Skip to content
SarvaKosh
Back to the archive

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

by महर्षि ऐतरेय महिदास

Source: Aitareya Aranyakam with Vedic Accents & Commentary (origin)

Public domain in India · Report a copyright issue

DevanagariHindipublished304 pages

About this granth

The Aitareya Aranyaka (ऐतरेयारण्यकम्) is the forest-text of the Aitareya branch of the Rigveda, following the Aitareya Brahmana. Tradition credits its first three books to Mahidasa Aitareya. It deals with the Mahavrata day of the soma ritual, the recitations performed on it and their inner meaning. Chapters four to six of the second book form the Aitareya Upanishad, and the third book, the Samhita Upanishad, reflects on the forms of Vedic recitation.

The text is divided into five aranyakas, each split into adhyayas and khandas. This edition prints it with the Sanskrit commentary of Sayanacharya, who explains its ritual terms and Vedic words.

The scanned title page identifies it as number 38 of the Anandashrama Sanskrit Series, revised by Babashastri Phadke and published by Hari Narayan Apte from the Anandashrama press, Pune, in Shaka 1820 (1898). A list of the manuscripts used for the text precedes it. The copy has 304 pages.

Page 263Permalink

२५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१पञ्चमारण्यके-

अत्र शस्त्रोपक्रमात्पूर्वमध्वर्युकृत्यं दर्शयति—
शब्दानध्वर्यवः कारयन्ति, इति ।
ते च शब्दा आपस्तम्बेन दर्शिताः—“उपाकृते माहेन्द्रस्य स्तोत्रे सर्वा वाचो वदन्त्युत्क्रोचं यजमानाः कुर्वतेऽपाघाटालिकास्तम्बलवीणाः पिच्छोला इति, प्रेष्ययो वादयन्ति संप्रवदन्ति वीणाशङ्खान्नोर्धीं तूणवाः” इति ।
यजमानकृत्यं विधत्ते—
एतस्मिन्नहनि प्रभूतमनं दद्यात् , इति ।
पुरुषान्तरकर्तव्यं दर्शयति—
राजपुत्रेण चर्म व्याधयन्त्याघ्नन्ति भूमिदुन्दुभिं पत्न्यश्च काण्ड-
वीणा भूतानां च मैथुनं ब्रह्मचारिपुंश्चल्योः संप्रवादोऽनेकेन
साम्ना निष्केवल्याय स्तुवते राजनस्तोत्रियेण प्रतिपद्यते, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥

चर्मवेधनप्रकार आपस्तम्बेन दर्शितः—“ उत्तरेणाऽऽग्नीध्रीयं कटसंघाते तैजस-संघातेनाऽऽर्द्रं चर्म शयनार्थं वितत्योच्छ्वसन्ति विपर्यान्येतच्च कर्म कवचिनस्तेषामेकैकं संशास्ति मा प्रवात्सीर्मा निर्वार्त्सीरिति तत्तै विधानाति(?) पादयन्ति ” इति । भूमिदुन्दुभ्याघातोऽपि तेनैव दर्शितः—“ अपरेणाऽऽग्नीध्रीयं भूमिदुन्दुभिमवटं खनन्र्ध्यमन्तर्वेद्यर्धं बहिर्वेदि तमार्द्रेण चर्मणोत्तरलोम्नाऽभिवितत्य शङ्कुभिः परिनिहत्यात्रैतत्पुच्छकाण्डमाहैननार्थं निदधाति दुन्दुभीन्समाघ्नन्ति पुच्छकाण्डेन भूमिदुन्दुभिम्” इति । काण्डवीणाः प्रसिद्धाः । ताश्च यजमानानां पत्नीभिर्वाद्यन्ते । भूतमैथुनदेशोऽपि तेनैव दर्शितः—“ उत्तरस्यां वेदिश्रोण्यां पुंश्चल्यै मागधाय च परिश्रयन्ति ” इति । ब्रह्मचारिपुंश्चल्योः संप्रवादः सामगब्राह्मणे दर्शितः । एतस्मिन्काण्ड उद्गातारोऽनेकविधेन साम्ना निष्केवल्याख्यशस्त्रसिद्ध्यर्थं स्तोत्रं कुर्वन्ति । तत्रान्तिमं राजनाख्यं साम, तेन साम्ना क्रियमाणस्य स्तोत्रस्याऽऽधारभूतो यस्तृचस्तेन तृचेन होता निष्केवल्याख्यं शस्त्रं प्रारभेत ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये पञ्चमारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥


१ ख. ‘ते पा° । ग. ‘ते याघाट’ । २ ख. घ. ङ. ‘वीणा पि° । ३ क. वीणां शं° । ४ ख. घ. ङ. ‘नार्धीतू° । ग. ‘नावितू° । ५ ग. ‘तस्योच्छ्व° । ६ क. ख. ‘रिपान्त्ये’ । ७ क. ख. मा एवां । घ. ङ. मा पर्वा° । ८ क. निवात्सी° । ९ ग. ‘तेऽविद्या ना° । १० क. ‘टं खानयन्त्य° । ११ ग. घ. ङ. ‘वेद्यदि तं° । १२ क. ‘ह्वनां । १३ क. ‘श्चल्यो मां° । १४ ग. ‘स्त्रं विहृत्य प्रां° ।

Page 264Permalink

अध्या० १ ख० ६] ऐतरेयारण्यकम् । २५९

अथ षष्ठः खण्डः ।

अत्र चोदकप्राप्तं निष्केवल्यशस्त्रं विहृत्य प्रदर्शयति—

तदिदास भुवनेषु ज्येष्ठं तां सु ते कीर्ति
मघवन्महित्वा भूय इद्वावृधे वीर्याय नृणामु
त्वा नृतमं गीर्भिरुक्थैरिति तिस्रः, इति ।

"तदिदास" [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिकं नवर्चं सूक्तम् । "तां सु ते कीर्ति मघवन्" [ ऋ० सं० म० १० सू० ९४ ऋ० १ ] इत्यादिकं षडृचं सूक्तम् । "भूयः" [ ऋ० सं० म० ६ सू० ३० ऋ० १ ] इत्यादिकं पञ्चर्चं सूक्तम् । "नृणामु त्वा" [ ऋ० सं० म० ३ सू० ५१ ऋ० ४ ] इत्यादिकास्तिस्र ऋचः । इत्यनेन क्रमेण विहरेत् ।

मतान्तरानुसारेण कंचिद्विशेषं विधत्ते—

अत्र हैके स्वादोः स्वादीयः स्वादुना सृजा समदः सु
मधु मधुनाऽभि योधीरित्यात्मन एते पदे उद्धृत्य पक्षपदे
प्रत्यवदधात्यश्वायन्तो मघवन्निन्द्र वाजिनो गामश्वं
रथ्यमिन्द्र संकिरेत्येतयोश्च स्थान इतरे, इति ।

अत्रास्मिन्निष्केवल्ये शस्त्रे केचित्खल्वेवं वदन्ति । एतच्छस्त्रगतयोरात्मभागस्थपादयोः पक्षभागस्थपादयोश्च परस्परं व्यत्ययः कर्तव्य इति । यथा चित्यस्याग्नेः पञ्चावयवा आम्नाताः—"शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छमात्मा" [ ऐ० आ० २ अ० ३ ख० ४ ] इति, तथा शस्त्रेऽपि पञ्चावयवा द्रष्टव्याः । चित्यस्याग्नेर्मध्यशरीरमात्मा; शस्त्रेऽपि योऽयं पूर्वं विहृतो भागः "तदिदास" इत्यारभ्य "गीर्भिरुक्थैरिति तिस्रः" इत्यन्तेन ग्रन्थेन सोऽयं भागैवत आत्मस्थानीयः । "तदिदास" [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्येतस्मिन्सूक्ते तृतीयस्यामृच्युत्तरार्धे "स्वादोः स्वादीयः" [ ऋ० सं० म० १० सू० १२० ऋ० ३ ] इत्यादिकौ यौ द्वौ पादौ तावुभावात्मभागस्य संबन्धिनौ, तदुभयमित उद्धर्तव्यम् । तथा वक्ष्यमाणे शस्त्रस्य दक्षिणपक्षभागे "अभि त्वा शूर" [ ऋ० सं० म० ७ सू० ३२ ऋ० २२ ] इत्यस्मिन्प्रगाथेऽश्वायन्त इति योऽयं पादो यश्चोत्तरपक्षभागे "त्वामिद्धि" [ ऋ० सं०


तदिदास भुव०—ऋ० सं० म० १० सू० १२० ऋ० १ । तां सु ते कीर्तिं०—ऋ० सं० म० १० सू० ९४ ऋ० १ । भूय इद्वावृधे०—ऋ० सं० म० ६ सू० ३० ऋ० १ । नृणामु त्वा नृतमं०—ऋ० सं० म० ३ सू० ५१ ऋ० ४ ।

१ क. 'ग आ ।

Page 265Permalink

२६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-

म० ६ सू० ४६ ऋ० १ ] इति प्रगाथे गामश्वमिति पादस्तदुभयं च तत उद्धर्त-
व्यम् । उद्धृत्य च “स्वादोः स्वादीयः” इत्यस्य स्थाने “अश्वायन्तः” इति पादः
पठनीयः । तस्य पादस्य स्थाने “स्वादोः” इत्यादिपादः पठनीयः । “अदः सु मधु”
इत्यस्य स्थाने “गामश्वम्” इति पादः पठनीयः । तस्य च पाद[स्य] स्थाने “अदः सु
मधु” इत्यादिपादः पठनीयः ।

