युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 209, कुल 278 में से
संदर्भ में पढ़ेंअस्त्रयुक्तिः । १६९
अथ द्विविधा भूमिः ।
दिव्यभौमविभागेन भूमिर्या द्विविधा मता ।
दिव्या दिवि समुद्भूता भौमा भूमिसमुद्भवा ॥ १७ ॥
तल्लक्षणमशेषेण लिख्यते तन्निबोधत ।
देवदानवयोर्मध्ये खड्गसृष्टिरभूत् पुरा ।
ते खड्गाः पुण्यदेशेषु केषु केषु प्रतिष्ठिताः ॥ १८ ॥
दिव्य-लक्षणं यथा ।
ये खड्गाः स्थूलधारा भृशमतिलघवो निर्मलाङ्गाः सुनेत्राः,
ये रिष्टाश्वास्वरूपाः सुविमलतनव(१)श्चाप्यसंस्कारयोगात् ।
दुर्भेद्या दुर्घटाश्च ध्वनिगुणगुरवो यत्क्षते दाहपाकौ ;
ते दिव्याः कुर्व्वतेऽमी कुलधन-विजयश्रीयशोवृद्धिमाग्र्या (२) ॥१९॥
अथ भौमलक्षणम् ।
बृहद्धारीते,―
पूर्व्वं महेशेन विषाणि यानि,
भुक्तानि तेषां पतितास्तु विन्दवः ।
यस्मिन् प्रदेशे स स एव देशः ;
कालायसामाकरतां जगाम ॥ २० ॥
पुरामृतं चौरसमुद्रमध्यादुत्पाद्य संगृह्य ययुः सुरेन्द्राः ।
तद्विन्दवो यत्र निपेतुरीश शुद्धायसामाकरतां जगाम ॥ २१ ॥
ये विषोत्था भृशं कालाः खराङ्गाः सम्भवन्ति हि ।
मूर्च्छादाहज्वरानाह-शोक हिक्कावमीकराः ॥ २२ ॥
( १ ) लघव इति (क) पुस्तक पाठः ।
( २ ) वृद्धिमेते इति (ख) पुस्तक पाठः ।
२२