Skip to content
SarvaKosh
Back to the archive

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

by महर्षि ऐतरेय महिदास

Source: Aitareya Aranyakam with Vedic Accents & Commentary (origin)

Public domain in India · Report a copyright issue

DevanagariHindipublished304 pages

About this granth

The Aitareya Aranyaka (ऐतरेयारण्यकम्) is the forest-text of the Aitareya branch of the Rigveda, following the Aitareya Brahmana. Tradition credits its first three books to Mahidasa Aitareya. It deals with the Mahavrata day of the soma ritual, the recitations performed on it and their inner meaning. Chapters four to six of the second book form the Aitareya Upanishad, and the third book, the Samhita Upanishad, reflects on the forms of Vedic recitation.

The text is divided into five aranyakas, each split into adhyayas and khandas. This edition prints it with the Sanskrit commentary of Sayanacharya, who explains its ritual terms and Vedic words.

The scanned title page identifies it as number 38 of the Anandashrama Sanskrit Series, revised by Babashastri Phadke and published by Hari Narayan Apte from the Anandashrama press, Pune, in Shaka 1820 (1898). A list of the manuscripts used for the text precedes it. The copy has 304 pages.

Page 36Permalink

अध्या० २ ख० ३(७)] ऐतरेयारण्यकम् । ३१

ऊर्जोऽन्नाद्यस्यावरुद्ध्यै, इति ।
ऊर्क्शब्दो रसवाची । उदुम्बरश्चोर्गस इव तत्फलेषु माधुर्यसत्वस्य विद्यमान-
त्वात् । तेषां च पक्वफलानां भक्ष्यत्वेन फलानामुपदंशत्वेनान्नं योग्यमन्नमुदुम्बरः ।
अतो रसस्यान्नं योग्यस्यान्नस्य च प्राप्त्यै ते फलके औदुम्बरे भवतः ।

तयोः फलकयोर्लम्बमानतां विधत्ते—
मध्यत उद्धृते स्यातां मध्यतो वै प्रजा अन्नं धिनोति
मध्यत एव तदन्नाद्यस्य यजमानं दधाति, इति ।
ते फलके यथा भूमिं न स्पृशतो यथा चोपरितनं वीतयनामकं तिर्यक्काष्ठं न स्पृश-
तस्तथैव भूमिवीतययोर्मध्यदेश उद्धृते ऊर्ध्वं भरणं प्राप्ते मरेषिताम्, ( भवेताम् । )
भुज्यमानमन्नं मध्य एव प्रजाः प्रौर्णानि(प्रीणयति), तत्तेनोद्धरणेनान्नाद्यस्य भोग्यस्य
मध्य एव यजमानं स्थापयति ।

प्रेङ्खबन्धनाय रज्जुद्वयं विधत्ते—
उभय्यो रज्जवो भवन्ति दक्षिणाश्च सव्याश्च दक्षिणा
वा एकेषां पशूनां रज्जवः सव्या एकेषां तद्यदु-
भय्यो रज्जवो भवन्त्युभयेषां पशूनामाप्त्यै, इति ।
दक्षिणहस्तेन निर्मिता रज्जवः प्रदक्षिणावृतो वामहस्तेन निर्मिताः सव्यावृत एव-
मत्रोभयविधा रज्जवो भवेयुः । लोकेऽपि केचित्पशवो दक्षिणावृद्भिर्बध्यन्ते केचित्स-
व्यावृद्भिः । तदुभयविधपशुप्राप्त्यर्थं द्विविधा रज्जवो भवेयुः ।

तासां रज्जूनां कारणं द्रव्यं विधत्ते—
दार्भ्यः स्युर्दर्भावा ओषधीनामपहतपाप्मा तस्माद्दार्भ्यः स्युः, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये
तृतीयः खण्डः ॥ ३ ॥ ( ७ )

ओषधीनां तृणविशेषाणां मध्ये दर्भस्य शुद्धित्वात्पापराहित्यम् , “ पवित्रं
वै दर्भाः ” इति श्रुत्यन्तरात् । तस्माद्रज्जवो दर्भेण निष्पादनीयाः । एतत्सर्वं पञ्चमे
संगृहीतम्—“रज्जूभ्यामूर्ध्वमुद्धूयति दक्षिणतो दक्षिणोत्तरतः सव्यया दार्भ्ये त्रिगुणे
स्याताम्” [ ऐ० आ० ५ अ० १ ख० ३ ] इति । यद्यपि दक्षिणोत्तरभागयोर्द्वे एव रज्जू
तथाऽप्येकैकस्यां त्रिगुणत्वात्तद्गतसंख्याकानवयवानभिप्रेत्य रज्जव इति बहुवचनम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये प्रथमारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ७ )


१ क. प्राणने । २ क. ॰त्वद्दृपसं० ।

Page 37Permalink

३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

अथ चतुर्थः खण्डः । ( अष्टमः )

भूमिप्रेङ्खयोर्मध्ये व्यवधानस्येयत्तां निश्चेतुं पूर्वपक्षमुपन्यस्य निराचष्टे—

अरत्नमात्र उपरि भूमेः प्रेङ्खः स्यादित्याहुरेतावता वै
स्वर्गा लोकाः संमिता इति तत्तन्नाऽऽदृत्यम्, इति।

अरत्निः प्रादेशद्वयमात्रप्रमाणम् । भूमेरुपरि तावन्मात्रव्यवधाने प्रेङ्खः कार्यः । अन्तरिक्षादुपरि वर्तमानभोगहेतवो ये स्वर्गलोकास्ते प्रजापतेररत्निमात्रेण सदृशा भवन्ति, तत्प्रशस्तत्वादरत्नेरुपरि प्रेङ्खः स्थापनीय इति केचिदाहुः । त[त्त]स्मिन्प्रेङ्खे तन्मतं नाऽऽदरणीयम् ।

पुनरपि पूर्वपक्षत्वेन मतान्तरमुपन्यस्य दूषयति—

प्रादेशमात्रे स्यादित्याहुरेतावता वै प्राणाः
संमिता इति तत्तन्नाऽऽदृत्यम् , इति ।

प्राणवायवो हि देहस्यान्तर्हृदयादूर्ध्वं प्रादेशमात्रं संचरन्ति मुखाद्बहिरपि संचरतां प्रादेशमात्रेण संमिता भवन्ति । अन्यत्पूर्ववद्व्याख्येयम् ।

सिद्धान्तं दर्शयति—

मुष्टिमात्रे स्यादेतावता वै सर्वमन्नाद्यं क्रियत एतावता
सर्वमन्नाद्यमभिपन्नं तस्मान्मुष्टिमात्र एव स्यात्, इति ।

एतावता मुष्टिपरिमितेन द्रव्येण मोदकदधूपूरिकादिरूपं सर्वमन्नाद्यं निष्पाद्यते, एतावता मुष्टिपरिमितेन ग्रासेन सर्वमन्नाद्यं मुखे प्राप्तं भवति, तस्मादन्नप्राप्त्यै मुष्टिमात्र एवोर्ध्वप्रदेशे प्रेङ्खो भवेत् ।

अथ प्रेङ्खारोहणे कंचित्पूर्वपक्षमुपन्यस्य दूषयति—

पुरस्तात्प्रत्यञ्चं प्रेङ्खमधिरोहेदित्याहुरेतस्य रूपेण य एष तपति
पुरस्ताद्ध्येष इमाँल्लोकान्प्रत्यङ्ङधिरोहतीति तत्तन्नाऽऽदृत्यम्, इति ।

होता स्वयं पूर्वस्यां दिश्यवस्थाय प्रत्यञ्चं पश्चिमदिश्यवस्थितं प्रेङ्खमधिरोहेदित्याहुः । तत्रेयमुपपत्तिः—य आदित्योऽस्ति स एष एतस्य रूपेण पुरस्तादवस्थाय पश्चिमारोहणरूपेण तपति । उदयादूर्ध्वमामध्याह्नं पश्चिमाभिमुखस्याऽऽदित्यस्याऽऽरोहदर्शनात् । अयमेवार्थः प्रसिद्धिवाचकेन हिशब्देनोत्तरवाक्ये स्पष्टीकृतः । तस्मात्पुरस्तादवस्थायाधिरोहेदिति, सोऽयं पूर्व पक्षो नाऽऽदरणीयः ।

पुनरप्यन्यं पूर्वपक्षमुपन्यस्य दूषयति—

तिर्यञ्चमधिरोहेदित्याहुस्तिर्यञ्चं वा अश्वमधिरोहन्ति

Page 38Permalink

अध्या० २ ख० ४ (८)] ऐतरेयारण्यकम् । ३३

तेनो सर्वान्कामानवामवामेति तत्तन्नाऽऽदृत्यम्, इति ।

पूर्वपश्चिमयोरायँततस्य* प्रेङ्खस्योत्तरदक्षिणविस्तारस्तिर्यक्त्वं तस्यान्यतरस्यां दिश्य-
वस्थाय तिर्यक्त्वेनावस्थितं प्रेङ्खमधिरोहेदित्यन्य आहुः । तत्रेयमुपपत्तिः—अश्वस्य
पार्श्वेऽवस्थाय तिर्यञ्चमश्वं जना अधिरोहन्ति । तेनो तेनैव तिर्यगधिरोहेण सर्वकाम-
प्राप्तिरिति तेषामभिप्रायः । अयमपि पक्षो नाऽऽदरणीयः ।