अस्य व्यत्ययेन प्रयोगस्य फलं दर्शयति—

श्रियमह गोरश्वमात्मन्धत्ते सं पक्षयोः पतनाय, इति ।

अहशब्द एवकारार्थः । आत्मन्नात्मस्थानीये शस्त्रभागे “अश्वायन्तः” “गाम-
श्वम्” इति पादयोः पाठेन गोसंबन्धिनीं श्रियमश्वं च संपादयत्येव । तथा दक्षिणो-
त्तरपक्षभागयोः “स्वादोः” “अदः सु मधु” इतिपादद्वयपठनं पक्षयोः सम्यक्पत-
नायोपयुज्यते ।

पूर्वोक्तेषु “तदिदास” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिषु
कंचिद्विशेषं विधत्ते—

नदं व ओदतीनामित्येतैर्येतानि व्यतिषजति
पादैः पादान्बृहतीकारं नदवन्त्युत्तराणि प्रथ-
मायां च पुरुषाक्षराण्युपदधाति पादेष्वेकैकमव-
साने तृतीयवर्जं स खलु विहरति, इति ।

“नदं वः” इत्यादिका येयमृगस्ति तया सहैतानि “तदिदास” इत्यादि-
सूक्तानि मिश्रयेत् । कथं मिश्रणमिति तदुच्यते—एतस्या ऋचः संबन्धिभिः पादैः
सह सूक्तगतानपादान्मेलयेत् । बृहतीकारमिति णमुल्प्रत्ययान्तः । एकैकामृचं बृहतीं
कृत्वेत्यर्थः । सूक्तस्य पदानि प्रथममुच्चार्य नदशब्दयुक्तान्यृचः पदान्युत्तराणि यथा
भवन्ति तथोच्चारयेत् । किंच “तदिदास” इत्येतस्यां प्रथमायामृचि पुरुषेत्ये-
तानि त्रीण्यक्षराणि प्रक्षिपेत् । प्रथमपादस्यावसाने “पु” इत्येकमक्षरं द्वितीयपाद-
स्यावसाने “रु” इत्येकमक्षरं चतुर्थपादस्यावसाने “ष” इत्येकमक्षरम् । तृतीयपादे तु
नास्त्यक्षरस्य प्रक्षेपः । अतस्तृतीयवर्जमित्युच्यते । एवं सति षट्त्रिंशदक्षरा बृहती
संपद्यते । “तदिदास” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इति पादे
दशाक्षराणि पु इत्येकमक्षरम् । “नदं वः” [ ऋ० सं० म० ८ सू० ६९ ऋ०
२ ] इति पादे सप्ताक्षराणि । “यतो जज्ञे” [ ऋ० सं० म० १० सू०
१२० ऋ० १ ] इति पादे दशाक्षराणि रु इत्येकमक्षरम् । “नदं योयुवतीनाम्”


नदं व ओदतीनाम्०—ऋ० सं० म० ८ सू० ६९ ऋ० २ ।

Page 266Permalink

अध्या० १। ख० ६] ऐतरेयारण्यकम्। २६१

[ ऋ० सं० म० ८ सू ६९ ऋ० २ ] इति पादे सप्ताक्षराणि । तदेवं मिलित्वा षट्त्रिंशदक्षराणि संपद्यन्ते । एवमुत्तरत्रापि योजनीयम् । यः पुमानेतत्सर्वं जानाति स एवैतन्निष्केवल्यशस्त्रं विहरति विशेषेण ततस्तत आनीय संपादयति ।

यथोक्तं विहरणं प्रतिज्ञापूर्व^१मुदाहरति—

अपि निदर्शनायोदाहरिष्यामस्तदिदास भुवनेषु ज्येष्ठं पु । नदं व ओदतीनाम् । यतो जज्ञ उग्रस्त्वेष नृम्णो रु । नदं योयुवतीनो३म् । सद्यो जज्ञानो निरिणाति शत्रून्पतिं वो अघ्न्यानाम् । अनु यं विश्वे मदन्त्यूमाः षो धेनूनामिषुध्यसोमिति, इति ।

न केवलं विहरणस्य लक्षणकथनमेवापि चो^२दाहरिष्याम इति प्रतिज्ञा । “तदिदास” इत्यारभ्य “इषुध्यसोम्” इत्यन्तं द्वयोर्बृहत्योरुदाहरणं संपादितम् ।

बृहतीद्वयगर्भितायाः “तदिदास” इत्येतस्या ऋच आवृत्तिं विधत्ते—

एवमेतां त्रिः, इति ।

एवमुक्तेन प्रकारेण “नदं वः” इत्यादिपादयोजनेन पुरुषाक्षरत्रययोजनेन च संपन्नामेताम् “तदिदास” इत्यादिकामृचं त्रिवारं पठेत् ।

यदुक्तं पूर्वत्र “राजनस्तोत्रियेण प्रतिपद्यते” [ ऐ० आ० १ अ० १ ख० ५ ] इति, तत्र कांचिद्विशेषं दर्शयति—

अन्यास चेत्समाम्नातासु राजनेन साम्ना स्तुवीरन्थास्थानं ता इहैवेमा असमाम्नातासु चेत्स्तुवीरन्तत्समाम्नातस्य तावतीरुरुद्धृत्य तत्र ताः शंसेदिहो एवेमाः, इति ।

राजनसाम्न आधारभूतास्तृक्षु त्रयः पक्षाः संभवन्ति । “तदिदास” इत्यादिका ऋच [इ]त्येकः पक्षः । ताभ्योऽन्या ऋच इत्येकः पक्षः । ताश्चान्या द्विधा भिद्यन्ते । उदाहृतेषु


तदिदास० ऋ० सं० म० १० सू० १२० ऋ० १ । नदं व ओदतीनां०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । यतो जज्ञे० ऋ० सं० म० १० सू० १२० ऋ० १ । नदं योयुवतीनाम्०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । सद्यो ज्ञानः—ऋ० सं० म० १० सू० १२० ऋ० १ । पतिं वः०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । अनु यं०—ऋ० सं० म० १० सू० १२० ऋ० १ । नूनामिषुध्यसि—ऋ० सं० म० ८ सू० ६९ ऋ० २ ।


१ ग. °र्वकमुं । २ ग. °दाहृत्य प्रदर्शयिष्यामीति ।

Page 267Permalink

२६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-

सूक्तेषु समाम्नाता असमाम्नाताश्चेति । तत्र " तदिदास " इत्यादिकासु राजनसामगान-
पक्षे पूर्वोक्त एव शस्रोपक्रमः । यदा तु तदिदासेत्यादिभ्योऽन्यासु यथोक्तसूक्तगतासु
समाम्नातास्वृक्षूद्गातारो राजनेन स्तुवीरंस्तदानीं पूर्वोक्तन्यायेन राजनसामाधारभूताभि-
रन्याभिर्ऋग्भिः शस्रोपक्रमः प्रसज्येत, तथोपक्रमो न कर्तव्यः । किंतु ता अन्याः
सामाधारभूता ऋचः स्वस्थान एव पठनीयाः । इमाः "तदिदास" इत्यादिका इहैव
शस्रोपक्रम एव पठनीयाः । यदा पुनरुद्गातारो यथोक्तसूक्तेष्वसमाम्नातासु कासुचि-
न्नवीनास्त्वृक्षु राजनेन स्तुवीरंस्तदानीं समाम्नातस्य सूक्तस्य मध्ये तावतीर्नूतनाना-
मृचां संख्यया संख्याताः काश्चिदृच उद्धृत्य तत्र तासामृचां स्थाने ता नवीना ऋचः
शंसेत् । इमास्तु "तदिदास" इत्यादिका इहो एव॑^१ शस्रोपक्रम एव पठनीयाः ।

उद्धारपक्षे तु तदुद्धारनूतनप्रक्षेपयोः स्थानं दर्शयति—

अन्यास चेत्प्राक्सूद्दोहसस्ताः, इति ।

उदाहृतेषु सूक्तेषु या असमाम्नाता अन्या ऋचस्तासु यद्युद्गातारो राजनेँ^३ साम
गायेयुस्तदानीं सूद्दोहोनामिकायाः " ता अस्य सूददोहसः " [ ऋ० सं० म० ८
सू० ६९ ऋ० ३ ] इत्येतस्याः पूर्वं काश्चिदृचाऽऽम्नाता अपनीय ता नवीना राजन-
सामाधारभूता ऋचस्तत्र प्रक्षिपेत् ।

पक्षत्रयेऽपि शस्रोपक्रमस्य नास्त्यन्यथात्वमित्येतद्दर्शयति—

तदिदासेत्येतदादि शस्त्रम्, इति ।

यदि "तदिदास" इत्यादिषु राजनँसामगानं यदि वा ततोऽन्यासु समाम्नातासु
यदि वा नवीनासु सर्वथाऽप्युपक्रम एकविध एव ।

