Skip to content
SarvaKosh
Back to the archive

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

by महर्षि ऐतरेय महिदास

Source: Aitareya Aranyakam with Vedic Accents & Commentary (origin)

Public domain in India · Report a copyright issue

DevanagariHindipublished304 pages

About this granth

The Aitareya Aranyaka (ऐतरेयारण्यकम्) is the forest-text of the Aitareya branch of the Rigveda, following the Aitareya Brahmana. Tradition credits its first three books to Mahidasa Aitareya. It deals with the Mahavrata day of the soma ritual, the recitations performed on it and their inner meaning. Chapters four to six of the second book form the Aitareya Upanishad, and the third book, the Samhita Upanishad, reflects on the forms of Vedic recitation.

The text is divided into five aranyakas, each split into adhyayas and khandas. This edition prints it with the Sanskrit commentary of Sayanacharya, who explains its ritual terms and Vedic words.

The scanned title page identifies it as number 38 of the Anandashrama Sanskrit Series, revised by Babashastri Phadke and published by Hari Narayan Apte from the Anandashrama press, Pune, in Shaka 1820 (1898). A list of the manuscripts used for the text precedes it. The copy has 304 pages.

Page 64Permalink

अध्या० ४ ख ० १ (१७)] ऐतरेयारण्यकम् । ५९

पंचमे शौनकेनोदाहताः—“ग्रीवा यस्येद्मारजः” [ऐ० आ० १ अ० २ ख० १]
इत्यादिना । ताश्च तिस्र ऋचो यथाच्छन्दसमध्यापकप्रसिद्धवेदपाठमनतिक्रम्यर्गक्षरग-
णनया तिस्र उष्णहः संपद्यन्ते । तत्र च्छन्दःपूरणायाक्षरान्तरप्रक्षेपं पुरुष इत्या-
दिवदपेक्षन्ते ।

ग्रीवाभागानन्तरमपि पूर्ववत्सूददोहसं विधत्ते—

अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति ।

ग्रीवाभागं समाप्य शिरोभागं विधत्ते—

अथातः शिरस्तद्गायत्रीषु भवत्यग्रं वै छन्दसां
गायत्र्यग्रमङ्गानां शिरस्तदर्कवतीषु भवत्यग्निर्वै
अर्कस्ता नव भवन्ति नवकपालं वै शिरो दशमीं
शंसति त्वक्केशा इत्येव सा भवत्यथो स्तोमातिशं-
सनाया एव तौ त्रिवृच्च स्तोमौ भवतो गायत्रं च
च्छन्द एतयोर्वै स्तोमच्छन्दसोः प्रजातिमनु
सर्वमिदं प्रजायते यदिदं किंच प्रजायतै, इति ।

ग्रीवानन्तरं शिरसोऽपेक्ष(क्ष्य)त्वाच्छिरोभागं शंसेत् । स च शिरोभागो गायत्री-
छन्दस्कास्वृक्षु द्रष्टव्यः, शिरोगायत्र्योरग्रत्वसाम्यात् । सिसृक्षोः प्रजापतेः प्रथमं मुखतो
गायत्री समुत्पन्ना । [एतच्च] यजुर्ब्राह्मणे द्रष्टव्यम् । उत्पद्यमानस्य देहस्य शिरः प्रथमं
योनेर्निर्गच्छतीति शिरसोऽप्यग्रत्वम् । गायत्रीणां बहूनां विद्यमानत्वादर्कवतीष्विति
विशेष्यते । “इन्द्रमिद्गाथिनः” [ऋ० सं० म० १ सू० ७ ऋ० १] इत्यादिकं सूक्तं दशर्चं
तत्रत्या ऋचोऽर्कवत्यः । “इन्द्रमर्केभिरर्किणः” [ऋ० सं० म० १ सू० ७ ऋ० १]
इत्येवमर्कशब्दयुक्तत्वादर्कवत्य इत्युच्यन्ते । अतोऽग्नियुक्ते(क्तत्वे)न प्रशस्तत्वादर्कवतीः
शंसेत् । तास्विन्द्रमिद्गाथिन इत्यादिकानां य एकश्रुषणीनामित्यन्तानां संख्या प्रथता
नवेति वाक्येन प्रशस्यते । नवसंख्याकानि कपालान्येकधा संयोज्य प्रजापतिना मनुष्य-
शिरो निर्मितम् । एतच्च (अयं च(?)) मृतपुरुषस्य शिरसि^३ शोषेणे(पेण) त्वगादावपगते
सत्यस्थिगतो विभागो बुद्धिमद्भिरुद्धेतुं शक्यते । एतदेवाभिप्रेत्य तैत्तिरीयकाश्चाऽऽम-
नन्ति—“तस्मान्नवधा शिरो विष्यूतम्” [तै० सं० अ० ६ प्र० २ अ० १]
इति । या तु “इन्द्रं वो विश्वतस्परि” [ऋ० सं० म० १ सू० ७ ऋ० १०]
इति दशमी तच्छंसने शिरःकपालानामुपरि त्वक्संपादित भवति । तस्यां त्वच्यपि
केशाः संपादिता भवन्ति । अपि चेयं दशमी सा सामगांनां संबन्धिनास्त्रिवृ-


१ क. ‘ध्यायकं’। २ ख. ग. घ. ‘हस्य वि’ । ३ क. ‘सि रोमशौ’ । ४ क. ‘षणग तत्वं’ ।
ख. घ. ‘वृणत्व’ । ५ क. ख. ‘गांनी सं’ ।

दशमी विद्यते । होता तु नवसंख्याकास्ता अतिक्रम्य दशमीमपि शंसति । तदेतदति-

Page 65Permalink

६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

दाख्यस्तोमविशेषातिशयेन शंसनार्थं संपद्यते । सामगा हि शिरोभागं स्तुवन्त इन्द्रमि-
द्धाथिन इत्यादिषु नवस्तृचेषु चाऽऽवृत्तिरहितं त्रिवृत्स्तोमं संपादयन्ति । न त्वत्र तेषां
दशमी विद्यते । होता तु नवसंख्याकास्ता अतिक्रम्य दशमीमपि शंसति । तदेतदति-
शंसनमत्र त्रिवृत्स्तोमेनाऽऽवृत्तिराहित्यं च यथा सामवेदेऽवगम्यते तथा तैत्तिरीयब्रा-
ह्मणेऽप्यवगम्यते—"त्रिवृच्छिरो भवति। त्रेधा विहितं हि शिरः। लोम च्छवीरस्थि।
पराचा स्तुवन्ति" [तै० ब्रा० का० १ प्र० २ अ० ६] इति । एवं सति योऽत्र
सामगै(ग?)स्त्रिवृत्स्तोमो यदप्युद्गतं गायत्रीछन्दस्तावेता द्वौ प्रजोत्पत्तिहेतू संपद्येते ।
तयोश्च स्तोमच्छन्दसोः प्रजोत्पादनमनु लोके यत्किंचिदिदं प्राणिजातं दृश्यते तदिदं
सर्वमुत्पन्नं भवति । अतः शिरोभागशंसनं प्रजोत्पादनाय संपद्यते ।

एतद्वेदनं प्रशंसति—

प्रजायते प्रजया पशुभिर्य एवं वेद, इति ।

शिरोभागशंसनानन्तरं पूर्ववत् "ता अस्य" [ऋ० सं० म० ८ सू० ६९ ऋ०
३] इत्येतामृचं विधत्ते—

अथ सूददोहाः प्राणो वै सूद-
दोहाः प्राणेन पर्वाणि संदधाति, इति ।

शिरोभागं समाध्यानन्तरं पक्ष्याकारस्य पक्षमूलभागापेक्षणातत्तद्भागशंसनं विधत्ते—

अथातो विजवस्ता विराजो भवन्ति तस्मात्पुरुषः पुरु-
षमाह वि वा अस्मासु राजसि ग्रीवा वै धारय-
सीति स्तभमानं वा यद्वा दुताः संवाहळतमाः
सत्योऽन्नतमां प्रत्यच्यन्तेऽन्नं हि विराळन्नपु वीर्यम्, इति ।

विशेषेण जवो वेगो यस्मिन्पक्षमूले [स] विजवः । यद्वा ग्रीवाया अधस्तना अस्थि-
विशेषा विजत्र इत्यनेनोच्यन्ते । तद्भाव(ग)त्वेन संपाद्यमानास्ता ऋचो विराज्छ-
न्दस्का भवन्ति । ताश्च पञ्चमे शौनकेन शाखान्तरमाश्रित्य पठिताः—"सुतस्ते सोम
उपयाहि" [ऐ० आ० ५ अ० २ ख० १] इत्यादिना । यस्माद्ग्रीवाया अधोवर्ती
पक्षमूलभागोऽस्थिभागो वा विराज्छन्दस्कमन्त्ररूपो य(पस्त)स्माल्लोके कश्चित्पुरुष इतरं
पुरुषं श्रुताध्ययनसंपन्नं स्वामिनं प्रत्येवं प्रब्रूते । अस्मासु मध्ये त्वमेव विराजसीति ।
अथैवा स्तभमानं प्रणिपातादिविनयरहितमुत्कंधरं स्तब्धं पुरुषमुपालम्भं कुर्व-
न्नेतद्ब्रूते । ग्रीवावयवानेव त्वं धारयसीति । यद्यप्यनेनैवोद्धृत्याह्वयने(व्याह्वाने)न
स्तुतिर्न प्रतीयते तथाऽपि ग्रीवाधारत्वाकारेणात्र स्तुतिर्द्रष्टव्या । इत्थं लौकिकोक्तिमुप-
जीव्य विराज्छन्दस्कानाम्ऋचां प्रशंसा कृता । अथान्नहेतुत्वमुपजीव्य प्रशंसार्थं यद्वेति