सिद्धान्तिनां मतं दर्शयति—

अन्वश्वमधिरोहेदित्याहुरनूचीं वै नाव-
मधिरोहन्ति नौर्वैषा स्वर्ग्याणी यत्प्रेङ्ख
इति तस्मादन्वश्वमेवाधिरोहेत् , इति ।

प्रागग्रस्य प्रेङ्खस्य पश्चिमदिश्यवस्थाय प्रागाभिमुख्येनाऽऽरोहणमन्वगारोहणं तदेव
कुर्यादिति सिद्धान्तिन आहुः । लोके नौर्यदा पश्चिमतीरेऽवस्थाय प्राचीनतीरं गच्छति
तदानीं जना अपि पश्चिमतीरेऽवस्थाय प्राङ्मुखा अधिरोहन्ति । तदिदं नावोऽ-
न्वगारोहणम् । प्रेङ्ख इति यदस्त्येषा स्वर्गप्रापिका नौरेव, तस्मादन्वगारोहणं
युक्तमिति सिद्धान्तः ।

तस्मिन्नधिरोहणे कंचिद्विशेषं विधत्ते—

छुबुकेनोपस्पृशेच्छुको वै यं वृक्षमधिरोहति स उ
वयसामन्नादतम इति तस्माच्छुबुकेनोपस्पृशेत्, इति ।

छुबुकशब्देन मुखस्याधरफलकमुच्यते । तेन प्रेङ्खमुपस्पृशेत् । लोके हि शुक-
नामकः पक्षी छुबुकस्पर्शनपुरःसरं वृक्षमधिरोहति । स तु शुकः पक्षिणां मध्येऽतिश-
येनान्नादः, राजामात्यादयो विनोदार्थं शुकं रक्षन्तः क्षीरादिकं भोजयन्ति । तस्मादन्न-
प्राप्त्यै तु च्छुबुकेनोपस्पृशेत् ।

यथा छुबुकस्पर्शनमेवमरत्निस्पर्शनं विधत्ते—

बाहुभ्यामधिरोहेदेवं श्येनो वयांस्यभिनिविशत एवं वृक्षं स
उ वयसां वीर्यवत्तम इति तस्माद्बाहुभ्यामधिरोहेत् , इति ।

बाहुशब्देनात्र कूर्परमारभ्याग्रभागोऽरत्निशब्दवाच्यो विवक्षितः । तथा च पञ्चमे
पठ्यते—“पश्चार्धे फलकेऽरत्नी प्रतिष्ठापयति” [ ऐ० आ० ५ अ० १ ख० ४ ] [इति] ।
ताभ्यामरण्तिभ्यामधिरोहणं कुर्यात् । अनेनैव प्रकारेण श्येनो बलवान्पक्षी वयांस्य-
न्यान्पक्षिणोऽभिलक्ष्य तद्दर्शनार्थं तेषां दुर्बलानां पक्षिणामुपर्यरत्निभ्यामुपस्पृश्योपविशति ।


* आयतस्येति पाठ्यम् ।
१ ख. ग. घ. 'न्ति । तेनै' ।
५

Page 39Permalink

३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

किंचानेनैव प्रकारेणारातन्स्पिर्शनपूर्वकं वृक्षमधिरोहति । यत्तु(स तु?)श्येनः पक्षिणां
मध्येऽतिशयेन शक्तिमान् । यस्मादेवं श्येनसादृश्यं भवति तस्मादरत्नी प्रतिष्ठापयेत् ।
अरत्निस्थापनादूर्ध्वं प्रेङ्खमScreen(ारूढवतो) होतुरेकेन पादेन भूमिस्पर्शनं विधत्ते—

अस्यै पादं नोच्छिन्द्यान्नेदस्यै प्रतिष्ठाया उच्छिद्या इति, इति ।

अस्या भूमेः सकाशात्स्वकीयं दक्षिणं सव्यं वा पादमेकमुच्छिन्नं न कुर्यात्किंतु
भूमौ पादं प्रतिष्ठापयेत् । नेदित्यव्ययसमूहः परिभयार्थे वर्तते । यद्यहं पादं भूमेर्वि-
युक्तं कुर्यां तदानीं प्रतिष्ठास्वरूपाया अस्या भूमेः सकाशादहमेवोच्छिन्नो भूयासमित्य-
भिप्रेत्य स्वकीयं भयं द्योतयन्भीतिपरिहाराय भूमिं स्पृष्ट्वैव तिष्ठेत् ।

होतुरुद्गातृश्चाऽऽरोहणस्थानव्यवस्थां विधाय प्रशंसति—

प्रेङ्खं होताऽधिरोहल्यौदुम्बरीमासन्दीमुद्गाता
वृषा वै प्रेङ्खो योषाऽऽसन्दी तन्मिथुनं मिथु-
नमेव तदुक्थमुखे करोति प्रजात्यै, इति ।

मञ्चकवच्चतुष्पदोन्नताऽऽसन्दी । होत्रा समारूढः प्रेङ्खः पुँल्लिङ्गशब्देनाभिधाना-
द्वृषा रेतःसेचनसमर्थः पुमान् । आसन्दी तु स्त्रीलिङ्गनिर्देशाद्योषा । तदुभयं मिलित्वा
मिथुनं संपद्यते । तत्तेनोभयावरोहणेनोक्थमुखे निष्केवल्यशस्त्रस्य प्रारम्भ
मिथुनमेव संपादयति । तच्च प्रजोत्पत्त्यै भवति ।

एतद्वेदनं प्रशंसति—

प्रजायते प्रजया पशुभिर्य एवं वेद, इति ।

प्रकारान्तरेणोभयं प्रशंसति—

अथान्नं वै प्रेङ्खः श्रीरासन्द्यन्नं चैव
तच्छ्रियं चान्वधिरोहतः , इति ।

पूर्वोक्तमिथुनरूपत्वप्रशंसया सह समुच्चयार्थोऽथशब्दः । प्रेङ्खस्यौदुम्बरत्वादन्नरूपत्वं
तच्च फलकविधाने प्रतिपादितम् । श्रियं प्राप्ता राजादय उच्चासनमधिरोहन्ति । अतः
श्रीरासन्दी । तदुभयमन्नश्रीरूपमेतावुभावानुक्रमेणाधिरोहतः । तदेतदुभयं यजुर्वेदे
आम्नातम्—" आसन्दीमुद्गाताऽऽरोहति साम्राज्यमेव गच्छन्ति प्रेङ्खं होता नाकस्यैव
पृष्ठं रोहन्ति " इति ।

इतरेषामासनानि विधत्ते—

बृसीर्होतृकाः समधिरोहन्ति सब्रह्मकाः, इति ।

तृणविशेषवंशशकलादिविनिर्मिता आसनविशेषा बृस्यः कूर्चशब्दाभिधेयाः । अत
एव पञ्चमे वक्ष्यते—"कूर्चान्होत्रकाः समारोहन्ति ब्रह्मा च"

Page 40Permalink

अध्या०२ख०४(८)] ऐतरेयारण्यकम् । ३५

. अ० १ ख० ४ ] इति। प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रोऽच्छावाकश्चेत्येते
होत्रकास्ते च ब्रह्मणा सहिता बृसीरधिरोहेयुः ।
तदधिरोहणं प्रशंसति—

समुत्सृप्य वा ओषधिवनस्पतयः फलं गृह्णन्ति तद्य-
देतस्मिन्नहनि सर्वशः समधिरोहन्तीषमेव तदू-
र्जमन्नाद्यमधिरोहन्त्यूर्जोऽन्नाद्यस्यावरुद्ध्यै, इति ।

ओषधयो ब्राहीधवाद्या वनस्पतयः पनसोदुम्बराद्यास्ते च सर्वे समुत्सृप्य सम्य-
गुन्नता भूत्वा पश्चात्फलन्ति । तत्तथा सति यद्येतस्मिन्महाव्रतनामकेऽह्नि सर्वे ब्रह्मादय
आसनान्यधिरोहेयुस्तत्तेनाधिरोहणेनेषमन्नमूर्जं तद्रसमन्नाद्यं भक्षणयोग्यप्रशस्तान्नं
चाधिरूढा भवन्ति । तस्मात्क्षीरादिरसस्य शाल्याद्यन्नस्य च प्राप्त्यै तदधिरो-
हणं संपद्यते ।
यद्यप्यवरोहस्य नायं कालस्तथाऽप्यारोहणप्रसङ्गाद्बुद्धिस्थावरोहणं विधातुं कंचि-
त्पूर्वपक्षमुपन्यस्य दूषयति—

