Skip to content
SarvaKosh
Back to the archive

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

by महर्षि ऐतरेय महिदास

Source: Aitareya Aranyakam with Vedic Accents & Commentary (origin)

DevanagariHindipublished304 pages
Page 167Permalink

१६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । [२द्वितीयारण्यके-

सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्छयत्, इति ।

स परमेश्वरः पुनरप्येवं विचारितवान् । इमे खलु लोका निष्पन्नास्तेषां भोगस्था-
नानामचेतनानां लोकानां रक्षणार्थं चेतनांल्लोकपालान्देवान्सर्वथा स्रक्ष्यामीति । स
विचारयुक्त ईश्वरोऽद्भ्य एव जलोपलक्षितपञ्चभूतेभ्य एव पुरुषं पुरुषाकारं विराट्-
पिण्डं समुद्धृत्यामूर्छयन्मूर्त्तं कठिनमकरोत् । यथा कुलालस्तडागे जलस्याधस्ता-
दार्द्रां मृदानीय शोषयित्वा कठिनं पिण्डं करोति तद्वदेवायं विराट्पुरुषः समष्टिरूपो
ब्रह्माण्डरूपस्य लोकस्य पालकः ।

अथ तदवान्तरलोकपालानां चेतनानामग्न्यादिदेवतानां सृष्टिं दर्शयति—

तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं
मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां
प्राणः प्राणाद्वायुरक्षिणी निरभिद्येतामक्षीभ्यां चक्षुश्च-
क्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं
श्रोत्राद्दिशस्त्वङ्निरभिद्यत त्वचो लोमानि लोमभ्य
ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मन-
सश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः
शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये प्रथमः
खण्डः ॥ १ ॥ ( २१ )

तं विराट्पुरुषदेहमभ्यतपदभितस्तत्तच्छिद्रतद्गतेन्द्रियतदभिमानिदेवतासृष्ट्यर्थं स
परमेश्वरः पर्यालोचितवान् । पर्यालोचनमेव तप इति पूर्वमुक्तम् । अभितः पर्यालोचि-
तस्य विराट्पिण्डस्य मुखं छिद्रं निरभिद्यत मुखच्छिद्रं विदारितमभूत् । यथा
पक्षिसर्पादीनां पक्कमण्डं भिन्नं भवति तद्वत् । तस्मान्मुखच्छिद्राद्वागिन्द्रियं निष्पन्नम् ।
तस्माच्चेन्द्रियादग्निर्देवता निष्पन्ना । एवमुत्तरपर्यायेष्वपि छिद्रेन्द्रियदेवता व्याख्येयाः ।
प्राणो घ्राणेन्द्रियम् । लोमशब्देन तदाधारभूतत्वङ्निष्ठं स्पर्शनेन्द्रियमुच्यते । हृदय-
मष्टदलं कमलम् । अपानोऽधःसंचारी वायुः । रेतो गुह्येन्द्रियम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके चतुर्थाध्याये प्रथमः खण्डः ॥ १ ॥ ( २१ )


१ क. ख. ग. ॰पालकान्दे॰ । २ घ. ङ. ॰राजं विराट्॰ । ३ ग. ॰स्तटाके ज॰ । ४ ग. ॰हृदयं । ५ क. ख. ॰ग्निदेव॰ ।

Page 168Permalink

अध्या ० ४ ख ० २ (१२)] ऐतरेयारण्यकम् । १६३

अथ द्वितीयः खण्डः । ( द्वाविंशः )

इन्द्रियाणामभिमानिदेवतानां च सृष्टिरुक्ता । अथ तासां देवतानां भोगयोग्याल्प¹-
शरीरसृष्टिं विवक्षुस्तदुपोद्धातत्वेन क्षुत्पिपासयोः सृष्टिं दर्शयति—

ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे
प्रापतंस्तमशनापिपासाभ्यामन्ववार्जत् , इति ।

या इन्द्रियतदभिमानिदेवतास्ता एताः सृष्टाः सत्योऽस्मिन्पूर्वोक्ते महत्यर्णवे समु-
द्रवदत्यन्तविस्तृते विराड्देहे प्रापतन्प्रकर्षेण पतिता अभवन् । तं सर्वेन्द्रियतद्देवताधि-
ष्ठानभूतं विराड्देहं क्षुत्पिपासाभ्यामन्ववार्जदनुगमितवान्संयोजितवानित्यर्थः ।
अथाल्पदेहसृष्टिमाह—

ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्न-
मदामेति ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति
ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति ताभ्यः पुरु-
षमानयत्ता अब्रुवन्त्सुकृतं बतेति पुरुषो वाव सुकृतम् , इति ।

ता विराड्देहे पतिता इन्द्रियाभिमानिन्यो देवताः स्रष्टारं परमेश्वरं प्रत्येवमब्रुवन् ।
भोः परमेश्वरायं विराड्देहोऽस्माकं भोगक्षमो न भवति । अतिप्रौढं तं विराड्देहमा-
पूर्य तत्र प्रतिष्ठां प्राप्तुं वयमसमर्थाः । अन्नं चैतद्देह²पर्याप्तं संपादयितुं वयमसमर्थाः ।
अतो यस्मिन्नल्पशरीरे प्रतिष्ठिताः सत्यो वयं तद्देहपर्याप्तमन्नमत्तुं शक्ता भवामस्ता-
दृशमायतनं³ शरीरं नोऽस्मदर्थं प्रजानीहि, अवधार्य संपाद्येत्यर्थः । ततः परमेश्वर-
स्ताभ्यो देवताभ्यो भोगाय गोदेहमानयत् । ताश्च देवता⁴ अब्रुवन्नोऽस्माकमयं देहो
नैवालमुपरितनानां दन्तानामभावेन दूर्वादिमूलस्योत्खातुमशक्यत्वात् । अतोऽयमपि
गोदेहस्तिष्ठतु⁵, इतोऽन्यमप्युभयतोदन्तं देहं सृजेत्येवमब्रुवन् । ततः परमेश्वरस्तदर्थ-
मश्वमानयत् । ताश्च देवता विवेकज्ञानाभावाद्यमश्वदेहोऽपि न पर्याप्त इत्युक्तवत्यः ।
ततः परमेश्वरस्तदर्थं विवेकसंपन्नं पुरुषदेहमानयत् । ताश्च देवतास्तावता परितुष्टा
आश्चर्यवाचकेन च बतशब्देन स्वकीयं परितोषं सूचयन्त्यः सुष्ठु कृतं परमेश्वरेणेत्य-
ब्रुवन् । यस्मान्मनुष्यदेह एव विवेकज्ञानसंपन्नः । तथा च पूर्वमुदाहृतम्— “पुरुषे
त्वेवाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद
श्वस्तनं वेद लोकालोकौ मर्त्येनामृतमीप्सत्येवं संपन्नः” [ऐ० आ० २ अ० ३ ख० २]
इति । तस्मान्मनुष्यदेह एव सुकृतमित्यनेन शब्देन परितोषद्योतकेन वक्तुं योग्यः ।


१ क. ‘गभोग्या’। २ ग. ‘देहे प’ । ३ क. ख. घ. ङ. ‘नं नोऽ’ । ४ क. ख. ‘वमब्रु’ । ५ ग. ‘तु, अतोऽ’ ।

Page 169Permalink

१६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

ईश्वरसृष्टेषु भोगक्षमशरीरेषु देवतानां प्रवेशायेश्वरप्रेरणं दर्शयति—
ता अब्रवीद्यथायतनं प्रविशतेति, इति ।
यस्मिन्नायतने छिद्रे यदिन्द्रियमुत्पन्नं या चाभिमानिनी देवतोत्पन्ना तदायतनमनतिक्रम्य हे देवताः प्रविशत ।
देवतानामित्थमनुज्ञातानां प्रवेशं दर्शयति—
अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन्, इति ।
योऽयमग्निर्वागिन्द्रियाभिमानी देवः सोऽयं वाग्भूत्वा वागिन्द्रिय एवान्तर्भूय मुखच्छिद्रं प्राविशत् । एवमुत्तरत्रापि योज्यम् । न खलु वागादिष्विन्द्रियेष्वग्न्यादिदेवताः प्रत्यक्षमुपलभ्यन्ते । नापि देवताभिरनभिप्रेरितानामिन्द्रियाणां स्वस्वविषयग्रहणसामर्थ्यमस्ति । एतच्च भगवता व्यासेन सूत्रितम्— "ज्योतिराद्यधिष्ठानं तु तदामननात्" [ब्र० सू० अ० २ पा० ४ सू० १४] इति ज्योतिरादिभिरग्न्यादिदैवतैरधिष्ठानं वागादीन्द्रियाणां प्रेरणमभ्युपगन्तव्यम् । कुतः । तदामननात्तस्य देवताप्रेरणस्य "अग्निर्वाग्भूत्वा" इत्यादिना श्रूयमाणत्वात् । यथाऽयं विचारो द्वितीयाध्यायस्य चतुर्थपादे सूत्रितः, एवमन्येऽपीन्द्रियविषया विचारास्तस्मिन्पादे द्रष्टव्याः ।

क्षुत्पिपासयोर्विराड्देहे नियतस्य स्थानविशेषस्य पूर्वमश्रवणात्कृत्स्नशरीरे प्रवेशं दर्शयति—
तमशनापिपासे अब्रूतामावाभ्यामभि प्रजानीहीति ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनापिपासे भवतः, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये
द्वितीयः खण्डः ॥ २ ॥ ( २२ )