१ ग. घ. 'पि प्रशं' । २ ग. 'थ लोके स्त' । ३ क. 'म्भं निन्दां कुं' ।

Page 66Permalink

अध्या ० ४ ख ० १ ( १७ ) ] ऐतरेयारण्यकम् । ६१

'पक्षान्तरोपन्यासः । ग्रीवाया अधोभागरूपाः सुतस्ते सोम इत्यादिका ऋचो दुताः
प्राप्ताः । “ दु गतौ ” [ भ्वा० प० ] इत्यस्माद्धातोरुत्पन्नः शब्दः । संबाळ्हतमा
अतिशयेन परस्परसंश्लिष्टास्थिरूपत्वेन दृष्टाः सत्योऽतिशयेनान्नरूपां विराजं
प्रत्यच्यन्ते प्राप्यन्ते । यस्मादन्नहेतुत्वेन विराडन्नं तच्च शक्तिहेतुत्वाद्वीर्यं
तस्माद्विराजः शंसेदित्यर्थः ।

“ ता अस्य सूददोहसः ” [ ऋ० सं० म० ८ सू० ६९ ऋ० ३ ] इत्येता-
मृचं विधत्ते—

अथ सूददोहाः प्राणो वै सूददोहाः
प्राणेन पर्वाणि संदधाति, इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमआरण्यके चतुर्थाध्याये
प्रथमः खण्डः ॥ १ ॥ ( १७ )

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये प्रथमारण्यके चतुर्थाध्याये प्रथमः खण्डः ॥ १ ॥ ( १७ )


अथ द्वितीयः खण्डः । ( अष्टादशः )

पक्ष्याकारस्य शस्त्रस्य पक्षापेक्षत्वादादौ दक्षिणं पक्षं विधत्ते—

अथातो दक्षिणः पक्षः सोऽयं लोकः सोऽयमग्निः
सा वाक्तद्रथंतरं स वसिष्ठस्तच्छतं तानि पङ्-
वीर्याणि भवन्ति संपात एव कामानाप्त्यै
प्रतिष्ठित्या अन्नाद्याय पङ्क्तिः , इति ।

योऽयं द्वितीयभागो दक्षिणः पक्षः सोऽयं भूलोकाभ्यः(भूलोकः) प्रथमभावि-
त्वात् । भूलोकस्याग्निना देवेनाधिष्ठितत्वादयं (※पक्षो निःस्वरूपत्वश्च) “अग्निर्वा-
ग्भूत्वा मुखं प्राविशत्” [ऐ०आ० २–४–२] इति श्रुतेरग्निसंबन्ध(द्ध)त्वाद्वा[ग्रूपोऽयं
पक्षः । वा]ग्रूपस्य “वाग्वै रथंतर[स्य रूपम्” [ ऐ० आ० ३ अ० १ ख० ६ ]
इति रथंतर]सामरूपत्वेम्+ । एतस्मिन्दक्षिणे पक्षे शतमृचः संपद्यन्ते । ताश्च पञ्चमे
शौनकेनोदाहृताः “रथंतर[स्य] स्तोत्रियाभि(नु)रूपौ” [ ऐ० आ० ५ अ० २


* धनुश्चिह्नान्तर्गतग्रन्थस्थाने “पक्षोऽग्निरूपः । वाक्च” इति पाठो युक्तः । + एतदन-
न्तरं—' रथन्तरस्य च वाग्रूपत्वेन “वाग्वाव वसिष्ठः” इति च्छन्दोगश्रुतेर्वसिष्ठत्वम् ' एवमाकारो
ग्रन्थोऽपेक्षितः ।


१ क. ग. घ. ˚त्व ए˚ ।

Page 67Permalink

६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

ख० १] इत्यादिकाः । तत्र स्तोत्रिये तृचे तदनुरूपे च तृचान्तरेण षट्संख्याका ऋचः ।
“इन्द्रस्य नु वीर्याणि” [ऋ० सं० म० १ सू० ३२ ऋ० १ ] इति सूक्तं पञ्चद-
शर्चम् । “त्वे ह यत्पितरः” [ ऋ० सं० म० ७ सू० १८ ऋ० १ ] इत्येतस्मि-
न्पञ्चविंशत्यूचे दशर्चोऽपठनीयाः । “यस्तिग्मशृङ्गः” [ ऋ० सं० म० ७ सू० १९
ऋ० १ ] इति सूक्तमेकादशर्चम् । “उग्रो जज्ञे” [ ऋ० सं० म० ७ सू० २०
ऋ० १ ] इति सूक्तं दशर्चम् । “उदु ब्रह्माण्य्” [ ऋ० सं० म० ७ सू० २४
ऋ० १ ] इति सूक्तं षडृचम् । आ ते मह इत्यादीनि पञ्च सूक्तानि । तेषु प्रथ-
मम् “आ ते महः” [ ऋ० सं० म० ७ सू० २५ ऋ० १ ] इति सूक्तं षड्-
ऋचम् । “न सोमः” ऋ० सं० म० ७ सू० २६ ऋ० १ ] इति द्वितीयं
पञ्चर्चम् । “इन्द्रं नरः” [ ऋ० सं० म० ७ सू० २७ ऋ० १ ] इति तृतीयमपि
पञ्चर्चम् । “ब्रह्माणः” [ ऋ० सं० म० ७ सू० २८ ऋ० १ ] इत्येतच्चतुर्थमपि
पञ्चर्चम् । “अयं सोमः” [ ऋ० सं० म० ७ सू० २९ ऋ० १ ] इत्येतत्पञ्चम-
मपि पञ्चर्चम् । “आ न इन्द्रो दूरात्” [ ऋ० सं० म० ४ सू० २० ऋ० १ ]
इति सूक्तमेकादशर्चम् । तदेतत्संपातसूक्तमिति नाम्ना व्यवह्रियते । “इत्था हि सोमः”
[ ऋ० सं० म० १ सू० ८० ऋ० १ ] इत्येषा पङ्क्तिच्छन्दस्कैका, तस्याः पङ्क्तेः
प्राचीनं सर्वमृचां शतं संपद्यते । एतस्मिन्दक्षिणे पक्षे पूर्वोक्तभूलोकाग्निवाग्रथंतरवसिष्ठ-
शतसंख्यारूपाणि यानि तानि षट्संख्याकानि वीर्याणि भवन्ति । “आ नः”
इत्यादिसूक्तगतक्संपात एव सम्यक्प्राप्तिहेतुरेव । अतोऽयं कामानामितः प्राप्त्यर्थं
भूलोके प्रतिष्ठितार्थमन्नाद्यप्राप्त्यर्थं च । तच्छतं संपद्यते तस्माच्छतस्योपरि “इत्था हि
सोमः” इत्यादिका पङ्क्तिः पठनीया ।

तत ऊर्ध्वं “ता अस्य” [ ऋ० सं० म० ८ सू० ६३ ऋ० ३ ] इत्येता-
मृचं विधत्ते—

अथात उत्तरः पक्षः सोऽसौ लोकः सोऽसावादित्यस्तन्मन-
स्तद्बृहतस भरद्वाजस्तच्छतं तानि षड्वीर्याणि भवन्ति संपात
एव कामानाभ्याप्त्यै प्रतिष्ठित्या अन्नाद्याय पङ्क्तिः, इति ।

य उत्तरः सोऽसौ द्युलोकस्वरूपः । भूलोकरूपा(प)दक्षिणपक्षौन्तर्भा(र्भा)-
वित्वात् । [तथा स] आदित्यस्य द्युलोकवादि(सि)त्वात्तद्रूप[:।] स्य(स) च [मनोरूपः।]
यद(द्य)पि मनसश्चन्द्रमा देवता तथाऽपि चन्द्रादित्ययोरभेद[स्य] *विवक्षितत्वादित्य-


* एतदादिमनोरूपत्वमित्यन्तग्रन्थस्थाने “विवक्षितत्वान्मनोरूपत्वम्” इति ग्रन्थोऽपेक्षितः ।


१ क. ग. घ. ॰शर्चः प॰ । २ क. ख. ग. पङ्क्त॰ । ३ क. ख. ग. पङ्क्त॰ । ४ क. ग. घ. ॰क्षावन्त॰ ।

