Skip to content
SarvaKosh
Back to the archive

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

by महर्षि ऐतरेय महिदास

Source: Aitareya Aranyakam with Vedic Accents & Commentary (origin)

Public domain in India · Report a copyright issue

DevanagariHindipublished304 pages

About this granth

The Aitareya Aranyaka (ऐतरेयारण्यकम्) is the forest-text of the Aitareya branch of the Rigveda, following the Aitareya Brahmana. Tradition credits its first three books to Mahidasa Aitareya. It deals with the Mahavrata day of the soma ritual, the recitations performed on it and their inner meaning. Chapters four to six of the second book form the Aitareya Upanishad, and the third book, the Samhita Upanishad, reflects on the forms of Vedic recitation.

The text is divided into five aranyakas, each split into adhyayas and khandas. This edition prints it with the Sanskrit commentary of Sayanacharya, who explains its ritual terms and Vedic words.

The scanned title page identifies it as number 38 of the Anandashrama Sanskrit Series, revised by Babashastri Phadke and published by Hari Narayan Apte from the Anandashrama press, Pune, in Shaka 1820 (1898). A list of the manuscripts used for the text precedes it. The copy has 304 pages.

Page 184Permalink

अध्या० ६ ख० १(२९)] ऐतरेयारण्यकम् । १७९

रोगादिजनितदुःखित्वम् । स्मृतिरनुभूतार्थवस्तुस्मरणम् । संकल्पोऽसमीचीनेऽपि वस्तुनि सम्यक्त्वेन कल्पनम् । क्रतुरवश्यं करिष्यामीत्यध्यवसायः । असुः प्राणादिजीवन-क्रियानिमित्ता वृत्तिः । कामोऽसंनिहितविषयाकाङ्क्षा । वशः स्त्रीव्यँतिकराद्यभि-लाषः । इतिशब्दः प्रदर्शनार्थः । इत्येवमाद्या अन्येऽपि सात्त्विकराजसतामसवृत्ति-भेदा बहवो द्रष्टव्याः । अत्र सर्वत्र किमेतद्वृत्त्युपाहितं चैतन्यमात्मेत्येवं संशयकोटयो योजनीयाः ।

इत्थं संशयमुपन्यस्य निर्णयं दर्शयति—

सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति, इति ।

“ येन वा पश्यति ” [ ऐ० आ० २ अ० ६ ख० १ ] इत्यादिना “ क्रतुरसुः कामो वशः ” इत्यन्तेन ग्रन्थेन यान्युपन्यस्तान्येतानि सर्वाण्यपि तत्तद्वृत्त्युपाहिद्वा-रोपलक्षितस्य प्रज्ञानस्य शुद्धचैतन्यस्य नामधेयानि संपद्यन्ते । प्रकृष्टं ज्ञानं प्रज्ञानम् । चैतन्यं हि स्वतो निर्मलत्वात्प्रकृष्टमेव । अधमोपाधिसंपर्कवशादपकर्षः प्रतीयते । यदा तूपाधिविशिष्टत्वं परित्यज्य तत्तदुपाधिभिरुपलक्षितं शाखाचन्द्रन्यायेन विविच्यते तदा-नीमुपाधिकृतस्यापकर्षस्याभावात्प्रकर्ष एव परिशिष्यते । तच्च प्रकृष्टं चैतन्यं सर्वेष्व-प्युक्तोपाधिष्वनुगतमिति कृत्वा तस्यैव मुख्यमात्मत्वमिति निर्णयः । उपाधिविशिष्टस्य नै मुख्यमात्मत्वं शुद्धचैतन्यस्यैव मुख्यमात्मत्वमित्ययमेव विवेको बृहदारण्यके—“ स एष इह प्रविष्टः ” [ बृह० १-४-७ ] इत्यादिना प्रविष्टं जीवात्मानं प्रकृत्यैवमा-म्नायते—“ तं न पश्यन्त्यकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति वदन्वाक्पश्यं-श्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव ” [ बृह० १-४-७ ] इति । अयमर्थः—देहे नखाग्रपर्यन्तं प्रविष्टं ज्ञानक्रियाशक्त्युपा-धिकं तमात्मानं विवेकिनः पुरुषाः स्वात्मतया न पश्यन्ति । हि यस्मात्स आत्मोपाधि-विशिष्टः कृत्स्नो न भवति । तस्मान्न मुख्यमात्मत्वम् । अकृत्स्नत्वमेव कुत इति चेत्तदु-च्यते । प्राणन्नेव वदनेन श्वासं कुर्वन्नेव प्राणोपाधिविशिष्टतया प्राणनामको भवति, न चासौ वागाद्युपाधिविशिष्टेष्वनुगच्छति । एवं वागादिष्वप्येकैकोपाधिना विशिष्ट इतरत्र नानुगच्छति । अभिवदनकाल एव वागुपाधिकः, रूपदर्शनकाल एव चक्षुरुपा-धिकः , एवमितरत्रापि । कथं तर्ह्यात्मनः कृत्स्नत्वमित्याकाङ्क्षायां प्राणवागाद्युपाधि-


* व्यतिकरः संबन्धः ।


१ क. ˚खिता । स्मृ˚ । २ घ. ङ. कामः सं˚ । ३ ग. घ. ङ. ˚व्यक्ताकारा˚ । ४ घ. ङ. ˚वृत्तयो विचक्षणैर्द्रष्ट˚ । ५ घ. ङ. ˚तद्वृदयपिहि˚ । ६ घ. ङ. ˚स्तानि तान्येव स˚ । ७ क. ख. तत्र प्र˚ । ८ घ. ङ. ˚प्युपाधि˚ । ९घ. ङ. प्रत्वेव˚। १० क. घ. ङ. ˚न्ति । य˚ । ११ क. ख. ˚व श्वा˚। १२ घ. ङ. नाभिगं˚।

Page 185Permalink

१८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-

वैशिष्ट्यस्य परित्यागे सति कृत्स्नत्वमित्ययमर्थो बृहदारण्यक ऐवाऽऽम्नातः— “आत्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति” [बृह० १ । ४ । ७] इति । ये वागाद्युपाधिषु चैतन्यविशेषास्ते सर्वेऽपि निरुपाधिक आत्मन्येवान्तर्भवन्ति । यथा जलपात्रगताः सूर्याः सर्वेऽपि तत्कल्पनाधिष्ठानभूते मुख्ये सूर्येऽन्तर्भवन्ति तद्वत् ।

तदेवं कोऽयमात्मेत्येतस्मिंस्त्वंपदार्थविचारे निरुपाधिकं साक्षिचैतन्यं प्रज्ञानशब्दाभिधेयमात्मेति निर्णयोऽभिहितः । अथ कतरः स आत्मेत्येतस्मिंस्तत्पदार्थविचारे निर्णयं दर्शयति—

एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च
पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषी-
त्येतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेत-
राणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भि-
ज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किंचेदं प्राणि
जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रम्, इति ।

ब्रह्मादिस्थावरान्तं यज्जगदस्ति तत्सर्वं प्रज्ञानेत्रम् । निरुपाधिकत्वेन प्रकृष्टा ज्ञप्तिः प्रज्ञा । नीयते सर्वं जगदनेनेति सृष्टिस्थितिप्रलयव्यवहाराणां मूलकारणं नेत्रम् । प्रज्ञैव नेत्रं यस्य जगतस्तत्प्रज्ञानेत्रम् । शेषजगतो मूलकारणभूतं यच्चैतन्यं तदेव कतरः स आत्मेत्येतस्मिंस्तत्पदार्थविचारे मुख्यात्मत्वेन निर्णेतव्यमिति तात्पर्यार्थः । एष ब्रह्मेत्यनेन पुंलिङ्गेन ब्रह्मशब्देन “हिरण्यगर्भः समवर्तताग्रे” [ऋ० सं० म० १० सू० १२१ ऋ० १] इत्यादिशास्त्रप्रसिद्धः प्रथमशरीरी विवक्षितः । तस्य शास्त्रप्रसिद्धिं द्योतयितुमेतच्छब्दः । इन्द्रो देवराजः । प्रजापतिः पूर्वोक्तेन्द्रियतदभिमानिदेवतात्मको विराड्देहः । सर्वे देवा अग्न्यादयः । पृथिव्यादीनि पञ्च महाभूतानि प्रसिद्धानि । इमानि पञ्च महाभूतानीत्येतस्य पृथिवीत्यारभ्येत्येतानीत्यन्तं विवरणम् । इमानि चान्यानि क्षुद्रैरल्पैर्मशकपिपीलिकादिदेहैर्मिश्राणि । इवशब्दोऽनर्थकः । बीजानि कारणानि । मनुष्यादिपिपीलिकान्ताः सर्वे देहाः स्वयं पञ्चभूतकार्यभूताः सन्तः सजातीयदेहान्तरहेतुत्वेन बीजशब्दाभिधेयाः । तेषां बीजानां नानाजातीयत्वमितराणि चेतराणीत्यनेन प्रतिज्ञायते । परस्परविलक्षणबहुभेदयुक्तानीत्यर्थः । अण्डजानीत्यादि प्रतिज्ञातमेव नानात्वं प्रपञ्च्यते । पक्षिसर्पादीन्यण्डजानि । जारुजानि जरायुजानि मनुष्यगवादीनि । क्रिमिदंशादीनि स्वेदजानि । तरुगुल्मादीन्युद्भिज्जानि । यथोक्तेष्वेव जरायुजानामश्वा गावः पुरुषा हस्तिन इत्यु-