वषट्कृत्यावरोहेदित्याहुस्तत्तन्नाऽऽदृत्यमकृता
वै साऽपचितिर्यामपश्यते करोति, इति ।

होता वषट्शब्दमुच्चार्यानन्तरमेव प्रेङ्खादवरोहेदिति केचिदाहुस्तन्मतं नाऽऽद-
रणीयम् । कुतः । भक्षस्यापचित्यर्थं हि प्रेङ्खादवरोहणं सा वा(चा)पचितिः पूजनीये
भक्षे समागत्य निरीक्षमाणे सति कर्तव्या । यद्यप्यपश्यते भक्षस्यापचितिः क्रियेत तदा-
नीमियमकृतैव स्यान्नहि वषट्कारानन्तर्यं भक्ष्यागमनस्यावसरस्तस्यानुवषट्कारादूर्ध्व-
भावित्वात् ।
पुनरप्यन्यं पक्षमुपन्यस्य दूषयति—

निगृह्य भक्षमवरोहेदित्याहुस्तत्तन्नाऽऽदृत्यमकृता
वै साऽपचितिर्यामभ्युत्थाय करोति, इति ।

निगृह्य नितरां हस्ते गृहीत्वा पश्चादवरोहणमित्येतदपि मतं नाऽऽदरणीयम् ।
अवरोहलक्षणोपचारकालस्यातिक्रान्तत्वात् । अभ्युत्थायाविकृतेन समीप¹ प्राप्ताय याऽ-
पचितिः सेयं कृताऽपि कालातिक्रमादकृतैव भवेत् ।
सिद्धान्तं दर्शयति—

प्रतिख्याय भक्षमवरोहेदेषा वा अपचितिर्यां पश्यते
करोति तस्मात्प्रतिख्यायैव भक्षमवरोहेत्, इति ।


. १ ख. ॰मीपप्रा॰ ।

Page 41Permalink

३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

प्रतिरूपायाऽऽगच्छन्तं भक्षं दृष्ट्वा तदानीमेव तस्मिन्भक्षे पश्यति सति येयमवरो-
हणरूपाऽपचितिः सा मुख्या पूजा । लोकेऽपि हि शिष्टा आचार्यादीनामागमनात्प्रा-
गपि स्वासनान्नोत्तिष्ठन्ति । तेष्वागत्योपविष्टेषु पश्चादपि नोत्तिष्ठन्ति । किं तर्हि यावता
देशव्यवधानेन ते पश्यन्ति तावति देशे तद्दृष्टिपातकाल एव सहसोत्तिष्ठन्ति, तस्मा-
त्प्रत्यक्षं(क्षं) प्रतिरूपायावरोहेदित्येष एव सिद्धान्तः ।

तस्मिन्नवरोहे कंचिन्नियमं विधत्ते—

प्राङवरोहेन्प्राग्वै देवरेत[:?] संप्रजायते
तस्मात्प्राङ्वरोहेदवरोहेत् , इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये
चतुर्थः खण्डः ॥ ४ ॥ ( ८ )

इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके
द्वितीयोऽध्यायः ॥ २ ॥

पश्चिमदिशि समारूढो होता स्वयं प्राङ्मुखः सन्प्राच्यां दिश्यवरोहेत् । प्राग्वै प्राच्या-
मेव दिशि देवानामिन्द्रादीनां रेतः पुत्रादिरूपेणोत्पद्यते । देवलोकस्य पूर्वदिग्वर्ति-
त्वात् । तस्माद्देवत्वाय प्राङेवावरोहेन्न तु प्रत्यङ् । अभ्यासोऽध्यायसमाप्त्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये
प्रथमारण्यके द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ ( ८ )

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म-
णारण्यकभाष्ये प्रथमारण्यके द्वितीयोऽध्यायः ॥ २ ॥


अथ प्रथमारण्यके तृतीयोऽध्यायः ।

तत्र प्रथमः खण्डः । (नवमः)

पूर्वाध्याये निष्केवल्यशस्त्रप्रशंसनार्थं पूर्वाधिरोहणमुक्तम् । अतस्तच्छंसनं विवि-
च्यते । तत्राऽऽदौ पक्षिणामित्येतस्य शब्दस्योच्चारणं विधत्ते—

हिङ्कारेणैतदहः प्रतिपद्येतेत्याहुः, इति ।

अहःशब्देनात्र तदीयं शस्त्रमुपलक्ष्यते । तच्च हिंकारेण प्रारभेतेत्येवमभिज्ञा
आहुः । यद्ययं हिंकारशब्दश्चोदकेनैव प्राप्तस्तह्यर्थवादसंबन्धार्थं तद्विध्यनुवाद इति
द्रष्टव्यम् । एवमन्यत्राप्राप्तो विधिः प्राप्तस्य प्रशंसार्थमनुवादः ।


१ ग. घ. अत्र तच्छं ।

Page 42Permalink

अध्या० १ ख० १ ( ९ ) ] ऐतरेयारण्यकम् । १७

हिंकारवेदनं प्रशंसति—

ब्रह्म वै हिंकारो ब्रह्मैव तदहर्ब्रह्मणैव
तद्ब्रह्म प्रतिपद्यते य एवं वेद, इति ।

हिंकारस्याह्नश्च ब्रह्मप्राप्तिहेतुत्वाद्व्रह्मत्वम् । अतो ब्रह्मरूपेणैव हिंकारेणैतद्ब्रह्मरू-
पमहः प्राप्नोति ।

पुनरपि हिंकारं प्रशंसति—

यदेव हिंकारेण प्रतिपद्यता३इ वृषा वै हिंकारो
योषर्क्तन्मिथुनं मिथुनमेव तदुक्तमुखे करोति
प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद, इति ।

आ(अ)कारः प्लुत इकारश्चेत्येतदुभयं प्रतिपद्यत इत्येकारस्य स्थाने विहितम् । आद-
रातिशयद्योतनार्थं प्लुतिः । हिंकारेण शस्त्रं प्रारभ्यत इति यदस्ति तत्र हिंकारस्य पुंलि-
ङ्गशब्देन निर्देशादृचश्च स्त्रीलिङ्गशब्देन व्यवहारादुभयं मिलित्वा मिथुनं संपद्यते ।
मिथुनमेवेत्यादि पूर्ववद्व्याख्येयम् ।

पुनः प्रकारान्तरेण प्रशंसति—

यद्वेव हिंकारेण प्रतिपद्यता३इ यथा वा
अभ्रिरेवं ब्रह्मणो हिंकारो यद्वै किंचाभ्रि-
याऽभितितृत्सत्यभ्यैवेनत्तृणत्त्येवम् , इति ।

यदुशब्दोऽपि चेत्यस्मिन्नर्थे वर्तते । स च पूर्वप्रशंसया समुच्चयार्थः । हिंकारेणैव
प्रारभ्यत इति यदस्ति तत्र यथैव लोकेऽभ्रिः खननहेतुः काष्ठविशेष एवं ब्रह्मणो
वेदस्य हिंकारो वेदसारस्य निधिस्थानीयस्य खननहेतुः । एवं च सति लोके यदेव
किंचित्कठिनं भूतलमभ्रिया खननसाधनभूतयाऽभितितृत्सति सर्वतस्तर्दितुं खनितुमि-
च्छति स पुमानेतत्कठिनं भूतलमभितृणत्त्येव सर्वथा खनत्येवमयं होता वेदे दुर्लभं
लभत इत्यर्थः ।

हिंकारवेदनं प्रशंसति—

यं कामं कामयते हिंकारेणाभ्यैवेनं तृणत्ति य एवं वेद, इति ।

पुनरपि प्रकारान्तरेण हिंकारं प्रशंसति—

यद्वेव हिंकारेण प्रतिपद्यता३इ वाचो वा एषा व्याव्रुत्ति-
र्देव्यै च मानुष्यै च यद्धिंकारः स यद्धिंकृत्य प्रतिपद्यते
वाचमेव तद्व्यावर्तयति दैवीं च मानुषीं च , इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये
प्रथमः खण्डः ॥ १ ॥ ( ९ )

Page 43Permalink

३८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-

स्तोत्रशस्त्रादिरूपा वैदिकी वाग्दैवी । अशनाच्छादनादिविषया लौकिकी वाङ्मानुषी । एवं सति हिंकार इति यदस्ति सैषा द्विविधाया वाचः परस्परव्यावृत्तिहेतुः । दैव्या वाचा हिंकारः प्रयुज्यते न तु मानुष्या तदेतद्धिंकारस्य व्यावर्तकत्वम् । अतो यदि हिंकृत्य शस्त्रं प्रारभेत तदानीमयं होता द्विविधामपि वाचं परस्परव्यावृत्तां करोति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये प्रथमारण्यके तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥ ( ९ )


अथ द्वितीयः खण्डः । ( दशमः )