Page 68Permalink

अध्या० ४ ख० २ (१८)] ऐतरेयारण्यकम् । ६३

१डादिमनोरूपारूपत्तमनोरूपत्वम् । [ तच्च बृहत् । ] “मनो वै बृहत्” इति श्रुतेः । [ तस्य च ] बृहत्सामानन्तरं “भरद्वाजो बृहत्यः(त्)” इति श्रुतेर्भरद्वाजरूपत्वम् । तदुत्तरपक्षस्वरूपमृचां शतं संपद्यते । तच्च शतं पञ्चमे “त्वामिद्धि ” [ ऐ० आ० ५ अ० २ ख० १ ] इत्यादिना शौनक उदाजहार । “त्वामिद्धि हवामहे” [ ऋ० सं० म० ६ सू० ४६ ऋ० १ ] “त्वं ह्येहि चेरवे” [ ऋ० सं० म० ८ सू० ६१ ऋ० ७ ] इत्यनयोस्तृचयोः षैड्ऋचः । “तमु ष्टुहि” इत्येतत्पञ्चदशर्चं सूक्तम् । *तच्चत्वमित्यादिसूक्तानि । “सुते” [ ऋ० सं० म० ६ सू० २३ ऋ० १ ] इत्येतत्प्रथमं दशर्चम् । “वृषा मदः” [ ऋ० सं० म० ६ सू० २४ ऋ० १ ] इत्येतद्द्वितीयमपि सूक्तं [दशर्चम् । “या त ऊतिरवमा”] [ ऋ० सं० म० ६ सू० २५ ऋ० १ इति ] नवर्चम् । “अभूरेकः” इत्यादीन्यष्टौ सूक्तानि । तेषु “अभूरेकः” [ ऋ० सं० म० ६ सू० ३१ ऋ० १ ] इति प्रथमं सूक्तम् । “अपूर्व्या पुरुतमानि” [ ऋ० सं० म० ६ सू० ३२ ऋ० १ ] इति द्वितीयम् । “य ओजिष्ठः” [ ऋ० सं० म० ६ सू० ३३ ऋ० १ ] इति तृतीयम् । “सं च त्वा” [ ऋ० सं० म० ६ सू० ३४ ऋ० १ ] इति चतुर्थम् । “कदा भुवन्” [ ऋ० सं० म० ६ सू० ३५ ऋ० १ ] इति पञ्चमम् । “सत्रा मदासः” [ ऋ० सं० म० ६ सू० ३६ ऋ० १ ] इति षष्ठम् । “अर्वाग्रथः” [ ऋ० सं० म० ६ सू० ३७ ऋ० १ ] इति सप्तमम् । “अपात्” [ऋ० सं० म० ६ सू० ३७ऋ० १ ] इत्यष्टमम् । तान्येतान्यष्टौ सूक्तानि । तान्येतान्यपि प्रत्येकं पञ्चर्चामि । “कथा महाम्” [ऋ० सं० म० ४ सू० २३ ऋ० १ ] इत्येतत्सूक्तमेकादशर्चं तच्च संपातशब्देन व्यवह्रियते । “इन्द्रो मदाय” [ ऋ० सं० म० १ सू० ८१ ऋ० १ ] इत्येका पङ्क्तिच्छन्दस्का । तस्याः पङ्क्तेः प्राचीना ऋचो यद्यप्येकाधिकशतसंख्याकास्तथाऽपि तत्र न(श)तस्य विद्यमानत्वात्तच्छतमित्युच्यते । तानि षड्वीर्याणीत्यादिकं पूर्ववत् ।

दक्षिणोत्तरपक्षयोर्न्यूनातिरिक्तभावं प्रशंसति—

ता ऊनातिरिक्तौ भवतो वृषा वै बृहद्योषा रथंतर-
मतिरिक्तं वै पुंसो न्यूनं स्त्रियै तस्मात् , इति ।

एकयर्चा न्यूनो दक्षिणः पक्षः । उत्तरस्त्वेकयर्चाऽतिरिक्तः । तस्योत्तरस्य बृहद्रूपता बृहतश्चै पुंरूपत्वेनाङ्गाधिक्यं युक्तम् । दक्षिणस्याऽऽर्धत्वाद्रथंतरत्वं तस्य स्त्रीरूपत्वान्न्यूनारङ्गत्त्वं युक्तम् । तस्मादुभौ पक्षौ न्यूनातिरिक्तौ कर्तव्यौ ।


* “ सुत इत्यादीनि त्रीणि सूक्तानि ” इत्यपेक्षितो ग्रन्थः ।


१ ख. ग. 'डारादि' । २ ख. ग. 'रूप' । ३ क. 'नयोः ष' । ४ क. ख. ग. षळृचं । ५ क. °श्च पुरुषाधिक्यत्वे' । ग. °श्च पुरुधिक्यत्वे' । ६ क. ग. 'धन्तत्वा' ।

Page 69Permalink

६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

प्रकारान्तरेण न्यूनाधिकभावं प्रशंसति—
ऊनातिरिक्तौ भवतोऽथो एकेन ह वै पुत्रेण
सुपर्णस्योत्तरः पक्षो ज्यायांस्तस्मादे-
कयर्चोत्तरः पक्षो भूयान्भवति, इति ।

लोके पक्षिण उत्तरपक्ष एकं पत्रमधिकं भवति, अतोऽत्राप्युत्तरः पक्ष एकयर्चाऽधिकः कर्तव्यः ।

"ता अस्य" [ ऋ० सं० म० ८ सू० ६९ ऋ० ३ ] इत्येवं विधत्ते—
अथ सूददोहाः प्राणो वै सूददोहाः
प्राणेन पर्वाणि संदधाति , इति ।

पक्षानन्तरं पुच्छभागस्यापेक्षितत्वात्पुच्छं विधत्ते—
अथातः पुच्छं ता एकविंशतिर्द्विपदा भवन्त्येकविंश-
तिर्हीमानि प्रत्यञ्चि सुपर्णस्य पत्राणि भवन्ति, इति ।

याः पुच्छभागरूपा ऋचस्ताः प्रत्येकं पादद्वयोपेता मिलित्वैकविंशतिसंख्याकाः । ताश्च पञ्चमे शौनकेन "इमा नुक्रम्" [ ऐ० आ० ५ अ० २ ख० २ ] इत्यादिनादाहृताः । "इमा नुक्रम्" [ ऋ० सं० म० १० सू० १५७ ऋ० १ ] इत्यस्मिन्सूक्ते पञ्चर्चः । "आ याहि वनसा सह" [ ऋ० सं० म० १ सू० १७२ ऋ० १ ] इत्यस्मिन्सूक्ते चतस्रः । ता एता नवसंख्याका द्विपदाः शाकल्यसंहितायामाम्नाताः । प्र व इन्द्रायेत्यादिका नवसंख्याका द्विपदाः शाखान्तरगताः । [ "एष ब्रह्मा" इति तिस्रः ] इत्येवमेकविंशतिः । लोकेऽपि पक्षिणः पुच्छे प्रत्यङ्मुखानि पत्राण्येकविंशतिर्भवन्ति, तस्मात्तावतीर्ऋचः शंसेत् ।

प्रकारान्तरेण संख्यां प्रशंसति—
अथो एकविंशो वै स्तोमानां प्रतिष्ठा
प्रतिष्ठा पुच्छं वयसाम् , इति ।

सामवेदप्रसिद्धास्त्रिवृत्पञ्चदशसप्तदशैकविंशनामका ये स्तोमा अग्निष्टोमनिष्पादकास्तेषां मध्य एकविंश एव प्रतिष्ठा समाप्तिहेतुः । पक्षिणां च पुच्छं प्रतिष्ठा, उत्पन्न(त न)वृक्षारोहणस्थित्याद्यावुपयुक्तत्वात् । अतः पुच्छस्यैकविंशतिसंख्या युक्ता ।

अत ऊर्ध्वम् "आधूर्वस्मै" [ ऋ० सं० म० ७ सू० ३४ ऋ० ४ ] इत्येतामन्यां द्विपदां विधत्ते—
द्वाविंशीं शंसति प्रतिष्ठयोरैव तद्रूपं क्रियते तस्मा-


१ क. पक्ष्युत्त' ।

Page 70Permalink

अध्या० ४ ख० २(१८)] ऐतरेयारण्यकम्। ६५

त्सर्वाणि वयांसि पुच्छेन प्रतितिष्ठन्ति पुच्छेनैव
मतिष्ठायोत्पतन्ति प्रतिष्ठा हि पुच्छम् , इति ।

अत्र द्वाविंशत्याः शंसनेन विंशतेरुपरि ये द्वे ऋचौ तदेतत्प्रतिष्ठयोः पादयोरेव रूपं क्रियते द्वित्वसंख्यायाः समानत्वात्। तस्मादेव पुच्छस्य प्रतिष्ठाहेतुत्वम् । तस्मात्सर्वेऽपि पक्षिणः पुच्छेन प्रतितिष्ठन्ति भूमौ वृक्षादौ वा पुच्छं पृष्ठत आधारं कृत्वा स्थैर्येणावतिष्ठन्ते । तथा पुच्छेनैव भूमाववस्थितेन प्रतिष्ठाय सकृत्स्थैर्येण स्थित्वा पश्चात्प्रबलेनोत्साहेनोत्पतन्ति । यस्मात्पुच्छं प्रतिष्ठा तस्मादेतद्युक्तम् ।

पुनरपि द्वाविंशतिसंख्यां प्रकारान्तरेण प्रशंसति—

स एष द्वाभ्यां दशिनीभ्यां विराड्भ्यामनयोर्द्वाविंशयोर्द्विपदयोरयं पुरुषः प्रतिष्ठितस्तस्य यत्सुपर्णरूपं तदस्य कापानामभ्याप्त्या अथ यत्पुरुषरूपं तदस्य श्रियै यशसेऽन्नाद्यायापचित्यै, इति ।

द्वाविंशतिसंख्याकानामृचां मध्ये द्वे अवसानगते ऋचौ परिशेष्य ततः पूर्वभाविनी या ऋचां विंशतिस्तस्या द्वे दशिन्यौ दश संख्योपेतसमूहावत एव तयोर्विराट्त्वम् । द्वाभ्यां [दशिनीभ्यां] स एष शस्त्ररूपः सुपर्णः प्रतिष्ठित इत्यन्वयः । ये तूत्तरापूरिके द्वे ऋचौ द्विपदारूपे तयोर्ऋचोरयं पुरुषो द्विपाद्यजमानः प्रतिष्ठितः । तथा सति तस्य शस्त्रस्य दशकद्वयात्मकं यत्सुपर्णरूपं तदस्य यजमानस्य कापानामभितः प्राप्त्यै संपद्यते । अनन्तरमृग्द्वयात्मकं यत्पुरुषरूपमुक्तं तदस्य यजमानस्य श्रीयशोन्नाद्यपूजार्थं संपद्यते ।