१ घ. ङ. ॰क्ष्यपं । २ क ग. एवमान्ना॰ । ३ क. ह्येके सं। ग. ह्येतत्सर्व । ४ घ. ङ. ॰नि। ज॰।

Page 186Permalink

अध्या० ६ ख० १(२६)] ऐतरेयारण्यकम् । १८१

दाहृत्य प्रदर्शनम् । उक्तानामनुक्तानां च संग्रहोपसंग्रहार्थं यत्किंचेदं प्राणीत्यादि-
वाक्यम् ।
यदेतज्जगदुत्पत्तिस्थितिलयकारणत्वं चैतन्यस्य प्रज्ञानेत्रपदेन संगृह्योक्तं तदेव
विवृणोति—
प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा, इति ।
प्रज्ञाने निरुपाधिकचैतन्ये पूर्वोक्तं सर्वं जगत्प्रतिष्ठितं रज्ज्वां सर्पवदारोपितम् ।
अनेनोत्पत्तिहेतुत्वमुक्तम् । लोकः सर्व प्राणिसमूहः प्रज्ञानेत्रः । प्रज्ञा चैतन्यमेव नेत्रं
व्यवहारकारणं यस्यासौ प्रज्ञानेत्रः । अनेन स्थितिहेतुत्वमुक्तम् । प्रज्ञा चैतन्यं प्रतिष्ठा
लयस्थानम् । प्रतितिष्ठति विलीयतेऽत्रेति व्युत्पत्तेः । अनेन संहारहेतुत्वमुक्तम् ।
एतावता शास्त्रान्तरप्रसिद्धं जगज्जन्मस्थितिलयकारणत्वाख्यं ब्रह्मणस्तटस्थलक्षणमुक्तं
भवति । एवं तु लक्षणं तैत्तिरीया विस्पष्टमामनन्ति—"यतो वा इमानि भूतानि
जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म"
[ तै० ३ । १ । १ ] इति ।
तदेवं विचारद्वयेन तत्त्वंपदार्थौ शोधितौ । अथ महावाक्येन तयोरैक्यं दर्शयति—
प्रज्ञानं ब्रह्म, इति ।
"सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति" [ ऐ० आ० २ अ० ६ ख०
१ ] इतिवाक्येन देहेन्द्रियादिसाक्षिरूपं यत्प्रज्ञानं त्वंपदार्थरूपं निर्णीतं तदेवैष
ब्रह्मेत्यादिवाक्येन जगत्कारणतया निर्णीतं परं ब्रह्म । न चानयोरीषदपि भेदोऽस्ति ।
अहंप्रत्ययगम्यत्वाकारेण यदा विवक्ष्यते तदा जीव इत्युच्यते । यदा तु शास्त्रप्रति-
पाद्यत्वाकारो विवक्षितस्तदानीं ब्रह्मेत्यभिधीयते । अतो व्यवहारभेदमात्रं न तु तत्त्वतो
भेदोऽस्ति । न चैवं सति पुनरुक्तिप्रसङ्गः । अब्रह्मत्वपरोक्षत्वयोर्व्यावर्त्ययोर्भेदेन पदद्व-
योपयोगात् ।
एतच्च वाक्यवृत्तौ विस्पष्टमभिहितम्—
"प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः ।
अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥
इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदाभवेत् ।
अब्रह्मत्वं त्वमर्थस्य व्यावर्त्येत तदैव हि ॥


१ ग. संक्षेपेण संहारार्थे य॑ । २ घ. ङ. ॰णत्वेन चेतनस्य । ३ घ. ङ. सर्वज॑ । ४ घ. ङ. सर्पादिव॑ । ५ घ. ङ. ॰नेत्रे व्य॑ । ६ घ. ङ. ॰णत्वमु॑ । ७ क. ॰नं तत्त्वंप॑ । ८ घ. ङ. ॰षद्भेदो॑ ।

Page 187Permalink

१८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु ।
पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते” इति ॥

इत्थं चतुर्थाध्याये—“स जातो भूतान्यभिव्यैख्यत्” [ ऐ० आ० २ अ० ४ ख० ३ ] इत्यादिनाऽपवादप्रकरणेन संगृहीतमात्मतत्त्वमस्मिन्नध्याये तत्त्वंपदार्थवि-
चारमुखेन(ण) प्रपञ्चितम् । अथ तत्त्वज्ञानफलं दर्शयति—

स एतेन प्रज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्त्स्वर्गे
लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत्, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके षष्ठाध्याये
प्रथमः खण्डः ॥ १ ॥ ( २५ )
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके
षष्ठोऽध्यायः ॥ ६ ॥

यः पुमान् “प्रज्ञानं ब्रह्म” इत्येवं जानाति स पुमानेतेन प्रज्ञेनाऽऽत्मना चैत-
न्यस्वरूपेण स्वयमाविर्भवति^२। तदूर्ध्वं विदेहमुक्तिं प्रतिपद्यते । तन्मुक्तिप्रतिपादकम-
स्माल्लोकादित्यादिवाक्यं पूर्वस्मिन्पञ्चमाध्याये व्याख्यातम् । तस्य वाक्यस्य पुनरप्य-
त्रोक्तिर्विद्योपसंहारार्था । समभवदित्यभ्यासोऽध्यायसमाप्त्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके षष्ठाध्याये प्रथमः खण्डः ॥ १ ॥ ( २५ )

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म-
णारण्यकभाष्ये द्वितीयारण्यके षष्ठोऽध्यायः ॥ ६ ॥


अथ द्वितीयारण्यके सप्तमोऽध्यायः ।

तत्र प्रथमः खण्डः । ( षड्विंशः )

षष्ठे तत्त्वविद्यां परिसमाप्य सप्तमे शान्तिकरं मन्त्रं पठति—

वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म
एधि वेदस्य म आणी स्थः श्रुतं मे मा प्रहासीरनेनाधीते-


^१ ग. ङ. ॰वशिष्यते” । ^२ घ. ङ. ॰ति । अत ऊर्ध्वं ।

प्रथमः खण्डः ॥ १ ॥ ( २६ )

Page 188Permalink

अध्या० ७ ख० १(२६)] ऐतरेयारण्यकम्। १८३

नाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मा-
मवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके सप्तमाध्याये
प्रथमः खण्डः ॥ १ ॥ ( २६ )
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके
सप्तमोऽध्यायः ॥ ७ ॥
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यकं
समाप्तम् ॥ २ ॥

यथोक्ततत्त्वविद्याप्रतिपादकग्रन्थपाठे प्रवृत्ता मदीया वाक्सर्वदा मनसि प्रतिष्ठिता । मनसा यद्यच्छब्दजातं विवक्षितं तदेव पठति । मनश्च मदीयवाचि प्रतिष्ठितम् । यद्यद्विद्याप्रतिपादकत्वेन वक्तव्यं शब्दजातमस्ति तदेव मनसा विवक्ष्यते । एवमन्योन्यानुगृहीते वाङ्मनसे विद्यार्थं ग्रन्थं साकल्येनावधारयितुं शक्नुतः । मनसः सावधानत्वाभावे वागिन्द्रियं सुप्तोन्मत्तप्रलापादिवद्यत्किंचिदसंगतं ब्रूयात् । तथा च वाचः पाटवाभावे सति गद्गदरूपया वाचा विवक्षितं सर्वं यथावन्नोच्चार्यते । अतस्तयोरन्योन्यानुकूल्यमस्त्वित्येवं प्रार्थ्यते । आविःशब्देन स्वप्रकाशं ब्रह्मचैतन्यमुच्यते । प्रज्ञानशब्देन व्यवहृतत्वात्तस्याऽऽविर्भूतरूपत्वम् । तथाविध हे आत्मन्मे मदर्थमावीरेधि । अविद्यावरणापनयनेन प्रकटी भव । हे वाङ्मनसे मे मदर्थं वेदस्य यथोक्ततत्त्वविद्याप्रतिपादकस्य ग्रन्थस्याऽऽणी स्थः । विद्याया आनयनसमर्थे भवेताम् । मे श्रुतं मया श्रोत्रेणावगतं ग्रन्थार्थजातं मा प्रहासीन्मा परित्यजतु, विस्मृतं मा भूदित्यर्थः । अनेनाधीतेन विस्मरणरहितेन ग्रन्थेनाहोरात्रान्संदधामि संयोजयामि । अहनि रात्रौ चाऽऽलस्यं परित्यज्य निरन्तरं पठामीत्यर्थः । तस्मिन्पठिते ग्रन्थ ऋतं परमात्मभूतं वस्तु वदिष्यामि । विपरीतार्थवदनं कदाचिदपि मा भूदित्यर्थः । ऋतं मानसं, सत्यं वाचिकं, मनसा वस्तुतत्त्वं विचार्य वाचा वदिष्यामीत्यर्थः । तन्मया वक्ष्यमाणं ब्रह्मतत्त्वं मां शिष्यमवतु सम्यग्बोधेन पालयतु । तथा तद्ब्रह्मतत्त्वं वक्तारमाचार्यमवतु, बोधकत्वसामर्थ्यप्रदानेन पालयतु । पुनरप्यवतु मामित्याद्युक्तिः फलविषया । पूर्वं साधनकाले शिष्याचार्ययोः पालनं प्रार्थितमिदानीं फलकालेऽपि प्रार्थ्यते । तत्र शिष्य-