शस्त्रप्रारम्भकाले मनोवाचोरत्यन्तसाधनत्वमभिप्रेत्य प्रश्नोत्तराभ्यां तदुभयं प्रशंसति —

तदाहुः कैतस्याह्नः प्रतिपदिति मनश्च वाक्चेति ब्रूयात्, इति ।

अह्रुपलक्षितस्यैवास्य शस्त्रस्य का प्रतिपत्किं प्रारम्भसाधनमिति तदाहुस्तस्मिन्शस्त्रे जिज्ञासवः पृच्छन्ति । तत्र मनश्चेत्यभिक्षुश्चो(स्यो)त्तरम् । मनश्च वाक्चेत्येतदुभयं प्रारम्भसाधनमित्युत्तरं ब्रूयात् । अप्रमत्तेन मनसा प्रथमं शस्त्रं पर्यालोच्य पश्चादप्रमत्तया वाचा शंसेदित्यर्थः । निष्केवल्यस्य बहुविधविप्रकीर्णमन्त्रसमुदायरूपत्वाद्वाङ्मनसयोरत्र विशेषेणाप्रमत्तत्वाभिधानम् ।

मनश्च वाक्चेत्यनयोः पृथगुपयोगं दर्शयति—

सर्वेऽन्यस्मिन्कामाः श्रिताः सर्वानन्यान्कामान्दुहे, इति ।

तयोरुभयोर्मध्ये यदन्यन्मनःशब्दवाच्यं तस्मिन्सर्वे कामाः श्रिताः प्राप्ताः । या त्वन्या वागस्ति सा सर्वान्कामान्दुहे दुग्धे संपादयति ।

मनसः कामाधारत्वं विशदयति—

मनसि वै सर्वे कामाः श्रिता मनसा
हि सर्वान्कामान्ध्यायति, इति ।

कामा अभिलाषा मनोवृत्तिविशेषत्वान्मनस्येवावताऽपि(स्थिताः?) । अत एव सर्वे लोकाः काम्यमानानपदार्थान्मनसा ध्यायन्ति ।

एतद्वेदनं प्रशंसति—

सर्वे हास्मिन्कामाः श्रयन्ते य एवं वेद, इति ।

वाचः कर्मसंपादकत्वं विशदयति—

वाग्वै सर्वान्कामान्दुहे वाचा हि सर्वान्कामान्वदति, इति ।


. १ क. ख. ॰स्येताव॰ ।

Page 44Permalink

अध्या० ३ ख० ३ (११)] ऐतरेयारण्यकम् । ३९

वागेव सर्वानभिलषितान्पदार्थान्संपादसति। यस्माल्लोके ममैते पदार्थाः सन्विति दातृणामग्रे वाचा याचते ते च दातारः प्रयच्छन्ति तदिदं वाचः कामसंपादकत्वम् ।

वेदनं प्रशंसति—
सर्वान्हास्मै कामान्वाग्दुहे य एवं वेद, इति ।

वाङ्मनसयोरप्रमत्तत्वं विधाय हिंकारादूर्ध्वं व्याहृतित्रयोच्चारणं विधातुं प्रस्तौति—
तदाहुर्नैतदहर्कचा न यजुषा न साम्ना प्रत्यक्षात्मति-
पद्येत नर्चो न यजुषो न साम्न इयादिति, इति ।

अयं कर्मविशेष ऋगादिभ्यो नेयान्नापगच्छेदित्यभिप्रेत्य तदेतदहः प्रत्यक्षादव्य-वधानादृगादिभिर्न प्रारभेतेत्येव तदाहुः, तस्मिञ्शस्त्रेऽभिज्ञाः कथयन्ति ।

तदव्यवधानं वारयितुं व्यवधानहेतुमन्त्रं विधत्ते—
तदेता व्याहृतीः पुरस्ताज्जपेत्, इति ।

यस्माद्धिंकारस्यर्गादीनां च मध्ये व्यवधानमपेक्षितं तस्मादृगादिभ्यः पुरस्तादेता एव वक्ष्यमाणा व्याहृतीर्जपेत् ।

व्याहृतीनां स्वरूपं तत्प्रशंसां च दर्शयति—
भूर्भुवः स्वरित्येता वाव व्याहृतय इमे त्रयो वेदा
भूरित्येव ऋग्वेदो भुव इति यजुर्वेदः स्वरिति
सामवेदस्तन्नर्चा न यजूषा न साम्ना प्रत्यक्षा-
त्मतिपद्यते नर्चो न यजुषो न साम्न एति, इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये
द्वितीयः खण्डः ॥ २ ॥ ( १० )

भूरित्यादिमन्त्रत्रयरूपा एव व्याहृतयः । इमे च मन्त्रा वेदत्रयप्रतिनिधिरूपाः । स एवार्थो भूरित्येवेत्यादिना स्पष्टी क्रियते । तत्तथा सति व्याहृतीनां मध्ये प्रयोगा-दृगादिभिरव्यवधानात्प्रारम्भो न भवति तस्मादृगादिभ्यो नापगच्छति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-भाष्ये प्रथमारण्यके तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥ ( १० )


अथ तृतीयः खण्डः । ( एकादशः )


निष्केवल्यशस्त्रस्याऽऽदौ हिंकारं व्याहृतीश्च विधाय “तदिदास” [ऋ० सं० म० १० सू० १२० ऋ० १] इत्यादिसूक्तस्याऽऽदौ यस्तच्छब्दस्तमेनं(तं) प्रशंसति—

तदिति प्रतिपद्यते तत्तदिति वा अन्नमन्नमेव तदभिमतिपद्यते, इति ।

Page 45Permalink

४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [१प्रथमारण्यके-

तदित्यनेन शब्देन शस्त्रं प्रतिपद्यते । लोके हि देशान्तरे कालान्तरे च यदप्यन्नं
समीचीनं भुक्तं तत्सर्वमन्नं पुनः पुनस्तत्तदित्येवमनुस्मर्यते । अतोऽत्रापि तच्छब्दोपक्र-
मेणान्नेमेवाभिलक्ष्य प्रारब्धवान्भवति ।
प्रकारान्तरेण तच्छब्दं प्रशंसति—
एतां वाव प्रजापतिः प्रथमां वाचं व्याहरदेकाक्षरम्यक्षरां ततेति
तातेति *तथैवैतत्कुमारः प्रथमवादी वाचं व्याहरत्येकाक्षरम्य-
क्षरां ततेति तातेति तयैव तत्ततवत्या वाचा प्रतिपद्यते, इति ।
पुरा प्रजापतिर्जगत्सृष्टेतामेव तकारादिकां प्रथमां वाचमुक्तवान् । कीदृशीं
वाचम् । एकाक्षरद्वयक्षराम् । एकेन ह्रस्वेनोपेतैकाक्षरा । द्वाभ्यां ह्रस्वदीर्घाभ्यामुपेता
द्व्यक्षरा । सैवोभयविधोदाहृत्य प्रदर्श्यते । ततेत्येकाक्षरा । तातेति द्व्यक्षरा । स प्रजा-
पतिर्जगदीश्वरः प्रथमतः सृष्टं हिरण्यगर्भं पुत्रमभिलक्ष्योपात्तयोस्तस्मिन्नयथोक्तं पितृवा-
चकं शब्दद्वयं प्रयुक्तवान् । अत एवेदानींतना अपि स्तनंधयं पुत्रं पितृवाचकशब्दे-
नोपलालयन्ति । यद्वा प्रजापतिर्हिरण्यगर्भः प्रथमं भाषामभ्यस्यत्त(स्यंस्त)तेति वा
तातेति वा वाचं व्याहरति । एवं सति सूक्तादौ तच्छब्दं प्रयुञ्जानो होता ततशब्दो-
पेतया प्रजापतिप्रयुक्तया तयैव [प्रारब्धवान्भवति ] । ईषद्वैलक्षण्येऽपि तच्छब्दस्य तत-
शब्दोपक्रमसाम्यात् । (+यथोक्तस्य तच्छब्दस्योपक्रमसाम्यात् ।)
यथोक्तस्य तच्छब्दस्य महिमानं प्रकाशयितुं कांचिदृचमुदाहरति—
तदुक्तमृषिणा, इति ।
यत्पूर्वेण ब्राह्मणवाक्येन तच्छब्दमाहात्म्यमुदितं तदेवर्षिणाऽतीन्द्रियार्थदर्शिना
मन्त्रेणोक्तम् । स च मन्त्रविशेषोऽत्रैव दाशतय्यामेवमाम्नातः—
“ बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः ।
यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाऽऽविः ” (ऋ० सं०
म० १० सू० ७१ ऋ० १) इति ।
तस्य मन्त्रविशेषस्यायमर्थः—हे बृहस्पते जातस्य पुत्रस्य नामधेयं दधानाः पित्रा-
दयो विचार्यैतरस्या वाचोऽग्रं श्रेष्ठं यत्पदं प्रथमं प्रैरत प्रयुक्तवन्तः । हे कुमार त्वं
विष्णुशर्मा रुद्रशर्माऽसीत्येवमादि दक्षिणकर्णे पठन्ति । यन्नामैषां तदीयबन्धुभिर्व्यवहि-
यमाणानां मध्ये श्रेष्ठं “ द्वयक्षरं चतुरक्षरं वा ” इत्यादिशाखीयलक्षणोपेतमासीद्यन्ना-
मारिप्रं पापरहितं लोकशास्त्रविरोधरहितमासीत् । एषां संभावितानां मध्ये यन्नामधेयं
यद्यथा प्रोक्तं नाम प्रेणा प्रेम्णा बृहस्पतिसंबन्धिना स्नेहेन च[नि]हितं संपादितम्,