यथोक्तद्वाविंशतेरूर्ध्वमुभयतः सूदोहसां चेष्टितं "यद्वावान पुरुतमम्" [ ऋ० सं० म० १० सू० ७४ ऋ० ६ ] इति धाय्यां [च?] विधत्ते—

अथ सूददोहा अथ धाय्याऽथ सूददोहा वृषा वै सूददोहा
योषा धाय्या तदुभयतः सूददोहसा धाय्यां परिशंसति
तस्माद्द्वयो रेतः सिक्तं सदेकतामेवाप्येति योषामेवाभ्यत
आजाना हि योषाऽतः प्रजाना तस्मादेनामत्र शंसति, इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थाध्याये
द्वितीयः खण्डः ॥ २ ॥ ( १८ )

उभयतः पठितायाः सूददोहस आधिक्यात्पुरुषत्वम् । मध्ये पठिताया यद्वावानेति धाय्याया अल्पत्वेन स्त्रीरूपत्वम् । तस्मान्मिथुनसिद्धयर्थमुभयथा(तः) सूददो-


१ क. ˚यया सू ˚ ।
९

Page 71Permalink

६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके—

हसा युक्तां धाय्यां परिशंसेत् । पुरुषपरिष्वक्तयोषित्प्रभूतसूददोहसा सह धाय्या संयोजिता, तस्मादेव लोकेऽपि द्वयोः स्त्रीपुरुषयोः संबन्धि रेतो गर्भाशये निषिक्तं सदैकत्वमेवाभिलक्ष्य तन्मिलितमेवावतिष्ठते न पुरुषशरीरः (?) । हि यस्मात्कारणादियं योषाऽऽजानाना(षाऽऽजाना), अस्मान्मिलिताद्रेतोद्वयात्साकल्येन शरीरो व्यवतिष्ठते यस्यां योषायों सेयमतः प्र(त आ)जाना । अथवा विवक्ष्यते—“तद्यथा(दा) स्त्रियां सिञ्चत्यथैनज्जनयति” [ऐ० आ० २ अ० १ ख० १] इति । अतः कारणादियं योषा प्रजानाना(प्रजाना) । प्रकृष्टो जातः(नः?) पुत्रपौत्रोत्पादनं यस्याः सा प्रजाना । यस्मादेवं धाय्या प्रशस्ता तस्मादेतां धाय्यामस्मिन्विजवभागे पठेत् । पक्षमूला ऋचो विजवा विवक्षिताः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके चतुर्थाध्याये द्वितीयः खण्डः ॥ २ ॥ ( १८ )


अथ तृतीयः खण्डः । ( ऊनविंशः )

अथ तस्य पक्षिणोऽन्नरूपा अशीतयो वक्तव्यास्तत्रैकाऽशीतिः —

[*गायत्रीं तृचाशीतिं शंसत्ययं वै लोको गायत्री तृचाशीतिर्यदेवास्मिँल्लोके यशो यन्महो यन्मिथुनं यदन्नाद्यं याऽपचितिस्तदश्रवै तदामवानि तदवरुणधै तन्मेऽसदिति, इति ।
गायत्री तृचाशीतिरयमेव लोकोऽतो यदस्मिँल्लोके] यशः कीर्तिर्यच्च महः पूजा यच्च मिथुनं भार्यासंबन्धि यच्चान्नाद्यं भक्ष्यभोज्यादिकं याऽपचितिः पूजा । वेदशास्त्रप्रयुक्ता पूजा महःशब्देन पूर्वमुक्ता । तेजो वा तत्रोक्तमत्र तु धनधान्यादिसमृद्धिरूपा पूजोच्यते । तद्यशःप्रभृतिकमपचित्यन्तं सर्वमश्रवै प्राप्त(व्याप्र)वानि । पुत्रपौत्रादिषु तत्संपदधीनत्वं व्याप्तत्वम् । तत्सिद्धयर्थमादौ तद्यशःप्रभृतिकमामवानि संपादयामि । संपादितं तत्सर्वं +तदवरुणधै स्वाधीनं करवाणि । तच्च स्वाधीनं मे मदीयगृहेष्वसत्, अस्तु¹ । तदानीमित्यभिप्रेत्य गायत्रीं तृचाशीतिं पठेत् । “ ता अस्य ” [ ऋ० सं० म० ८ सू० ६९ ऋ० ३ ] इत्येतामृचं विधत्ते—

अथ सूददोहाः प्राणो वै सूददोहाः
[*प्राणेनेमं लोकं संतनोति, इति ।


* एतच्चिह्नान्तर्गतं मूलं मूलपुस्तकेभ्य उद्धृत्य तदतिरिक्तं च प्रकल्प्यात्र निवेशितम् ।
+ तच्छब्दोऽयमधिकः । * एतच्चिह्नान्तर्गतं मूलं मूलपुस्तकेभ्य उद्धृतं तदतिरिक्तं कल्पितम् ।
१ ख. ग. घ. 'स्तु । दानित्वित्य' ।

Page 72Permalink

अध्या० ४ ख० ३ (१९)] ऐतरेयारण्यकम् । ६७

बृहतीछन्दस्कां तृचाशीतिं विधत्ते—

बार्हतीं तृचाशीतिं शंसत्यन्तरिक्षलोको वै बार्हती
तृचाशीतिर्यदेवान्तरिक्षलोके यशो यन्महो यन्मि-
थुनं यदन्नाद्यं याऽपचितिस्तदश्नवै तदाप्नवानि
तदवरुणधै तन्मेऽसदित्यथ सूददोहाः प्राणो वै
सूददोहाः] प्राणेनान्तरिक्षलोकं संतनोति, इति ।

सेयं बार्हती तृचाशीतिः “मा चिदन्यः” ( ऐ० आ० ५ अ० २ ख० ४ )
इत्यादिः पञ्चमे शौनकेनोदाहृता । द्वितीयत्वादस्या अन्तरिक्षरूपत्वम् । अन्यत्पूर्व-
व्याख्येयम् ।

उष्णिग्छन्दस्कां तृचाशीतिं विधत्ते—

औष्णिहीं तृचाशीतिं शंसत्यसौ वै लोको द्यौरौष्णिही
तृचाशीतिर्यदेवामुष्मिंल्लोके यशो यन्महो यन्मिथुनं यद-
न्नाद्यं याऽपचितिर्यद्देवानां दैवं तदश्नवै तदाप्नवानि
तदवरुणधै तन्मेऽसदित्यथ सूददोहाः प्राणो वै सूद-
दोहाः प्राणेनामुं लोकं संतनोति संतनोति, इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थाध्याये
तृतीयः खण्डः ॥ ३ ॥ ( १९ )

इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके
चतुर्थोऽध्यायः ॥ ४ ॥

सेयमौष्णिही पञ्चमे—“य इन्द्र सोमपातमः” [ ऐ० आ० ५ अ० २ ख० ५ ]
इत्यादिनोदाहृता । अस्या उपरितनत्वादुद्युलोकरूपत्वम् । यद्यपि प्रायेण वेदेष्वयं
लोकोऽसौ लोक इति भूलो[कद्युलो]कावेवाभिधीयेते तथाऽपि द्यौरित्यभिधानं विस्पष्टा-
र्थम् । देवानामिन्द्रादीनां दैवं पूज्यं ब्रह्म । तथा च श्वेताश्वतरा आमनन्ति—“तमी-
श्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम्” इति । अन्यत्पूर्ववद्व्याख्येयम् ।
अभ्यासोऽध्यायसमाप्त्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये प्रथमारण्यके चतुर्थाध्याये तृतीयः खण्डः ॥ ३ ॥ ( १९ )

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म-
णारण्यकभाष्ये प्रथमारण्यके चतुर्थोऽध्यायः ॥ ४ ॥

Page 73Permalink

अथ प्रथमारण्यके पञ्चमोऽध्यायः ।
तत्र प्रथमः खण्डः । (विंशः)

चतुर्थे शस्त्रपक्षिणो ग्रीवास्यभाग उक्तः । अन्ते तृचाशीतयोऽन्नरूपा अभिहिताः । तस्यान्नस्य धारणार्थमुदरं वक्तव्यमतस्तद्रूपं वशानामकं शस्त्रभागं विधत्ते—

वशं शंसति वशे म इदं सर्वमसदिति, [ इति । ]

यदिदं स्थावरजङ्गमस्वरूपं जगदस्ति तत्सर्वं मे वशे भूयादित्यभिप्रेत्य वशाख्यं शस्त्रभागं *पाठं पठेत् । स च भागः “त्वाऽवतः पुरूवसो” [ ऐ० आ० ५ अ० २ ख० ५ ] इत्यादिना पञ्चमे स्पष्टमुदाहृतः । वशानामकेन महर्षिणा दृष्टत्वात्तदेतत्सूक्तं वशमित्युच्यते ।

तत्सूक्तगतामृक्संख्यां प्रशंसति—
ता एकविंशतिर्भवन्त्येकविंशतिर्हि ता अन्तरुदरे विकृतयः, इति ।

“त्वाऽवतः” [ ऋ० सं० म० ८ सू० ४६ ऋ० १ ] इत्यारभ्य “सनितः सुसनितः” [ ऋ० सं० म० ८ सू० ४६ ऋ० २० ] इत्यन्ता विंशतिः । ततः सूददोहा एकेत्येवमेकविंशतिर्द्रष्टव्या । हि यस्मादुदरमध्ये विद्यमानाः क्लोमैप्लीहाद्यवयवरूपा विकृतय एकविंशतिसंख्याकास्तस्माद्वशभागे संख्या प्रशस्ता । ते चावयवास्तत्र तत्रानुवर्तमानप्रकरणादौ द्रष्टव्याः ।