ये क्षुत्पिपासे परमेश्वरेण विराड्देहे संयोजिते ते उभे परमेश्वरं प्रति स्वार्थं स्थानविशेषमनुगृहाणेत्यब्रूताम् । ईश्वरस्तु स्थानविशेषमदृष्ट्वा वामुभे अप्येतास्वेवाग्न्या-


१ ग. ॰सृष्टिषु । २ क. ख. ग. देवानां । ३ ग. ॰रणां द॰। ४ ग. ॰लक्ष्यन्ते । ५ ग. ॰प्रेताना॰। ६ ग. स्ववि॰ । ७ क. दर्शितम् । ८ ग. ॰दिदेवैर॰ । ९ घ. ङ. चिन्तितः । १० घ. ङ. ॰षयवि॰ ।

Page 170Permalink

अध्या० ४ ख० ३(२३) ] ऐतरेयारण्यकम् । १६५

दिदेवतास्वाभजामि, ततस्तास्वेव भागिन्यौ विषयविभागयुक्ते करोमीत्यब्रवीत् ।
यस्मादेवमीश्वरेणोक्तं तस्माल्लोके यस्यै कस्या अप्यग्न्यादिदेवतायै हविर्गृह्यते भोग्यं
वस्तु समर्प्यतेऽस्यामग्न्यादिदेवतायामेते क्षुत्पिपासे भागयुक्ते एव भवतः । अग्निवाय्वा-
दिदेवतानां शरीरेष्वप्याहारस्वीकारे क्षुत्पिपासयोरेव तृप्तिर्भवति । तथा मनुष्यशरी-
रेऽपि चक्षुरादिदेवतायै हविःस्वीकारे क्षुत्पिपासे तृप्यतः । यदा पात्रे पतितं समीचीन-
मन्नं भोक्तुकाम आदरेण पश्यति तदानीं भोग्यस्य प्रत्यासन्नेत्वात्परितोषेण मनसि
तृष्णा शान्तेव भवति न तु यथापूर्वं बाधते । एवमत्यन्तप्रियान्नवार्ताश्रवणस्पर्शनादौ
यथोचितं तृप्तिलेशो द्रष्टव्यः । तदेतत्सर्वं देवतासु क्षुत्पिपासयोर्भागोपेतत्वम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके चतुर्थाध्याये द्वितीयः खण्डः ॥ २ ॥ ( २२ )


अथ तृतीयः खण्डः । ( त्रयोविंशः )

यानि भोगाद्यधिष्ठानानि गवाश्वपुरुषादिशरीराणि यानि च भोगकरणानि वह्नयादि-
देवताधिष्ठितानि वाक्चक्षुरादीनि गवादिदेहेषु प्रविष्टानि तानि सर्वाण्यभिधाय भोग्यसृ-
ष्टिमभिविधत्ते—

स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नेमेभ्यः सृजा
इति सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मूर्ति-
रजायत या वै सा मूर्तिरजायतान्नं वै तत्, इति ।

स परमेश्वरः पुनरप्येवं विचारितवान् । ये पृथिव्यादिलोका ये च लोकपालाः
सेन्द्रियशरीरदेवतारूपास्ते सर्वेऽपीमे सृष्टाः खल्वतः परमेश्वरस्तेषामन्नमन्तरेण जीव-
नासम्भवादेतदर्थमन्नं स्रक्ष्यामि, इति विचार्यान्ननिष्पादनार्थं तत्कारणभूतानि जलप्रधा-
नानि पञ्च भूतान्यभ्यतपत्सर्वतः पर्यालोचनमकरोत् । ईदृशाज्जलसहितात्क्षेत्राद्व्रीह्यादयो
जायन्तामीदृशानि मूषकादिशरीराणि मार्जारादीनामन्नभूतानि जायन्तामित्येवं संकल्पं
कृतवान् । ताभ्योऽद्भ्यो जलोपलक्षितभूतेभ्यो व्रीह्यावादिरूपा मूषकादिरूपा च मूर्ति-
रजायत । तत्र व्रीह्यावादिमूर्तिर्मनुष्याणामन्नं तैरद्यमानत्वात् । तथा मूषकादिमूर्तिर्मा-
र्जारादिभिरद्यमानत्वात्तेषामन्नम् ।

अन्नसृष्टिमुक्त्वाऽन्वयव्यतिरेकाभ्यां तत्स्वीकारसाधनं निश्चिनोति—

तदेनत्सृष्टं पराङ्त्यजिघांसत्तद्वाचाऽजिघृक्षत्तन्ना-


१ ग. 'ग्यप्र' । २ ग. 'न्नत्वपरि' । ३ ख. ग. शान्तैव । ४ घ. ङ. 'योर्भागो' । ५ ग. घ. 'तादिरू' ।

Page 171Permalink

१६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-

शक्नोद्वाचा ग्रहीतुं स यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्न-
मत्रप्स्यत्तत्प्राणेनाजिघृक्षत्तन्नाशक्नोत्प्राणेन ग्रहीतुं स यद्धै-
नत्प्राणेनाग्रहैष्यदभिप्राय हैवान्नमत्रप्स्यत्तच्चक्षुषाऽजिघृक्ष-
त्नान्नाशक्नोच्चक्षुषा ग्रहीतुं स यद्धैनच्चक्षुषाऽग्रहैष्यद्दृष्ट्वा-
हैवान्नमत्रप्स्यत्तच्छ्रोत्रेणाजिघृक्षत्तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुं स
यद्धैनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत्तत्त्वचाऽजिघृक्ष-
त्नान्नाशक्नोत्त्वचा ग्रहीतुं स यद्धैनस्त्वचाऽग्रहैष्यत्स्पृष्ट्वा हैवा-
न्नमत्रप्स्यत्तन्मनसाऽजिघृक्षत्तन्नाशक्नोन्मनसा ग्रहीतुं स यद्धै-
नन्मनसाऽग्रहैष्यद्ध्यात्वा हैवान्नमत्रप्स्यत्तच्छिश्नेनाजिघृक्ष-
त्नान्नाशक्नोच्छिश्नेन ग्रहीतुं स यद्धैनच्छिश्नेनाग्रहैष्य-
द्विसृज्य हैवान्नमत्रप्स्यत्तदपानेनाजिघृक्षत्तदावयत् , इति ।

यत्सृष्टमन्नं व्रीहियवादिकं मूषकादिकं च तत्र व्रीह्याद्यन्नस्य स्वकीयवधविषयविवे-
काज्ञानाभावाद्धन्तुमसमर्थत्वाच्च नास्ति जनात्पलायनम् । यत्तु मूषकादिरूपं तदन्नं तदेत-
न्मार्जार आदीनां भोक्तृणां स्ववधहेतुत्वं निश्चित्य तेभ्यः पराङ्मुखं सदत्यजिघांसदतिश-
येन हन्तुं गन्तुमैच्छत्पलायितुं प्रारभतेत्यर्थः । पलायितुमुद्युक्तं तन्मूषकादिरूपमन्नं
दृष्ट्वा भोक्तृवर्गो मार्जारादिर्वागिन्द्रियेण ग्रहीतुमैच्छत् । ततः सर्वप्रयत्नेन वागिन्द्रियं
प्रयुञ्जानोऽपि तेन तदन्नं ग्रहीतुं नाशक्नोत् । इदानींतनोदाहरणेन सृष्टिकालीना
तदशक्तिः स्पष्टी क्रियते—स भोक्तृवर्ग आदिसृष्टिकाले यद्येतन्मूषकादिरूपमन्नं
वाचा गृह्णीयात्तदानीमपि भोक्ता तदन्नवाचकैः शब्दैरीदृशमित्युक्तिमात्रेण तृप्तो
भवेत् । न हि वागिन्द्रियस्याभिधानव्यतिरेकेणाऽऽकर्षणसामर्थ्यं किंचिदस्ति । न चैव-
मन्नवाचकशब्दोच्चारणमात्रेण तृप्तिर्दृश्यते, तस्मात्सृष्टिकालेऽपि वाचोऽन्नस्वीकारसामर्थ्यं
नास्तीत्यनुमेयम् । प्राणेन घ्राणेन्द्रियेण, एतदारभ्य शिश्नान्तेषु षट्सु पर्यायेषु पूर्वव-
द्व्याख्येयम् । अभिघ्राण्याऽऽघ्रायेत्यर्थः । अत्रापानशब्देनान्नस्य मुखबिलादन्तःप्रवे-
शैरूपं निगरणं कुर्वन्नन्तर्मुखो यो वायुः सोऽभिधीयते । तेनापानेन तदन्नं ग्रहीतुमै-
च्छत्तत्तस्तदन्नमावयज्जग्राहारिशतवान् ।

अन्वयव्यतिरेकाभ्यां वायोरेवान्नग्रहणसाधनत्वं निश्चित्य दार्ढ्यार्थं वायुं प्रशंसति-

सैषोऽन्नस्य ग्रहो यद्वायूरन्नायुर्वा एष यद्वायुः , इति ।

मुखबिलादन्तःसंचारी वायुरिति यदस्ति स एषोऽन्नस्य ग्रहो ग्राहकः । अय-


१ ग. °स्ति पला° । २ ग. °देव मार्जां° । ३ क. हन्तुमैच्छद्वन्तुं पला° । ४ ग. °दन्नशं ।
५ ग. घ. °शनरू° ।

