युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 204, कुल 278 में से
संदर्भ में पढ़ें१६४ युक्तिकल्पतरौ—
चामराकृति नेत्रत्वात् तन्नेत्रमिति निर्द्दिशेत् ।
अस्य प्रभावात् जायन्ते चामरोद्भूत-सम्पदः ॥ ७० ॥
एकानेक(१)शिखे शैलनेत्रे तन्नेत्रसंज्ञकम् ।
अपि राष्ट्रभये युद्धे विषमे वैरिसङ्कटे ।
स्थिरीकरोति धरणीं धरणीं पर्व्वतो यथा ॥ ७१ ॥
पुष्पमाला-समं नेत्रं पुष्पनेत्रं वदन्तितम् ।
अस्य प्रभावात् तुष्यन्ति ग्रहाः सर्व्वांश्च देवताः ॥ ७२ ॥
भुजङ्गमसमे नेत्रे सर्पनेत्रमिदं मतम् ।
अयं शत्रुगणं हन्ति यथा मत्स्यं भुजङ्गमः ॥ ७३ ॥
सवर्णमसवर्णञ्च तत् सर्व्वं द्विविधं भवेत् ।
सवर्णं शान्तिसम्पत्त्यै रिपुनाशे तथा परम् ॥ ७४ ॥
द्वयोरेकत्र पृष्ठे च तत् पुनर्द्विविधं (२) भवेत् ।
एकलोकसुखं नेदं ददाति द्विविधं द्वयोः ॥ ७५ ॥
मूलमध्याग्रसंस्थानात्तत् पुनर्द्विविधं भवेत् ।
अग्रे चाग्रफलं ज्ञेयं मध्ये मध्यफलं मतम् ॥ ७६ ॥
मूले फलं जघन्यं स्यात् (३) प्राह नागार्जुनो मुनिः ।
एकं द्वे त्रीणि नेत्राणि नात्र संख्याव्यतिक्रमः ॥ ७७ ॥
एकं धर्मः स्वर्गकामौ द्वे त्रीणि च त्रिवर्गकम् ।
तत्फलानि (४) प्रयच्छन्ति प्राह नागार्जुनो मुनिः ॥ ७८ ॥
( १ ) एकनेत्र इति (क) पुस्तक पाठः ।
( २ ) विविधं इति (ख) पुस्तक पाठः ।
( ३ ) मूले जलं यदन्यं स्यात् इति (ग) पुस्तक पाठः ।
( ४ ) जलानि इति (घ) पुस्तक पाठः ।