प्रकारान्तरेण संख्यां प्रशंसति—
अथो एकविंशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठोदरमन्नाद्यानाम्, इति ।

त्रिवृदादिस्तोमानां मध्य एकविंशस्तोमस्य प्रतिष्ठात्वं पूर्वत्रोक्तम् । उदरस्य स्वन्नाधारत्वं प्रसिद्धम् ।

तास्वृक्षु विद्यमानं परस्परविलक्षणच्छन्दस्त्वं प्रशंसति—
ता विच्छन्दसो भवन्ति विश्रुद्रमिव वा अन्त-
स्त्यमणीय इव च स्थवीय इव च, इति ।

“त्वाऽवतः” [ऋ० सं० म० ८ सू० ४६ ऋ० १] इत्यादिको ऋचो वशनाम्ना विहिताः परस्परविलक्षणच्छन्दोयुक्ताः । एतच्चानुक्रमणिकायां विस्पष्टमुक्तम्—“त्वाऽवतस्त्रयस्त्रिंशद्दशारुया आद्या पादनिचृत्” इत्यारभ्य “पञ्चम्यादिककुप्प्रगाथगायत्री-


* अत्र पाठशब्दोऽधिक इव भाति ।


१ क. ख. घ. 'मकैः शस्त्रैर्भागं । २ क. 'माना या लोम' । ख. ग. घ. ᵒमाना या क्लो' ।
३ ख. ग. घ. 'मग्नीवाद्य' । ४ ख. ग. घ. तत्र यमुर्वर्तं' । ५ क. ख. ग. घ. 'का या ऋ' ।

Page 74Permalink

अध्या० ५ ख० १(२०)] ऐतरेयारण्यकम् । ६९

बृहत्यनुष्टुप्सतो बृहती गायत्री" इत्यादि। तदेतन्नानाछन्दस्त्वमुदररूपस्य वशस्य योग्यम्।
लोकेऽप्यन्तस्त्यमुदरमध्यवर्ति क्लोमप्लीहादिकं^१ विक्षुद्रमिव वै विविधत्वेनाल्पमेवा-
ल्पत्वेन दृश्यते। एकस्मादितरदल्पं ततोऽप्यन्यदल्पमित्येवं विविधं क्षुद्रत्वम्। तदेवा-
णीय इत्यादिनोदाह्रियते। द्विविधमात्रं(त्रं) स्थूलं सूक्ष्मं च तस्मादुभयातिशयेन स्थूलं
हृदयमत्र। एवं क्लोमप्लीहादिषु यथायोग्यं द्रष्टव्यम्।

शंसने प्रकारविशेषं विधत्ते—

ताः प्रणवं छन्दस्कारं यथोपपादं शंसति यथोपपादामिव
वा अन्तस्त्यं ह्रसीय इव च द्राघीय इव च, इति।

या ऋचः—"त्वाऽवतः" [ऋ० सं० म० ८ सू० ४६ ऋ० १] इत्यादिकाः
सन्ति तासां शंसनकाले प्रणवं प्रणुत्य पुनः पुनः प्रणवमुच्चार्य च्छन्दस्कारं तत्तच्छन्दो
यथा न विपर्येति तथा तत्र कृत्वा यथोपपादमुक्तनियगमनतिक्रम्य यथा शंसनमुप-
पद्यते तथा शंसेत्। एतदर्थमेव संदिग्धामृचं विभज्य शौनको दर्शयति—"ददी-
रेक्ण इति द्विपदा नूनमथेत्येकपदा" [ऐ० आ० ५ अ० २ ख० १] इति।
तत्र शंसनप्रकार आश्वलायनेनोदाहृतः—"पच्छो द्विपदा उपसंतनुयादेकपदाः"
इति। अयमर्थः—या ऋचो द्विपदाः सन्ति ताः पच्छः शंसनीयाः, प्रथमपादं पठित्वा
ततोऽवसाय पश्चाद्वितीयं पादं^२ पठित्वाऽन्ते प्रणवं कुर्यात्। या एकपदाः सन्ति ताः
पुरस्तादुपरिष्टाच्च प्रणवाभ्यां संतनुयात्। मध्ये च नावस्येती(दी)दृशं शंसनं यथोपपा-
दमित्युच्यते। अन्तस्त्यमुरो मध्येऽवस्थितमप्यत्र क्लोमप्लीहादिकं यथोपपन्नं भवति
तथैवावतिष्ठते। किंचिदङ्गमतिह्रस्वमिवान्यदङ्गमतिदीर्घमिव स्थितं तस्मात्तत्सादृश्याय
न्यूनाधिकच्छन्दांसि यथा तथा शंसेत्।

ता अस्येत्येतामृचं विधत्ते—

अथ सूददोहाः प्राणो वै सूददोहाः
प्राणेन पर्वाणि संदधाति, इति।

वशाभागस्य शंसनादूर्ध्वं "ता अस्य" [ऋ० सं० म० ८ सू० ६९ ऋ० ३]
इत्यस्या ऋचः परित्यागं विधत्ते—

तामत्रोत्सृजति द्वादशकृत्वः शस्त्वा द्वादश-
विधा वा इमे प्राणाः सप्त शीर्षण्या द्वौ
स्तन्यौ त्रयोऽवाञ्चोऽत्र वै प्राणा आप्यन्तेऽत्र
संस्क्रियन्ते तस्मादेनामत्रोत्सृजति, इति।


१ क. ˚त्ति यत्क्लोम˚। २ ग. घ. पादमवसायान्ते।

Page 75Permalink

७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

तां सूददोहसं द्वादशवारं पठित्वा तत ऊर्ध्वमत्र वशाशंसनस्थाने परित्यजेत् । न
त्वित ऊर्ध्वमूरुभागस्थाने तां सूददोहसं पठेत् । शस्त्रपक्षिणः पूर्वोक्ता एकादशावयवा
आत्मा ग्रीवा शिरो विजबौ द्वौ पक्षौ पुच्छं तृचाशीतिरूपाणि त्रीण्यन्नानि वशाख्य-
मुदरं चेति, तत्र सर्वत्र सूददोहाः सकृत्पठिता पुच्छे तु धाय्यायाः पुरस्तादुपरिष्टाच्च
द्विः पठिता, एवं द्वादशावृत्तिः । शरीरगता इमे प्राणाश्च छिद्रभेदेन द्वादशविधाः ।
शिरसि सप्त छिद्राणि, स्तनयोर्द्वे छिद्रे, नाभ्यां पायुगुदयोश्च त्रीणि । एतेषु द्वादशसु
च्छिद्रेष्वेव सर्वे प्राणाः प्राप्यन्ते । अत एव मन्त्रात्मना ते प्राणाः संस्क्रियन्ते । यस्मा-
द्द्वादशविधप्राणसाम्यमत्र समाप्तं तस्मादेनामूर्ध्वमत्र परित्यजेत् । न तूपरितन
ऊरुभागे पठेत् ।

उदरभागमुक्त्वा शस्त्रपक्षिण ऊरुभागं विधत्ते—

इन्द्राग्नी युवं सु न इत्यैन्द्राग्ना ऊरू उर्वष्ठीवे प्रतिष्ठे, इति ।

‘‘इन्द्राग्नी युवम्’’ इत्यादिसूक्तं द्वादशर्चं तच्च शस्त्रपक्षिण ऊरुत्वेन पठनीयम् ।
अस्मिन्सूक्ते याविन्द्राग्नी प्रतीयेते तयोः संबन्धिनौ पक्षिण ऊरू । ‘‘इन्द्राग्नी वै देवा-
नामोजिष्ठौ बलिष्ठौ’’ [ तै० ब्रा० का० ३ प्र० ८ अ० ७ ] इति तयोः प्रवलत्व-
श्रवणादूर्वोश्च गमनादिव्यवहारहेतुत्वेन प्रबलत्वात् ।

[एतत्सूक्तगतानामृचां षट्पदत्वं प्रशंसति—]

ताः षट्पदा भवन्ति प्रतिष्ठाया एव द्विप्रतिष्ठो
वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्वि-
प्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति, इति ।

अस्मिन्सूक्ते द्वितीयस्या अन्तिमायाश्च विशेषस्य वक्ष्यमाणत्वाद्या अवशिष्टा दशर्चः
सन्ति ताः प्रत्येकं षट्पदा भवन्ति । तच्च प्रतिष्ठार्थमेव संपद्यते । तत्कथमिति तदु-
च्यते—लोके मनुष्यः पादद्वयेन भूमौ प्रतिष्ठति । पशवस्तु चतुष्पादा वर्तन्ते । एवं
सत्यत्रापि तत्तेन पादषट्कपाठेन पादद्वयोपेतं यजमानं चतुष्पात्सु प्रतिष्ठितं करोति ।

द्वितीयायां—‘‘न हि वां ववृयामहे’’ [ ऋ० सं० म० ८ सू० ४० ऋ० २ ]
इत्येतस्यामृचि विशेषं विधत्ते*—

द्वितीया सप्तपदा भवति तां गायत्रीं चानुष्टुभं च करोति
ब्रह्म वै गायत्री वागनुष्टुब्ब्रह्मणैव तद्वाचं संदधाति, इति ।


इन्द्राग्नी युवं सु०—ऋ० सं० म० ८ सू० ४० ऋ० १ ।


* क. ख. पुस्तकयोरेतदग्रे—‘‘एकस्मिन्पादेऽवसायोत्तरस्मिन्पादे प्रणवप्रयोगः पादशं-
सनम् । इत्यधिकम् ।