Page 172Permalink

अध्या० ४ ख ३(२३)] ऐतरेयारण्यकम् । १६७

मर्थोऽस्मदनुभवसिद्ध इत्यर्थः । किंचायं वायुरन्नायुर्वे, अन्नद्वारेणाऽऽयुष्यहेतुरेव ।
अन्नरसेन हि प्राणो देहे बध्यते । अत एव वाजसनेयिनः शिशुब्राह्मणे प्राणवर्णनप्र-
स्तावे—“अन्नं दाम” [ बृह० २ । २ । १ ] इति वाक्येनान्नस्य प्राणबन्धनरज्जु-
त्वमामनन्ति । तथाऽन्नबन्धनशैथिल्ये सति जीवस्य देहपरित्यागं सदृष्टान्तमामनन्ति,
तद्यथा—“ आम्रं वोदुम्बरं वा पिप्पलं बन्धनात्प्रमुच्यत एवमेवायं पुरुष एभ्योऽ-
ङ्गेभ्यः संप्रमुच्यते ” [ बृह० ४ । ३ । ३६ ] इति । अन्नबन्धनप्रयुक्तस्य प्राणा-
वस्थानस्याऽऽयुर्हेतुत्वं लोके प्रसिद्धं कौषीतकिनः समामनन्ति—“ यावद्ध्यस्मिञ्छ-
रीरे प्राणो वसति तावदायुः ” [ कौषी० ३ । २ ] इति । तदेतत्सर्वमभिप्रेत्यान्नायुर्वा
एष इत्युच्यते ।

भोगाधिष्ठानभोगसाधनभोग्यभोगानां सृष्टिमभिधाय भोगस्वामिनं दर्शयितुमीश्वरस्य
विचारमाह—

स ईक्षत कथं न्विदं महते स्यादिति, इति ।

यदिदं देहेन्द्रियतदभिमानिदेवैस्तदीयात्तत्स्वीकाररूपं व्यवहारजातमस्ति तदिदं
सर्वं महते भोगस्वामिनं जीवरूपं मां विना कथं नु नाम स्यान्न कथं चिदुपपद्यते ।
न हि नगरस्वामिनं राजानं विहाय पुरस्य वा पौरजनानां वा रचना शोभते । तस्मा-
द्भोगस्वामिना मया जीवरूपधारिणा देहे प्रवेष्टव्यमित्यर्थः ।

प्रवेशद्वारविचारं दर्शयति—

स ईक्षत कतरेण प्रपद्या इति, इति ।

द्वावत्र प्रवेशमार्गौ पादाग्रं मूर्ध्नि ब्रह्मरन्ध्रं च। तयोर्मध्ये कतरेण केन मार्गेण प्रपद्यै
प्रविशानि ।

“ कथं नु ” इदमिति वाक्येन जीवप्रवेशस्य देहेन्द्रियव्यवहारपालनस्वरूपं प्रयोजनं
विचारितम् । इदानीमात्मबोधरूपस्य प्रयोजनान्तरस्य विचारं दर्शयति—

स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभि-
प्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि
त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपा-
नितं यदि शिश्नेन विसृष्टमथ कोऽहमिति, इति ।

मां स्वामिनमनपेक्ष्य वागादयोऽभिवदनादिव्यापारेषु स्वतन्त्राः कर्तारः स्युस्तदानी-
महं को नाम स्यां न कोऽपि भवेयम् । अस्ति कश्चिदेष देहादिव्यतिरिक्तश्चिदात्मा ।


१ क. ग. 'दि दे° । २ घ. ङ. 'न्द्रियं त° । ३ क. °वत्तान्न° । ख. °वत्तादावन्न° । घ. ङ. °वतयाऽऽदावन्न° । ४ घ. ङ. पदाग्रं ।

Page 173Permalink

१६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [२द्वितीयारण्यके-

स च परब्रह्मस्वभाव इत्येवं कश्चिदपि न जानीयात् । यदा त्वहमेव सर्वव्यापाराणां
कर्ता वागादयस्तु मया प्रेरिताः सन्तोऽभिवदनादिक्रियाः कुर्युस्तदानीं वागादिकरणको
व्यापारः सकर्तृको भवितुमर्हति क्रियात्वाल्लोकप्रसिद्धेर्गमनादिक्रियावदिति मम
सद्भावोऽनुमातुं शक्यते । सोऽयमनुमानेनाऽऽत्मसद्भाव उषस्तब्राह्मणे समाम्नातः—
“ यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः ” [ बृह० ३ । ४ । १ ] इति ।
तस्मादात्मबोधोऽपि जीवरूपप्रवेशस्य प्रयोजनम् । तदेतदभिप्रेत्यान्यत्र श्रूयते—
“ रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ” [ ऋ० सं० म० ६ सू०
४७ ऋ० १८ ] इति । [ एवं ] प्रवेशद्वारं देहेन्द्रियादिपालनस्वात्मावबोधरूपे प्रवे-
शप्रयोजने च विचारितवान् ।

अथ प्रवेशं दर्शयति—

स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत, इति ।

पूर्वं “ तं प्रपदाभ्यां प्रापद्यत ” [ ऐ० आ० २ अ० १ ख० ४ ] इत्यत्र प्राण-
रूपक्रियाशक्त्युपाधिकस्य पादाग्रे प्रवेशोऽभिहितः । इदानीं ज्ञानशक्त्युपाधिकस्य
मूर्धमध्यस्थितच्छिद्रे प्रवेशोऽभिधीयते । यथोक्तविचारोपेतः स परमेश्वर एतमेव मूर्ध-
मध्यभागमेव कपालसंधिरूपं सीमानं स्थानविशेषं विदार्य छिद्रं कृत्वा तच्छिद्ररू-
पया द्वारा ज्ञानशक्तिसहितः सन्देहमध्ये प्राविशत् । यस्माज्ज्ञानोपाधिकस्य मूर्धमध्ये
प्रवेशस्तस्मान्मूर्धनि ज्ञानेन्द्रियबाहुल्यमुपलभ्यते । क्रियाशक्त्युपाधिकस्य पादाग्रे प्रवे-
शात्कण्ठादधोभागे कर्मेन्द्रियबाहुल्यमुपलभ्यते ।

मूर्धगतं प्रवेशद्वारं प्रशंसति—

सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनम्, इति ।

अक्षिश्रोत्रादिगोलकानां भृत्यादिस्थानीयैश्चक्षुरादीन्द्रियैरधिष्ठितत्वात्स्वामिनः स्वस्य
प्रवेशार्थमसाधारणं किंचिद्द्वारमपेक्षितमित्यभिप्रेत्य प्रीतिपूर्वकं विदारितत्वादिकमुत्कर्षं
प्रकटयितुं तस्य द्वारस्य विदृतिरिति नाम संपन्नम् । तेन द्वारेण निर्गतस्य ब्रह्मलो-
कप्राप्तिद्वारा मुच्यमानत्वादानन्दहेतुत्वेन तदेतद्द्वारं नान्दनमित्युच्यते ।

शरीरे प्रविष्टस्य संचारस्थानानि तेष्ववस्थाविशेषांश्च दर्शयति—

तस्य त्रय आवसथास्त्रयः स्वप्ना अयमा-
वसथोऽयमावसथोऽयमावसथ इति, इति ।


१ क. ख. ॰सिद्धिग॰ । २ ग. ॰द्वासना । ३ क. ॰शोऽत्राभि॰। ४ क. ख. ग. ॰श्वरः स ए॰।
५ ग. ॰च्छिद्ररूपद्वा॰ ।

Page 174Permalink

अध्या० ४ ख० २] ऐतरेयारण्यकम् । १६९

यथा महाराजस्य क्रीडार्थमुपय्यधोभावेन वर्तमानाः प्रासादस्य भूमयो निर्मीयन्त एवमस्याऽऽत्मनः शरीरमध्ये क्रीडार्थं त्रय आवसथास्त्रीणि स्थानानि निर्मितानि । त्रिषु स्थानेषु त्रयः स्वप्नास्तेनाऽऽत्मनाऽवलोक्यन्ते । अयमावसथ इत्यादिना नेत्रकण्ठहृदयाख्यानि स्थानानि हस्ताग्रेण प्रदर्श्यन्ते । तेषु हि जागरणाद्यवस्थानां निष्पत्तिः । तथा च ब्रह्मोपनिषद्याम्नायते— “नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्नं समादिशेत् । सुषुप्तं हृदयस्थं तु” [ ब्रह्मो० ३ ] इति । जागरितादीनां महाराजस्य प्रासादश्रैये क्रीडावज्जीवक्रीडारूपत्वं कैवल्योपनिषद्याम्नायते—

“सयन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ।
स्वप्नेषु जीवः सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके ॥
सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति ।
पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ।
पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम्”
[ कैव० १२ ] इति ।