होत्रा शस्रे शस्यमानेऽध्वर्योर्यः प्रतिगरो विहितः स द्विविधः, प्राकृतो विह्वृ-
तश्चेति । तत्र सर्वत्र शस्रेषु सामान्येन प्राकृतप्राप्तौ सत्यां तदपवादेन विह्वृते षोडशि-^४
शस्रे विह्वतः प्रतिगरः प्रयुक्तस्तद्दृष्टान्तेनात्रापि विह्वतः प्रतिगर इत्याशङ्क्य तैँ^५द्वारयति—

अविह्वतश्चात्र प्रतिगरः, इति ।

प्रकृतावाम्नातात्प्रतिगरमन्त्राद्विशेषस्य कस्यचिद्धारर्णं^६ संपादनं यस्मिन्प्रतिगरे सोऽयं
विह्वतः प्रतिगरः, सोऽत्र न कर्तव्यः किंतु प्राकृत एव कर्तव्यः ।

"तदिदास" इत्यारभ्य गीर्भिरुक्थैरिति तिस्र इत्यन्तेन ग्रन्थेन निष्केवल्यशस्त्रस्य
योऽयमात्मभाग उक्तस्तस्यावसाने कांचिदृचं विधत्ते—


१ घ. ङ. °व पूर्ववच्छस्रो° । २ ग. °नं गा° । ३ ग. °नगा° । ४ क. घ. षोलशि° । ५ क. ख. तद्धार° । ६ ग. ङ. °चिद्धार° ।

षष्ठः खण्डः ॥ ६ ॥

Page 268Permalink

अध्या० २ ख० १(७)] ऐतरेयारण्यकम्। २६३

ता अस्य सूददोहस इत्येतदादिः सूददोहाः सूददोहाः इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये
षष्ठः खण्डः ॥ ६ ॥

इति बह्वृचब्राह्मणारण्यककाण्डे पञ्चमारण्यके
प्रथमोऽध्यायः ॥ १ ॥

ता अस्येत्युक्त एव पाद आदिर्यस्या ऋचः सेयमृगेतदादिः । सा च सूददोहो-
नामिका, साऽत्र पठनीया । अभ्यासोऽध्यायसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये
पञ्चमारण्यके प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म-
णारण्यककाण्डभाष्ये पञ्चमारण्यके प्रथमोऽध्यायः ॥ १ ॥


अथ पञ्चमारण्यके द्वितीयोऽध्यायः ।
तत्र प्रथमः खण्डः । ( सप्तमः )


पक्ष्याकारेण निरूपितस्य निष्केवल्यशस्त्रस्य योऽयं मध्यशरीरभागः सोऽयं तदि-
दासेत्यादिना पूर्वं निरूपितः । अथ भागान्तरं प्रतिजानीते—

ग्रीवाः, इति ।

वक्ष्यमाणास्तिस्र ऋचः शस्त्रस्य ग्रीवास्थानीयाः । अंसाभिप्रायेण ग्रीवा इति
बहुवचनम् । ग्रीवांसरूपा ऋचः कथ्यन्त इति शेषः ।

तत्र प्रथमामाह —

यस्येदमरजस्तुजो युजो वनं सहः । इन्द्रस्य रन्त्यं बृहत्, इति ।

यस्येन्द्रस्येदं शस्यमानं निष्केवल्यमरजः सर्वतो रञ्जकम् । यद्वा यस्येन्द्रस्येदं
जगत्पालनं सर्वतो रञ्जकम् । यस्येन्द्रस्य युजो योगस्तुजो वैरिणां हिंसकः । तथा
यस्येन्द्रस्य सहो बलं वनं भक्तैर्वननीयम् । तस्येन्द्रस्य रन्त्यं रमणं बृहत्प्रौढम्,
क्रीडा महतीत्यर्थः ।


ता अस्य सूददोहसः०—ऋ० सं० म० ८ सू० ६९ ऋ० ३ ।


१ क. ख. घ. ङ. पूर्वां ।

द्वितीयामृचमाह—

Page 269Permalink

२६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-

द्वितीयामृचमाह—
नाधृष आदधर्षदाधृषाणं धृषितं शवः । पुरा
यदीमपिन्व्यथिरिन्द्रस्य धृषितं सहः, इति ।

[वैरि]णां [शवो ?] बलं धृषितं येनेन्द्रेण तिरस्कृतम् । दाधृषाणमतिश-
येन तिरस्कारं (रो)यमिन्द्रं नाधृषः । अन्येन केनापि तिरस्कर्तुमशक्यः । नैवारि-
रादधर्षन्नैव तिरस्कृतवान् । यद्यस्मात्कारणात्पुरा पूर्वस्मिन्काल ईमतिव्यथिरिमं
सेत्तु( ? )मतिशयेनेन्द्रश्चालितवान्, तस्मादिन्द्रस्य सहो बलं धृषितं वैरिधर्षणक्षमम् ।

तृतीयामृचमाह—
स नो ददातु तं रयिं रयिं पिशङ्गरसंदृशम् ।
इन्द्रः पतिस्तवस्तमो जनेष्वा , इति ।

जनेषु सर्वप्राणिषु मध्य आ समन्तात्तवस्तमोऽतिशयेन बलवान्पतिः पालक
इन्द्रः पिशङ्गरसंदृशं पिङ्गलवर्णत्वेन सम्यग्दृष्टिप्रियं रयिं हेमरूपं स्वयं लब्धवान् ।
तं रयिं स्वेन लब्धं तद्धनं स इन्द्रो नोऽस्मभ्यं ददातु ।

ग्रीवास्थानीयाः शाखान्तरगतास्तिस्र ऋचो दर्शयित्वा स्वशाखागतामेकामृचं
दर्शयति—
सूददोहाः, इति ।

“ता अस्य सूददोहसः” [ऋ० सं० म० ८ सू० ६९ ऋ० ३] इत्या-
दिकेत्यर्थः ।

तस्य मध्यशरीरभागं ग्रीवाभागं चोक्त्वा भागान्तरं दर्शयति—
शिरो गायत्रमिन्द्रमिद्गाथिनो बृहदिति, इति ।

गायत्रोछन्दस्कमिन्द्रमिदिति सूक्तं शस्त्रस्य शिरोभागस्तं भागं शंसेत् ।

तत्र कंचिद्विशेषं दर्शयति—
अन्यास चेत्समाम्नातासु स्तुवीरन्नुभयासंस्था न
विपर्ययोऽसमाम्नातासु चेत्स्तुवीरन्मिश्रासु च, इति ।

“इन्द्रमिद्गाथिनः” [ऋ० सं० म० १ सू० ७ ऋ० १] इत्येतस्मात्तृचा-
दन्यासूत्तरासु तिसृष्वृक्ष्वाम्नातासु यद्युद्गातारः स्तुवीरंस्तदानीं तास्तिस्र ऋच
इन्द्रमिद्गाथिन इत्येतस्य स्थाने पठनीयाः । तासां स्थाने त्विन्द्रामिदित्यादयस्तिस्र इति
विपर्ययः । एतस्मिन्सूक्ते या असमाम्नाता अन्यत्र समाम्नातास्तिस्र ऋचस्तासु यद्यु-


इन्द्रमिद्गाथिनः०—ऋ० सं० म० १ सू० ७ ऋ० १]


१ ग. सन्तुमं ।

Page 270Permalink

अध्या० २ ख० १(७)] ऐतरेयारण्यकम् । २६५

द्धर्तारः स्तुवीरंस्तदानीं तासां मध्ये सूक्तगतास्तिस्र ऋच उद्धृत्य तस्मिन्स्थाने गाना-
धारभूतास्तिस्र ऋचः पठेत् । मिश्रासु गानेऽप्ययमेव न्यायः । गानाधारस्य तृचस्य
कियानपि भागोऽत्र समाम्नातः । अवशिष्टस्तु प्रदेशान्तरस्थो यदा भवति तदानीमेता-
स्तिस्रो मिश्रा भवन्ति ।

उद्धारस्थाने कंचिद्विशेषं दर्शयति—

सूक्तस्योत्तमं सूददोहाः, इति ।

पूर्वं सूददोहसः प्रागुद्धार उक्तः । अत्र तु सूददोहसः प्राचीना सूक्तस्योत्तमा
येयम् “इन्द्रं वो विश्वतस्परि” [ऋ० सं० म० १ सू ७ ऋ० १०] इत्यृ-
गस्ति तस्याः प्रागेवोद्धारस्तां तु पठेत् । ततः सूददोहाः पठनीया ।

पुनरपि शस्त्रस्यापरं भागं दर्शयति—

विजवः , इति ।

विशेषेण जवो वेगो यस्मिन्पक्षिशरीरभागे समुत्पद्यते सोऽयं भागो विजवः ।
तत्स्थानीयः शस्त्रभाग उच्यत इति शेषः ।

तस्मिन्भागे प्रथमामृचमाह—

सुतस्ते सोम उपयाहि यज्ञं मत्सवा मदं पुरुवारं
मघाय । मंहिष्ठ इन्द्र विजुरो गृणध्यै, इति ।