Page 76Permalink

अध्या० ५ ख० २ (२१)] ऐतरेयारण्यकम् । ७१

द्वितीयास्या ऋचः संबन्धिभिः सप्तभिः पादैर्गायत्रीं कृत्वा शंसेत् । पादद्वयेऽवसाय तृतीयपादे प्रणवो गायत्रीकरणम् । अवशिष्टेन पादचतुष्टयेनानुष्टुभं कृत्वा शंसेत् । पादद्वयेऽवसाय चतुर्थपादे प्रणवप्रयोगोऽनुष्टुप्करणम् । तत्र या त्वत्र निष्पाद्या गायत्री सा ब्रह्मैव “तत्सवितुर्वरेण्यम्”— [ऋ० सं० म० ३ सू० ६२ ऋ० १०] इत्यनया गायत्र्या परब्रह्मणः प्रतिपादितत्वात् । या तु पादचतुष्टयसंपन्नाऽनुष्टुप्सा वाग्रूपा वाग्विशेषाणां मध्ये प्रशस्तत्वात् । गायत्र्यनुष्टुभोः संपादनेन परब्रह्मणैव सह वाग्देवता संयोजिता भवति ।

[*अन्तिमाया विशेषं विधत्ते—
त्रिष्टुभमन्ततः शंसति वीर्यं वै त्रिष्टुब्वीर्येणैव तत्पशून्परिगच्छति तस्मात्पशवो वीर्यमनूपतिष्ठन्त ईर्यतां चैत्राभ्युत्थानं च, इति ॥ ]

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये
प्रथमः खण्डः ॥ १ ॥ ( २० )

अन्ततः सूक्तस्यावसाने या त्रिष्टुप्छन्दस्काऽऽम्नाता तां त्रिष्टुभः समयनैव शंसेत् । [+तदेव त्रिष्टुप्समयः । १) त्रिष्टुभो वीर्यहेतुत्वाद्वीर्यरूपत्वं तत्तेन त्रिष्टुप्संशसनेनायं पुरुषः स्वसामर्थ्येनैव पशून्परितः प्राप्नोति । यस्मादेवं तस्माल्लोके पशवो वीर्यमनूपतिष्ठन्ते वाक्पारुष्येण दण्डपारुष्येण वा गोपालवीर्यमवधार्य प्रत्याव्रजन्ति । तथा तद्वीर्यवशादीर्यतां च शयनादभ्युत्थानं च प्राप्नुवन्त्ये(*व न) वेति शेषः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २० )


अथ द्वितीयः खण्डः । ( एकविंशः )

[ अथ शस्त्रपक्षिणोऽन्यावयवविधानार्थं सूक्तान्तरविधानार्थं च खण्डान्तरारम्भः । ]
तस्य चैवाऽऽरम्भे सूक्तान्तरं विधत्ते—
प्र वो महे मन्दमानायान्धस इत्यैन्द्रे निष्केवल्ये


प्र वो महे०—ऋ० सं० म० १० सू० ९० ऋ० १ ।


* एतच्चिह्नान्तर्गतो मूलातिरिक्तो ग्रन्थः प्रकल्प्य मूलग्रन्थश्च मूलपुस्तकेभ्य उद्धृत्यात्र निवेशितः । + एतच्चिह्नान्तर्गतो ग्रन्थोऽधिकः । * एतच्चिह्नान्तर्गतमधिकम् । अथवा वाशब्दस्थाने एवशब्दं पठित्वा योज्यम् ।


१ ख. ग. घ. ‘त् । को नाम गा’ ।

Page 77Permalink

७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके--

निविदं दधाति प्रत्यक्षाद्ध्येव तदात्मन्वीर्यं धत्ते, इति ।
“प्र वो महे” इत्यादिकं सप्तर्चं सूक्तं तत्रेन्द्र एव नामै[?] तदाद्यादि[?] निष्के-
वल्यशस्त्रं प(पा)ठ्यम् । तत्रेदानीं निवित्संज्ञकं तदवशेषज्ञानं (?) प्रक्षिपेत् । इन्द्रो देवः
सोम पिन्वमान इत्यादिकं निवित्पदजातं निवित्संज्ञके संघे पठितम् । सूक्तगतासु सप्त-
स्वृक्षु चतस्रः पठित्वा तिस्रोऽवशेष्य मध्ये निविदं दध्यात्तत्तेन निवित्प्रक्षेपेण प्रत्य-
क्षाद्ध्येव मुख्यमेव वीर्यमत्र शस्त्ररूपे पक्षिणि संपादयति ।

तत्सूतगतानामृचां छन्दोद्वयं दर्शयति—
तास्त्रिष्टुब्जगत्यो भवन्ति, इति ।
आदौ पञ्च त्रिष्टुभ उत्तरे द्वे जगत्यौ । यद्वा प्रथमा सप्तमी चोभे जगत्याववशि-
ष्टास्त्रिष्टुभः । तदाहानुक्रमणिकाकारः—“प्र वो महे सप्त द्विजगत्याद्यन्तम्” इति ।
सप्तसु च्छन्दोद्वयविशिष्टास्वृक्षु निवित्प्रक्षेपं प्रश्नोत्तराभ्यां विशदयति —
तदाहुरथ कस्मात्त्रिष्टुब्जगतीषु निविदं दधातीति न ह वा
एतस्याह एकं छन्दो निविदं दाधार न विव्या-
चेति तस्मात्त्रिष्टुब्जगतीषु निविदं दधाति, इति ।
[ *प्रकृतस्याह्नो निविद्वैशिष्ट्यं त्रिधा विधत्ते—
तदेतदहस्त्रिनिवित्कं विद्यादृशो निविद्वालखिल्या निवित्रि-
न्निविदेव निविदेवमेतत्रिनिवित्कं विद्यात्, इति ।
सूक्तान्तरशंसनं विधत्ते —
अथ सूक्ते वनेन वायो न्यधायि चाकन्यो
जात एव प्रथमो मनस्वानिति , इति ।
शंसने फलविशेषं दर्शयति —
तयोरस्त्यन्ने समस्य यदसन्मनीषा इत्यान्नाद्यस्यावरुद्धयै, इति ।
अन्यासामृचां शंसनं सफलं विधत्ते —]

अथाऽऽवपनमेते अन्तरेणैन्द्रीणां दशतीनां त्रिष्टुब्जग-
तीनां संपन्नानां यावतीरावपन्ते तावन्त्यूर्ध्वमायुषो
वर्षाणि जीवन्त्येतेन हैवाऽऽवपनेनाऽऽयुराप्यते, इति ।


वनेन वा०—ऋ० सं० म० १० सू० २९ ऋ० १ । यो जातः प्रथमः०-
ऋ० सं० म० २ सू० १९ ऋ० २ ।
* एतच्चिह्नान्तर्गतो मूलातिरिक्तो ग्रन्थः प्रकल्प्य मूलग्रन्थश्च मूलपुस्तकेभ्य उद्धृत्यात्र निवेशितः
१ ख. ग. घ. ˚मकं त˚ ।

Page 78Permalink

अध्या०१ख०२(२१)] ऐतरेयारण्यकम् । ७३

अथ पूर्वयोः सूक्तयोरेकस्य शंसनानन्तरमेते अन्तरेणैतयोः “ वनेन वा ” [ ऋ० सं० म० १० सू० २९ ऋ० १ ] “यो जातः” [ ऋ० सं० म० २ सू० १२ ऋ० १ ] इति सूक्तयोर्मध्ये कासांचिदिन्द्रदेवताकानां त्रिष्टुब्जगत्याख्य-च्छन्दोद्वययुक्तानां स्वबुद्धिकौशलेन बृहतीत्वमापादितानामृचां मध्ये यावतीर्ऋच आवपेत्तावन्ति वर्षाणि कृप्ताच्छतसंवत्सरादायुष ऊर्ध्वं यजमाना जीवन्ति । एतेन-गार्वापनेनैवावश्यमायुः प्राप्यते । अत्र बुद्धिकौशलेन त्रिष्टुभां जगतीनां कथं बृहतीत्व-संपत्तिवश(?) उच्यते । तिसृषु बृहतीषु चतुष्टये(?) संपादिते सति* ।

सजनीयसूक्तस्य शंसने फलविशेषं दर्शयति—

प्रजां मे पशवोऽर्जयन्नित्येव सजनीयमनु शंसति, इति ।

मदीयां पुत्रादिरूपां प्रजां गवाश्वादयः +पशवो मार्जयन्नित्यभिप्रेत्याऽऽवपनमनु सजनीयसूक्तं शंसेत् ।

अथ—“ त्यमू षु ” [ ऋ० सं० म० १० सू० १७८ ऋ० १ ] इत्येतत्सूक्तं तृचरूपं विधत्ते—

तार्क्ष्यं शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्ति-
तायै स्वस्त्ययनमेव तत्कुरुते , इति ।

तार्क्ष्यो गरुडः स एवैष देवो यस्य “ त्यमू षु ” इत्यादिसूक्तस्य तत्सूक्तं तार्क्ष्यं शंसेत् । तस्मिन्सूक्ते प्रतिपाद्यो यस्तार्क्ष्यः सोऽयं स्वस्त्ययनं वै क्षेमप्राप्तिमेव संपादयतीति शेषः । अतस्तत्सूक्तं स्वस्तितायै संपद्यते यस्मात्तस्मादयं होता तत्तेन शंसनेन स्वस्त्ययनमेव क्षेमप्राप्तिमेव कुरुते ।