* अत्र घ. पुस्तकातिरिक्तैषु भाष्यपुस्तकेषु यथैवेति पाठो वर्तते । + एतच्चिह्नान्तर्गतमधिकं
सर्वेषु पुस्तकेषु ।

Page 46Permalink

अध्या० ३ ख० ३ (११)] ऐतरेयारण्यकम् । ४१

तच्च नाम कीदृशम् । गुहा गूढमुपनयनात्पूर्वं मातापितृभ्यां गोपितम् । तथा चाऽऽश्वला-
यनः—" तन्मातापितरौ विद्यातामोपनयनात् " इति । यथा मनुष्येषु यन्नाम गूढं
तथा देवेष्वाविः प्रकटम् । देवा हि सर्वज्ञत्वादगूढमपि जानन्ति ।

एतस्य मन्त्रस्य प्रथमपादमनूद्य व्याचष्टे—
बृहस्पते प्रथमं वाचो अग्रमित्येतद्ध्येव प्रथमं वाचो अग्रम्, इति ।

प्राथमिकनामधेयस्य विचार्य निर्मितत्वादितरवाचामपेक्षया श्रेष्ठार्थत(ता)द्योतनार्थो
हिशब्दः ।

द्वितीयपादमनूद्य व्याचष्टे—
यत्प्रैरत नामधेयं दधाना इति वाचा
हि नामधेयानि धीयन्ते, इति ।

यस्मान्नामधेयानां वाङ्निष्पाद्यत्वं तस्मादुच्चारणवाचिनः प्रैरतेति शब्दस्य प्रयोगो
युक्त इत्यर्थः ।

तृतीयपादमनूद्य व्याचष्टे—
यदेषां श्रेष्ठं यदरिप्रमासीदित्येतद्ध्येव श्रेष्ठमेतदरिप्रम्, इति ।

विचार्य संपादितस्य नाम्नो लक्षणोपेतत्वं विरोधराहित्यं च प्रसिद्धम् ।

चतुर्थपादमनूद्य व्याचष्टे—
प्रेणा तदेषां निहितं गुहाऽऽविरितीदमु ह गुहाऽध्यात्ममिमा
देवता अद उ आविराधिदैवतमित्येतत्तदुक्तं भवति, इति ॥

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये
तृतीयः खण्डः ॥ ३ ॥ (११)

आत्मानं लोकप्रसिद्धं देहेन्द्रियादिसंघातमधिकृत्य वर्तत इत्यध्यात्मं तस्मिन्देहा-
दिसंघात आस्थिता इमा अग्न्यादिदेवताः, " अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः
प्राणो भूत्वा नासिके प्राविशत् " [ ऐ० आ० २ अ० ४ ख० २ ] इत्यादिश्रुतेः ।
तासां देवतानामस्मच्छरीरे गूढं यत्स्वरूपमिदमेवात्र गुहेत्युच्यते । शरीरमध्ये गुहा देवा
एवैतन्नाम जानन्ति न मनुष्या इति गुहाशब्दस्य तात्पर्यम् । दैवतानि स्वर्गलोकनिवा-


बृहस्पते प्रथमं वाचो अग्रम्०—ऋ० सं० म० १० सू० ७१ ऋ० १ । यत्प्रैरत
नामधेयं गुहाऽऽ०—ऋ० सं० म० १० सू० ७१ ऋ० १ । यदेषां श्रेष्ठं यदरि-
प्रमासीत्०—ऋ० सं० म० १० सू० ७१ ऋ० १ । प्रेणा तदेषां निहितं
गुहाऽऽ०—ऋ० सं० म० १० सू० ७१ ऋ० १ ।


१ ख. ग. घ. 'र्थयो' ।

६

Page 47Permalink

४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

सीन्यधिकृत्य वर्तत इत्यधिदैवतम्। +स्वर्गनिवासिषु देवेषु प्रसिद्धं यन्नामादं उ एत-
देव प्रकटमित्युच्यते। इत्येतदभिप्रायद्वयं तत्तेन चतुर्थपादेनोक्तं भवति। अस्मिन्मन्त्रे
प्राथमिकनाम्नः प्राशस्त्यं प्रतीयते । प्राथमिकं च तद्यत्तदिदासेति सूक्तादावपि तकारः
प्रयुक्तस्तस्मात्सूक्तं प्रशस्तमित्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये प्रथमारण्यके तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ११ )


अथ चतुर्थः खण्डः । ( द्वादशः )


इत्थं महता प्रबन्धेन सूक्तादिस्तच्छब्दः प्रशस्तः । अथ सूक्तादौ यस्तृचो राज-
नसाम्नः “स्तोत्रियो राजनस्तोत्रियेण प्रतिपद्यते” [ ऐ० आ० १ अ० १ ख० ५ ]
इति पञ्चमे वक्ष्यमाणत्वात्तमिमं तृचं क्रमेण व्याचिख्यासुरादौ प्रथमाया ऋचः प्रथमं
पादं “तदिदास” इत्यादिनाऽनुवदति । सेयमृग्दशतय्यामेवमाम्नाता—

“तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेष नृम्णः।
सद्यो जज्ञानो निरिणाति शत्रूननु यं विश्वे मदन्त्यूमाः” इति ।
[ ऋ० सं० म० १० सू० १२० ऋ० १ ]

भुवनेषु पृथिव्यादिषु मध्ये तदित्सर्ववेदप्रसिद्धं जगत्कारणं ब्रह्म ज्येष्ठमासातिशयेन
वृद्धं बभूव कारणत्वेन जगतः पूर्वं विद्यमानत्वात् । यतो यस्मात्कारणाद्ब्रह्मणस्त्वेष
नृम्णः प्रदीप्तानल उग्रः स्वभावतोऽग्निर्जज्ञे समुत्पन्नः । सोऽग्निर्जज्ञान उत्पन्न एव
सन्सद्यस्तदानीमेव शत्रून्निरिणाति निराकरोति । अवन्तीत्यूमा रक्षका विश्वे सर्वे देवा-
दयः प्राणिनो यमग्निं हृष्यन्तमनु स्वयमपिहृष्यन्ति, नोऽग्निर्नोत इति पूर्वत्रानुच्चयः ।

अस्या ऋचः प्रथमपादमनूद्य व्याचष्टे—

तदिदास भुवनेषु ज्येष्ठमिति प्रतिपद्यत
एतद्वाव भुवनेषु ज्येष्ठम् , इति ।

तदित्यादिना शस्त्रं प्रारभेत । तच्छब्दोक्तस्य परब्रह्मण आदित्यमण्डलोपाधिकत्वेन
दृश्यमानत्वादेतद्वावेत्युक्तम् ।


तदिदास भुव०—ऋ० सं० म० १० सू० १२० ऋ० १ ।


  • अत्र ख. ग. पुस्तकयोर्बहिः शोधितः पाठोऽस्मच्छरीरेष्विति वर्तते ।
    १ क. ॰म् । अस्मच्छरीरेषु । २ क. ॰द आविरेत॰ । ३ घ. ॰नुषंगः ।

द्वितीयपादार्थस्य हिशब्देन प्रसिद्धतां दर्शयति—

Page 48Permalink

अध्या० ३ ख० ४(१२)] ऐतरेयारण्यकम् । ४३

द्वितीयपादार्थस्य हिशब्देन प्रसिद्धतां दर्शयति—
यतो जज्ञ उग्रस्त्वेष नृम्ण इत्यतो
ह्येष जात उग्रस्त्वेष नृम्णः, इति ।
तृतीयपादे शत्रून्निरिणातीति पदद्वयस्य पापविनाशपरत्वं दर्शयति —
सद्यो जज्ञानो निरिणाति शत्रूनिति सद्यो
ह्येष जातः पाप्मानमपाहत , इति ।
चतुर्थपादे विश्व उमा इत्यनेन पदद्वयेन सर्वप्राणिविवक्षां दर्शयति—
अनु यं विश्वे मदन्त्यूमा इति भूतानि वै विश्व
ऊमास्त एनमनु मदन्त्युदगादुदगादिति, इति ।
ब्रह्मरूपोपाधिभूत आदित्यो दिव्युदितवानग्निश्च भूमावुदितवान् । अतः सर्वव्यवहारसिद्धिरित्येवं प्राणिनां हर्षः ।