१ घ. ङ. ॰नसी वि॰ । २ ग. ॰त् । यथा वा॰ । ३ क. ख. ग. ॰चा सर्वं विवक्षितं य॰ । ४ घ. ङ. ॰विर्भावरू॰ । ५ घ. ङ. भवतः । ६ क. ख. घ. ङ. ग्रन्थं तदर्थं । ७ घ. ङ. ॰चिकं, आधिकं म॰ । ८ घ. ङ. ॰यैकाले शिष्याचार्ययोः पालनानीत्यर्थः । वां॰ । ९ घ. ङ. ॰उत्त्ववि॰ । १० क. ख. ग. ॰ते । शि॰ ।

Page 189Permalink

१८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[२द्वितीयारण्यकम्]

स्याविद्यातत्कार्यनिवृत्तिः फलम् । आर्यस्य तादृशशिष्यदर्शनेन विद्यासंप्रदायप्रवृत्ति-
प्रयुक्तः परितोषः फलम् । अनेन मन्त्रपाठेन विद्योत्पत्तेः पुरा विद्याप्रतिबन्धका
विघ्नाः परिह्रियन्ते । विद्योत्पत्तेरूर्ध्वमसंभावनाविपरीतभावनेोत्पादका विघ्नाः परिह्रि-
यन्ते । अवतु वक्तारमित्यभ्यासोऽध्यायसमाप्त्यर्थो द्वितीयारण्यकसमाप्त्यर्थश्च ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके सप्तमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २६ )

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म-
णारण्यककाण्डभाष्ये द्वितीयारण्यके सप्तमोऽध्यायः ॥ ७ ॥

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य वैदिकमार्गप्रवर्तकस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन सायणामात्येन
विरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यककाण्डे
द्वितीयारण्यकं समाप्तम् ॥ २ ॥

( आदितः समष्ट्यङ्काः—आर० २ अध्या० १२ ख० ४८ )


१ घ. ङ. ॰रः । तुरंगवदनो दयात्तरंगनयनाञ्चितः । उरगाधिपतत्सोमे गिरं गरुडवाहनः । इ° ।

Page 190Permalink

अथ तृतीयारण्यकम् ।

प्रथमोऽध्यायः ।
तत्र प्रथमः खण्डः ।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
प्राणविद्या मध्यमस्य ब्रह्मविद्योत्तमस्य च ।
पूर्वोक्ताऽधमस्याथ संहितोपास्तिरीर्यते$^१$ ॥ २ ॥

त्रिविधो विद्याधिकारी, उत्तमो मध्यमोऽधमश्च । सर्वस्मात्संसाराद्विरक्त एकाग्रचित्तः$^२$ सद्योमुक्तिकाम उत्तमस्तं प्रति “आत्मा वा इदमेक एवाग्र आसीत्” [ ऐ० आ० २ अ० ४ ख० १ ] इत्यादिना ब्रह्मविद्योक्ता । हिरण्यगर्भप्राप्तिद्वारा क्रममुक्तिकामो मध्यमस्तं प्रति “उक्थमुक्थम्” [ ऐ० आ० २ अ० १ ख० २ ] इत्यादिना प्राणविद्योक्ता । यस्तु द्विविधां मुक्तिमकामयमानः प्रजापश्वादिकमामुष्कामोऽधमस्तं प्रति संहितोपासनं तृतीयारण्यकेऽभिधीयते । तत्रोपासनं प्रतिजानीते—

अथातः संहिताया उपनिषत्, इति ।

अथ प्राणविद्याब्रह्मविद्ययोः कथनानन्तरं यतः कारणात्तच्चलया पाठवासनया युक्तस्य पाठसंबन्धरहितयोः प्राणब्रह्मविद्ययोश्चित्तं न प्रविशत्यतः कारणात्संहितायाः पाठसंबन्धिन्या उपनिषद्द्वि$^३$योच्यत इति शेषः । उपनिषण्णमस्यां विद्यायां प्रजापश्वादिफलमुपनिषत् ।

तामेतां विद्यां विधत्ते—

पृथिवी पूर्वरूपं द्यौरुत्तररूपं वायुः संहितेति माण्डूकेय
आकाशः संहितेत्यस्य माक्षव्यो वेदं$^४$यांचक्रे, इति ।

“अग्निमीळे” [ऋ० सं० म० १ सू० १ ऋ० १] इत्यत्राग्निमिति यो मकारः सोऽयं संहितायाः पूर्वरूपो वर्णः । ईळ इत्यत्र योऽयमीकारः सोऽयं संहिताया उत्तरो वर्णः । द्वयोर्वर्णयोर्नैरन्तर्येणोच्चारणं संहिता “पर संनिकर्षः संहिता” [ पा० सू० १ । १ ] इति सूत्रितत्वात् । एतासु पूर्वोत्तरवर्णतत्संहितासु भूलोकद्युलोकवायू$^५$नां दृष्टिः कर्तव्या । यद्यपि पृथिव्यादीनां प्रथमनिर्दिष्टत्वात्प्रतीकत्वं प्राप्तं तथाऽपि “एव-


१ घ. ङ. ॰स्तिरिष्यते । २ ख. ग. ॰चित्तोऽनघो मू॰ । ३ घ. ङ. ॰द्विचार्यत । ४ ग. ॰यंसंहि॰ । ५ क. ख. ॰वायुदृ॰ ।
२४

Page 191Permalink

१८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

मेतां संहितां वेद" [ऐ० आ० ३ अ० १ ख० १] इति संहिताया उपास्यत्वश्रवणात्पूर्ववर्णादीनां पृथिव्यादिदृष्ट्योपासनं गम्यते । यथा विष्णुदृष्ट्या शालग्रामोपास्तिस्तद्वत् । मण्डूकनाम्नो महर्षेः पुत्रो माण्डूकेयस्तस्य च माण्डूकेयस्य संहितायां वायुदृष्टिरित्येतन्मतम् । मक्षुनाम्नः कस्यचिन्महर्षेः पुत्रो माक्षव्यः । स चास्योपासनस्य संबन्धिन्यां संहितायामाकाशदृष्टिः कर्तव्येति वेदद्यांचक्रे विज्ञातवान् ।

माक्षव्यस्य महर्षेरभिप्रायं दर्शयति—

स हाविपरिहृतो मेने न मेऽस्य पुत्रेण समगादिति, इति ।

स ह सोऽपि वायुरविपरिहृतो विशेषेण परिहृतो न भवति । वायोराकाशवर्तित्वेनाऽऽकाश एवान्तर्भावात् । आकाशस्तु न वायावन्तर्भवति । वायुकारणत्वादधिकैव्याप्तित्वाच्च । अतोऽस्य मण्डूकस्य पुत्रेण सह मे मम न समगात् । दर्शनं न संगतं मदीयमतं नैकविधं<sup>२</sup> भवति । मन्मते वायोरन्तर्भावेन वाय्वाकाशोभयदृष्टिः संहितायां सिध्यति । तन्मते त्वाकाशस्यानन्तर्भूतत्वाद्वायुमात्रदृष्टिरेवातो मन्मतमेव श्रेष्ठमिति मेने निश्चितवान् । ततो वाय्वाकाशयोर्विकल्पेन ध्यानं न भवति किंतु वायुध्यानं पूर्वपक्ष आकाशध्यानं सिद्धान्त इत्यर्थः ।

इदानीं मतान्तरानुसारेण तयोस्तुल्यबलत्वमभिप्रेत्य विकल्पेन ध्यानं दर्शयति—

समाने वै तत्परिहृतो मेन इत्यागस्त्यः
समानं ह्येतद्भवति वायुश्चाऽऽकाशश्चेति, इति ।