हे इन्द्र ते त्वदर्थं सोमो वल्याख्यः सुतोऽभिषुतोऽतो यज्ञमेतमुपयाहि त्वं प्राप्नुहि ।
मघायास्माकं धनाय पुरुवारं पुरुभिर्बहुभिर्वरणीयं मदं हर्षं यथाऽहं प्राप्नोमि तथा त्वं
मत्स्व मदमनुगृह्णन्हृष्टो भव । यथाऽस्मद्धनाय त्वं हृष्यसि तथा त्वं मंहिष्ठोऽतिशयेन
पूज्यश्च सन्विजुरो विशिष्टलोकद्वाराणि गृणध्यै अस्मदग्रे कथयितुमत्र हृष्टो भव ।

द्वितीयामृचमाह—

ससाहृतृत्रहत्येषु शत्रून्नृर्भुर्विगाह एषः ।
स नो नेतारं महयाम इन्द्रम्, इति ।

स इन्द्रो वृत्रहत्येषु वृत्रनामकस्यासुरस्य वधार्थेषु युद्धेषु शत्रून्स्ववैरिणो वृत्रसंब-
न्धिनः सर्वानसुरान्ससाहृतुः । अभिभूतवान् । स एष इन्द्र ऋभुर्देवतात्मा सन्वि-
गाहो विशेषेणास्माभिरवगाढुं सेवितुं शक्यः । नोऽस्माकं नेतारं स्वर्गे गमयितारमिन्द्रं
महयामो वयं पूजयामः ।

तृतीयामृचमाह—

इनो वसुः समजः पर्वतेष्ठाः प्रति वाम्-


१ ग. ०न्विजुरो ।

३४

Page 271Permalink

२६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-

जीषी। इन्द्रः शश्वद्भिर्जोहूत्र एवैः, इति ।

इन्द्रो देवः शश्वद्भिर्निरन्तरवर्तिभिरेवैरस्मद्यज्ञं प्रत्यागमनैर्जोहूत्रोऽतिशयेन होमनिष्पादकः । कीदृश इन्द्रः । इनः सर्वेषामीश्वरो वसुर्धनवान्समजः समीचीनगतियुक्तः पर्वतेष्ठाः पर्वतसमान ऐरावते मेघे वाऽवस्थितः । वां प्रत्युजीषी । यज्ञकर्तारौ हे दंपती युवामुद्दिश्यर्जीषोपलक्षितसोमरसवान् । भवदीयं सोमं स्वी करोतीत्यर्थः ।

एतास्तिस्र ऋचः पठित्वाऽन्ते पठनीयामृचं दर्शयति—

सूददोहाः, इति ।

शंसनप्रकारे विशेषं दर्शयति—

इत्येतत्त्रयं ग्रीवाः शिरो विजवः सर्वमर्धर्चर्श्यम्, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये
प्रथमः खण्डः ॥ १ ॥ (७)

यस्येदमित्यादिकः शस्त्रस्य यो ग्रीवाभाग इन्द्रमिद्गाथिन इत्यादिको यः शिरोभागः सुतस्ते सोम इत्यादिको [यो] विजवभाग इत्येतद्भागत्रयं सर्वमर्धर्चर्श्य(र्च)शंसनार्हम् । त्रिविधं हि शंसनम् । पादेऽवसायार्धर्चे प्रणव इत्येकम् । अर्धर्चेऽवसाय कृत्स्नायामृचि प्रणव इति द्वितीयम् । विनैवावसानमृगन्ते प्रणव इति तृतीयम् । एवं सत्युक्तेषु शस्त्रभागेष्वर्धर्चऽवसानमित्ययमेव पक्षोऽनुष्ठेयः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके द्वितीयाध्याये प्रथमः खण्डः ॥ १ ॥ (७)


अथ द्वितीयः खण्डः । ( अष्टमः )

भागान्तरं दर्शयति—

राथंतरो दक्षिणः पक्षः, इति ।

योऽयं शस्त्रस्य दक्षिणपक्षभागः सोऽयं रथंतरसामसंबन्धी ।
तमेव रथंतरसंबन्धं विस्पष्टयति—

अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथंतरस्य स्तोत्रियानुरूपौ प्रगाथौ चतस्रः सतीः षड्बृहतीः करोति, इति ।


अभि त्वा शूर०—ऋ० सं० म० ७ सू० ३२ ऋ० २२ । अभित्वा पूर्व०—ऋ० सं० म० ८ सू० ३ ऋ० ७ ।


१ ख. घ. ङ. °धर्च्य शं° ।

Page 272Permalink

अध्या०२ख०२(८)] ऐतरेयारण्यकम् । २६७

ऋग्द्वयात्मकः प्रगाथः, "द्व्यृचाः प्रगाथाः" इत्याश्वलायनेनोक्तत्वात् । "अभि त्वा शूर" [ऋ० सं० म० ७ सू० ३२ ऋ० २२] इत्ययं प्रगाथो रथंतर-साम्नः स्तोत्रियः स्तोत्रसंबन्धी । स्तोत्रादौ ह्येष गीयते । "अभि त्वा पूर्व" [ऋ० सं० म० ८ सू० ३ ऋ० ७] इत्ययं प्रगाथस्तस्य साम्नोऽनुरूपः स्तोत्रिय-स्थानन्तरमेव गीयमानत्वात् । तावुभौ प्रगाथौ मिलित्वा यद्यप्यध्ययनकाले चतस्र एवर्चस्तथाऽपि प्रयोगकाले षड्बृहत्यः कुर्यात् । कथं तत्करणमिति तदुच्यते । अभि त्वा शूरेत्यसावृकस्त्वत एव बृहती वेदे समाम्नाता । ततो द्वितीयबृहत्यर्थं तस्या ऋचश्चतुर्थपादमीशानमिन्द्रेत्यादिकं पुनर्द्विः पठित्वा "नत्वावान्" [ऋ० सं० म० ७ सू० ३२ ऋ० २३] इत्येतस्यां द्वितीयस्यामृचि पूर्वार्धं पठेत् । सेयं द्वितीया बृहती । ततस्तृतीयबृहत्यर्थं "न जातः" [ऋ० सं० म० ७ सू० ३२ ऋ० २४] इत्येतद्वितीयबृहतीगतं चतुर्थं पादं पुनर्द्विरभ्यस्य ततः समाम्नातायां द्वितीयस्यामृच्यु-त्तरार्धम् "अध्वायन्तः" [ऋ० सं० म० ७ सू० ३२ ऋ० २४] इत्यादिकं पठे-त्सेयं तृतीया बृहती । अनेनैव न्यायेन द्वितीयेऽपि प्रगाथे चतुर्थषष्ठौ पादौ पुनरपि द्विरावर्त्य बृहतीत्रयं संपादयेत् । अत्राध्वायन्त इति पादमुद्धृत्य तस्य स्थाने "स्वादोः स्वादीयः" [ऋ० सं० म० १० सू० १२० ऋ० ३] इति पादं प्रक्षिपेत् । एतच्च पूर्वाध्यायेऽभिहितम् ।

उक्तक्रमेण बृहतीः पठित्वा पश्चात्पठनीयानि सूक्तानि दर्शयति—

इन्द्रस्य नु वीर्याणि प्रवोचं त्वे ह यत्पितरंश्चिन्न इन्द्रेति
पञ्चदश यस्तिग्मशृङ्गो वृषभो न भीम उग्रो जज्ञे वीर्याय
स्वभावात्युदु ब्रह्माण्याैरत श्रवस्याऽऽते मह इन्द्रोऽत्युग्रेति
पञ्च सूक्तान्या न इन्द्रो दूरादा न आसादिति संपात
इत्था हि सोम इन्मद इति पङ्क्तिः सूद्दोहाः , इति ।

"इन्द्रस्य नु वीर्याणि" इति सूक्तं पञ्चदशर्चम् । "त्वे ह यत्पितरः" इत्य-स्मिन्प(स्य प)ञ्चविंशत्यूगात्मकस्य सूक्तस्याऽऽदौ पञ्चदशर्चः पठनीयाः । "यस्ति-ग्मशृङ्ग" इति सूक्तमेकादशर्चम् । "उग्रो जज्ञे" इति सूक्तं दशर्चम् । "उदु


इन्द्रस्य नु०—ऋ० सं० म० १ सू० ३२ ऋ० १ । त्वे ह यत्पितरः०—ऋ० सं० न० ७ सू० १८ ऋ० १ । यस्तिग्मशृङ्गो०—ऋ० सं० म० ७ सू० १९ ऋ० १ । उग्रो जज्ञे०—ऋ० सं० म० ७ सू० २० ऋ० १ । उदु ब्रह्माणि०—ऋ० सं० म० ७ सू० २४ ऋ० १ । आ ते महः०—ऋ० सं० म० ७ सू० २९ ऋ० १ । आ न इन्द्रो०—ऋ० सं० म० ४ सू० २० ऋ० १ । इत्था हि सोमः०—ऋ० सं० म० १ सू० ८० ऋ० १ ।