द्वितीयामृचं संहितायामेवमामनन्ति—
“वावृधानः शवसा भूर्योजाः शत्रुर्दसाय भियसं दधाति ।
अव्यनच्च व्यनच्च सस्त्रि सं ते नवन्त प्रभृता मदेषु” इति ।
[ऋ० सं० म० १० सू० १२० ऋ २]

अयमादित्यमण्डलस्थः परमेश्वरो वह्नयुपाधिविशेषो(देवो) वा शवसा बलेन वावृधानोऽतिशयेन वर्धमानो भूर्योजाः प्रभूततेजोयुक्तो भवति । शत्रुः शत्रुशातयिता सन् दासायोपक्षयणीयाय वैरिणेऽतिभीतिं बाधां ते(च) संपादयन्ति(ति) । विशेषेणानिति चेष्टत व्यनत्प्राणोपेतं जङ्गममव्यनत्प्राणरहितं स्थावरं तदुभयमप्यग्निः [सस्त्रि] सूयते(शोधयति) । इति तवोदये सँति प्रभृताः संध्यावन्दनार्थं प्रकर्षेणोद्युक्तानि प्राणिजातानि मदेषु निमित्तभूतेषु संनवन्त सम्यगेव स्तुवन्तीत्येतस्या ऋचोऽर्थः ।

तत्र प्रथमपादे प्रतिपाद्ये मण्डले लक्ष्यमाण आदित्य इत्येतद्दर्शयति—
वावृधानः शवसा भूर्योजा इत्येष वै
वावृधानः शवसा भूर्योजा इति, इति ।


यतो जज्ञ उग्रः०—ऋ० सं० म० १० सू० १२० ऋ० १ । सद्यो जज्ञानो निरिणाति०—ऋ० सं० म० १० सू० १२० ऋ० १ । अनु यं विश्वे०—ऋ० सं० म० १० सू० १२० ऋ० १ । वावृधानः शवसा०—ऋ० सं० म० १० सू० १२० ऋ० २ ।


१ क. ग. घ. सहसा । २ ख. ग. घ. 'या वेरिणीतीदं भी' । ३ ख. ग. घ. सूर्योदये ते । ४ ख. घ. सन्ति । ५ ख. लब्धमभक्ष्यमान आं । ग. घ. लब्धमभशामान आं ।

तृतीयपादे स्थावरजङ्गमविवक्षां दर्शयति—

Page 49Permalink

४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

द्वितीयपादे सर्वं जगदेतस्मादादित्यमण्डलवर्तिनोऽन्तर्यामिणो भीतं बभूवेत्यमुमर्थं दर्शयति—
शत्रुर्दासाय भियसं दधाति, इति ।
सर्वं जगदेतस्माद्बिभेति ।
तृतीयपादे स्थावरजङ्गमविवक्षां दर्शयति—
अव्यनच्च व्यनच्च सस्नीति यच्च
प्राणि यच्चाप्राणकमित्येव तदाह, इति ।
चतुर्थपादे सर्वस्य जगतः सूर्याधीनत्वलक्षणमभिप्रायं दर्शयति—
सं ते नवन्त प्रभृता मदेष्विति तव सर्वं वश इत्येव तदाह, इति ।
तृतीयामृचं संहितायामेवमामनन्ति—
"त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।
स्वादोः स्वादीयः स्वादुना सृजा समदः सुमधु मधुनाऽभियोधीः"इति ।
[ ऋ० सं० म० १० सू० १२० ऋ० ३ ]

अस्या [अ]यमर्थः । हे सूर्य विश्वे सर्वे प्राणिनः क्रतुमपि क्रियमाणं कर्मापि त्वे त्वयि वृञ्जन्ति समर्पयन्ति । न केवलं कर्म किं तु सर्वे प्राणिनस्तेषां च सर्वाणि मनांसि त्वय्येव समर्पयन्त इत्येवेमपिशब्दस्यार्थः । किंच यद्द्वौ पुरुषौ द्विः पूर्वं द्विसंख्योपेतौ भूत्वा पश्चादेते पुत्रेण सहितास्त्रिखिः(स्त्रि)संख्याकाः परस्पररक्षका भवन्ति । हे सूर्य स्वादोः स्वादीयः प्रीतिविषयाद्गृहक्षेत्रधनादेरप्यत्यन्तं प्रियमप्यपत्यं स्वादुनाऽपि रसातिप्रियहेतुना मातृ(ता)पितृरूपेण मिथुनेन संयोजय । स्वादीय इत्यनेन यदपत्यमुक्तं तदेवादःशब्देन परमुच्यते । तच्च पुत्ररूपमपत्यं स्नुषया सह मिथुनं भूत्वा सुष्ठु मधु प्रियं भवति । तादृशं मधु मधुना पौत्ररूपेण प्रियेण संयोज्याभियोधीः सर्वतः संपादय । धातूनामनेकार्थत्वाद्युधिधातुरत्र संपादने वर्तते ।

एतस्या ऋचः प्रथमं पादं व्याचष्टे—
त्वे क्रतुमपि वृञ्जन्ति विश्व इति त्वयीमानि सर्वाणि भूतानि सर्वाणि मनांसि सर्वे क्रतवोऽपि वृञ्जन्तीत्येव तदाह, इति ।


शत्रुर्दासाय भियसं०—ऋ० सं० म० १० सू० १२० ऋ० २ । अव्यनच्च व्यनच्च०—ऋ० सं० म० १० सू० १२० ऋ० २ । सं ते नवन्त प्रभृता०—ऋ० सं० म० १० सू० १२० ऋ० २ । त्वे क्रतुमपि वृञ्जन्ति०—ऋ० सं० म० १० सू० १२० ऋ० ३ ।


१ ख. ॰स्येवं शं॰ । २ ग. घ. ॰व शं॰ । ३ ख. ग. घ. मानः षिं॰ ।

द्वितीयपादं व्याचष्टे—

Page 50Permalink

अध्या० ३ ख० ४ (१२)] ऐतरेयारण्यकम् । ४५

अत्र क्रतुशब्दः प्राणिना(नां) मनसा(सां) चोपलक्षणेण(णेन) व्याख्यातः ।
द्वितीयपादं व्याचष्टे—
द्विर्यदेते त्रिर्भवन्त्युमा इति द्वौ वै सन्तौ
मिथुनौ प्रजायेते प्रजात्यै , इति ।
वेदनं प्रशंसति—
प्रजायते प्रजया पशुभिर्य एवं वेद, इति ।
तृतीयपादं व्याचष्टे—
स्वादोः स्वादीयः स्वादुना सृजा समिति मिथुनं वै
स्वादु प्रजा स्वादु मिथुनेनैव तत्प्रजां संसृजति, इति ।
चतुर्थपादं व्याचष्टे—
अदः सुमधु मधुनाऽभियोधीरिति मिथुनं वै मधु
प्रजा मधु मिथुनेनैव तत्प्रजामभियुध्यति, इति ।
इत्थं सूत्रोक्तं स्तोत्रीयं तृचं व्याख्याय तदीयेऽर्थे संवादाय शाखान्तरीयमृक्पाद-
मुदाहृत्य व्याचष्टे—
तदुक्तमृषिणा स्वां यत्तन्नूं तन्वामैरयतेत्यस्यां
शारीर्यामिमां छन्दोमयीमित्येव तदाह, इति ।
“स्वादोः स्वादीयः ” [ ऋ० सं० म० १० सू० १२० ऋ० ३ ] इत्यादिना
पादद्वयेन मातापितृजन्यं शरीरं प्रकृतशस्त्रोपयुक्तं प्रतिपादितं यदस्ति तदेवमृषिणा
स्वां यदिंत्यादिना मन्त्रभागेन(ण) प्रकटीकृतम् । यद्वा “तद्दिदास ” [ ऋ० सं०
म० १० सू० १२० ऋ० १ ] इत्यादिकस्य कृत्स्नस्य शस्त्रस्य तात्पर्यं यदस्ति
तत्सर्वमृषिणा मन्त्रपादेन संगृह्योक्तम् । स तु पाद एवं योजनीयः । यद्यस्मात्कार-
णात्पूर्वोक्ततृचप्रतिपाद्य आदित्योपाधिक ईश्वरः स ❊स्वां तनूं यजमानरूपं शरीरं
तदीयमातापितृरूपशरीर ऐरयत प्रेरितवांस्तस्मात्स्वादोः स्वादीय इत्यादिकमुपपन्नम् ।
अथवा तन्वां यजमानशरीरे स्वां तनूं स्वकीयां तदतिशयेत्यादिकानन्दरूपां तनूं


द्विर्यदेते त्रिर्भव०—ऋ० सं० म० १० सू० १२० ऋ० ३ । स्वादोः स्वादीयः
स्वादुना०—ऋ० सं० म० १० सू० १२० ऋ० ३ । अदः सुमधु मधुना०—
ऋ० सं० म० १० सू० १२० ऋ० ३ ।