अगस्त्यस्य पुत्र आगस्त्यो महर्षिरित्थं मेने निश्चितवान् । कथमिति तदुच्यते— समाने वै यदेतद्वायुः संहितेति माण्डूकेयस्य मतं यच्चाऽऽकाशः संहितेति माक्षव्यस्य मतं ते उभे अपि तुल्यबले एव । वायोराकाशवर्तित्वमप्रयोजकम् । नहि वस्तूनां स्वभावानुसारेण किंचिदुपासनं प्रवर्तते, किंतु वचनानुसारेण । वचनं तु वायुः संहितेति पक्ष आकाशः संहितेति पक्षे च समानम् । तत्तस्मात्कारणात्परिहृत आकाशपक्षे वायोरनन्तर्भावाद्व्रायुः परित्यक्तैश्च<sup>३</sup> । तथा सति वायुश्चाऽऽकाशश्चेत्येतन्मतद्वयं समानमेव भवति । तस्माद्विकल्पेन संहितायां वाय्वाकाशयोर्दृष्टिः कर्तव्येति तत्रै<sup>५</sup> मुख्यः<sup>४</sup> सिद्धान्तः ।

पूर्वोत्तरवर्णतत्संहितासु पृथिव्यादिध्यानं यदुक्तं सोऽयमुपासनस्य पूर्वो भागः, वक्ष्यमाणस्तूत्तरो भागः । तदुभयं बुद्धिसौकर्याय विभजते—

इत्यधिदैवतमथाध्यात्मम् , इति ।


१ क. ख. ॰कप्राप्तिं । २ ग. घ. ङ. ॰तं चैकविधं न भ॰ । ३ ग. ॰क्त एव । त॰ । ४ घ. ङ. ॰ति मुं॰ । ५ क. ख. ॰त्र सि॰ ।

Page 192Permalink

अध्या० १।ख० १] ऐतरेयारण्यकम्। १८७

इतिशब्दः पूर्वोक्तं “पृथिवी पूर्वरूपम्” इत्यादिकं परामृशति । तच्चाधिदैवतं पृथिव्यादिकं दैवतमधिकृत्य वर्तमानमुपासनम् । अथानन्तरमात्मानं वागादिसंघातरूपमधिकृत्य वर्तत इत्यध्यात्ममुपासनमुच्यत इति शेषः ।

तदेतदुपासनं विधत्ते—

वाक्पूर्वरूपं मन उत्तररूपं प्राणः संहितेति शूरवीरो माण्डूकेयः, इति ।

पूर्ववर्णे वाग्दृष्टिरुत्तरवर्णे मनोदृष्टिस्तदुभयसंश्लेषे प्राणदृष्टिरित्येतन्माण्डूकेयस्य मतम् । स च माण्डूकेयः शूरवीरः । उपासनायां निरन्तरं प्रवर्तमानाः शूरास्तैः पुरुषैर्बहिः प्रवर्तमानानामिन्द्रियाणां जितत्वात् । तेषु शूरेषु वीरोऽत्यन्तपराक्रमयुक्तः । उपास्यवस्तुसाक्षात्कारवानित्यर्थः ।

अत्रैव मतान्तरमाह—

अथ हास्य पुत्र आह ज्येष्ठो मनः पूर्वरूपं वागुत्तररूपं
मनसा वा अग्रे संकल्पयत्यथ वाचा व्याहरति तस्मान्मन
एव पूर्वरूपं वागुत्तररूपं प्राणस्त्वेव संहितेति, इति ।

अथ माण्डूकेयोक्त्यनन्तरमस्य माण्डूकेयस्य ज्येष्ठः पुत्रो मनतो वाचश्च पूर्वोक्तविपर्ययमाह । तत्रोपपत्तिं चावोचत् । लोके विवक्षुः सर्वः पुरुष इमं वक्ष्यामीत्येवं प्रथमं संकल्पयति पश्चादुच्चारयति तस्माद्वस्तुतत्वमनुसृत्य पूर्ववर्णे मनोदृष्टिरुत्तरवर्णे वाग्दृष्टिश्च कर्तव्या । या तु वर्णयोः संहिता तस्यां पूर्वोक्तः प्राण एव ध्यातव्यो न तु तत्र कश्चिन्मतभेदोऽस्तीत्येवं ज्येष्ठः पुत्र उक्तवान् ।

एवं सति सोपपत्तिकत्वादयमेव सिद्धान्त इति प्रतिभासते । तत्र श्रुतिर्मतद्वयस्य समानत्वमभिप्रेत्य विकल्पमेव सिद्धान्तयति—

समानमेतयोरत्र पितुश्च पुत्रस्य च, इति ।

न ह्युपासना वस्तुतत्त्वमपेक्षते^१ किं तर्हि यथावचनमनुष्ठेयेति^२ न्यायः पूर्वमेवोक्तः । तस्माद्यः पिता माण्डूकेयो यश्च तदीयो ज्येष्ठः पुत्र एनयोरुभयोर्मतं समानम् । तस्मान्मनोदृष्टिवाग्दृष्ट्योः पूर्वोत्तरभावित्वं विकल्प्यते^४ ।

अधिदैवतमध्यात्मं च यदुपासनमुक्तं तत्प्रशंसति—

स एषोऽश्वरथः प्रष्टिवाहनो मनोवाक्प्राणसंहतः, इति ।

यः पूर्वोक्तपृथिव्यादिध्यानेनरूपः^५ फलहेतुः स एषोऽश्वयुक्तरथसमानः । स च प्रष्टिवाहनः, प्रष्ठयोः पार्श्वयोर्युज्यमानौ द्वावश्वौ वाहनं यस्य रथस्य सोऽयं प्रष्टिवा-


^१ क. ख. ॰त्वमुपासनं किं ।
^२ घ. ङ. ॰नुष्ठिते न्या॰ ।
^३ क. ख. ॰ष्टेयमिति ।
^४ क. ख. घ. ङ. विकल्पते ।
^५ घ. ङ. ॰नफले हे॰ ।

Page 193Permalink

१८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३तृतीयारण्यके-

हनः । ईषयोर्दीर्घकाष्ठयोर्मध्ये कंचित्प्रबलमश्वं संयोज्य तयोरीषयोर्बहिरुभयोः पार्श्वयोर्द्वावश्वौ मध्यमाश्वस्यादान्तस्य नियामकौ संयोज्येते सोऽयमश्वत्रयोपेतो देवानां रथः । तथा तैत्तिरीया वाजपेयप्रकरणे समामनन्ति—“पृष्ठिवाहिनं युनक्ति । पृष्ठिवाही वै देवरथः । देवरथमेवास्मै युनक्ति ” इति । यथा देवरथोऽश्वत्रयेण युक्त एवमयमप्युपास्तिरथो मनोवाक्प्राणैस्त्रिभिर्ध्येयविशेषैः संयुक्तः, तस्मात्पृष्ठिवाहिरथवत्सहसा फलप्रापणे समर्थ इत्यर्थः² ।

इदानीं फलं दर्शयति—

स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्य-
शसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।

यः पुमानेवमुक्तप्रकारेण विहितां “पृथिवी पूर्वरूपम्” इत्यादिकां देवतारूपां संहितां वेदोपास्ते³। यद्यपि विदिधातुः प्रमाणजन्यज्ञानवाची तथाऽप्युपास्तिक्रियामन्तरेण फलासंभवान्मानसत्वसाम्येन तां क्रियामुपलक्षयति । स उपासकः प्रजादिभिः संधीयते संयोज्यते । प्रजा पुत्रपौत्रादिरूपा । पशवो गवाश्वादयः । यशो धनदानादिकीर्तिः । ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः । तदेतत्सर्वं चित्रान्यायेन प्रतिबन्धाभावे सत्यैहिकं फलम् । “चित्रया यजेत पशुकामः” इत्यत्र पशुसंपादकदृष्टप्रयत्नसद्भावे सति पशुप्राप्तिरैहिकी, अन्यथाऽऽमुष्मिकीति पूर्वमीमांसायां निर्णीतम् । तद्वदत्रापि प्रजादिफलमैहिकमामुष्मिकं चेत्यनियतम् । स्वर्गस्त्वामुष्मिक एव । सर्वमायुरेतीत्यनेनापमृत्युराहित्यं विवक्षितम् ।

उक्तोपासनायाः सांप्रदायिकत्वं दर्शयति—

इति नु माण्डूकेयानाम् , इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये
प्रथमः खण्डः ॥ १ ॥

इत्येवमुक्ता—“पृथिवी पूर्वरूपम्” [ ऐ० आ० ३ अ० १ ख० १ ] इत्याद्युपासना मण्डूकारव्यस्य महर्षेः पुत्राणां संप्रदायाद्भूमावागता ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये तृतीयारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥


¹ घ. ङ. °जसनेय° । ² घ. ङ. °र्थः । तदिदा° । ³ क. ख. विदिर्धातुः । ⁴ घ. ङ. °वाद° ।

Page 194Permalink

अध्या ० १ । ख ० २] ऐतरेयारण्यकम् । १८९

अथ द्वितीयः खण्डः ।

संप्रदायान्तरोक्तिपुरःसरमुपासनान्तरं प्रतिजानीते—

अथ शाकल्यस्य, इति ।

माण्डूकेयाभिमतोपासनकथनानन्तरं शाकल्यस्याभिमतोपासनमुच्यत इति शेषः । तत्रोपासनीयं स्वरूपं दर्शयति—

पृथिवी पूर्वरूपं द्यौरुत्तररूपं वृष्टिः संधिः पर्जन्यः संधाता, इति ।

पूर्वोत्तरवर्णयोर्भूलोकद्युलोकध्यानम् । संधिवर्णयोः संहिता तत्र वृष्टिध्यानम् । संहिताया हेतुः संधाता । तद्यथा—"इको यणचि" [ पा० सू० अ० ६ पा० १ सू० ७७ ] इति सूत्र इकारस्य स्थाने यकारादेशविधावचपरत्वं निमित्तम् । तादृशे संधिनिमित्ते पर्जन्यध्यानं कर्तव्यम् ।

वृष्टेः संधित्वं पर्जन्यस्य संधातृत्वं च लोकव्यवहारेण विशदयति—

तदुतापि यत्रैतद्बलवद्नूद्वृष्टन्संदधदहोरात्रे वर्षति, इति ।

उतापीति निपातसमुदायः समुच्चयार्थी लोकप्रसिद्धिं समुच्चिनोति । तत्तस्मिन्वृष्टिः संधिः पर्जन्यः संधातेत्यस्मिन्नर्थे लोकप्रसिद्धिरपि विद्यत इत्यर्थः । काऽसौ प्रसिद्धिरिति साऽभिधीयते—यत्र यदैतत्पर्जन्यस्वरूपं बलवदत्यन्तप्रबलं भूत्वाऽनूद्ध्वङ्कुर्वन्नग्रहणं वृष्ट्युपसंहारमकुर्वन्न(द)होरात्रे संदधद्रात्रावहनि च विच्छेदाभावलक्षणं संधानं कुर्वद्वर्षति तदानीं वृष्टेर्द्युलोकभूलोकसंधित्वं पर्जन्यस्य संधातृत्वं च विस्पष्टं प्रतिभासत इति शेषः ।

न केवलं प्रतिभासः किंतु लौकिकानामुक्तिरप्यस्तीति दर्शयति—

द्यावापृथिव्यौ समधातामित्युताप्याहुः, इति ।

अनया पर्जन्यसंपादितया निरन्तरतीव्रवृष्ट्या द्यौश्च पृथिवी चेत्येते उभे संधानं परस्परैक्यं प्राप्तवत्यावित्येवं वाक्यमपि लौकिका आहुः । अतोऽनुभवालौकिकोक्त्या च वृष्टेः संधित्वं पर्जन्यस्य संधातृत्वं च प्रसिद्धम् ।

बुद्धिसौकर्यार्थमुक्तवक्ष्यमाणावर्थो विभज्य दर्शयति—

इती न्वधिदैवतमथाध्यात्मम्, इति ।

इति नूक्तप्रकारमेव पृथिव्यादिकमित्यर्थः ।

पृथिव्यादिदेवतानामिव स्वशरीरावयवानामपि ध्यानं दर्शयति—

पुरुषो ह वा अयं सर्व आनन्दं द्वे विदले भवत इत्याहुस्तस्ये-


१ ग. ॰र्वन्वर्षं । २ क. ख. ङ. इति ।

Page 195Permalink
१९०श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३तृतीयारण्यके-

दमेव पृथिव्या रूपमिदं दिवस्तत्रायमन्तरेणाऽऽकाशो यथाऽसौ द्यावापृथिव्यावन्तरेणाऽऽकाशस्तस्मिन्हस्मिन्नाकाशे प्राण आयत्तो यथाऽमुष्मिन्नाकाशे वायुरायत्तो यथाऽमूनि त्रीणि ज्योतींष्येवमिमानि पुरुषे त्रीणि ज्योतींषि, इति ।

लोके यः पुरुषो विद्यते स सर्वोऽप्याण्डमण्डसदृशम् । वर्णविकारश्छान्दसः । यथा ब्रह्माण्डस्याधः कपालमूर्ध्वं कपालं चेति द्वे विदले द्वौ परस्परैविपरीतभागौ, तथा पुरुषेऽपि पादावारभ्याधरोष्ठपर्यन्तमेकं विदलमुत्तरोष्ठमारभ्य मूर्धपर्यन्तमपरं विदलं यथा भिन्नस्य वेणोर्दलद्वयं तद्वत् । विदले इति बकारश्छान्दसः । इत्येवमण्डसादृश्यमभिज्ञाः पुरुषा आहुः । तस्य दलद्वयोपेतस्य शरीरस्येदमेवाधरोष्ठपर्यन्तं पृथिव्याः स्वरूपम् । इदं तूत्तरोष्ठादिकं दिवः स्वरूपम् । तत्र तयोरधरोत्तरदलयोरन्तरेण मध्येऽयमाकाशोऽस्माभिर्मुखे दृश्यमानं छिद्रं वर्तते, यथा द्यावापृथिव्योर्मध्य आकाशस्तद्वत् । तस्मिन्हस्मिन्पूर्वोक्त एव दृश्यमाने मुखच्छिद्रे प्राण आश्रितः । यथा बाह्ये प्रसिद्धाकाशे वायुराश्रितस्तद्वत् । यथा च बाह्ये ज्योतिस्त्रयमेवं शरीरेऽपि ज्योतिस्त्रयमस्ति । अनेन प्रकारेण शरीरस्याधरोत्तरभागौ पृथिवीरूपेण द्युलोकरूपेण च ध्यातव्यौ । वायुश्च प्राणरूपेण ध्येयः । ज्योतिस्त्रयं च बहिर्वदन्तरपि ध्येयमित्यर्थः ।

तच्च त्रयं दर्शयति—

यथाऽसौ दिव्यादित्य एवमिदं शिरसि चक्षुर्यथाऽसावन्तरिक्षे विद्युदेवमिदमात्मनि हृदयं यथाऽयमग्निः पृथिव्यामेवमिदमुपस्थे रेतः, इति ।

लोकत्रयगतादित्यविद्युदग्निवच्चक्षुर्हृदयरेतांसि द्रष्टव्यानि ।

आध्यात्मिकमुपासनं प्रतिपाद्योपसंहरति—

एवमु ह स्म सर्वलोकमात्मानमनुविधायाऽऽहेदमेव पृथिव्या रूपमिदं दिवः, इति ।

उक्तेनैव प्रकारेण लोकत्रयसदृशं पुरुषशरीरमनुक्रमेण संपाद्येदमेवाधरोष्ठपर्यन्तं पृथिव्याः स्वरूपमिदं तूत्तरोष्ठादिकं दिवः स्वरूपमित्येवं शाकल्य आह ।

उपासनस्य फलं दर्शयति—

स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥


१ क. ˚स्परावि˚ । २ ग. ˚रमथ उपरितनभा˚ ।

Page 196Permalink

अध्या० १ ख० ३] ऐतरेयारण्यकम् । १९१

पूर्ववद्व्याख्येयम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये तृतीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥


अथ तृतीयः खण्डः ।


उपासनान्तरं प्रतिजानीते—
अथातो निर्भुजप्रवादाः, इति ।
अथ केवलसंहितोपासनोक्त्यनन्तरम् । यतः पाठकानां संहितापाठानन्तरं पद-
क्रमौ पठ्यमानौ १ तु संधिसद्भावतः कारणाद्निर्भुजप्रवादाः संहितोपासका महर्षयः
संहितायाः पदस्य क्रमस्य च सहोपासनं प्राहुरिति शेषः । निर्भुजशब्दः संहिता-
वाचीत्यभिधीयते । तन्निर्भुजं प्रकर्षेण वदन्ति ध्येयदेवतासहितं २ कथयन्तीति निर्भु-
जप्रवादाः ।

उपास्यवस्तुनः स्वरूपं दर्शयति—
पृथिव्यायतनं निर्भुजं दिव्यायतनं प्रतृ-
ण्णमन्तरिक्षायतनमुभयमन्तरेण, इति ।

यथा निर्भुजशब्दः संहितावाचीत्यभिधास्यते तथा प्रतृण्णशब्दः पदवाची, उभय-
मन्तरेणेत्यनेन क्रमो विवक्षित इत्यप्यभिधास्यते । तत्र यन्निर्भुजं संहितारूपं तत्पृथिव्यायतनं पृथिवीमाश्रित्य वर्तते पृथिवीरूपत्वेन ध्यायेदित्यर्थः । तथा पदस्य द्युलोक-
रूपत्वं क्रमस्यान्तरिक्षरूपत्वं च ध्यायेत् ३ ।

