विरुध्यते” [वा० बृ०] इति ॥
नापि तृतीयः । आत्मतत्त्वविषयस्य पुरोवादिनः प्रमाणान्तरस्याभावेनानुवादकत्वा-
संभवात् । वेदान्तसिद्धान्तमजानद्भिर्वादिभिर्लौकिकैश्चाहं मनुष्य इत्यादिभिः प्रमाणैः
स्वस्वात्मग्रहणादस्ति पुरोवादिप्रमाणमिति चेत् । न । तेषां देहादिविषयत्वेनाऽऽत्मतत्त्व-
गोचरत्वं नास्तीति पूर्वमेवानन्यलभ्यं विषयं निरूपयद्भिरस्माभिः प्रतिपादितत्वात् ।
तस्मात्प्रामाण्यकारणाभावाद्यद्वेदान्तानां स्वतःसिद्धं प्रामाण्यं तत्सुस्थितम् । एवमप्या-
१ ख. 'र्थविचार' । २ ग. सुप्तादौ । ३ क. 'त्वेन परत' । ४ ग. 'विद्यमानत्वा' । ५ क. ख. 'तुलाभा' । ६ ग. 'त्वात्तज्जिज्ञा' । ७ क. ख. स्थितम् । ८ ख. ग. 'वत्तदर्था' । ९ ख. ग. घ. 'तप' । १० ग. 'र्थंतत्त्वाव' । ११ ख. ग. निषेधद्वि' ।
अध्या० १ ख० १] ऐतरेयारण्यकम् । ८५
त्मनः स्वप्रकाशत्वेन घटादिवत्प्रमेयत्वं नास्तीति चेत् । मैवम् । घटादिग्राहकेष्वपि वास्तवेषु ज्ञानेषु न्यायतो विचार्यमाणेष्वात्मन एव प्रमेयत्वात् । तथा हि—यत्प्रमातुमर्हं तत्प्रमेयं तदर्हत्वं चाज्ञातत्वादात्मन एव युज्यते न तु घटादेः । अज्ञानेनाऽऽवृतत्वमज्ञातत्वम् । घटादयस्त्वज्ञानकार्यत्वान्नाज्ञानेनाऽऽवृताः ।
अत एवान्यत्रोक्तम्—
“अज्ञातरज्जुकार्यस्य सर्पस्याज्ञातता न हि ।
अज्ञातब्रह्मकार्यस्य जडस्याज्ञातता कुतः ॥
रज्जुसर्पं न जानामि बोद्धुमिच्छामि मानतः ।
इति व्यवहृतिं प्राज्ञा नाङ्गी कुर्वन्ति केऽपि च ॥
किं चाज्ञातत्वतो लभ्यं तिरोधानं न चेतरत् ।
स्वयमेव तिरोभूते जडे काऽन्या तिरोहितिः ॥
आविर्भूते स्वरूपे तु चैतन्येऽज्ञाननिर्मिता ।
तिरोधानाद्विशेषोऽस्ति शुभ्रवस्त्रे मषी यथा ॥
चन्द्रं मलिनयेद्राहुर्नीलमेघं न तु क्वचित् ।
एवं चैतन्यमज्ञातं जडं त्वज्ञानदेहकम् ॥
अतोऽनुभव एवैको विषयो ज्ञानलक्षणः ।
अक्षादीनां स्वतः सिद्धो यत्र तेषां प्रमाणता ॥
अनुभूतिग्रहायैव प्रवृत्तान्यपि दृष्ट्या ।
सामग्र्याऽखिलमानानि गृह्णन्ति जडसंयुताम् ॥
शुक्तिकाग्रहणायैव प्रवृत्तमपि लोचनम् ।
गृह्णीते रजतोपेतं शुक्त्यंशं दोषयोगतः ॥
वेदान्तेतरसामग्री दृष्टैषा चक्षुरादिका ।
तज्जा धीरत्र गृह्णाति स्फूर्तिं रूपादिंसंयुताम् ॥
एवं च सति विभ्रान्तः कल्पिते रजते धियम् ।
प्रमाणं मनुते यद्वद्रूपाद्यौ मनुजस्तथा ॥
ब्रह्मण्यक्षादिमानत्वमिति न्यायविदां मतम् ।
रूपादावेव तन्मत्वमिति मूढधियो जगुः ” [वाक्यवृ०] इति ॥
१ क. ख. ॰मेयत्वार्हं तच्च ज्ञा॰ । २ क. ॰मल्पत्वत्वं । ३ क. ख. ॰यस्तु ज्ञा॰ । ४ क. ॰ज्ञानता । ५ क. ख. तु चेतनाऽन्येन नि॰ । ६ क. ॰धं तु न क्व॰ । ७ ग. ॰यो ज्ञप्तिल॰ । ८ क. ख. ॰ह्वते जडसंयुतान् । शु॰ । ग. ॰ह्वतेऽखिलसंयुतान् । शु॰। ९ क. प्रामाण्यं । १० क. ख. ॰प्यज्ञादि॰ । ११ ग. ॰न्मानमि॰ । घ. ॰न्मात्रमि॰ ।