* अत्र स्वां यत्तमूमित्येव पाठः सकलादर्शपुस्तकेषु ।


१ ग. घ. सूत्रान्तं । २ ख. ग. घ. ˚र्वोक्तं तृचं प्र˚ ।

Page 51Permalink

४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

यजमानसंस्कारकत्वेन यस्मात्संपादितवांस्तस्मादिदं निष्केवल्यशस्त्रं प्रशस्तम् । तदेतद्द्वितीयं व्याख्यानमस्यामित्यादिना ब्राह्मणेन स्पष्टी क्रियते । अस्यां दृश्यमानायां शारीर्या यजमानशरीरसंबन्धिन्यामावृतामिमां तदिदासेत्यादिकां छन्दोमयीं वेदरूपां तनूं संस्कारकत्वेन संपादितवानित्येतन्मन्त्रवाक्यं ब्रूते १। तेन( तस्य? ) २ शस्त्रस्य शिरःपक्षादिकल्पनाया वक्ष्यमाणत्वात् [ऐ० आ० १ अ० ४ ख० २ ]छन्दोमयशरीरत्वं युक्तम् ।

पुनरपि शस्त्रस्तुत्यर्थमन्यमन्त्रपादं शब्दतो व्याचष्टे—

तनूरेव तन्वो अस्तु भेषजमित्यस्यै
शारीर्या इयं छन्दोमयीत्येव तदाह, इति ।

शारीर्याशब्दः पूर्वोदाहरणेन समुच्चयार्थः । न केवलमृषिणा पूर्वेणैव तदुक्तं किं तु तनूरेवेत्यादिनाऽप्यृषिणा तदुक्तम् । मन्त्रपादश्चैवं योजनीयः । तनूः ३ “तदिदास” (ऋ० सं० म० १० सू० १२० ऋ० १) इत्यादिका छन्दोमयी तन्वौ ४ यजमानशरीरस्य भेषजं पापव्याधिनिवर्तकमौषधमस्तु । मन्त्रे तनू[स्तन्व]रि(इ)त्यनयोः षष्ठ्यन्तप्रथमान्तयोरर्थो ब्राह्मणेन स्पष्टीकृतः ।

इत्थं मन्त्रद्वयोदाहरणेन शस्त्रं प्रशस्य बहुविधच्छन्दोन्तर्भावेनापि शस्त्रं प्रशंसति—

तस्यै यान्यष्टावक्षराणि सा गायत्री यान्येकादश
सा त्रिष्टुब्यानि द्वादश सा जगत्यथ यानि दश
सा विराड्दशिन्येषु त्रिषु च्छन्दःसु प्रतिष्ठिता, इति ।

“तदिदास भुवनेषु” (ऋ० सं० म० १० सू० १२० ऋ० १) इत्यादिका [या ऋक्,] तस्या ऋचः प्रथमपादो दशाक्षरः । तस्यै तस्या ऋचः संबन्धीनि यान्यष्टौ प्रथमपादाक्षराणि सन्ति सेयमष्टाक्षररूपा गायत्री संपद्यते । यानि तृतीयपाद एकादशाक्षराण्याम्नातानि सेयमेकादशाक्षरा त्रिष्टुप्संपद्यते । प्रथमपादे यदवशिष्टमक्षरद्वयं तद्द्वितीये (* चतुर्थे वा) दशाक्षरयुक्ते पादे योजनीयम् । तथा सति यानि द्वादशाक्षराणि सा जगती संपद्यते । अथ प्रथमे द्वितीये तृतीये चतुर्थे वा पादे यान्याम्नातानि दशाक्षराणि सा विराक्छन्दोरूपा । एवमेषा दशिनी दशाक्षरोपेता स्वतः सिद्धा विराट् । एवमुक्तरीत्या संपादितेषु गायत्रीत्रिष्टुब्जगतीरूपेषु त्रिषु छन्दःसु विरात्प्रतिष्ठिता पर्यवस्थिता ।


* अत्र किंचित्रुटितमिति भाति । अधिकं वैतत् “चतुर्थे वा” इति ।


१ ग. ॰तेति शं । २ ख. घ. ते शं । ३ ख. तन्वस्तदिं । ग. घ. तन्यस्तदिं । ४ ख. ग. घ. ॰न्वो न यं । ५ ख. ग. घ. ॰सु त्रिष्टुप्प्रति॑ ।

Page 52Permalink

अध्या०३ख०५(१३)] ऐतरेयारण्यकम्। ४७

अथैतस्यां प्रथमायां^१मुच्यक्षरत्रयप्रक्षेपं विधत्ते—
पुरुष इति त्र्यक्षरं स उ विराजि, इति ।
यदेतत्त्र्यरूपं पदं तदेतस्यामृचि प्रक्षेपणीयमित्यध्याहारैः^३। स यः सोऽप्यक्षरः(?) ।
[*पूर्वोक्तच्छन्दश्चतुष्टयस्य सकलच्छन्दोरूपत्वकथनपुरःसरं तद्वेदनफलं दर्शयति—]
एतानि वाव सर्वाणि च्छन्दांसि यान्येतानि
विराट् चतुर्थान्येवमु हैवं विदुष एतदहः
सर्वैश्छन्दोभिः प्रतिपन्नं भवति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये
चतुर्थः खण्डः ॥ ४ ॥ ( १२ )

विराट्छन्दश्चतुःसंख्यापूरकं येषां गायत्र्यैत्रिष्टुब्जगतीनां तानि विराट्सचतुर्थानी-दृशानि यान्येतानि चत्वारि सन्ति तान्येतानीति निर्द्वन्यववा(^४न्येव सकलान्यव )शिष्टश्छ(च्छ)न्दोरूपाणि । गायत्र्यादीनां स्तवननिष्पादकत्वेन मुख्यत्वात्सर्वच्छन्दोरूपत्वोपचारः। एवमु हैव यथोक्तेन प्रकारेण विराजि गायत्र्यादीनां त्रयाणामन्तर्भावो विराट्-सहितानां चतुर्णां सर्वच्छन्दोरूपत्वोपचार इत्येवं विदुषो यजमानस्यैतन्महाव्रतमहः सर्वैश्छन्दोभिः संपादितं भवति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये
प्रथमारण्यके तृतीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ ( १२ )


अथ पञ्चमः खण्डः । ( त्रयोदशः )


अथ शस्त्रस्य विहरणं^५ विधत्ते—
ता नदेन विहरति पुरुषो वै नदस्तस्मा-
त्पुरुषो वदन्सर्वः संनदतीव, इति ।
ताः शस्त्रगताः “ तदिदास ” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिका ऋचो नदेन नदलिङ्गकेन मन्त्रेण विहरति व्यतिषजति मिश्रयेदित्यर्थः । नदशब्दः पुरुषस्वरूप एव यस्मात्तस्माल्लोके सर्वः पुरुषो भाषमाणः सम्यग्ध्वनिं करोतीव दृश्यते । गम्भीरो हि पुरुषस्य ध्वनिः । नदलिङ्गकश्च मन्त्रः संहितायामेवमाम्नातः—
“ नदं व ओदतीनां नदं योयुवतीनाम् ।
पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ” इति ।
[ ऋ० सं० म० ८ सू० ६९ ऋ० २ ]


* एतच्चिह्नान्तर्गतो ग्रन्थः प्रकल्प्यात्र निवेशित इति बोध्यम् ।
^१ ग. घ. 'मायां दिश्यक्षं'। ^२ ख. 'यामक्ष'। ^३ क. °रः । ए° । ^४ क. 'ति च्छन्दो'।
^५ क. विवरणं । ख. विहरणां ।

Page 53Permalink

४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

एतन्मिश्रप्रकरणं पञ्चमे स्पष्टमभिधास्यते—‘‘ नदं व ओदतीनामित्येतयैतानि
व्यतिषजति पादैः पादान्नृहतकारम् ’’ ( ऐ० आ० ५ अ० १ ख० ६ ) इति ।
तत्तथा तत्रैवोदाहृत्यापीति प्रदर्शितम्—‘‘ तदिदास भुवनेषु ज्येष्ठं पु नदं व ओद-
तीनां यतो जज्ञ उग्रस्त्वेष नृम्णोरु नदं योयुवतीनां सद्यो जज्ञानो निरिणाति शत्रू-
न्पतिं वो अघ्न्यानामनु यं विश्वे मदन्त्यूमाः षो धेनूनामिषुध्यसोम् ’’ [ ऐ० आ० ५
अ० १ ख० ६ इति । नदलिङ्गकस्य मन्त्रस्यायमर्थः—ओदतीनां तृतीयसवन ऋजी-
षमुन्दतीनामहन्तव्यानां वो युष्माकं पतिं पालकं यजमानं रक्षत । हे इन्द्र त्वं
धेनूनां धेनुवत्प्रीणयितॄणामपामिषुध्यसि, ईश्वरोऽसि । ‘‘ इषुध ऐश्वर्ये ’’ [ क० ग०
प० ] इति धातुः ।