तत ऊर्ध्वम्—“इन्द्रो विश्वं विराजति” इति । तस्या एकपदाया ऋचः शंसनं विधत्ते—

एकपदां शंसत्येकधेदं सर्वमसानीत्यथो
सर्वां छन्दस्कृतिमाप्नवानीति, [इति] ।

एकेनैव प्रयत्नेनेदं सर्वमसानि प्राप्तव्यं फलमाप्नवानीत्यभिप्रेत्य तामेकपदां शंसति । अपि च सर्वां छन्दस्कृतिं सर्वेषामपि च्छन्दसां संपादनं प्राप्तवानीत्येतां शंसेत् । न ह्येकपदाया अर्वाचीनं किंचिच्छन्दोऽस्ति । उत्तरेषु तु द्विपदादिषु सर्वेष्वपि च्छन्दःस्वेकपद्दम् ।


* एतदग्रे त्रुटितं किंचित् । + पशवोऽर्जयन्नित्येव पाठोऽपेक्षितः ।


१ क. ख. 'के मसूक्तो प्र° ।

१०

Page 79Permalink

७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-

अथ—" इन्द्रं विश्वाः " [ ऋ० सं० म० १ सू० ११ ऋ० १ ] इत्यादिक-
मष्टचं सूक्तं प्रयोगप्रकारविशेषयुक्तं विधत्ते—

इन्द्रं विश्वा अवीवृधन्निति पदानुषङ्गांस्ताः समानुषजति
सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधात्यष्टमीं नानु-
षजति वागष्टमी नेन्मे वाक्प्राणैरनुषक्ताऽसदिति तस्मादु
सा वाक्समानायतना प्राणैः सत्यननुषक्ता, इति ।

" इन्द्रं विश्वाः " इत्यस्मिन्नष्टर्चे सूक्ते पादानां परस्परमनुषङ्गः कर्तव्यः । तत्र सूक्तस्य यः प्रथमोऽर्धर्चो यश्चान्तिमस्तावूभावर्धर्चौ यथाध्ययनमेव पठनीयौ न त्वनुषज-(ञ्ज)नीयौ । तयोर्मध्ये ये चतुर्दशार्धर्चास्तेष्वेकैकपादान्तरितत्वेन परस्परानुषङ्गः कर्तव्यः । तद्यथा—प्रथमायामृचि यस्तृतीयः पादस्तं द्वितीयस्यामृचि प्रथमपादेन संयोज्यैकोऽर्धर्चः कर्तव्यः । तथा प्रथमायामृचि यश्चतुर्थः पादः सोऽयं द्वितीयस्यामृचि द्वितीयपादेन संयोजनीयः । एतेनार्धर्चद्वयेनैका संपद्यते । अनेनैव प्रकारेण सूक्तस्याऽऽद्यन्तयोरर्धर्चयोर्मध्यगतास्ताः सप्तर्चः परस्परमनुषजेत् । शिरसि छिद्रगताः प्राणाः सप्तैव तेन सप्तानामनुषङ्गेण शिरस्येव प्राणान्संपादयति । अष्टमीशब्देन सूक्तस्य चरमोऽर्ध एको विवक्षितस्तस्यानुषङ्गो नास्ति । उपरितनपादस्य कतमस्याप्यभावात् । अत एव शौनकः पञ्चमे—" प्रथमायाः पूर्वमर्धर्चं शस्त्वा " [ ऐ० आ० ५ अ० ३ ख० १ ] इत्यादिना " प्रकृत्या शेषः " इत्यन्तेन ग्रन्थेन सूक्तगतयोराद्यन्तयोरर्धर्चयोर्यथापाठमभिधाय मध्यगतानामेव चतुर्दशानामर्धर्चानां पाद्व्यतिषङ्गमुक्तवान् । केनाभिप्रायेणाष्टम्या व्यतिषङ्गो नास्तीति चेद्येनेयमृगष्टमी सा वाग्रूपा । अत एव वाजसनेयिनश्चक्षुरादीन्द्रियेषु गौतमभरद्वाजर्षिध्यानमधीयानाः " वागष्टमी ब्रह्मणा संविदाना" इत्येवं वाचोऽष्टमीत्वमामनन्ति । ईदृगष्टमी मदीया वाक्प्राणैरन्यैरनुषक्ता सती व्यतिषक्ता भवेदिति भीत्या तामष्टमीं नानुषजेत् । नेदिति निपातो भयद्योतनार्थः । यस्मादेवमष्टमीं नानुषजति तस्मादेव कारणात्साऽष्टमी वागन्यैः प्राणैर्जिह्वात्वगादिभिः समानायतनैकाधारा सत्यपि स्वयमननुषक्ता तैः सह नैव संकीर्णा किंतु विविक्ता सती शब्दमुच्चारयति ।

अथ—"पिबा सोममिन्द्र" [ ऋ० सं० म० ७ सू २३ ऋ० १ ] इत्यादिकानां विराच्छन्दस्कानां शंसनं विधत्ते—

विराजः शंसत्यन्नं वै विराजोऽन्नाद्यस्यावरुद्ध्यै, इति ।

विराच्छन्दसोऽन्नहेतुत्वादन्नत्वं तस्मात्तच्छंसनमन्नप्राप्तये संपद्यते । यद्यपि—"पिबा


इन्द्रं विश्वा अवीवृधन्०—ऋ० सं० म० १ सू० ११ ऋ० १ ।

Page 80Permalink

अध्या० १ ख० २ (२१)] ऐतरेयारण्यकम् । ७५

'सोमम्" [ ऋ० सं० म० ७ सू० २३ ऋ० १ ] इत्यादिकं नवर्चं सूक्तं तथाऽ-
प्यन्तिमास्तिस्रः परित्यज्य प्राचीनाः षडेव पठेत् । अत एव शौनकः—"पिबा
सोममिन्द्र मन्दतु त्वेति षट्" [ ऐ० आ० ५ अ० ३ ख० १ ] इत्याह ।

तत ऊर्ध्वं वसिष्ठदृष्टेन—"योनिष्ट इन्द्र सदने अकारि" [ ऋ० सं० म० ७ सू०
२४ ऋ० १ ] इत्येतेन सूक्तेन निष्केवल्यशस्त्रस्य समापनं विधत्ते—

वासिष्ठेन परिदधाति वसिष्ठोऽसानीति, इति ।

अहं वसिष्ठः सर्वेषामतिशयेन निवासहेतुर्भवानीत्यभिप्रेत्य वासिष्ठसूक्तेन परिधानं
कुर्यात् । परिधानं समापनम् ।

तत्र कंचिद्विशेषं विधत्ते—

एष स्तोमो मह उग्राय वाह इति महद्वत्या रूपसमृद्धया, इति ।

"योनिष्टे" [ ऋ० सं० म० ७ सू० २४ ऋ० १ ] इत्यादिकं षडर्चं सूक्तं
तत्र षष्ठ्या परिधानं प्राप्तं तदपोह्य—"एष स्तोमः" [ ऋ० सं० म० ७ सू० २४
ऋ० ५ ] इत्यनया पञ्चम्या परिदध्यात् । सा च महद्वती मह उग्रायेति तत्र पठि-
तत्वात्तस्मादियं रूपसमृद्धेति तया परिधानं न्याय्यम् । एतच्च शौनको विस्पष्टं
दर्शयति—"योनिष्ट इन्द्र सदने अकारीत्येतस्य चतस्रः शस्त्वोत्तमामुपसंतत्योपोत्त-
मया परिदधाति" [ ऐ० आ० ५ अ० ३ ख० १ ] इति ।

तस्याः परिधानीयाया द्वितीयपादे धुरीति पदं व्याचष्टे—

धुरी वात्यो न वाजयन्नधायीत्यन्तो वै
धूरन्त एतदहरेतस्याह्नो रूपम् , इति ।

येयं धूः सेयं रथस्यान्तोऽश्वयोजनस्थानम् । अस्य(त्र) हि धूरशब्दे(धूःशब्द)
वाच्ये रथस्यान्तभागे ते(तौ) युग्र्यौ योज्येते । एतन्महाव्रताख्यमहश्च संवत्सरसत्र-
स्यान्त एतस्या ऊ(स्यो)र्ध्वमुदयनीयातिरात्रेणाह्नः समाप्यमानत्वात् । अतो धुरश्चा-
न्तर(त्व)साम्याद्धूःशब्दयुक्तो मन्त्र एतस्याह्नः स्वरूपम् ।

तृतीयपादेऽर्कशब्दं प्रशंसति—

इन्द्र त्वाऽयमर्क ईट्टे वसूनामित्यर्कवत्या रूपसमृद्धया, इति ।

अर्कवाचकोऽयमर्कशब्दस्तच्छब्दयुक्तत्वादियमृग्रूपसमृद्धा, ततस्तया परिधानं
युक्तम् ।


एष स्तोमो महे०—ऋ० सं० म० ७ सू० २४ ऋ० ५ । धुरी वात्यो न०—
ऋ० सं० म० ७ सू० २४ ऋ० ५ । इन्द्र त्वाऽयमर्क ईट्टे०—ऋ० सं० म० ७
सू० २४ ऋ० ५ ।

चतुर्थपाद्युक्तं प्रशंसति—

Page 81Permalink

७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

चतुर्थपाद्युक्तं प्रशंसति—

दिवीव द्यामधिनः श्रोमंतं धा इति यत्र ह क्व च ब्रह्मण्‍या
वागुद्यते तद्धास्य कीर्तिर्भवति यत्रैवं विद्वानेतया परि-
दधाति तस्मादेवं विद्वानेतयैव परिदध्यात् , इति ।
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये
द्वितीयः खण्डः ॥ २ ॥ ( २१ )