Page 273Permalink

२६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-

ब्रह्माणि” इति सूक्तं षडृचम् । “आ ते महः” इत्यादीनि पञ्च सूक्तानि । तेषु प्रथमम् । “आ ते महः” इति सूक्तं षडृचम् । “न सोमः” [ ऋ० सं० म० ७ सू० २६ ऋ० १ ] इति द्वितीयं पञ्चर्चम् । “इन्द्रं नरो नेमधित” [ ऋ० सं० म० ७ सू० २७ ऋ० १ ] इति पञ्चर्चं तृतीयम् । “ब्रह्माण इन्द्र” [ ऋ० सं० म० ७ सू० २८ ऋ० १ ] इति पञ्चर्चं चतुर्थम् । “अयं सोमः” [ ऋ० सं० म० ७ सू० २९ ऋ० १ ] इति पञ्चर्चं पञ्चमम् । “आ न इन्द्रः” इत्येतत्सूक्तमेकादशर्चम् । तदेतत्संपातसूक्तमिति नाम्ना^३ व्यवह्रियते । “इत्था हि सोमः” इत्येषा पङ्क्तिच्छन्दस्केर्गैका । एतावत्पठित्वा सूददोहाः पठनीया ।

भागान्तरं दर्शयति—

बार्हत उत्तरः, इति ।

योऽयं शस्त्रस्योत्तरः(रः) पक्षः सोऽयं बृहत्सामसंबंधी ।

तमेव संबन्धं विस्पष्टयति—

त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहतः स्तोत्रियानुरूपौ प्रगाथौ चतस्रः सतीः षड्बृहत्यः करोति, इति ।

पूर्ववद्व्याख्येयम् ।

बृहतीपाठादूर्ध्वं पठनीयं मन्त्रजातं दर्शयति—

तमु ष्टुहि यो ऽअभिभूत्योजाः सुत इत्त्वं निमिश्र इन्द्र
सोम इति त्रीण्यभूरेको रयिपते रयीणामित्यष्टौ
सूक्तानि कथा महामवृधत्कस्य होतुरिति संपात इन्द्रो
मदाय वावृध इति पङ्क्तिः सूददोहाः, इति ।

“तमु ष्टुहि” इत्येतत्सूक्तं पञ्चर्चम् । “सुत इत्त्वम्” इत्यादीनि त्रीणि सूक्तानि । तेषु “सुतः” इत्येतत्प्रथमं दशर्चम् । “वृषामदः” [ ऋ० सं० म० ६ सू० २४ ऋ० १ ] इत्येतद्द्वितीयमपि सूक्तं दशर्चम् । “या त ऊतिः” [ ऋ० सं० म० ६ सू० २५ ऋ० १ ] इत्येतत्तृतीयं सूक्तं नवर्चम् । “अभूरेकः” इत्यादीन्यष्टौ


त्वामिद्धि हवामहे०—ऋ० सं० म० ६ सू० ४६ ऋ० १ । त्वं ह्येहि चेरवे०—ऋ० सं० म० ८ सू० ६१ ऋ० ७ । तमु ष्टुहि०—ऋ० सं० म० ६ सू० १८ ऋ० १ । सुत इत्त्वं०—ऋ० सं० म० ६ सू० २३ ऋ० १ । अभूरेको०—ऋ० सं० म० ६ सू० ३१ ऋ० १ । कथामहा०—ऋ० सं० म० ४ सू० २३ ऋ० १ । इन्द्रो मदाय०—ऋ० सं० म० १ सू० ८१ ऋ० १ ।


१ घ. ङ. ॰मृ । आन । २ ग. ॰मृ । आनं । ३ क. ख. ॰ति व्य० ।

Page 274Permalink

अध्या०२ख०२(८)] ऐतरेयारण्यकम् । २६९

सूक्तानि । तेषु “अभूरेकः” इति प्रथमं पञ्चर्चं सूक्तम् । “अपूर्व्या पुरुतमानि” [ ऋ० सं० म० ६ सू० ३२ ऋ० १ ] इति द्वितीयम् । “ य ओजिष्ठः ” [ ऋ० सं० म० ६ सू० ३३ ऋ० १ ] इति तृतीयम् । “ सं च त्वे ” [ ऋ० सं० म० ६ सू० ३४ ऋ० १ ] इति चतुर्थम् । “ कदा भुवन् ” [ ऋ० सं० म० ६ सू० ३५ ऋ० १ ] इति पञ्चमम् । “ सत्रा मदासः ” [ ऋ० सं० म० ६ सू० ३६ ऋ० १ ] इति षष्ठम् । “ अर्वाग्रथम् ” [ ऋ० सं० म० ६ सू० ३७ ऋ० १ ] इति सप्तमम् । “अपादितः” [ ऋ० सं० म० ६ सू० ३८ ऋ० १] इत्यष्टमम् । तान्येतान्यष्टावपि प्रत्येकं पञ्चर्चानि । “कथा महाम् ” इत्येतत्सूक्तमेकादशर्चम् । तच्च संपातशब्देन व्यवह्रियते । “इन्द्रो मदाय” इत्येका पाङ्किच्छन्दस्का । तत्सर्वं पठित्वाऽन्ते सूददोहसं पठेत् ।

उक्तयोर्दक्षिणोत्तरपक्षयोरनुसंधेयं कंचिद्विशेषं दर्शयति—

राथंतरो दक्षिणः पक्षः पञ्चदशः स्तोम एकशतं वसिष्ठप्रासाहा
बार्हत उत्तरः सप्तदशः स्तोमो द्विशतं भरद्वाजप्रासाहः, इति ।

योऽयमत्र दक्षिणः पक्षः सोऽयं राथंतरो रथंतरसामसंबन्धी । तेन साम्ना स्तुतिकाले पञ्चदशः स्तोमः संपाद्यते । ऋक्त्वयस्य विष्टुतिब्राह्मणोक्तप्रकारेणाऽऽवृत्त्या पञ्चदशसंख्याका ऋचो यस्मिन्स्तोमे संपाद्यन्ते सोऽयं पञ्चदशः स्तोमः । तदात्मकोऽयं दक्षिणः पक्षः । “ अभि त्वा शूर ” [ ऋ० सं० म० ७ सू० ३२ ऋ० २२ ] इत्यारभ्य “इत्था हि सोमः” [ ऋ० सं० म० १ सू० ८० ऋ० १ ] इत्येतदन्तमृग्जातमेकाधिकं शतं संपद्यते, तदात्मकोऽयं दक्षिणः । तमिमं वसिष्ठो नाम मुनिः स्वसामर्थ्येन संपादितवान् । अतोऽयं वसिष्ठप्रासाहः । एवमुत्तरपक्षेऽपि योजनीयम् । पक्षयोर्ऋक्स्तोमात्मकत्वं तैत्तिरीया आमन्नन्ति—“ पञ्चदशोऽन्यः पक्षो भवति । सप्तदशोऽन्यः ” इति ।

भागान्तरं दर्शयति—

भद्रं पुच्छं द्विपदासु , इति ।

पादद्वयोपेतास्त्वृक्षु भद्रनामकं यत्साम तत्संबन्धी शस्त्रस्य पुच्छभागः ।

द्विपदा ऋचो दर्शयति—

इमा नु कं भुवना सीषधामाऽऽयाहि वनसा


इमा नु कं०—ऋ० सं० म० १० सू० १५७ ऋ० १ । आयाहि वनसा०—ऋ० सं० म० १ सू० १७२ ऋ० १ ।


१ ग. ॰मं सू॰ ।

Page 275Permalink

२७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-

सहेति नव समाम्नाता अथासमाम्नाताः , इति ।
“इमा नु कं भुवना” इत्यादि सूक्तं पञ्चर्चम् । “आयाहि” इत्यादिकमृक्च-
तुष्टयोपेतम् । तदुभयमेलनादृचो नव संपद्यन्ते । ताश्चात्र संहिताग्रन्थे समाम्नाताः ।
अथान्याः काश्चिदसमाम्नाताः शाखान्तरगता विद्यन्ते ।
तासु प्रथमामाह—
प्र व इन्द्राय वृत्रहन्तमाय विप्रा गाथं गायत यज्जुजोषत्, इति ।
हे विप्रा ऋत्विजो वो युष्माकं वृत्रहन्तमायातिशयेन शत्रुघातिन इन्द्रायेन्द्र-
प्रीत्यर्थं गाथं गायत । गातव्यं यत्सामजातमस्ति तत्सर्वं प्रकर्षेण गायत । यत्साम
स इन्द्रो जुजोषत्प्रीत्या सेवते तद्गायत ।
द्वितीयामृचमाह—
अर्चन्त्यर्कं देवतावस्वर्का आस्तोभति श्रुतो युवा स इन्द्रः, इति ।
अर्का अर्चयितारो विप्रा देवतासु मध्येऽर्कमर्चनीयमिन्द्रमर्चन्ति पूजयन्ति ।
श्रुतो वेदेषु प्रख्यातो युवा यौवनसंपन्नः स इन्द्र आस्तोभति सर्वत उत्साहं करोति ।
तृतीयामृचमाह—
उपप्रक्षे मधुमति क्षियन्तः पुष्यन्तो रयिं धीमहे तमिन्द्र, इति ।
हे इन्द्र तं त्वां धीमहे वयं ध्यायामः । कीदृशा वयं मधुमत्युपप्रक्षे क्षियन्तः ।
प्लक्षवृक्षसंपादितानि पात्राण्यत्र प्लक्षशब्देन विवक्षितानि, तेषां समीपवर्ती यागप्रदेश
उपप्रक्षः । सरसो(चासौ) मध्वादिमाधुर्यरसोपेतत्वान्मधुमांस्तादृशे प्रदेशे क्षियन्तो
निवसन्तः । तथा रयिं पुष्यन्तो धनं वर्धयन्तः ।
चतुर्थीमृचमाह—
विश्वतो दावन्विश्वतो न आभर यं त्वा शविष्ठमीमहे, इति ।
हे इन्द्र शविष्ठमतिशयेन बलयुक्तं यं त्वामीमहे प्राप्नुमो याचामहे वा स त्वं
हे विश्वतो दावन्सर्वेषां प्राणिनां धनादि दत्तत्तादृशस्त्वं नोऽस्माकं विश्वतः सर्व-
स्माद्देशादाभर धनादिकमानय ।
पञ्चमीमृचमाह—
स सुप्रणीते नृतमः स्वराळसि मंहिष्ठो वाजसातये, इति ॥
हे इन्द्र सुप्रणीते सुष्ठु संपादितेऽस्मिन्कर्मणि वाजसातयेऽस्मभ्यमन्नदानाय मंहि-
ष्ठोऽतिशयेन पूजितः संस्त्वं नृतम उत्तमः पुरुषः स्वराट्स्वयमेव राजसि, न तु परतन्त्र
इत्यर्थः ।