यथोक्तपृथिव्यादिरूपनिर्भुजादिध्यानं प्रशंसितुमुपासकस्य सामर्थ्यं दर्शयति—
अथ यद्येनं निर्भुजं ब्रुवन्तमुपवदेदच्योष्ठाऽवराभ्यां
स्थानाभ्यामित्येनं ब्रूयादथ यद्येनं प्रतृण्णं ब्रुवन्तमुपव-
देदच्योष्ठा उत्तराभ्यां स्थानाभ्यामित्येनं ब्रूयाद्यस्त्वे-
वोभयमन्तरेणाऽऽह तस्य नास्त्युपवादः, इति ।

अथोपासनानन्तरं निर्भुजं ब्रुवन्तं संहितामधीयानमेनमुपासकं यद्यन्यः कश्चि-
दुपवदेदुपासकेन पठ्यमानायां संहितायां स्वरवर्णादिवैकल्यदोषमुद्भावयेत् । तदा-
नीमेनं दोषोद्भावकमयमुपासक एवं ब्रूयात्—हे उपवादिन्नवराभ्यामधोवर्तिभ्यां
स्थानाभ्यां पृथिव्यन्तरिक्षलोकाभ्यामच्योष्ठा त्वं प्रच्युतोऽसीति । युक्तं चैतदुपास-


१ घ. ङ. 'नौ बुद्धिस्था' । २ घ. ङ. 'न्ति पदक्रमयोः संहितां क' । ३ ग. ङ. 'येदितिष्ट' ।

Page 197Permalink

१९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३तृतीयारण्यके-

कस्य वचनम् । संहितायाः पृथिवीरूपत्वध्यानेन सर्वदोषपरिहारात् । अतो निर्दोषायां
संहितायां दोषमुद्भावयितुः पृथिवीलोकात्तत्सहभाविनोऽन्तरिक्षलोकाच्च प्रच्युतिर्भ-
वति । अथशब्दः पूर्वोक्तवैलक्षण्यार्थः । संहितायां दोषमनुक्त्वा प्रतृण्णं ब्रुवन्तं पदम-
धीयानमेनमुपासकं यदि कश्चिदुपवदेत् । अधीयमाने पदे दोषोद्भावनमुपवादः ।
तदानीमेनमुपवादिनं प्रत्युपासक उत्तराभ्यां स्थानाभ्यामन्तरिक्षद्युलोकाभ्याम-
च्योष्ठा प्रच्युतोऽसीत्येवं ब्रूयात् । यस्तूपासक उभयमन्तरेणाऽऽह क्रममधीते
तस्योपासकस्योपवादैः परेणोद्भावयितव्यः क्रमविषये दोषो नास्त्येव । संहितायां
पदे च भ्रान्तदृष्ट्या दोषः संभाव्यते । तथा हि—" अग्निमीळे " [ ऋ० सं० म० १
सू० १ ऋ० १ ] इत्यस्यां संहितायामुत्तरपदगत ईकारः स्वरितः । एकारः प्रचयः ।
पदकाले तु तदुभयमनुदात्तम् । तथा सति पदवासनावासितस्य कस्यचिच्छ्रद्धाजडस्य
संहितायां स्वरअन्यथात्वभ्रान्तिर्हृदियात् । तथा संहितावासनावासितस्य श्रद्धाजडस्य
पदच्छेदकाले स्वरअन्यथात्वँभ्रान्तिः । क्रमकाले तु नोक्तभ्रमद्वयमस्ति, द्विविधस्वरस्य
पठ्यमानत्वात् । अग्निमित्यनेन पूर्वपदेन सह संहितायामीळ इति पदे स्वरितप्रचयौ
पठ्येते । पुरोहितमित्यनेनोत्तरपदेन सह संहितायामनुदात्तद्वयं पठ्येते । तस्मात्क्रमे
स्वरअन्यथात्वभ्रमो नोदेति । कथं चिदन्यथात्वेऽपि देवताध्यानेन दोषः समाधीयते ।
तस्मादुपासनं प्रशस्तमित्यर्थः ।

निर्भुजादिशब्दानां विवक्षितार्थे लोकप्रसिद्ध्यभावाच्छ्रुतिरेव तमर्थं दर्शयति—

यद्वि संधिं विवर्तयति तन्निर्भुजस्य रूपमथ
यच्छुद्धे अक्षरे अभिव्याहरति तत्प्रतृण्णस्याथ
उ एवोभयमन्तरेणोभयं व्याप्तं भवति, इति ।

यदुच्चारणं संधिं पदयोरुभयोर्त्यन्तं संनिकर्षं विवर्तयति विशेषेण संपादयति
तदुच्चारणं निर्भुजशब्दार्थस्य स्वरूपम् । निर्दिष्टौ भुजसदृशौ पूर्वोत्तरशब्दौ यस्मिन्संहि-
तारूप उच्चारणे तदुच्चारणं निर्भुजम् । अथशब्दः पूर्ववैलक्षण्यार्थः । शुद्धे विका-
ररहिते पूर्वोत्तरे उभे अक्षरे अभिव्याहरति स्पष्टमुच्चारयतीति यदस्ति तत्प्रतृण्ण-
शब्दाभिधेयस्य पदच्छेदस्य स्वरूपम् । तद्यथा—" इषे त्वोर्जे त्वा " [ तै० सं० १
। १ । १ ] इत्यत्र योऽयमोकारः सोऽयं संहितास्वरूपः । यदा त्वाकारान्तं त्वेति
पदमूकारादिकमूर्ज इत्यादिपदमुच्चारयति तदानीमाकार ऊकारश्चेत्युभे अक्षरे शुद्धे
भवतः । तदानीं संनिकर्षरूपायाः संहिताया विच्छिन्नत्वात् । विच्छेदस्य च हिंसावाचिना
प्रतृण्णशब्देन विच्छिन्नं पदमभिधीयते । यदेतत्प्रतृण्णस्य स्वरूपं तदेतदर्थं उ प्रथम-


१ घ. ङ. ॰तायां पृ॰ । २ ग. ॰वादो न प॰ । ३ घ. ङ. ॰हृदीया॰ । ४ क. ख. ग. ॰त्वभ्रमः । क॰ । ५ क. ख. ॰ति । यथा कं॰ । ६ घ. ङ. ॰प्र एव प्र॰ ।

Page 198Permalink

अध्या० १।ख० ३] ऐतरेयारण्यकम् । १९३

भाष्येव । सिद्धे पदस्य स्वरूपे पश्चात्संहिता प्रवर्तते, संहितायाः संधीयमानपदद्वयधर्म-
त्वेन पदपूर्वकत्वस्यावश्यंभावात् । येन क्रमेण संहिता पदं चेत्युभयं व्याप्तं भवति
सोऽयं क्रम उभयमध्यवर्तित्वादुभयमन्तरेणेत्युच्यते ।
प्रकारान्तरेणोपासनप्रशंसार्थमुपासकस्य काम्यं संहिताद्यध्ययनं विधत्ते—
अन्नाद्यकामो निर्भुजं ब्रूयात्स्वर्गकामः
प्रतृण्णमुभयकाम उभयमन्तरेण, इति ।
संहिताद्यध्ययनेरन्नाद्यादिसिद्धिरूपासकस्य भवतीत्युक्ते सत्युपासनमेव प्रशस्तं भवति ।
यथोक्तफलविघ्नकारिणं शत्रुं शापेन विनाशयितुं शापरूपं मन्त्रं दर्शयति—
अथ यद्येनं निर्भुजं ब्रुवन्तं पर उपवदेत्पृथिवीं
देवतामारः पृथिवी त्वा देवता रिष्यतीत्येनं ब्रूया-
दथ यद्येनं प्रतृण्णं ब्रुवन्तं पर उपवदेद्दिवं देवता-
मारो द्यौस्त्वा देवता रिष्यतीत्येनं ब्रूयादथ यद्येनमु-
भयमन्तरेण ब्रुवन्तं पर उपवदेदन्तरिक्षं देवतामा-
रोऽन्तरिक्षं त्वा देवता रिष्यतीत्येनं ब्रूयात्, इति ।
अयमुपासकोऽन्नाद्यकामः सन्यदा संहितामधीते तदानीं परः शत्रुरेतस्य फलविघ्ना-
र्थमेनमुपवदेदधीयमानायां संहितायां विद्यमानमविद्यमानं वा दोषमुद्भावयेत्तदानीमु-
पासकः पृथिवीमित्यादिमन्त्रेण तं शत्रुं शपेत् । मन्त्रस्य चायमर्थः—हे शत्रो त्वं
संहितारूपां पृथिवीं देवतां दूषयितुमारः प्राप्तवानसि । अतः सा पृथिवी देवता
त्वां रिष्यति हिनस्तीति । एवमुत्तरयोरपि पर्याययोर्योज्यम् ।
अस्योपासकस्य शत्रुं सामर्थ्यं दर्शयति—
यथा तु कथा च ब्रुवन्त्वाऽब्रुवन्तं वा
ब्रूयादभ्याशमेव यत्तथा स्यात्, इति ।
ब्रुवन्नित्येतदपि द्वितीयान्तत्वेन परिणेतव्यम् । ब्रुवन्तं दोषाभिधायिनमब्रुवन्तं
दोषोक्तिरहितं वा वैरिणं प्रति यथा तु कथा च येन केनापि प्रकारेण ब्रूयादुपा-
सकः शपेत् । तदानीं यदुपासकेनोक्तं तदभ्याशमेव क्षिप्रमेव तथा स्यात् । तेनैव
प्रकारेण शत्रौ पर्यवस्येत् ।
यदा शत्रुब्राह्मणस्तदा विशेषं दर्शयति—
न त्वेवान्यत्कुशलाद्ब्राह्मणं ब्रूयात्, इति ।