हे देव नोऽस्माकं श्रोमंतं श्रवणीयकीर्तिं दिवीव द्युलोके यथा संपादयसि तथा द्यामधि^१ द्युलोकस्योपरि सोमलोकादावपि धा निधेहि संपाद्येत्यर्थः । एतस्यै पादस्य पाठेन यत्र क्वापि वेदशास्त्रविद्बहुले देशे ब्रह्मण्‍या वागुद्यते वेदनसंबन्धि वाक्यं पठ्यते तत्रास्य यजमानस्य कीर्तिः प्रसवति । यत्र यस्मिन्महाव्रते य एवं विद्वा-न्कीर्तिहेतुमृचं विद्वानेतयर्चा परिधानं करोति तस्मिन्महाव्रते य(त)स्य यजमानस्य कीर्तिर्भवतीति पूर्वत्रान्वयः । यस्मादेवं तस्या ऋचो महिमा भूयांस्तस्मादेवं विद्वान्म-न्त्रमहिमानं जानन्पुमानेतयैवर्चा परिदध्यात् । निष्केवल्यं समापयेत् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-भाष्ये प्रथमारण्यके पञ्चमाध्याये द्वितीयः खण्डः ॥ २ ॥ ( २१ )


अथ तृतीयः खण्डः । ( द्वाविंशः )

माध्यंदिनसवने शस्त(शंसित)व्यं निष्केवल्यं समापितं तृतीयसवने शस्तव्य(शंसित)स्य वैश्वदेवशस्त्रस्यार्द्धयं विधत्ते—

तत्संवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्व-
देवस्य प्रतिपदनुचरावैकाहिकौ रूपसमृद्धौ, इति ।

प्रतिपद्यते प्राप्यते शस्त्रं येन तृचेन सोऽयं प्रतिपत्तत्संवितुरित्यादिकस्तृचस्तं तृचमनुचरति तदनन्तरं पद्य(ठ्य)त^२ इत्यनुचरोऽद्या नो देव सवितरित्यादिकस्तृचस्तावैतौ वैश्वदेवशस्त्रस्य प्रतिपदनुचरौ महाव्रतस्य प्रकृतिभूते विश्वजिदाख्य एकाहे तस्यापि मूलप्रकृतिभूतेऽग्निष्टोमाख्य एकाहे भवत इत्यैकाहिकावत एव स्वरूपेण समृद्धौ तस्मात्तौ कर्त्तव्यौ ।


दिवीव द्याम्०— ऋ० सं० म० ७ सू० २४ ऋ० ९ । तत्सवितुर्वृणीमहे०—
ऋ० सं० म० ५ सू० ८२ ऋ० १ । अद्या नो देव सवितः०— ऋ० सं० म० ५ सू० ८२ ऋ० ४ ।


^१ ख. ग. घ. ॰रि म(स्व)लोंका’ ।
^२ क. ॰स्य पाठे’ ।

Page 82Permalink

अध्या० १ ख० ३(२२)] ऐतरेयारण्यकम् । ७७

अनिष्टशान्तिहेतुत्वेन तृचद्वयं प्रशंसति—

बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते
शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव
तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य
एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति ।

पूर्ववद्व्याख्येयम् [ ऐ० आ० १—१—३ ] ।
प्रतिपदनुचरयोरूर्ध्वमेकं सूक्तं विधत्ते—

तद्देवस्य सवितुर्वार्थ महदिति सावित्रमन्तो
वै महदन्त एतदहरेतस्याह्नो रूपम् , इति ।

“ तद्देवस्य ” इत्यादिकं सप्तर्चं सवितृदेवताकं सूक्तम् । सवितुर्देवस्य संबन्धि वार्यं सर्वैर्वरणीयं तत्तेजो महत्प्रौढम् । अस्मिन्पादे यन्महदित्युक्तं तदन्तो वै प्रार्थनीयस्य सर्वस्याप्यवसानभूमिः, न हि महत्त्वाद्ध्वं किंचित्प्रार्थनीयमस्ति । एतन्महाव्रतारूयमध्यहः संवत्सरसत्रस्यान्तोऽतोऽन्तत्वसाम्यादिदं सूक्तमेतस्याह्नः स्वरूपम् ।

सूक्तान्तरं विधत्ते—

कतरा पूर्वा कतराऽपराऽयोरिति
द्यावापृथिवीर्यं समानोदर्कं समानो-
दर्कं वा एतदहरेतस्याह्नो रूपम्, इति ।

“ कतरा ” इत्यादिकमेकादशचं सूक्तं द्यावापृथिवीदेवताकं शंसनीयम् । तच्च समानोदर्कं समान एकं उदकों यस्य सूक्तस्य तत्समानोदर्कं तस्मिन्हि सूक्ते बहुष्वृक्षु “ द्यावा रक्षतं पृथिवी नो अभ्वात् ” इत्ययमेव चतुर्थः पादः पठितोऽत एकविधः । एतन्महाव्रतारूपमहश्च समानोदर्कम् । अत्रोदर्क उत्तरकालभावि फलं तच्च सर्वेषां समानं सर्वेऽपि महाव्रतमनुष्ठाय ब्रह्म प्राप्नुवन्ति । अत एव शौनकेन—“ ब्रह्म भवति ” [ ऐ० आ० १ अ० ३ ख० ३ ] इत्युक्तम् । एवं च सति समानोदर्कसाम्यादेतत्सू[क्तमेतस्याह्नः स्वरूपम् ।

सू]क्तान्तरं विधत्ते—

अनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवम् , इति ।


तद्देवस्य सवितुर्वार्यं०—[ ऋ० सं० म० ४ सू० ५३ ऋ० १ । ] कतरा पूर्वा कतराऽपरा०—ऋ० सं० म० १ सू० १८५ ऋ० १ । अनश्वो जातो०—ऋ० सं० म० ४ सू० ३६ ऋ० १ ।


१ ख. ग. घ. ºक ऊर्ध्वोऽर्को ।

Page 83Permalink

७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

“ अनश्वः ” इत्यादिकं नवर्चमृभुदेवताकं सूक्तं द्यामृभवः पृथिवीं यच्च पुष्यथेति तत्र स्वयमाभीत्वा(स्वयमेवाऽऽर्भवत्वा)त् । तत्सूक्तं शंसेत् ।

तत्र प्रथमायामृचि द्वितीयपादे त्रिशब्दं प्रशंसति—

रथस्त्रिचक्र इति पदे तन्त्रिवत्तदन्तो वै
त्रिवदन्त एतदहरेतस्याह्नो रूपम्, इति ।

“रथस्त्रिचक्रः परिवर्तते रजः” इति द्वितीयपादस्तस्मिन्पादे यदेतन्त्रिशब्दोपेतरथविशेषणं त्रिचक्र इत्येतत्पदं विद्यते त्रिशब्दोऽस्मिन्पदेऽस्तीति त्रिवत्पदं तच्चान्तं वा अवसानभूमिरेव । यस्य रथस्य चक्रद्वयेना(यम)निर्वाह्यं यत्र तस्य तृतीयं चक्रं संपाद्यते तावता निर्वाहो भवतीत्यभिप्रेत्य तन्त्रिवत्पदमन्त इत्युच्यते । अन्त एतदहरित्यादिकं पूर्ववत् [ ऐ० आ० १ अ० ५ ख० २ ] ।

सूक्तान्तरं विधत्ते—

अस्य वामस्य पलितस्य होतुरिति वैश्वदेवं
बहुरूपं वा एतदहरेतस्याह्नो रूपम् , इति ।

“ अस्य वामस्य ” इत्यादिकं द्विपञ्चाशदृचं सूक्तं विश्वे(श्व)देवदेवताकं पठेत् तच्च बहुरूपं बह्वर्थप्रतिपादकत्वात् । तच्चानुक्रमणिकायां दर्शितम्—अस्य द्विपञ्चाशदल्पस्तवं त्वेतत्संशयोत्थापनप्रश्नप्रतिवाक्यान्यत्र प्रायेण ज्ञानमोक्षाक्षरप्रशंसा चेति वैदिकमन्त्रादिना लौकिकवृत्त्यादिना$^१$ च विवृतत्वादह्नो बहुरूपत्वमतः साम्यादुभयोरानुरूप्यम् ।

यथोक्तस्य कृत्स्नस्य सूक्तस्य प्रसक्तिं वारयितुं विशिनष्टि—

गौरीर्मिमाय सलिलानि तक्षतीत्येतदन्तम् , इति ।

ऋचां चत्वारिंशति(त)मतिक्रम्यानन्तरभाविनी “ गौरीः ” इत्यादिका तदन्तमे सूक्तभागं पठेन्न तूपरितनम् । अत एव शौनकः—“ एकचत्वारिंशेतम्$^२$ ” [ ऐ० आ० १ अ० ३ ख० २ ] इत्याह ।

सूक्तान्तरं विधत्ते—

आ नो भद्राः क्रतवो यन्तु विश्वत इति वैश्व-
देवं निविद्धानमैकाहिकं रूपसमृद्धम् , इति ।


रथस्त्रिचक्रः०—ऋ० सं० म० ४ सू० ३६ ऋ० १ । अस्य वामस्य०—ऋ० सं० म० १ सू० १६४ ऋ० १ । गौरीर्मिमाय०—ऋ० सं० म० १ सू० १६४ ऋ० ४१ । आ नो भद्राः—ऋ० सं० म० १ सू० ८९ ऋ० १ ।


$^१$ ख. ग. घ. ॰कनृत्यादि’ । $^२$ क. ख. ग. ॰शतिमि’ ।