अस्या ऋचः प्रथमपादं व्याचष्टे—

नदं व ओदतीनामिती३ँ आपो वा ओदत्यो
या दिव्यास्ता हीदं सर्वमुन्दन्त्यापो वा ओदत्यो
या मुख्यास्ता हीदं सर्वमन्नाद्यमुन्दन्ति, इति ।

अस्मिन्पादे ओदतीशब्देनाऽऽप एव विवक्षिताः । यस्माद्या आपो दिव्यभवन्वृ-
ष्टिद्वारेणाऽऽगतास्ता आपः सर्वमिदं भूत[जात]मुन्दन्ति क्लेदयन्ति, तथा मुखे भवा
आस्योदकरूपा या आपस्ताः सर्वमन्नाद्यं शुष्कमपि पृथगिव शष्कुल्यादिकं सर्वं खाद्यं
द्रवी कुर्वन्ति, तस्मादोदत्य इत्युच्यन्ते । इति शब्दस्योपरि योऽयं सानुनासिकः
प्लुतः सोऽयं पादप्रतिग्रहणेऽन्यतमादरार्थः ।

[*द्वितीयपादं व्याचष्टे—

नदं योयुवतीनामिती३ँ आपो वाव योयुवत्यो या
अन्तरिक्ष्यास्ता हि पोप्लूयन्त इवाऽऽपो वाव योयु-
वत्यो याः स्वेदते ता हि सरीसृप्यन्त इव, इति ।]

तृतीयपादं व्याचष्टे—

पतिं वो अघ्न्यानामिती३ँ आपो वा अघ्न्या या अग्नेर्धूमा-


नदं व ओदतीनामि०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । नदं योयुवतीना०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । पतिं वो अघ्न्यानाम्—ऋ० सं० म० ८ सू० ६९ ऋ० २ ।


* एतच्चिह्नान्तर्गतो मूलातिरिक्तो ग्रन्थत्रुटितत्वात्प्रकल्प्य निवेशितः । मूलं तु मूलपुस्तकेभ्य उद्धृत्य निवेशितम् ।
१ क. ख. घ. ॰च्यते । इ° ।

चतुर्थपादं व्याचष्टे—

Page 54Permalink

अध्या०३ख०५(१३)] ऐतरेयारण्यकम् । ४९

जायन्त आपो वा अघ्न्या याः शिश्नात्प्रसृज्यन्ते, इति ।
अग्नेरुत्पन्नो योऽयं धूमः स एव मेघाकारो भूत्वा वृष्टिरूपेण वा अन्नं जनयति । यदा(तो) धूमोऽग्निरित्येतदुभययुक्तस्यान्नाद्यानिष्पादकत्वमत एव कैश्चिदुक्तम्— "धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः" ( पूर्वमे० श्लो० ५ ) इति । तस्मान्मेघादुत्पन्ना आप ओषधिवनस्पतिरूपेण परिणताः सत्यो न केनापि हननीयाः, किंतु सर्वेणापि वर्धनीया एवम्(एव) । तथा शिश्नादुत्पन्ना रेतोरूपा आपः पुत्रादिरूपेण परिणताः सत्यो न केनापि हननीयाः ।

चतुर्थपादं व्याचष्टे—
धेनूनामिषुध्यसीतीँ२ आपो वाव धेनवस्ता हीदं सर्वं
धिन्वन्तीषुध्यसीति यदाह पतीयसीत्येव तदाह, इति ।

यथा धेनवः क्षीरप्रदानेन प्रीणयन्त्येवमाप ओषधिवनस्पत्यादिकं प्रीणयन्त्यतो धेनुसाम्याद्धेनुत्वम् । इषुध्यसीति शब्दो यदभिधेयं धत्ते तत्पतीयसीत्यस्यैव शब्दस्याभिधेयं ब्रूते । पतित्वत्स्वामिवदाचरती(सी)त्यर्थः ।

“नदं वः” [ ऋ० सं० म० ८ सू० ६९ ऋ० २ ] इत्यादिकामृचं व्याचक्षुं(रुयाय) तदुभयोर्विहरणं [*लौकिकोदाहरणोक्तिपूर्वकं प्रशंसति—
त्रिष्टुभं चानुष्टुभं च विहरति वृषा वै त्रिष्टु-
ब्योषाऽनुष्टुन्मिथुनं तस्मादपि पुरुषो जायां
वित्त्वा कृत्स्नतरमिवाऽऽत्मानं मन्यते, इति ।

विहरणं] नाम स्त्रीपुरुषवत्परस्परव्यतिषङ्गः । तत्र त्रिष्टुभः प्रवृद्धत्वाद्वृषत्वं सेचनसमर्थपुरुषत्वमनुष्टुभो न्यूनत्वायोषित्त्वम् । तदुभयं मिलित्वा मिथुनं संपद्यते । यस्मान्मेलनेन मिलितत्वं प्रशस्तं तस्माल्लोकेऽपि पुरुषो ब्रह्मचारी विवाहेन जायां लब्ध्वाऽतिशयेन संपूर्णा जातोऽस्मीत्येवं परितुष्यति ।

प्रथमायामृच्यावृत्तिविधिपूर्विकां संख्यां प्रशंसति —
तास्त्रिः प्रथमया पञ्चविंशतिर्भवन्ति पञ्चविंश
आत्मा पञ्चविंशः प्रजापतिर्दश हस्त्या अङ्गुलयो
दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंश-
स्तमिममात्मानं पञ्चविंशं संस्कुरुतेऽथो पञ्चविंशं


धेनूनामिषुध्यसि०—ऋ० सं० म० ८ सू० ६९ ऋ० २ ।
* एतच्चिह्नान्तर्गतो मूलग्रन्थो मूलपुस्तकेभ्य उद्धृत्यान्यश्च प्रकल्प्यात्र निवेशितः ।
१ क. विधत्ते ।

पञ्चमः खण्डः ॥ ५ ॥ ( १३ )

Page 55Permalink

५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

वा एतदहः पञ्चविंश एतस्याहः स्तोमस्तत्समेन समं
प्रतिपद्यते तस्माद्वे एव पञ्चविंशतिर्भवन्ति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये
पञ्चमः खण्डः ॥ ५ ॥ ( १३ )

“तदिदास” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिकं सूक्तं नवर्चं
“तां सुते” [ ऋ० सं० म० १० सू० ९४ ऋ० १ ] इति सूक्तं षडृर्चं “भूय
इद्धावृधे” [ ऋ० सं० म० ६ सू० ३१ ऋ० १ ] इति पञ्चर्चं “नृणामु त्वा”
[ ऋ० सं० म० ३ सू० ९१ ऋ० ४ ] इत्यमेकस्तृच इत्येताः सर्वास्त्रयोविंशति-
र्भवन्ति । तत्र प्रथमायास्त्रिरावृत्तौ सत्यां पञ्चविंशतिः संपद्यते । आत्मा यजमानः ।
अथाधिदैवं प्रजापतिश्चतुर्मुखोऽपि पञ्चविंशावयवोपेतः । दश हस्त्या इत्यादि पूर्वव-
द्व्याख्येयम् [ ऐ० आ० १–१–२ ] ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये प्रथमारण्यके तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ ( १३ )

अथ षष्ठः खण्डः । ( चतुर्दशः )

“तदिति प्रतिपद्यते ” [ऐ० आ० १ अ० ३ ख० ३] इत्ययं खण्डः पूर्वं तच्छ-
ब्दस्य व्याख्यानार्थं पठितोऽपि पुनः कृत्स्नशस्त्रप्रशंसार्थं पठ्यते—
तदिति प्रतिपद्यते तत्तदिति वा अन्नमन्नमेव तदभिम्र-
तिपद्यत एतां वाव प्रजापतिः प्रथमां वाचं व्याहरदे-
काक्षरद्व्यक्षरां ततेति तातेति तथैवैतत्कुमारः प्रथमवादी
वाचं व्याहरत्येकाक्षरद्व्यक्षरां ततेति तातेति तयैवै तत्तत-
वत्या वाचा प्रतिपद्यते तदुक्तमृषिणा बृहस्पते प्रथमं
वाचो अग्रमित्येतद्धयेव प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं
दधाना इति वाचा हि नामधेयानि धीयन्ते यदेषां श्रेष्ठं
यदद्रिपमासीदित्येतद्ध्येव श्रेष्ठमेतदरिप्रं प्रेणा तदेषां
निहितं गुहाऽऽविरितीदमु ह गुहाऽध्यात्ममिमा देवता अद


बृहस्पते प्रथमं वाचो अग्र०—ऋ० सं० म० १० सू० ७१ ऋ० १ । यत्प्रैरत
नाम०—ऋ० सं० म० १० सू० ७१ ऋ० १ । यदेषां श्रेष्ठं०—ऋ० सं० म०
१० सू० ७१ ऋ० १ । प्रेणा तदेषां०—ऋ० सं० म० १० सू० ७१ ऋ० १ ।