ननु जागरणसुषुप्तयोः स्वप्नादन्यत्वे त्रयः स्वप्ना इत्युक्तमिति चेन्न । स्वप्नलक्षणोपेतत्वात् । विद्यमानं वस्तुतत्त्वं तिरोधाय समुत्पन्नोऽन्यथाप्रतिभासः स्वप्न इति तल्लक्षणम् । जागरणसुषुप्तयोरपि विद्यमानस्य ब्रह्मतत्त्वस्य तिरोधानेनान्यथाभूतस्य जीवतत्त्वस्य चावभास इत्यस्ति लक्षणम् । तस्माल्लोकप्रसिद्धस्य स्वप्नस्यैकत्वेऽपि लक्षणसिद्धाः स्वप्नास्त्रयः । त्रय आवसथा इत्यनेन पितृशरीरमातृशरीरस्वशरीररूपाणि वा त्रीणि स्थानानि लक्ष्यन्ते । तथाचोपरितनाध्याये प्रपञ्चयिष्यते । संसारो द्विविधः । दैनंदिनव्यवहारो जन्मान्तरस्वीकारश्चेति । तत्र दैनंदिनव्यवहारस्य नेत्रादीनि स्थानानि जन्मान्तरव्यवहारस्य पितृमातृस्वीयशरीराणि स्थानानीति विवेकः । इतिशब्दः संसाररूपस्याध्यारोपप्रकरणस्य समाप्त्यर्थः ।

अथापवादप्रकरणार्थं संक्षिप्य दर्शयति—

स जातो भूतान्यभिव्यैख्यत्किमिहान्यं वावदिषदिति
स एतमेव पुरुषं ब्रह्मततमपश्यत् , इति ।

स परमात्मा जातो देहप्रवेशेन जन्ममरणजागरणस्वप्नसुषुप्तिभिः संसारीभूतः सन्कदाचिदीश्वरानुग्रहाद्गुरुशास्त्रप्रसादेन च भूतान्याकाशादीनि प्राणिनश्चाभिव्यैख्य-


१ घ. ङ. 'भागेन । २ क. ख. 'मानप्रा' । ग. 'मानस्य प्रा' । ३ घ. ङ. 'नि हृ' । ४ क. ख. हृदिस्थं विद्यादिति । ५ घ. घ. 'श्रयक्री' । ६ क. जीवो जात' । ७ घ. ङ. विवक्ष्यन्ते । ८ क. ख. 'नि त्रीणि ज' । ९ क. 'री कृतः ।
२२

Page 175Permalink

१७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

त्सर्वतो विवेकेन ज्ञातवान् । दृश्यमानान्यकाशादीनि भूतानि प्राणदेहाश्च कुत उत्प-
द्यन्ते केन वा रक्ष्यन्ते कस्मिन्वा प्रलीयन्त इत्येवं शास्त्रं विविच्य सर्वस्य संसारस्य
मायाकल्पितत्वाद्व्रह्मैव सर्वस्यापि वस्तुतत्त्वं तस्मादिह जगति किं वा वस्तु ब्रह्मणोऽन्यद्वा-
वदिषद्वदिष्यामि न किंचिदपि ब्रह्मव्यतिरिक्ततया वक्तुं शक्नोमीति निश्चित्य स जीव
एतमेव शरीरे प्रविष्टं पुरुषं चिद्रूपं साक्षिणं ब्रह्मापश्यत् । ब्रह्मत्वेन निश्चितवान् ।
कीदृशं ब्रह्म ततमम् । एकस्तकारो लुप्तः । अतिशयेन ततं विस्तृतं तततमम् । दृश्यस्य
सर्वस्य जगतो द्रष्टुर्जीवस्य च ब्रह्मैव तत्त्वमित्यपवादप्रकरणस्य सर्वस्य तात्पर्यार्थः ।

यथोक्तं ब्रह्मसाक्षात्कारं नामनिर्वचनेन प्रशंसति—

इदमदर्शमिती ३ँ तस्मादिदन्द्रो नामेदन्द्रो ह वै
नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण परो-
क्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये
तृतीयः खण्डः ॥ ३ ॥ ( २३ )

इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके
चतुर्थोऽध्यायः ॥ ४ ॥

शरीरे प्रविष्टः स जीवात्मा ब्रह्मात्मत्वं साक्षात्कृत्येदमदर्शमिति वाक्येन स्वकी-
यमपरोक्षानुभवं प्रकटयन्परितुतोष । परितोषद्योतनार्था प्लुतिः । यस्मादिदमदर्शीत्यु-
क्तवांस्तस्मादिदं दृष्टमित्यनयैव व्युत्पत्त्या सोऽयमिदन्द्र इति नाम प्राप्तवान् । तस्य
नाम्नो निर्वचनानुसारेण योग्यत्वप्रसिद्धिं द्योतयितुमिदन्द्रो ह वै नामेत्युक्तम् । न च
लोके परमेश्वरमिन्द्र इत्येवं व्यवहरन्ति न त्विदन्द्रमिति शङ्कनीयम् । परमार्थतो यथो-
क्तरीत्येदन्द्रमेव सन्तं परोक्षत्वार्थमेकमक्षरं विलोप्येन्द्र इत्येव व्यवहृतत्वात् । नापि
परोक्षत्ववैय्यर्थ्यं शङ्कनीयम् । यस्माद्देवाः पूज्याः सर्वे स्वकीयं नाम गूढं कृत्वोपाध्याया
आचार्या इत्यादिके परोक्षनामन्येव प्रीतिं कुर्वन्ति । हिशब्देनास्मिन्नर्थे लोकप्रसिद्धि-
र्दर्शिता । अभ्यासोऽध्यायसमाप्त्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये द्वितीयारण्यके चतुर्थाध्याये तृतीयः खण्डः ॥ ३ ॥ ( २३ )

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणा-
रण्यकभाष्ये द्वितीयारण्यके चतुर्थोऽध्यायः ॥ ४ ॥


१ क. ख. ग. 'नि प्रा' । २ ग. घ. 'ष्टं चि' । ३ ग. 'ह्यैकत' । ४ घ. ङ. 'ष्फनीत्ये' । ५ क. °न्द्रमित्येव ।

Page 176Permalink

अथ द्वितीयारण्यके पञ्चमोऽध्यायः ।

तत्र प्रथमः खण्डः । (चतुर्विंशः)

“अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ।
शिष्याणां बोधसिद्धयर्थं कृतज्ञैः कल्पितः क्रमः ।”

इति पूर्वाचार्यैः कृत्स्नवेदान्तानां तात्पर्यं संगृहीतम्। तदैवात्र चतुर्थाध्याये विस्पष्टमुदीरितम् “आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्” [ऐ० आ० २ अ० ४ ख० १] इत्येतन्निष्प्रपञ्चब्रह्मैकत्वस्य प्रतिपादकं सूत्रम्। तस्य सूत्रस्यार्थमवबोधयितुं “स ईक्षत लोकान्नू सृजै” [ऐ० आ० २ अ० ४ ख० १] इत्यारभ्य “अयमावसथः” [ऐ० आ० २ अ० ४ ख० ३] इत्यन्तेन ग्रन्थेन कृत्स्नप्रपञ्चस्याध्यारोपः प्रतिपादितः। ब्रह्माण्डस्य मध्ये य एते चतुर्दश लोका यैश्चैताँल्लोकानात्मशरीरत्वेनाभिमन्यमानो विराट्पुरुषो यानि च तद्देहच्छिद्रेषूत्पन्नानि वाक्चक्षुरादीन्द्रियाणि याश्च तैरिन्द्रियाभिमानिन्योऽग्निवाय्वादित्यादिदेवता यानि च तासां देवतानां भोगयोग्यानि गवाश्वमनुष्यादिशरीराणि यच्च तेषु शरीरेषु प्रविष्टानां देवतानामन्नं यश्च वायुनैव तदन्नस्वीकारो यदपि जीवरूपेण तेषु देहेषु प्रविश्य जागरणाद्यवस्थात्रयस्य शरीरान्तरसंचारस्य चानुभवनं सोऽयं सर्वोऽप्यद्वितीये परमात्मन्यध्यारोपितः प्रपञ्चः। स चाऽऽत्मबोधोपयोग्यः। एनेन हि जगदङ्कुरेण तन्मूलमात्मतत्त्वमस्तीत्यवगन्तुं शक्यम्। एतदेवाभिप्रेत्य च्छन्दोगा आमनन्ति—“अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः संप्रतिष्ठाः” [छान्दो० ६। ८। ४] इति। तदेवमध्यारोपेणाद्वितीयस्याऽऽत्मनस्तत्त्वस्यास्तित्वमात्रं सिद्धम्। तस्याध्यारोपस्यापवादेन तत्त्वस्येत्थं भावोऽवगन्तुं शक्यते। तस्मात्—“स जातो भूतानि” [ऐ० आ० २ अ० ४ ख० ३] इत्यारभ्य “परोक्षप्रिया इव हि देवाः” [ऐ० आ० २ अ० ४ ख० ३] इत्यन्तेन ग्रन्थेनाध्यारोपस्यापवादः संगृहीतः। तत्राध्यारोपभागे “तस्य त्रय आवसथाः” [ऐ० आ० २ अ० ४ ख० ३] इति वाक्येन शरीरान्तरसंचारोऽपि संग्रहेण प्रतिपादितः। तदेतत्पितृशरीरं मातृश-


१ घ. ङ तच्चात्र। २ घ. ङ ˚ब्रह्मात्मत˚। ३ ख. ग. यश्च ता˚। ४ घ. ङ. च देहं । ५ घ. ङ. तदभि˚। ६ घ. ङ. ˚ण दे˚। ७ घ. ङ. ˚गराय˚। ८ घ. ङ. ˚स्य स्वश˚। ९ घ. ङ. ˚रस्थानु˚। १० क. ˚तीयप˚। ११ घ. ˚योगः। १२ क. घ. ङ. सौम्य। १३ घ. ङ. सौम्य । १४ घ. ङ. सौम्य। १५ घ. ङ. ˚लाः सौम्ये˚। १६ घ. ङ. ˚यमात्म˚। १७ घ. ङ. ˚तत्त्वमा˚। १८ घ. ङ. ˚वो वक्तुं श˚।