१ ग. ॰ताध्य॰ । २ घ. ङ. ॰मुत्पादये॰ । ३ घ. ङ. ॰न्त्रस्याय॰ । ४ क. ख. ॰तास्वरू॰ । ५ क. ख. घ. ङ. ॰थिवीदे॰ । ६ घ. ङ. ॰वतायां दू॰ । ७ ग. ॰तः पृ॰ । ८ घ. ङ. त्वा ।
२५

Page 199Permalink

१९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

दोषोद्भावकः शत्रुर्यदि ब्राह्मणस्तं प्रति कुशलादन्यन्नैव ब्रूयात्, मदीयसं-
हितादौ दोषोद्भावनं तुभ्यं हितं न भवत्यतो दोषोक्तिं परित्यज्य त्वं सुखेन तिष्ठेत्येवं
*कुशलं ब्रूयात् । देवता रिष्यतीत्येतादृशं शापं न ब्रूयात् ।

कचिद्ब्राह्मणेऽपि शापमभ्यनुजानाति—

अतिद्युघ्न एव ब्राह्मणं ब्रूयात्, इति ।

अतिशयितं द्युम्नं धनमतिद्युम्नं तस्मिन्नेव विषये विघातकं शत्रुं ब्राह्मणं शपेन्न त्वल्पे विषये ।

इदानीं माण्डूकेयस्य महर्षेर्मतं दर्शयति—

नातिद्युघ्ने चन ब्राह्मणं ब्रूयान्नमो अस्तु ब्राह्म-
णेभ्य इति ह स्माऽऽह शूरवीरो माण्डूकेयः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये
तृतीयः खण्डः ॥ ३ ॥

चनशब्दोऽप्यर्थः । अतिद्युघ्नेऽपि महाधनविषयेऽपि विरोधिनं ब्राह्मणं न ब्रूयान्न शपेत्किं तु ब्राह्मणेभ्यो नमोऽस्त्वित्येतावदेव ब्रूयात् । तदेतन्महर्षेर्मतम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये तृतीयारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥


अथ चतुर्थः खण्डः ।

पुनरप्यन्यदुपासनं प्रतिजानीते—

अथातोऽनुव्याहाराः, इति ।

अथ निर्भुजादिध्यानकथनानन्तरं यतो दोषवादिनः शत्रोः शापमन्तरेण स्वफलसि-
द्धिर्नास्ति । अतः कारणादनुव्याहाराः परकीयदोषोक्तिमनु स्वस्य व्याहाराः शाप-
रूपं वचनं येषां प्राणोपासकानां तेऽनुव्याहारा महर्षय उपासनं प्राहुरिति शेषः ।

तदुपासनं विधत्ते—

प्राणो वंश इति विद्यात्, इति ।

यथा लोके प्रौढो वंशो गृहस्य धारक एवमयं देहगृहस्य धारकत्वेन वंशसदृशः
प्राणवायुः संहितातस्वरूप इत्येवं ध्यायेत् । अत्र प्रकरणवशात्संहितेति लभ्यते ।


* कुशलमित्यस्य स्थाने क. पुस्तके वचनमिति बर्हिलिखितः पाठः।
१ घ. ङ. °ब्रूयो ब्रा°। २ घ. ङ. दद्यात् । ३ क. ख. ॰हस्याऽऽधा° । ४ घ ङ. तत्र ।

Page 200Permalink

अध्या० १।ख० ४] ऐतरेयारण्यकम् । १९५

अस्मिन्प्राणोपासने दोषवादी शत्रुरुपासकेन शप्तव्य इत्येतद्दर्शयति—

स य एनं प्राणवंशमुपवदेच्छक्नुवन्चेन्मन्येत प्राणं
वंशं समधा३म्, प्राणं मा वंशं संदधतं न शक्रोर्षी-
त्याह प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात्, इति ।

स यो ब्राह्मणोऽन्यो वा यः कोऽपि शत्रुरेनमुपासकं प्राणवंशध्यानेन तदात्मक-
मुपवदेत्प्राणं समाधातुं न शक्नोषीत्येवं दूषयेत् । तदानीमयमुपासको द्विविधः शक्तोऽ-
शक्तश्च तयोर्मध्ये यद्ययं शक्नुवन्नेवास्मीति मन्येत तदानीं प्राणमित्यादिना मन्त्रेणैनं
शत्रुं शपेत् । तस्य मन्त्रस्यायमर्थः । अहमुपासको वंशसदृशं प्राणं समधां सम्यक्-
चित्ते धारितवानस्मि । तथा सति प्राणरूपो यो वंशस्तं वंशं संदधतं सम्यग्ध्यानेन
धारयन्तं मां प्रति न शक्नोषि धारयितुं त्वमिति भवानाह । तस्मात्कारणाद्वंशस्था-
नीयः प्राणस्त्वां हास्यति परित्यक्ष्यति ततो मरिष्यसीति ।

अशक्तस्योपासकस्य शापमन्त्रे पाठान्तरं दर्शयति—

अथ चेदशक्नुवन्तं मन्येत प्राणं वंशं समधित्सिषन्तं नाशक्रः
संधातुं प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात्, इति ।

यद्ययमुपासको ध्याने शक्तिरहितमात्मानं मन्येत तदानीमनेन मन्त्रेण शपेत् । तस्य
मन्त्रस्यायमर्थः । अहमुपासको वंशरूपं प्राणं सम्यग्ध्यानेन धारयितुमिच्छामि तादृश-
मिच्छन्तं मां प्रति संधातुं सम्यग्ध्यानेन धारयितुं नाशको न शक्नोषीत्येवं भवानाह
तस्माद्वंशरूपः प्राणस्त्वां परित्यक्ष्यतीति ।

पूर्ववदत्रोपासकस्य सामर्थ्यं दर्शयति—

यथा तु कथा च ब्रुवन्वाऽब्रुवन्तं वा ब्रूयादभ्या-
शमेव यत्तथा स्यान्न त्वेवान्यत्कुशलाद्ब्राह्मणं
ब्रूयादतिधुम्न एव ब्राह्मणं ब्रूयान्नातिधुम्ने च-
न ब्राह्मणं ब्रूयान्नमो अस्तु ब्राह्मणेभ्य इति
ह स्माऽऽह शूरवीरो माण्डूकेयः, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये
चतुर्थः खण्डः ॥ ४ ॥

पूर्वव्याख्येयम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये
तृतीयारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥


१ क. ख. शक्तोऽस्मीत्ये ।

Page 201Permalink

१९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

अथ पञ्चमः खण्डः ।

उक्तासु वक्ष्यमाणासु च संहितोपासनासु सर्वासु श्रोतॄबुद्धि^१समाधानार्थमुपास्यविषयं सम्यक्परिशोधयितुं प्रस्तौति—

अथ खल्वाहुर्निर्भुजवक्त्राः, इति ।

अथ कासां चित्संहितोपासनानां कथनानन्तरं निर्भुजशब्दाभिधेया संहिता वक्त्रे मुखे येषां संहितोपासकानां ते महर्षयो निर्भुजवक्त्रास्ते च विषयशोधनार्थं वक्ष्यमाणं वाक्यमाहुः ।

स खलु तदीयं वाक्यं दर्शयति—

पूर्वमक्षरं पूर्वरूपमुत्तरमुत्तररूपं योऽवकाशः
पूर्वरूपोत्तररूपे अन्तरेण सा संहितेति, इति ।