१ घ. ङ. देवेषु ।

षष्ठीमृचमाह—

Page 276Permalink

अध्या० २ ख० २ (८)] ऐतरेयारण्यकम् । २७१

षष्ठीमृचमाह—
त्वं ह्येक ईशिषे सनादमृक्त ओजसा, इति ।
हे इन्द्र त्वं हि त्वमेवैक एवौजसा परकीयेन बलेनामृक्तोऽमार्जितोऽतिरस्कृतः सनात्सनितुमस्मभ्यं धनादिकं दातुमीशिषे समर्थोऽसि ।

सप्तमीमृचमाह—
विश्वस्य प्रस्तोभ विद्वान्पुरा वा यदि वेहाऽऽस नूनम् , इति ।
विश्वस्य सर्वस्य जगतः प्रस्तोभ प्रकर्षेणोत्साहजनक हे इन्द्र पुरा वाऽस्मदनुष्ठानात्प्रागेव वा भवान्विद्वानासास्मद्ऋत्वैर्ज्ञानोपपन्नः । यदि वाऽथवेहास्मिन्कर्मणि नूनमवश्यं भवान्विद्वानास ।

अष्टमीमृचमाह—
इषं नो मित्रावरुणा कर्तनेळां पीवरीमिषं कृणुही न इन्द्र, इति ।
मित्रावरुणा हे मित्रावरुणौ युवां नोऽस्माकमिषमन्नमिर्लां भूमिं च कर्तन कुरुतम् । हे इन्द्र नोऽस्माकं पीवरीं प्रभूतामिषमन्नं कुरु ।

नवमीमृचमाह—
शं पदं मघं रयिषणि न सोमो अव्रतं हिनोति न स्पृशद्रयिः, इति ।
हे इन्द्र रयिषणि हविर्लक्षणस्य धनस्य दातरि मयि शं सुखं पदं निवासस्थानं मघं धनं च संपादयेति शेषः । योऽयं सोमः सोऽयमव्रतमनुष्ठानरहितं न हिनोति न पणयति । रयिः फलभूतं धनमपि न स्पृशदनुष्ठानरहितं पुरुषं न प्राप्नोति । ता एता नवसंख्याका अस्यां संहितायाम समाम्नाता ऋचः ।

पुनरप्यसमाम्नाताः सूत्रगते षष्ठाध्याये पठिता द्विपदा ऋचो दर्शयति—
एष ब्रह्मेति तिस्रः, इति ।
"एष ब्रह्मा य ऋत्वियः" इत्येका । "विसृतयो यथा" इति द्वितीया । त्वामिच्छवसस्पत इति तृतीया ।

संहितायां समाम्नातान्यृगन्तराणि चत्वारि दर्शयति —
आधूर्ष्वस्मा इत्येका सूददोहा यद्वावानेति धाय्या सूददोहाः, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ (८) ॥


आधूर्ष्वस्मै०—ऋ० सं० म० ७ सू० ३४ ऋ० ४ । यद्वावान०—ऋ० सं० म० १० सू० ७४ ऋ० ६ ।
१ क. ॰मेक । २ ग. ॰पत्न्रैः । यं॰ ।

Page 277Permalink

२७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-

“आधूर्ष्व” इति द्विपदा, तां पठित्वा सूददोहसं पठेत्। ततः “यद्द्यावान पुरुतमम्” इत्येतां चतुष्पदामृचं धाय्यासञ्ज्ञितां पठित्वा पुनरपि सूददोहसं पठेत्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ ( ८ ) ॥

अथ तृतीयः खण्डः। ( नवमः )

पूर्वोक्तपुच्छभागशंसनादूर्ध्वं शंसनीयं शस्त्रभागं दर्शयति—
गायत्री तृचाशीतिः, इति।
तिसृणामृचां समूहस्तृचस्तादृशानां तृचानामशीतिस्तृचाशीतिः। चत्वारिंशदधिकशतद्वयसंख्याका ऋच इत्यर्थः। सेयमशीतिर्गायत्रीछन्दस्का पठनीया।

प्रतिज्ञाताः सर्वा ऋचो दर्शयति—
महाँ इन्द्रो य ओजसेति तिस्र उत्तमा उद्धरति पुरोळाशं नो अन्धस इति तिस्र इन्द्र इत्सोमपा एक इत्येतत्प्रभृतीनां तिस्र उत्तमा उद्धरति तासां स्वादवः सोमा आयाहीत्येतामुद्धृत्य न ह्यन्यं बळाकरमित्येतां प्रत्यवदधाति जज्ञानो नु शतक्रतुरित्येका पुरुहूतं पुरुष्टुतमिति शेष उद्धेदमभि श्रुता मघमित्युत्तमामुद्धरति प्रकृतान्यूजीषिण आ घा ये अग्निमिन्धत आ तू न इन्द्र क्षुमन्तमिति सूक्ते सूददोहाः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ९ ) ॥


महाँ इन्द्रो०—ऋ० सं० म० ८ सू० ६ ऋ० १। पुरोळाशं नो अन्धस०—ऋ० सं० म० ८ सू० ७८ ऋ० १। इन्द्र इत्सोमंपाः०—ऋ० सं० म० ८ सू० २ ऋ० ४। स्वादवः सोमाः०—ऋ० सं० म० ८ सू० २ ऋ० २८। न ह्यन्यं बळाकरम्०—ऋ० सं० म० ८ सू० ८० ऋ० १। जज्ञानो नु शतक्रतुः०—ऋ० सं० म० ८ सू० ७७ ऋ० १। पुरुहूतं पुरुष्टुतम्०—ऋ० सं० म० ८ सू० ९२ ऋ० २। उद्धेदमभि श्रुता मवम्०—ऋ० सं० म० ८ सू० ९३ ऋ० १। प्रकृतान्यूजीषिणः०—ऋ० सं० म० ८ सू० ३२ ऋ० १। आ घा ये अग्निम्०—ऋ० सं० म० ८ सू० ४९ ऋ० १। आ तू न इन्द्र क्षुमन्तम्०—ऋ० सं० म० ८ सू० ८१ ऋ० १ ] ।

Page 278Permalink

अध्या०२ख०४(१०)] ऐतरेयारण्यकम्। २७३

“महाँ इन्द्रः” इत्येतत्सूक्तमष्टाचत्वारिंशद्भिर्ऋग्भिरुपेतं तस्मिन्सूक्ते “शतमहम्” [ऋ० सं० म० ८ सू० ६ ऋ० ४६] इत्यादिकाः सूक्तावसानभागस्थास्तिस्र ऋच उद्धृत्य “सोमपेयाय वक्षतः” [ऋ० सं० म० ८ सू० ६ ऋ० ४९] इत्यन्तमेव पञ्चचत्वारिंशद्भिर्ऋग्भिरुपेतं पठेत् । तत ऊर्ध्वम् “पुरोळाशं नो अन्धसः” इत्यादिकास्तिस्र ऋचः पठेत् । “ इदं वसो सुतमन्धः ” [ ऋ० सं म० ८ सू० २ ऋ० १ ] इत्यस्मिन्द्विचत्वारिंशद्भिर्ऋग्भिरुपेते सूक्ते प्रथमतः पठितास्तिस्र ऋचः परित्यज्य “इन्द्र इत्सोमपाः ” इत्यादिकं पठेत् । तत्रापि “ इत्था धीवन्तम् ” [ ऋ० सं म० ८ सू० २ ऋ० ४० ] इत्यादिका अवसानभागस्थास्तिस्र ऋच उद्धृत्य “ ये अस्मिन्काममाश्रियन् ” [ ऋ० सं० म० ८ सू० २ ऋ० ३९ ] इत्यन्तमेव षट्त्रिंशद्भिर्ऋग्भिरुपेतं पठेत् । तस्यापि मध्ये “ स्वाद्वः सोमाः ” इत्येतामृचमुद्धृत्य तस्याः स्थाने “ न ह्यन्यम् ” इत्येतामृचं प्रत्यवदध्यात् । तया प्रत्यवहितया सहितं षट्त्रिंशदृक्समूहं पठित्वा तदूर्ध्वं “ जज्ञानो नु ” इत्येकामृचं पठेत् । “ पान्तमा वः ” [ ऋ० सं० म० ८ सू० ९२ ऋ० १ ] इत्यस्मिन्सूक्ते त्रयस्त्रिंशद्भिर्ऋग्भिरुपेते प्रथमामृचं परित्यज्य “ पुरुहूतम् ” इत्यारम्य द्वात्रिंशद्भिर्ऋग्भिरुपेतः सूक्तशेषः पठनीयः । “ उद्घेदभि ” इत्यस्मिन्सूक्ते चतुस्त्रिंशद्भिर्ऋग्भिरुपेते “ इन्द्र इषे ” [ ऋ० सं० म० ८ सू० ९३ ऋ० ३४] इत्यादिकामुत्तमामृचमुद्धृत्यावशिष्टं त्रयस्त्रिंशद्भिर्ऋग्भिरुपेतं सूक्तं पठेत् । “ प्रकृतानि ” इत्यादिकं त्रिंशद्भिर्ऋग्भिरुपेतं सूक्तं पठेत् ।