Page 177Permalink

१७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

रीरं स्वशरीरमित्येतदावसथत्रयं पञ्चमेऽध्याये विवरिष्यते । तत्राऽऽदौ पितृशरीररूप-
मावसथं दर्शयति—

*पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः, इति ।

योऽयं शरीरं जिघृक्षुर्जीवात्मा सोऽयं पुरुषे पितृशरीरे प्रथमतॊ गर्भो भवति ।
न चात्र स्त्रीगर्भवदुदरवृद्ध्या सोऽभिव्यज्यते, किंतु यदेतत्पितृशरीरे सप्तमधातुरूपं
रेतोऽस्ति तदैव गर्भ इत्युच्यते । तस्मिन्नेतसि जनिष्यमाणस्य जीवस्य प्रविष्टत्वात् ।
स्वर्गाद्वा नरकाद्वा वृष्टिद्वारा भूमौ समागतो जीवो व्रीहियवाद्यन्नद्वारा पितृशरीरे प्रवि-
शति । एतच्च पञ्चाग्निविद्यायां प्रपञ्चेनाऽऽख्यातम् । तस्मिंश्च पुरुषशरीरेऽन्नरसशो-
णितमांसादिक्रमेण परिणते रेतस्यवस्थितो भवति सोऽयं पुरुषे गर्भ इत्युच्यते ।

तस्य गर्भस्य जन्मप्रकारं दर्शयति—

तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतमात्मन्येवाऽऽत्मानं बिभर्ति
तद्यदा स्त्रियां सिञ्चत्यथैनञ्जनयति तदस्य प्रथमं जन्म, इति ।

पुरुषे गर्भत्वेन व्यवस्थितं यद्रेतोऽस्ति तदेतत्तस्मिन्पुरुषशरीर आपादमस्तकं सर्वे-
भ्योऽवयवेभ्यः सारभूतं सत्संभूतं निर्गतं भवति । तच्च सर्वावयवनिर्गतं रेतोभूतं सार-
मात्मानं स्वस्यैव रूपान्तरभूतमात्मन्येव स्वशरीर एवासौ पुरुषो बिभर्ति पोषयति ।
तत्पोषितं रेतोऽग्निसंपर्केण घृतमिव कामाग्निना विलीनं सद्धृदये समागत्य व्यव-
स्थितं भवति । तादृशं रेतो यदृतुकालीनेन गमनेने स्त्रिया योनौ गर्भाशये सिञ्चति,
अथ तदानीमयं पुरुष एनञ्जीवान्तराविष्टं रेतोरूपं शरीरं जनयति । तदेतद्रेतोनिः-
सरणरूपमस्य रेतस्यवस्थितस्य संसारिणो जीवस्य प्रथमं जन्मेत्युच्यते । “तस्य
त्रय आवसथाः” इत्युक्तानां मध्ये प्रथमादावसथात्पितृशरीरूपात्संपन्नमिति कृत्वा
प्रथमं जन्म भवति ।

ननु स्त्रीशरीरे प्रविष्टं परकीयं रेतः स्त्रिया उपद्रवकारि स्याच्छरीरलग्नबाणादिवदि-
त्याशङ्क्याऽऽह—

तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं
तथा तस्मादेनां न हिनस्ति, इति ।


* मूलपुस्तकेषु, घ. ङ. संज्ञितभाष्यपुस्तकस्थमूले चैतस्मात्प्राक्—“ अपक्रामन्तु गर्भिण्यः” इत्यादिको ग्रन्थो वर्तते ।


१ ख. ग. ॰रं स्वात्मश॰ । २ घ. ङ. ॰ष्ठमेऽध्या॰ । ३ क. ख. ग. रं विजि॰ । ४ घ. ङ. ॰देतद्गर्भं । ५ क. ख. ग. ॰रुणंग॰ । ६ ग. ॰तं सत्सं॰ । ७ घ. ङ. तन्न । ८ घ. ॰तोरूपं सा॰ । ९ घ. ङ. ॰न स्त्रीयो॰ ।

Page 178Permalink

अध्या० २ ख० १] ऐतरेयारण्यकम् । १७३

स्त्रीयोनौ प्रविष्टं तत्पुरुषरेतस्तस्याः स्त्रिया आत्मभूतं स्वशरीरभावं गच्छति । यथा स्वकीयमङ्गं स्तनहस्तादिकं नै स्वशरीरात्पृथग्भूतं तद्वत् । तस्मात्स्वशरीरत्वेनैकीभावात्करणादेनां स्त्रियं न हिनस्ति, उदरलग्नबाणवद्धिंसां न करोति ।

तद्गर्भद्वारेण स्त्रीपुरुषयोः परस्परमुपकार्योपकारकभावं दर्शयति—

साऽस्यैतमात्मानमत्र गतं भावयति सा
भावयित्री भावयितव्या भवति, इति ।

सा गर्भधारिणी स्त्री, अत्र गतं स्वशरीरे प्रविष्टमस्य पुरुषस्य रेतःसेक्तुरात्मानं पुरुषरूपं भावयति परिपालयति। विरुद्धाशनादिपरित्यागोऽनुकूलान्नाद्युपयोगश्च परिपालनम् । यस्मात्स्त्री गर्भपरिपालनेन भावयित्री पुरुषस्यैव पालयित्री तस्मात्कारणात्तेन पुरुषेण सा स्त्री भावयितव्याऽभीष्टान्नपानवस्त्रादिप्रदानेन पालयितव्या भवति ।

स्त्रीपुरुषयोरुभयोरपि पुत्रं प्रत्युपकारेकत्वं दर्शयति—

तं स्त्री गर्भं बिभर्ति सोऽग्र एव
कुमारं जन्मनोऽग्रेऽधिभावयति, इति ।

तं पुरुषरूपं गर्भं मातृरूपा स्त्री महान्तं प्रयासं सोढ्वा नव दश वा मासान्त्स्वोदरे धारयित्वा पोषयति । सं च पिताऽग्र एव प्रसवात्प्रागेव निष्पन्नं कुमारं जन्मनोऽग्रे प्रसवादूर्ध्वमधिभावयति । अधिकत्वेन शास्त्रीयजातकर्मादिना संस्कर्तेति ।

कुमारसंस्कारेण पितुरुपयोगं दर्शयति—

स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयति, इति ।

पुत्रसंस्कार इति यदस्ति तेन पिता स्वस्यैव संस्कारं करोति । पुत्रस्य स्वदेहरूपत्वात् । तथा चान्यत्र श्रूयते—"पतिर्जायां प्रविशति गर्भो भूत्वा समातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायते" [ बृह० ] इति "आत्मा वै पुत्र नामासि" [ कौषी० ११ ] इति च ।

ननु पुरुषस्योपनयनादिना स्वकीयः संस्कारः पूर्वमेव संपन्नः किमनेन पुत्रसंस्कारेण पुत्रोत्पादनेन चेत्यत आह—

एषां लोकानां संतत्या एवं संतता हीमे लोकाः, इति ।

पुत्रपौत्रप्रपौत्रादय इमे जना लोकास्तेषां लोकानामविच्छेदाय संस्कृतपुत्रोत्पाद-


१ घ. छ. 'ङ्गं ह' । २ घ. ङ. न श' । ३ क. ख. ग. 'भावकर' । ४ घ. ङ. 'त्यागेनानु' । ५ घ. ङ. 'रकत्वं । ६ घ. ङ. पुत्ररूपं' । ७ ग. स एव पि' । ८ घ. ङ. संस्कारं करो' ।

