युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 210, कुल 278 में से
संदर्भ में पढ़ें१७० युक्तिकल्पतरौ—
येऽमृतोत्याः (१) कर्पूराङ्गाः मन्दाङ्गाः सम्भवन्ति च ।
वलीपलितमालिन्य ज्वराव्याधि विनाशनाः ।
यत्रैव पतितं यत् तु तत्तदाकरतां गताः (२) ॥ २३ ॥
तद्यथा ।
वाराणसौमगधसिंहल-भूमिभागे,
नेपालभूमिषु तथाङ्ग महोप्रदेशे ।
सौराष्ट्रिकेऽन्यतरधन्य महोविभागे ;
शुद्धाद्यसां कृतिवराः प्रवदन्ति जन्म ॥ २४ ॥
तद्यथा ।
वाराणसेयाः सुस्निग्धास्तीक्ष्णधाराः सदङ्गिनः ।
लघवः सुखसंनेया ज्ञेयाश्चाभेद्यशालिनः ॥ २५ ॥
मागधाः कर्कशाः स्थूलधारा गूढ़तराङ्गिणः ।
गुरवो दुःससंनेयाः खङ्गा ज्ञेया विचक्षणैः ॥ २६ ॥
नेपालदेश-प्रभवा निरङ्गा निश्चलाश्च ये ।
ज्ञेयाः (३) सदङ्गा मलिना लघवः स्थूलधारिणः ॥ २७ ॥
कलिङ्गा गुरवः स्वच्छा व्यक्ताङ्गास्तनुहेतवः ।
सौराष्ट्रा निर्मलाः स्निग्धाः सुव्यक्ताङ्गा भृशं खराः ॥ २८ ॥
सिंहलद्वीपजातानां चतुर्द्धा भेद उच्यते ।
केचित् सदङ्गा गुरवः कर्कशाः स्निग्धधारिणः ॥ २९ ॥
केचित् सदङ्ग लघवः सुस्निग्धाः स्थूलधारिणः ।
एषां रूपेण मिश्रेण ज्ञेया हि द्विजजातयः ॥ ३० ॥
( १ ) येऽमृतोया इति (क) पुस्तक पाठः ।
( २ ) तत्तदाकरतां गतं इति (ख) पुस्तक पाठः ।
( ३ ) अङ्गा इति (ग) पुस्तक पाठः ।