“ आ घा ये अग्निम् ” इति सूक्तं द्विचत्वारिंशद्भिर्ऋग्भिरुपेतं पठेत् । “ आ तू न इन्द्र ” इत्यादिकं नवभिर्ऋग्भिरुपेतमेकं सूक्तं तत उपरितनम् । “ आ प्रद्रव ” [ ऋ० सं० म० ८ सू० ८२ ऋ० १ ] इत्यादिकं नवर्चं सूक्तं ते द्वे अपि सूक्ते पठेत् । ततः सूददोहाः पठनीया । एवं सति सूददोहसः प्राचीनाश्चत्वारिंशदधिकशतद्वयसंख्याका ऋचः, ततस्तृचाशीतिः संपद्यते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ९ )


अथ चतुर्थः खण्डः । ( दशमः )

गायत्र्यास्तृचाशीतेरूर्ध्वं शंसनीयं भागं दर्शयति—

बार्हती तृचाशीतिः, इति ।


* अत्रैकवचनान्तः पाठः साधुः, विंशत्याद्याः सदैकत्व इत्यनुशासनात् । एवमग्रेऽपि तत्र तत्र बोध्यम् ।

३५

Page 279Permalink

२७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-

बृहतीच्छन्दोयुक्ता काचित्तृचाशीतिः पठनीया ।
तत्रत्या ऋचो विविच्य दर्शयति—

मा चिदन्यद्विशंसतेत्येकया न त्रिंशत्पिबा सुतस्य
रसिन इति विंशतेः सप्तमीं चाष्टमीं चोद्धरति
यदिन्द्र प्रागपागुदगिति चतुर्दश वयं घ त्वा सुता-
वन्त इति पञ्चदश मो षु त्वा वाघतश्चनेत्येतस्य
द्विपदां चोद्धरति राथंतरं च प्रगाथमथ हास्य
नकिः सुदासो रथमित्येतं प्रगाथमुद्धृत्य त्वामिदा
ह्यो नर इत्येतं प्रगाथं प्रत्यवदधात्यभि प्र वः
सुराधसमिति षड्वालखिल्यानां सूक्तानि यः
सत्राहा विचर्षणिरिति शेषोऽयं ते अस्तु हर्यत
इति सूक्ते उभयं शृणवच्च न इति सप्तमीं चाष्टमीं
चोद्धरति तरोभिर्वो विदद्वसुमित्युत्तमामुद्धरति
यो राजा चर्षणीनामित्येकादश तं वो दस्म-
मृतीषहमा नो विश्वा सुहव्यो या इन्द्र
भुज आभर इति नव सूददोहाः, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये
चतुर्थः खण्डः ॥ ४ ॥ ( १० )


मा चिदन्यत्०—ऋ० सं० म० ८ सू० १ ऋ० १ । पिबा सुतस्य०—ऋ० सं० म० ८ सू० ३ ऋ० १ । यदिन्द्र प्रागपागुदक्०—ऋ० सं० म० ८ सू० ४ ऋ० १ । वयं घ त्वा सुतावन्तः०—ऋ० सं० म० ८ सू० ३३ ऋ० १ । मो षु त्वा वाघतश्चन०—ऋ० सं० म० ७ सू० ३२ ऋ० १ । नकिः सुदासो०—ऋ० सं० म० ७ सू० ३२ ऋ० १० । त्वामिदा ह्यो नरः०—ऋ० सं० म० ८ सू० ९९ ऋ० १ । यः सत्राहा विचर्षणिः०—ऋ० सं० म० ६ सू० ४६ ऋ० ३ । अयं ते अस्तु हर्यतः०—ऋ० सं० म० ३ सू० ४४ ऋ० १ । उभयं शृणवच्च नः०—ऋ० सं० म० ८ सू० ६१ ऋ० १ । तरोभिर्वो विदद्वसुम्०—ऋ० सं० म० ८ सू० ६६ ऋ० १ । यो राजा चर्षणीनाम्०—ऋ० सं० म० ८ सू० ७० ऋ० १ । तं वो दस्ममृतीषहम्०—ऋ० सं० म० ८ सू ८८ ऋ० १ । आ नो विश्वा सुहव्यः०—ऋ० सं० म० ८ सू० ९० ऋ० १ । या इन्द्र भुज आभर०—ऋ० सं० म० ८ सू० ९७ ऋ० १ ।

Page 280Permalink

अध्या० २ ख० ४ (१०) ऐतरेयारण्यकम् । २७५

“मा चिदन्यत्” इत्यादिकं चतुस्त्रिंशद्भिर्ऋग्भिरुपेतं सूक्तं तस्य सूक्तस्यावसानभागस्थाः “स्तुहि स्तुहि” [ऋ० सं० म० ८ सू० १ ऋ० ३०] इत्यादिकाः पञ्च परित्यज्य “स्तोमासो अवृत्सत” [ऋ० सं० म० ८ सू० १ ऋ० २९] इत्यन्तमेवैकोनत्रिंशद्भिर्ऋग्भिरुपेतं पठेत् । “पिबा सुतस्य” इत्येतस्मिंश्चतुर्विंशद्भि(तिभि)र्ऋग्भिरुपेते सूक्ते विंशतिसंख्याया ऊर्ध्वम् “यं मे दुः” [ऋ० सं० म० ८ सू० ३ ऋ० २१] इत्याद्याश्चतस्र ऋचः परित्यजेत् । अवशिष्टायां विंशतावपि “अभि त्वा पूर्वपीतये” [ऋ० सं० म० ८ सू० ३ ऋ० ७] इत्येतां सप्तमीम् । “अस्येन्द्रो वावृधे” [ऋ० सं० म० ८ सू० ३ ऋ० ८] इत्येतामष्टमीं च परित्यज्यावशिष्टाभिरष्टादशभिर्ऋग्भिरुपेतं सूक्तं पठेत् । “यदिन्द्र प्रागपागुदक्” इत्यादिकमेकविंशतिभिर्ऋग्भिरुपेतं सूक्तम् । तत्रान्तिमाः “प्र पूषणम्” [ऋ० सं० म० ८ सू० ४ ऋ० १९] इत्यादिकाः सप्त परित्यज्य “वहन्तु सवने दुप” [ऋ० सं० म० ८ सू० ४ ऋ० १४] इत्यन्तमेव चतुर्दशभिर्ऋग्भिरुपेतं पठेत् । “वयं घ त्वा” इति सूक्तमेकोनविंशतिभिर्ऋग्भिः समेतं [तस्मिन्सूक्ते] “न हि षस्तव” [ऋ० सं० म० ८ सू० ३३ ऋ० १] इत्यादिकाश्चतस्रः परित्यज्य “मदाय धुक्ष सोमपाः” [ऋ० सं० म० ८ सू० ३३ ऋ० १९] इत्यन्तमेव पञ्चदशभिर्ऋग्भिरुपेतं पठेत् । “मो षु त्वा” इत्यादिकं सप्तविंशतिभिर्ऋग्भिरुपेतं तस्मिन्सूक्ते “रायस्कामः” [ऋ० सं० म० ७ सू० ३२ ऋ० ३] इत्येतां द्विपदामृचमुद्धरेत् । तथा रथंतरसामसंबन्धिप्रगाथम् “अभि त्वा शूर” [ऋ० सं० म० ७ सू० ३२ ऋ० ऋ० २२] इत्यादिकमृगद्वयमुद्धरेत् । ततोऽवशिष्टं चतुर्विंशतिभिर्ऋग्भिरुपेतं तत्सूक्तं पठेत् । तत्रापि “नकिः सुदासः” इत्येतं प्रगाथमुद्धृत्य तस्य स्थाने “त्वामिदा ह्यो नरः” इत्येतं प्रगाथं प्रक्षिप्य पठेत् । “अभि प्र वः” [ऋ० सं० म० ८ वाल० सू० १] इत्यादिकानि वालखिल्यानां संहितायामाम्नातानि षट्पञ्चाशद्भिर्ऋग्भिरुपेतनि षट्सूक्तानि पठेत् । “त्वामिद्धि हवामहे” इत्यादिकं चतुर्दशभिर्ऋग्भिरुपेतं सूक्तं तस्मिन्नादित आरभ्य द्वे ऋचौ परित्यज्य “यः सत्राहा” इत्यादिकं द्वादशभिर्ऋग्भिरुपेतं सूक्तशेषं पठेत् । “अयं ते अस्तु” इति पञ्चर्चमेकं सूक्तम् । “आ मन्द्रैः” [ऋ० सं० म० ३ सू० ४९ ऋ० १] इति पञ्चर्चं द्वितीयं सूक्तं ते उभे सूक्ते पठेत् । “उभयं शृणवच्च नः” इत्यादिकमष्टादशर्चं सूक्तं तस्य मध्ये “त्वं होहि” [ऋ० सं० म० ८ सू० ६१ ऋ० ७] इत्यादिकां सप्तमीम् । “त्वं पुरू सहस्राणि” [ऋ० सं० म० ८ सू० ६१ ऋ० ८] इत्यादिकामष्टमीं चोद्धृत्यावशिष्टं षोडशर्चं सूक्तं पठेत् । “तरोभिर्वः” इत्यादिकं पञ्चदशर्चं सूक्तं तस्मिन्नुत्तमाम् “सोम इन्द्रः”