Page 179Permalink

१७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-

नम् । अनेन पित्रा स्वोत्पादिते पुत्रे संस्कृते सति तथैव पुत्रोऽप्यन्यं पुत्रमुत्पाद्य संस्क-
रोति सोऽप्यन्यं पुत्रमित्येवमिमे लोका अविच्छिन्ना भवन्ति । अन्यथा विच्छिद्येरन् ।
मातृशरीरान्निर्गमनस्य पूर्वोक्तजन्मापेक्षया द्वितीयत्वं दर्शयति—
तदस्य द्वितीयं जन्म, इति ।
जनकस्य पुत्रप्रयुक्तमुपयोगं दर्शयति—
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते, इति ।
अस्य पितुर्द्वावात्मानौ देहौ, तयोर्मध्येऽयमात्मा पुत्ररूपो देहः पुण्येभ्यः कर्मभ्यः
शास्त्रोक्तकर्मनिष्पादनार्थं प्रतिधीयते स्वस्य प्रतिनिधित्वेन गृहे स्थाप्यते ।
ननु किमनेन प्रतिनिधिना स्वयमेव कुतो न करोतीत्यत आह —
अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति, इति ।
अस्य पितुरितर आत्मा स्थविरो देहः कृतकृत्यः कृतान्येतज्जन्मप्रयुक्तानि
कृत्यानि सर्वाणि येनासौ कृतकृत्यः । लौकिकानां कुटुम्बपोषणादीनां शास्त्रीयाणामग्नि-
होत्रादीनां च निष्पादितत्वात्कृतकृत्यत्वम् । वयोगतो वयसा पूर्वकर्मसंपादितेनाऽऽ-
युषा हीनः प्रैति म्रियते । अतः पुत्रदेहेनैव पुण्यं कर्तव्यं न तु मृतेन पितृदेहेन कर्तुं
शक्यम् ।
पूर्वोक्तजन्मद्वयमपेक्ष्य जन्मान्तरं दर्शयति—
स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म, इति ।
स वृद्धः पितेतोऽस्माज्जठरदेहात्प्रयन्नेव निर्गच्छन्नेव स्वर्गे नरके मनुष्यलोके वा
स्वकर्मानुसारेण पुनर्जायते न त्वस्माद्देहान्निष्क्रान्तस्य जन्मान्तराय कालव्यवधान-
मस्ति । अस्मिन्नेव शरीरे स्थित्वा मनसा देहान्तरं स्वीकृत्य पश्चादमुं देहं परित्यजति ।
यथा जलूका मुखेन तृणान्तरमवष्टभ्य ततः पृष्ठभागमुपसंहरति तद्वत् । तथाच वाजस-
नेयिनः समामनन्ति—“तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्याऽऽ-
त्मानमुपसंहरत्येवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वाऽन्यमाक्रममाक्रम्याऽऽ-
त्मानमुपसंहरति ” [बृह० ४ । ४ । ३] इति । तद्यथोक्तं पुनर्जननंरूपमस्य संसारिण
आत्मनस्तृतीयं जन्मेत्युच्यते । यद्यपि पूर्वोक्तं जन्मद्वयं पुत्रदेहस्येदं तु देहान्तरस्य
तथाऽपि पितृपुत्रोपाध्योरेव भिन्नत्वादुपाध्युपलक्षितस्याऽऽत्मन एकत्वमभिप्रेत्यैकस्य
जन्मंत्रयमित्युपचर्यते । यद्वा पितुः सकाशाद्रेतोरूपेण मातुः सकाशात्कुमाररूपेण च
पुत्रे यज्जन्मद्वयमुदाहृतं तेनैव न्यायेन पितुरपि स्वकीयमातृ(ता)पितृसकाशाज्जन्मद्वयमर्था-


१ क. ख. ग. 'न स्वो' । २ क. ख. ग. 'वमेवेमे । ३ घ. ङ. गृहेऽवस्था' । ४ घ. ङ. प्रति-
धानेन । ५ घ. ङ. 'ति । संवृ' । ६ क. ख. वृद्धः । ७ ग. 'लायूका । ८ ङ. 'जन्मरू' । ९ क.
ख. ग. 'यपितृमातृस' ।

Page 180Permalink

अध्या० १ ख० १] ऐतरेयारण्यकम् । १७२

युक्तमेवेत्यभिप्रेत्य तदपेक्षया पितुरिदं तृतीयं जन्म पुत्रस्य तु जन्मद्वयं साक्षाद्दृष्टं पितृ-
दृष्टान्तेन तु मरणादूर्ध्वं तृतीयं जन्म भविष्यति । एवं सर्वस्यापि जन्मत्रयं पुनः पुनरा-
वर्तते । अनेन जन्मत्रयोपवर्णनेन संसाराद्विरक्तिरुपजायते । न हि मातापितृमलद्वयरू-
पदेहस्य निरन्तरधारणादन्यदधिकं जुगुप्सितं वैराग्यकारणमुदाहर्तुं शक्यम् ।

अत एव विष्णुपुराणे पठ्यते—

“स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् ।
विरागकारणं तस्य किमन्यदुपदिश्यते” इति ॥

तस्यैतस्य जुगुप्सितस्य संसारस्य ज्ञानमन्तरेण विनाशाभावं तत्त्वज्ञानेन निवृत्तिं च
द्योतयितुं मन्त्रमुदाहरति—

तदुक्तमृषिणा, इति ।

“ पुरुषे ह वै ” [ ऐ० आ० २ अ० ५ ख० १ ] इत्यारभ्य “तृतीयं जन्म ”
इत्यन्तेन ग्रन्थेन संसारस्य यत्कष्टत्वमुपवर्णितं यच्च संसारनिवर्त

Page 181Permalink

१७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

अस्य मन्त्रस्य तात्पर्यं दर्शयति—

गर्भ एवैतच्छयानो वामदेव एवमुवाच स एवं
विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन्त्स्वर्गे लोके
सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत् , *इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके पञ्चमाध्याये
प्रथमः खण्डः ॥ १ ॥ ( २४ )
इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके
पञ्चमोऽध्यायः ॥ ५ ॥

अहमिति मन्त्रे योऽभिहितः स वामदेवो मातृगर्भ एव शयानः सन्नेतत्पूर्वोक्तमन्त्रार्थजातमेवमुवाच । स वामदेव एवं मन्त्रोक्तप्रकारेणाऽऽत्मतत्त्वं विद्वान्नारब्धकर्मणि क्षीणे सत्यस्माच्छरीरभेदाद्देहविनाशादूर्ध्वमु(र्ध्व उ)त्तरकालेऽवस्थितः सर्वस्मात्संसारबन्धादुत्क्रम्यामुष्मिन्निन्द्रियागोचरे स्वर्गे सुष्ठु तत्त्वज्ञानेनार्जिते लोके स्वप्रकाशकत्वेनावलोक्यमाने स्वरूपे सर्वान्कामांस्तैत्तिरीयेके प्रोक्तान्सार्वभौमादिहिरण्यगर्भपर्यन्तैगतानसर्वानन्दानाप्त्वा परमानन्दस्वरूपब्रह्मात्मत्वेन प्राप्यामृतो मरणरहितः समभवत् । यद्यपि गर्भे गुरुशास्त्रोपदेशो नास्ति तथाऽपि जन्मान्तरोपदेशस्य केनचित्प्रबलकर्मणा तदानीं प्रतिबद्धस्य गर्भे प्रतिबन्धक्षयमपेक्ष्य ज्ञानोत्पादकत्वं संभवति । तथा च भगवता व्यासेन सूत्रितम्—"ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्" [ ब्र० सू० अ० ३ पा० ४ सू० ५१ अधि० १६ ] इति । प्रस्तुतप्रतिबन्धाभावे सति यस्मिञ्जन्मन्युपदेशस्तस्मिन्नेव जन्मनि ज्ञानं भवति, अन्यथा जन्मान्तरे । कुतः । वामदेवे तद्दर्शनादिति सूत्रार्थः । यद्यपि मुक्तौ कामा विषयानन्दा न सन्ति तथाऽपि विषयानन्दानां ब्रह्मानन्दलेशत्वेन तस्मिन्नन्तर्भावाद्ब्रह्मानन्दप्राप्त्या सर्वकामप्राप्तिरौपचर्यते । तत्त्वज्ञानिनो वर्तमानदेहपातादूर्ध्वं देहान्तरसंबन्धस्याभावेन देहप्राणवियोगरूपस्य मरणस्याप्रसक्तत्वादमृतत्वं द्रष्टव्यम् । समभवदित्यभ्यासोऽध्यायसमाप्त्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये द्वितीयारण्यके पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २४ )

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्मणारण्यककाण्डभाष्ये द्वितीयारण्यके पञ्चमोऽध्यायः ॥ ५ ॥


* एतदग्रे "यथास्थानं तु गर्भियः" इति ग्रन्थः सकलमूलपुस्तकेषु, घ. ङ. संज्ञितभाष्यपुस्तकस्थमूले चाधिकः ।

१ घ. ङ. ॰रभेदादु । २ घ. ङ. ॰यप्रो॑ । ३ घ ङ. ॑र्यन्तानाग॑ । ४ क. ख. ॰बन्धस्य । ५ घ. ङ. ॰रुच्यते । ६ घ. ङ. ॰निनां व॑ । ७ क. ख. ग. ॰न्तरे सं॑ । ८ घ. ङ. ॰गस्य ।

Page 182Permalink

अथ द्वितीयारण्यके षष्ठोऽध्यायः ।
तत्र प्रथमः खण्डः । ( पञ्चविंशः )

अध्यारोपप्रकरणे—“तस्य त्रय आवसथाः” [ऐ० आ० २ अ० ४ ख० ३] इतिवाक्येन पितृमातृस्वशरीररूपं संसरणार्थं स्थानत्रयं यदुक्तं तत्पुनः पञ्चमाध्याये वैराग्योत्पत्त्यर्थं “पुरुषे ह वै” [ऐ० आ० २ अ० ५ ख० १] इत्यादिना प्रपञ्चितम् । “स जातो भूतान्यभिव्यैख्यत्” [ऐ० आ० २ अ० ४ ख० ३] इत्यादिनाऽपवादप्रकरणेन यत्तत्त्वज्ञानं संगृहीतं यच्च वामदेवोदाहरणेन ज्ञानफलं संक्षिप्य दर्शितं तदुभयं विशदी कर्तुं षष्ठाध्याय आरभ्यते । तत्र “आत्मा वै” [ऐ० आ० २ अ० ४ ख० १] इदमित्याद्यध्यायेन सामान्यतस्तत्त्वमवगम्य “पुरुषे ह वै” [ऐ० आ० २ अ० ५ ख० १] इत्यध्यायोक्तजन्मक्लेशविचारेण परं वैराग्यं प्राप्तानां जिज्ञासूनां विचारं दर्शयति—

कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा, इति ।

“आत्मा वा इदमेक एवाग्र आसीत्” [ऐ० आ० ३ अ० ४ ख० १] इत्यादि श्रुतौ कश्चिन्निरुपाधिक आत्मा श्रुतः । तथा “स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत” [ऐ० आ० २ अ० ४ ख० ३] इति श्रुतौ कश्चित्सोपाधिक आत्मा श्रुतः । वयं तु प्रतिदिनं प्रतिक्षणमात्मेति यमुपास्महे स कः सोपाधिको निरुपाधिको वेत्यर्थः । उपासनं नाम नैरन्तर्येण तात्पर्यपुरःसरो व्यवहारः । अहं गच्छाम्यहमागच्छामि ममायं देहो ममेदं गृहमिति निरन्तरमादरेणाऽऽत्मव्यवहारो लोके दृश्यते, सोऽयमत्रोपासनत्वेनोपचर्यते । तथा स आत्मा श्रुतौ “आत्मा वै” [ऐ० आ० २ अ० ४ ख० १] इत्यादिना श्रुतः कतरः, सोपाधिकनिरुपाधिकयोर्मध्ये कतरः कोऽसावित्यर्थः ।

ननु कतरः स आत्मेत्ययं विचारोऽस्तु श्रुत्यैकगम्यस्य तस्य विचारमन्तरेणानिश्चयात्कोऽयमात्मेत्ययं तु विचारो न युक्तस्तस्याहंप्रत्ययगम्यत्वेन प्रसिद्धत्वादित्याशङ्क्य विचारहेतुमनेककोट्यात्मकं संशयं दर्शयति—

येन वा पश्यति येन वा शृणोति येन वा गन्धाना-
जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु
चास्वादु च विजानाति यदेतद्धृदयं मनश्चैतत्संज्ञानमा-
ज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः
स्मृतिः संकल्पः क्रतुरसुः कामो वश इति, इति ।


१ क. ख. ग. इतिश्रु० ।

२३

Page 183Permalink

१७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । [२द्वितीयारण्यके-

यद्यप्यहंप्रत्ययगम्यश्चैतन्यरूप आत्मेति सामान्याकारेण प्रसिद्धिस्ति तथाऽपि तद्विशेषे संशयो विद्यते । बाह्यान्तःकरणेषु सर्वेष्वपि चैतन्यं पृथक्पृथगभिव्यज्यते यथा जलपात्रेषु प्रत्येकं सूर्यादिप्रतिबिम्बस्तद्वत् । तथा सति चक्षुरिन्द्रियाभिव्यक्तचैतन्येन देहेन्द्रियसङ्घाताभिमानी लौकिकः पुरुषो नीलपीतादिरूपं पश्यति । अतो येन चाक्षुषचैतन्येन पश्यति तच्चैतन्यं किमात्मेत्येका कोटिः । तथा येन श्रोत्राभिव्यक्तचैतन्येन शब्दं शृणोति तत्किमात्मेति द्वितीया कोटिः । एवं घ्राणवाग्जिह्वादीन्द्रियाभिव्यक्तचैतन्यविशेषाणामात्मतत्त्वरूपं संदेहकोटित्वं द्रष्टव्यम् । चैतन्यस्यैव रूपरसादिज्ञापकत्वं कठवल्लीष्वाम्नायते—

“येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान् ।
एतेनैव विजानाति” [ काठ० ४ । ३ ] इति ॥

श्रोत्रादीन्द्रियद्वारा विषयग्राहकत्वमभिप्रेत्य तलवकारैरप्याम्नायते—“श्रोत्रस्य श्रोत्रं मनसो मनो वाचो ह वाक्स उ प्राणस्य प्राणश्चक्षुषश्चक्षुः” [ केनो० २ ] इति । वाजसनेयिनोऽपि तत्तदिन्द्रियसाक्षिचैतन्येन तत्तदिन्द्रियद्वारकविषयग्रहणमभिप्रेत्य तत्तदिन्द्रियनाम्ना व्यवहारमामन्ति—“प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो येन्मनो विदुः” [ बृह० ४ । ४ । १८ ] इति । बाह्येन्द्रियाभिव्यक्तचैतन्येष्वात्मतत्त्वसंशयं दर्शयित्वान्तःकरणद्वयतद्वृत्तिविशेषाभिव्यक्तचैतन्येष्वात्मतत्त्वसंशयमभिप्रेत्य यदेतद्धृदयमित्यादिना तत्तदुपाधिस्वरूपमुपन्यस्यते—
हृदयं बुद्धिः, सा चाऽऽत्मनि कर्तृत्वादिधर्मारोपसाधनत्वादन्तःकरणमित्युच्यते । तस्य च बुद्धिविशिष्टस्य कर्तुरात्मनो रूपादिविषयसंकल्पविकल्पादिसाधनं मन इत्युच्यते । बुद्धिमन्सोर्द्वयोरन्तःकरणविशेषयोः समुच्चयार्थश्चकारः । एतदेवान्तःकरणद्वैविध्यमभिप्रेत्य तैत्तिरीयेके—“तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः” [ तैत्ति० २ । ४ । १ ] इति कोशद्वयमुपन्यस्तम् । तस्य च मनसो वृत्तिविशेषा एतत्सञ्ज्ञानमित्यादिना प्रपञ्च्यन्ते । यन्मनोऽस्त्येतदेव वृत्तिरूपेण परिणतं सत्संज्ञानमित्युच्यते । सम्यगिदं वस्त्विति ज्ञप्तिः संज्ञानम् । आज्ञानमाज्ञाप्तीरीश्वरभावः । विज्ञानमिदमस्माद्विशिष्टमित्येवमादिविवेकः । प्रज्ञानं ग्रन्थार्थादावुन्मेषः । मेधा ग्रन्थतदर्थधारणा । दृष्टिश्चक्षुर्द्वारा रूपोपलब्धिहेतुर्मनोवृत्तिः । धृतिर्धैर्यं प्राणायामप्यापदि तद्विषयगणनाराहित्यम् । मतिर्मननं राजकार्याद्यालोचनम्, मनीषा तत्र स्वातन्त्र्यम् । जूतिर्जवः प्रातत्कार्येषु मनसो व्यग्रता । यद्वा जूतिर्मनसो


१ घ. ङ. ॰थग्ग्यज्य° । २ घ. ङ. ॰षु सू° । ३ घ. ङ. ॰न्द्रियादिसं° । ४ घ. ङ. ॰ति । ये° । ५ घ. ङ. तत्तद्विशेषगं । ६ ख. ॰द्विशेषगं । ७ ग. ॰नसोऽव्य° । घ. ङ. ॰नसोऽप्येकाग्र° ।

Page 184Permalink

अध्या० ६ ख० १(२९)] ऐतरेयारण्यकम् । १७९

रोगादिजनितदुःखित्वम् । स्मृतिरनुभूतार्थवस्तुस्मरणम् । संकल्पोऽसमीचीनेऽपि वस्तुनि सम्यक्त्वेन कल्पनम् । क्रतुरवश्यं करिष्यामीत्यध्यवसायः । असुः प्राणादिजीवन-क्रियानिमित्ता वृत्तिः । कामोऽसंनिहितविषयाकाङ्क्षा । वशः स्त्रीव्यँतिकराद्यभि-लाषः । इतिशब्दः प्रदर्शनार्थः । इत्येवमाद्या अन्येऽपि सात्त्विकराजसतामसवृत्ति-भेदा बहवो द्रष्टव्याः । अत्र सर्वत्र किमेतद्वृत्त्युपाहितं चैतन्यमात्मेत्येवं संशयकोटयो योजनीयाः ।

इत्थं संशयमुपन्यस्य निर्णयं दर्शयति—

सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति, इति ।

“ येन वा पश्यति ” [ ऐ० आ० २ अ० ६ ख० १ ] इत्यादिना “ क्रतुरसुः कामो वशः ” इत्यन्तेन ग्रन्थेन यान्युपन्यस्तान्येतानि सर्वाण्यपि तत्तद्वृत्त्युपाहिद्वा-रोपलक्षितस्य प्रज्ञानस्य शुद्धचैतन्यस्य नामधेयानि संपद्यन्ते । प्रकृष्टं ज्ञानं प्रज्ञानम् । चैतन्यं हि स्वतो निर्मलत्वात्प्रकृष्टमेव । अधमोपाधिसंपर्कवशादपकर्षः प्रतीयते । यदा तूपाधिविशिष्टत्वं परित्यज्य तत्तदुपाधिभिरुपलक्षितं शाखाचन्द्रन्यायेन विविच्यते तदा-नीमुपाधिकृतस्यापकर्षस्याभावात्प्रकर्ष एव परिशिष्यते । तच्च प्रकृष्टं चैतन्यं सर्वेष्व-प्युक्तोपाधिष्वनुगतमिति कृत्वा तस्यैव मुख्यमात्मत्वमिति निर्णयः । उपाधिविशिष्टस्य नै मुख्यमात्मत्वं शुद्धचैतन्यस्यैव मुख्यमात्मत्वमित्ययमेव विवेको बृहदारण्यके—“ स एष इह प्रविष्टः ” [ बृह० १-४-७ ] इत्यादिना प्रविष्टं जीवात्मानं प्रकृत्यैवमा-म्नायते—“ तं न पश्यन्त्यकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति वदन्वाक्पश्यं-श्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव ” [ बृह० १-४-७ ] इति । अयमर्थः—देहे नखाग्रपर्यन्तं प्रविष्टं ज्ञानक्रियाशक्त्युपा-धिकं तमात्मानं विवेकिनः पुरुषाः स्वात्मतया न पश्यन्ति । हि यस्मात्स आत्मोपाधि-विशिष्टः कृत्स्नो न भवति । तस्मान्न मुख्यमात्मत्वम् । अकृत्स्नत्वमेव कुत इति चेत्तदु-च्यते । प्राणन्नेव वदनेन श्वासं कुर्वन्नेव प्राणोपाधिविशिष्टतया प्राणनामको भवति, न चासौ वागाद्युपाधिविशिष्टेष्वनुगच्छति । एवं वागादिष्वप्येकैकोपाधिना विशिष्ट इतरत्र नानुगच्छति । अभिवदनकाल एव वागुपाधिकः, रूपदर्शनकाल एव चक्षुरुपा-धिकः , एवमितरत्रापि । कथं तर्ह्यात्मनः कृत्स्नत्वमित्याकाङ्क्षायां प्राणवागाद्युपाधि-


