Skip to content
SarvaKosh
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

by महर्षि ऐतरेय महिदास

Source: Aitareya Aranyakam with Vedic Accents & Commentary (origin)

DevanagariHindipublished304 pages

Page 169 of 304

Read in context
Page 169

१६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

ईश्वरसृष्टेषु भोगक्षमशरीरेषु देवतानां प्रवेशायेश्वरप्रेरणं दर्शयति—
ता अब्रवीद्यथायतनं प्रविशतेति, इति ।
यस्मिन्नायतने छिद्रे यदिन्द्रियमुत्पन्नं या चाभिमानिनी देवतोत्पन्ना तदायतनमनतिक्रम्य हे देवताः प्रविशत ।
देवतानामित्थमनुज्ञातानां प्रवेशं दर्शयति—
अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन्, इति ।
योऽयमग्निर्वागिन्द्रियाभिमानी देवः सोऽयं वाग्भूत्वा वागिन्द्रिय एवान्तर्भूय मुखच्छिद्रं प्राविशत् । एवमुत्तरत्रापि योज्यम् । न खलु वागादिष्विन्द्रियेष्वग्न्यादिदेवताः प्रत्यक्षमुपलभ्यन्ते । नापि देवताभिरनभिप्रेरितानामिन्द्रियाणां स्वस्वविषयग्रहणसामर्थ्यमस्ति । एतच्च भगवता व्यासेन सूत्रितम्— "ज्योतिराद्यधिष्ठानं तु तदामननात्" [ब्र० सू० अ० २ पा० ४ सू० १४] इति ज्योतिरादिभिरग्न्यादिदैवतैरधिष्ठानं वागादीन्द्रियाणां प्रेरणमभ्युपगन्तव्यम् । कुतः । तदामननात्तस्य देवताप्रेरणस्य "अग्निर्वाग्भूत्वा" इत्यादिना श्रूयमाणत्वात् । यथाऽयं विचारो द्वितीयाध्यायस्य चतुर्थपादे सूत्रितः, एवमन्येऽपीन्द्रियविषया विचारास्तस्मिन्पादे द्रष्टव्याः ।

क्षुत्पिपासयोर्विराड्देहे नियतस्य स्थानविशेषस्य पूर्वमश्रवणात्कृत्स्नशरीरे प्रवेशं दर्शयति—
तमशनापिपासे अब्रूतामावाभ्यामभि प्रजानीहीति ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनापिपासे भवतः, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये
द्वितीयः खण्डः ॥ २ ॥ ( २२ )

ये क्षुत्पिपासे परमेश्वरेण विराड्देहे संयोजिते ते उभे परमेश्वरं प्रति स्वार्थं स्थानविशेषमनुगृहाणेत्यब्रूताम् । ईश्वरस्तु स्थानविशेषमदृष्ट्वा वामुभे अप्येतास्वेवाग्न्या-


१ ग. ॰सृष्टिषु । २ क. ख. ग. देवानां । ३ ग. ॰रणां द॰। ४ ग. ॰लक्ष्यन्ते । ५ ग. ॰प्रेताना॰। ६ ग. स्ववि॰ । ७ क. दर्शितम् । ८ ग. ॰दिदेवैर॰ । ९ घ. ङ. चिन्तितः । १० घ. ङ. ॰षयवि॰ ।