Page 281Permalink

२७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-

ऋ० १९] इत्यादिकामुद्धृत्यावशिष्टं चतुर्दशर्चं पठेत् । "यो राजा चर्षणी-
नाम्" इत्येतत्पञ्चदशर्चं सूक्तं [ तस्मिन्सूक्ते ] "त्वं न इन्द्राऽऽसाम्" [ ऋ०
सं० म० ८ सू० ७० ऋ० १२] इत्यादिकाश्चतस्र ऋचः परित्यज्यावशिष्ट-
मेकादशर्चं पठेत् । "तं वो दस्मम्" इत्यादिकं षडृचं सूक्तं पठेत् । "आ
नो विश्वास्" इत्यादिकमपि षडृचं सूक्तं पठेत् । "या इन्द्र" इत्यादिकं
पञ्चदशर्चं सूक्तं तस्यावसानभागस्थाः "विश्वाः पृतनाः" [ ऋ० सं० म० ८
सू० ९७ ऋ० १०] इत्यादिकाः षडृचः परित्यज्य "न त्वा देवास आसत"
[ ऋ० सं० म० ८ सू० ९७ ऋ० ९] इत्यन्तं नवर्चं पठेत् । ततः सूददोहसं
पठेत् । एवं सति सूददोहसः प्राचीना बार्हती तृचाशीतिः संपद्यते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये
पञ्चमारण्यके द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ (१०)


अथ पञ्चमः खण्डः । ( एकादशः )

बार्हत्यास्तृचाशीतेरूर्ध्वं शंसनीयभागं दर्शयति—
औष्णिही तृचाशीतिः , इति ।
उष्णिक्छन्दोयुक्ता काऽपि तृचाशीतिः पठनीया ।
तत्रत्या ऋचो विविच्य दर्शयति—
य इन्द्र सोमपातम इति सूक्ते तम्वभि प्रगायतेत्युत्तमामु-
द्धरतीन्द्राय साम गायत सखाय आशिषामहीति
तिस्र उत्तमा उद्धरति य एक इद्विदयत आयाह्यद्रिभिः
सुतं यस्य त्यच्छम्बरं मद इति त्रयस्तृचा गायत्र्यः
संपदोषिण्हः सप्त सप्त गायत्र्यः षट्पळुष्णिहो भवन्ति
यदिन्द्रा॒हं यथा त्वं प्र संम्राजं चर्षणीनामिति सूक्ते


य इन्द्र सोमपातमः०—ऋ० सं० म० ८ सू० १२ ऋ० १ । तम्वभि प्रगा-
यत०—ऋ० सं० म० ८ सू० १९ ऋ० १ । इन्द्राय साम गायत०—ऋ० सं०
म० ८ सू० ९८ ऋ० १ । सखाय आशिषामहे०—ऋ० सं० म० ८ सू० २४
ऋ० १ । य एक इद्विदयते०—ऋ० सं० म० १ सू० ८४ ऋ० ७ । आयाह्य-
द्रिभिः०—ऋ० सं० म० ५ सू० ४० ऋ० १ । यस्य त्यच्छम्बरं०—ऋ० सं०
म० ६ सू० ४४ ऋ० १ । यदिन्द्रा॒हं०—ऋ० सं० म० ८ सू० १४ ऋ० १ ।
प्र संम्राजं०—ऋ० सं० म० ८ सू० १६ ऋ० १ ।

Page 282Permalink

अध्या० २ ख० १(११)] ऐतरेयारण्यकम् । २७७

उत्तरस्योत्तमे उद्धरति वार्त्रहत्याय शवस इत्युत्तमा-
मुद्धरति सुरूपकृत्नुमूतय इति त्रीण्येन्द्रसानसिं रयि-
मिति सूक्ते य आनयत्परावत इति तिस्र उत्तमा उद्ध-
रति रेवतीर्नः सधमाद इति तिस्रः सूददोहाः, इति ।

“य इन्द्र” इत्येतत्त्रयस्त्रिंशदृचमेकं सूक्तम् । “इन्द्रः सुतेषु” [ ऋ० सं म० ८ सू० १३ ऋ० १ ] इतीदमपि त्रयस्त्रिंशदृचं सूक्तं ते उभे सूक्ते पठेत्। “तम्वभि” इत्यादिके सूक्ते चरमम् “अरं क्षयाय” [ ऋ० सं० म० ८ सू० १९ ऋ० १३ ] इत्यादिकामृचमुद्धृत्य “अस्माकेभिर्नृभिरत्रा खर्जय” [ ऋ० सं० म० ८ सू० १९ ऋ० १२ ] इत्येतदन्तं द्वादशर्चं सूक्तं पठेत् । “इन्द्राय साम” इत्यादिकं द्वादशर्चं सूक्तं तदपि पठेत् । “सखायः” इत्यादिकं त्रिंशदृचं सूक्तं तस्मिन्नन्तिमा “यथा वरो” [ ऋ० सं० म० ८ सू० २४ ऋ० २८ ] इत्यादिकास्तिस्र ऋच उद्धृत्य “वभ्रदासस्य तुविनृम्ण नीनमः” [ ऋ० सं० म० ८ सू० २४ ऋ० २७] इत्यन्तं सप्तविंशत्यृचं सूक्तं पठेत् । “य एकः” इत्यादिकरेकस्तृचः, “आयाहि” इत्यादिद्वितीयस्तृचः । “यस्य त्यत्” इत्यादिस्तृतीयस्तृचः । त एते त्रयस्तृचाः पठनीयाः । इत ऊर्ध्वं गायत्रीछन्दस्का ऋचः पठनीयाः । ताश्च गायत्र्य उष्णिक्त्वेन संपादनीयाः । तत्संपादनं कथमिति [तदुच्यते-] । सप्त गायत्र्यो मिलित्वा षळु(डु)ष्णिहः संपद्यन्ते । सप्तम्यां गायत्र्यामक्षरचतुष्काणि षड्विद्यन्ते । तेष्वेकैकं चतुष्कमेकैकस्यां गायत्र्यां योजनीयम् । ततोऽष्टाविंशत्यक्षरत्वादुष्णिगेव संपद्यते । एवं सप्तसु गायत्रीषु षळु(डु)ष्णिहः संपन्ना भवन्ति । सर्वासपि गायत्रीष्वेवमुष्णिक्त्वं संपादनीयम् । सप्त सप्त गायत्र्यः षट्षळुष्णिहो भवन्ति” इति वीप्सा पठिता । “यदिन्द्राहम्” इत्यादिकं पञ्चदशर्चं गायत्रीछन्दस्कं सूक्तं पठेत् । “प्र सम्राजम्” इत्यादिकं द्वादशर्चं सूक्तम्, “आयाहि सुषुमा हि ते” [ ऋ० सं० म० ८ सू० १७ ऋ० १ ] इति पञ्चदशर्चं सूक्तम् , ते उभे गायत्रीछन्दस्के सूक्ते पठनीये । तत्रोत्तरसूक्तस्योत्तमे द्वे “वास्तोष्पते” [ ऋ० सं० म० ८ सू० १७ ऋ० १४ ] इत्यादिके उद्धृत्यावशिष्टं त्रयोदशर्चम् “न्यास्मिन्दध्र आ मनः” [ऋ० सं० म० ८ सू० १७ ऋ० १३ ] इत्येतदन्तमेव पठनीयम् । “वार्त्रहत्याय”


वार्त्रहत्याय शवसे०—ऋ० सं० म० ३ सू० ३७ ऋ० १ । सुरूपकृत्नुमूतये०—ऋ० सं० म० १ सू० ४ ऋ० १ । ऐन्द्र सानसिं०—ऋ० सं० म० १ सू० ८ ऋ० १ । य आनयत्परावतः०—ऋ० सं० म० ६ सू० ४९ ऋ० १ । रेवतीर्नः सधमादे०—ऋ० सं० म० १ सू० ३० ऋ० १३ ।