* व्यतिकरः संबन्धः ।


१ क. ˚खिता । स्मृ˚ । २ घ. ङ. कामः सं˚ । ३ ग. घ. ङ. ˚व्यक्ताकारा˚ । ४ घ. ङ. ˚वृत्तयो विचक्षणैर्द्रष्ट˚ । ५ घ. ङ. ˚तद्वृदयपिहि˚ । ६ घ. ङ. ˚स्तानि तान्येव स˚ । ७ क. ख. तत्र प्र˚ । ८ घ. ङ. ˚प्युपाधि˚ । ९घ. ङ. प्रत्वेव˚। १० क. घ. ङ. ˚न्ति । य˚ । ११ क. ख. ˚व श्वा˚। १२ घ. ङ. नाभिगं˚।

Page 185Permalink

१८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-

वैशिष्ट्यस्य परित्यागे सति कृत्स्नत्वमित्ययमर्थो बृहदारण्यक ऐवाऽऽम्नातः— “आत्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति” [बृह० १ । ४ । ७] इति । ये वागाद्युपाधिषु चैतन्यविशेषास्ते सर्वेऽपि निरुपाधिक आत्मन्येवान्तर्भवन्ति । यथा जलपात्रगताः सूर्याः सर्वेऽपि तत्कल्पनाधिष्ठानभूते मुख्ये सूर्येऽन्तर्भवन्ति तद्वत् ।

तदेवं कोऽयमात्मेत्येतस्मिंस्त्वंपदार्थविचारे निरुपाधिकं साक्षिचैतन्यं प्रज्ञानशब्दाभिधेयमात्मेति निर्णयोऽभिहितः । अथ कतरः स आत्मेत्येतस्मिंस्तत्पदार्थविचारे निर्णयं दर्शयति—

एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च
पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषी-
त्येतानीमानि च क्षुद्रमिश्राणीव बीजानीतराणि चेत-
राणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भि-
ज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किंचेदं प्राणि
जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रम्, इति ।

ब्रह्मादिस्थावरान्तं यज्जगदस्ति तत्सर्वं प्रज्ञानेत्रम् । निरुपाधिकत्वेन प्रकृष्टा ज्ञप्तिः प्रज्ञा । नीयते सर्वं जगदनेनेति सृष्टिस्थितिप्रलयव्यवहाराणां मूलकारणं नेत्रम् । प्रज्ञैव नेत्रं यस्य जगतस्तत्प्रज्ञानेत्रम् । शेषजगतो मूलकारणभूतं यच्चैतन्यं तदेव कतरः स आत्मेत्येतस्मिंस्तत्पदार्थविचारे मुख्यात्मत्वेन निर्णेतव्यमिति तात्पर्यार्थः । एष ब्रह्मेत्यनेन पुंलिङ्गेन ब्रह्मशब्देन “हिरण्यगर्भः समवर्तताग्रे” [ऋ० सं० म० १० सू० १२१ ऋ० १] इत्यादिशास्त्रप्रसिद्धः प्रथमशरीरी विवक्षितः । तस्य शास्त्रप्रसिद्धिं द्योतयितुमेतच्छब्दः । इन्द्रो देवराजः । प्रजापतिः पूर्वोक्तेन्द्रियतदभिमानिदेवतात्मको विराड्देहः । सर्वे देवा अग्न्यादयः । पृथिव्यादीनि पञ्च महाभूतानि प्रसिद्धानि । इमानि पञ्च महाभूतानीत्येतस्य पृथिवीत्यारभ्येत्येतानीत्यन्तं विवरणम् । इमानि चान्यानि क्षुद्रैरल्पैर्मशकपिपीलिकादिदेहैर्मिश्राणि । इवशब्दोऽनर्थकः । बीजानि कारणानि । मनुष्यादिपिपीलिकान्ताः सर्वे देहाः स्वयं पञ्चभूतकार्यभूताः सन्तः सजातीयदेहान्तरहेतुत्वेन बीजशब्दाभिधेयाः । तेषां बीजानां नानाजातीयत्वमितराणि चेतराणीत्यनेन प्रतिज्ञायते । परस्परविलक्षणबहुभेदयुक्तानीत्यर्थः । अण्डजानीत्यादि प्रतिज्ञातमेव नानात्वं प्रपञ्च्यते । पक्षिसर्पादीन्यण्डजानि । जारुजानि जरायुजानि मनुष्यगवादीनि । क्रिमिदंशादीनि स्वेदजानि । तरुगुल्मादीन्युद्भिज्जानि । यथोक्तेष्वेव जरायुजानामश्वा गावः पुरुषा हस्तिन इत्यु-


१ घ. ङ. ॰क्ष्यपं । २ क ग. एवमान्ना॰ । ३ क. ह्येके सं। ग. ह्येतत्सर्व । ४ घ. ङ. ॰नि। ज॰।

Page 186Permalink

अध्या० ६ ख० १(२६)] ऐतरेयारण्यकम् । १८१

दाहृत्य प्रदर्शनम् । उक्तानामनुक्तानां च संग्रहोपसंग्रहार्थं यत्किंचेदं प्राणीत्यादि-
वाक्यम् ।
यदेतज्जगदुत्पत्तिस्थितिलयकारणत्वं चैतन्यस्य प्रज्ञानेत्रपदेन संगृह्योक्तं तदेव
विवृणोति—
प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा, इति ।
प्रज्ञाने निरुपाधिकचैतन्ये पूर्वोक्तं सर्वं जगत्प्रतिष्ठितं रज्ज्वां सर्पवदारोपितम् ।
अनेनोत्पत्तिहेतुत्वमुक्तम् । लोकः सर्व प्राणिसमूहः प्रज्ञानेत्रः । प्रज्ञा चैतन्यमेव नेत्रं
व्यवहारकारणं यस्यासौ प्रज्ञानेत्रः । अनेन स्थितिहेतुत्वमुक्तम् । प्रज्ञा चैतन्यं प्रतिष्ठा
लयस्थानम् । प्रतितिष्ठति विलीयतेऽत्रेति व्युत्पत्तेः । अनेन संहारहेतुत्वमुक्तम् ।
एतावता शास्त्रान्तरप्रसिद्धं जगज्जन्मस्थितिलयकारणत्वाख्यं ब्रह्मणस्तटस्थलक्षणमुक्तं
भवति । एवं तु लक्षणं तैत्तिरीया विस्पष्टमामनन्ति—"यतो वा इमानि भूतानि
जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म"
[ तै० ३ । १ । १ ] इति ।
तदेवं विचारद्वयेन तत्त्वंपदार्थौ शोधितौ । अथ महावाक्येन तयोरैक्यं दर्शयति—
प्रज्ञानं ब्रह्म, इति ।
"सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति" [ ऐ० आ० २ अ० ६ ख०
१ ] इतिवाक्येन देहेन्द्रियादिसाक्षिरूपं यत्प्रज्ञानं त्वंपदार्थरूपं निर्णीतं तदेवैष
ब्रह्मेत्यादिवाक्येन जगत्कारणतया निर्णीतं परं ब्रह्म । न चानयोरीषदपि भेदोऽस्ति ।
अहंप्रत्ययगम्यत्वाकारेण यदा विवक्ष्यते तदा जीव इत्युच्यते । यदा तु शास्त्रप्रति-
पाद्यत्वाकारो विवक्षितस्तदानीं ब्रह्मेत्यभिधीयते । अतो व्यवहारभेदमात्रं न तु तत्त्वतो
भेदोऽस्ति । न चैवं सति पुनरुक्तिप्रसङ्गः । अब्रह्मत्वपरोक्षत्वयोर्व्यावर्त्ययोर्भेदेन पदद्व-
योपयोगात् ।
एतच्च वाक्यवृत्तौ विस्पष्टमभिहितम्—
"प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः ।
अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥
इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदाभवेत् ।
अब्रह्मत्वं त्वमर्थस्य व्यावर्त्येत तदैव हि ॥


१ ग. संक्षेपेण संहारार्थे य॑ । २ घ. ङ. ॰णत्वेन चेतनस्य । ३ घ. ङ. सर्वज॑ । ४ घ. ङ. सर्पादिव॑ । ५ घ. ङ. ॰नेत्रे व्य॑ । ६ घ. ङ. ॰णत्वमु॑ । ७ क. ॰नं तत्त्वंप॑ । ८ घ. ङ. ॰षद्भेदो॑ ।