अस्याः^२ संहितोपनिषदः प्रारम्भे “पृथिवी पूर्वरूपं द्यौरुत्तररूपम्” [ ऐ० आ० ३ अ० १ ख० २ ] इत्यादौ पूर्वरूपमित्यनेन पूर्वमक्षरं विवक्षितम् । उत्तररूपमित्यनेनोत्तरमक्षरं विवक्षितम् । तयोरक्षरयोर्मध्ये योऽवकाशः स संहिताशब्देन विवक्षितः ।

एवमुपास्यनिश्चयार्थं पूर्वरूपादिशब्दान्व्याख्याय^३ प्ररोचनार्थं पूर्वमुक्तं [ ऐ० आ० ३ अ० १ ख० २ ] तदुपासनफलमनुस्मारयति^४—

स य एवमेतां संहितां वेद संधीयते प्रजया पशुभि-
र्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।

तदेतत्तत्रैव व्याख्यातम् ।

योऽवकाश इति यदुक्तं तत्र कंचिद्विशेषं दर्शयति—

अथ वयं ब्रूमो निर्भुजवक्त्रा इति ह स्माऽऽह
ह्रस्वो माण्डूकेयः पूर्वमेवाक्षरं पूर्वरूपमुत्तरमुत्तर-
रूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण येन
संधिं विवर्तयति येन स्वरास्वरं विजानाति
येन मात्रामात्रां विभजते सा संहितेति, इति ।

ह्रस्वो वामनः स्वल्पदेहः । स च स्वाभिज्ञत्वप्रकटनार्थं वयमिति पूजारूपं बहुवचनं प्रयुङ्क्ते । स चैवमाह । पूर्वरूपोत्तररूपयोर्व्याख्यानं तत्तादृशमेव, अवकाशः संहितेति यदुक्तं तत्रास्ति कश्चिद्विशेषः । न केवलमवकाशमात्रं संहितेति किं तु येनाव-


१ ग. श्रोतॄबुद्धि° । २ क. ख. तस्याः । ३ घ. ङ. ॰ब्दानाख्याय । ४ घ. ङ. ॰नुस्मरति ।

Page 202Permalink

अध्या० १।ख० ५] ऐतरेयारण्यकम् । १९७

काशेन संधिं पूर्वोत्तरयोः संनिकर्षमध्येता विवर्तयति विशेषेण संपादयति येन
चावकाशेन स्वरमस्वरं च विविच्य जानाति । “अग्निमीळे” [ ऋ० सं० म० १
सू० १ ऋ० १ ] इत्यत्रोत्तरपदे पदकालवदनुदात्तस्वरो न भवति किंतु स्वरितप्र-
चयौ स्वरा॒वित्येतादृशो विवेकः । येन चावकाशेन मात्राममात्रां च विभजते ।
“तवेत्तत्सत्यमङ्गिरः” [ ऋ० सं० म० १ सू० २ ऋ० ६ ] इत्यत्र पदकाले वका-
रस्योपरि ह्रस्वोऽकारो दृश्यते, संहिताकाले सा मात्रां न भवति, किंत्वेकारो मात्रेत्ययं
विभागः । एतैर्विशेषणैर्विशिष्टोऽवकाशः संहिता न त्ववकाशमात्रमिति ।

पूर्ववत्फलमनुस्मारयति—

स य ए॒वमे॒तां संहि॒तां वेद॑ संधीयते प्र॒जया॑ प॒शुभि॒र्य-
शसा ब्रह्मवर्च॒सेन स्व॒र्गेण लो॒केन॒ सर्व॒मायु॑रेति, इति ।

पूर्ववद्व्याख्येयम् ।
मतान्तरं दर्शयति—

अथ हास्य पुत्र आह मध्यमः प्रातीबोधीपुत्रोऽक्षरे
खल्विमे अविकर्षन्नेकीकुर्वन्यथावर्णमाह तद्याऽसौ
मात्रा पूर्वरूपोत्तररूपे अन्तरेण संधिविज्ञापनी
साम तद्भवति सामैवाहं संहितां मन्य इति, इति ।

अस्य ह्रस्वमाण्डूकेयस्य मध्यमः पुत्रः कश्चिदस्ति, तस्य माता प्रातीबोधी ।
तत्पुत्रो महर्षिरिमे पूर्वोत्तरे अविकर्षन्परस्परमत्यन्तविशेषमकुर्वन्ननेकीकुर्वन्नत्यन्तमै-
क्यमप्यकुर्वन्यथावर्णमाहेतं तं वर्णमनतिक्रम्योच्चारयति । तवेदित्यत्र पूर्वपदान्त्यम-
कारमुत्तरपदादिमिकारं च संहिताकाले यदि पृथगुच्चारयेत्तदानीमत्यन्तविश्लेषो भवेत् ।
यदि त्विकारमन्तर्भाव्य केवलमकारमुच्चारयेत्तदानीमत्यन्तमेकीकरणं भवति । तदुभयं
परित्यज्य यथाशास्त्रमेकारमसावुच्चारयति । तत्तथा सति पूर्वरूपोत्तररूपयोर्मध्ये
याऽसौ मात्रोच्चारणविशेषरूपा संधिविज्ञापनी शास्त्रीयं संधिं विज्ञापयति तत्साम
समत्वं भवति । अतिद्रुतातिविलम्बयोरभावात्सामैव तत्समत्वमेव संहितामहं मन्य
इति मध्यमपुत्रस्य मतम् ।

अस्मिन्नर्थे कंचिन्मन्त्रमुदाहरति—

तदप्येतदृषिणोक्तम्, इति ।


१ घ. ङ. °पदस्य प° । २ क. ख. ह्रस्वाका° । ३ क. ख. घ. ङ. °नुस्मरति । ४ ग. घ. ङ. प्रतिबोधी । ५ क. ख. ॰ह तत्र वं॰ । ६ ग. तं वं॰ । ७ क. ख. ॰रं सं॰ ।

Page 203Permalink

१९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

स चं मन्त्रः संहितायामेवमाम्नातः—“मा नः स्तेनेभ्यो ये अभिद्रुहस्पदे निशामिणो रिपवोऽन्नेषु जागृधुः । आ देवानामोहते विव्रयो हृदि बृहस्पते न परः साम्नो विदुः ” [ ऋ० सं० म० २ सू० २४ ऋ० १६ ] इति । हे बृहस्पते नोऽस्मान्मन्त्ररूपान्स्तेनेभ्यो विद्याचौर्यपरेभ्यो मा दा इत्यध्याहारः । तादृशेभ्यो मन्त्रोपदेशं मा कुर्वित्यर्थः । कीदृशा विद्याचोरा इत्याशङ्क्योच्यते— ये शिष्या अभिद्रुहस्पदे सर्वतो गुरुद्रोहस्य स्थाने वर्तमाना निशामिणो मायया गुरुमभिमुखीकृत्य व्यवहारे बाह्ये नितरां रमयन्तीति निशामिणः । एतेऽनुकूला इत्येवं गुरोर्भ्रान्तिं जनयन्तीत्यर्थः । ते च स्वहृदये रिपवः शत्रवः सन्तोऽन्नेषु भोग्येषु दृष्टार्थेष्वेव जागृधुरभिकाङ्क्षां कुर्वन्ति । तादृशेभ्यो स्तेनेभ्यो मन्त्रात्मकानस्मान्मा देहि । इति मन्त्रद्रष्टृणां वचनमेतत् । तर्हि केभ्यो मँत्रा दातव्या इति चेदुच्यते ये श्रद्धालुत्वो विव्रयः संभजनकर्तारः सन्तो हृदि स्वचित्ते देवानामिन्द्रादीनां यागादिरूपं संबन्धमा समन्तादोहते वितर्कयन्ति सर्वदा यागं कर्तुं विचारयन्ति । तादृशेभ्यो मन्त्रान्देहीत्यर्थः । ते च साम्नः समत्वादाजर्वाद्वत्परः श्रेयोहेतुर्नास्तीत्येवं विदुर्जानन्ति । अतस्ते मन्त्रोपदेशयोग्याः । अत्र यँथा शिष्याणां व्यवहारे समत्वं प्रशस्तमेवं संहितायामपि सँममात्रोच्चारणं प्रशस्तमित्यर्थः ।

एतस्य मन्त्रस्य प्रदर्शनार्थं चतुर्थं पादं पठति—

बृहस्पते न परः साम्नो विदुरिति, इति ।

पूर्ववत्फलवाक्यमनुस्मारयति—

स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।

इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये
पञ्चमः खण्डः ॥ ५ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये तृतीयारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥


बृहस्पते न परः०—ऋ० सं० म० २ सू० २४ ऋ० १६ ।


१ घ. ङ. च सं° । २ ग. ˚द्याचौरा । ३ घ. ङ. ˚षु दृ° । ४ क. ख. ग. मन्त्रो दातव्य इ° । ५ ग चेत्तदु° । ६ क. ख. ननु । ग. एव । ७ घ. ङ. यदा । ८ घ. ङ. समं मा° । ९ क. ख. ङ. ˚तुर्यपा° ।