युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 202, कुल 278 में से
संदर्भ में पढ़ें१६२ युक्तिकल्पतरौ—
अयं निशीथे विजने खङ्गो झनझनायते ।
यन्नेत्रमङ्कुशाकारं तं (त्) विद्याद्गुणवत्तरम् ॥ ५० ॥
खड्गमङ्कुशनेत्राख्यं भर्त्तुः सर्व्वार्थसाधक(न)म् ।
अलक्ष्मी-पापरक्षोघ्नं कृत्याग्रह-निवारणम् ॥ ५१ ॥
छत्राकारं यदा नेत्रं छत्रनेत्रं वदन्ति तम् ।
अस्य प्रभावात् क्षौणोऽपि सार्व्वभौमो भवेन्नृपः ॥ ५२ ॥
दीनोऽपि च सुखी भूयात् सुखी भूयान्महेश्वरः ।
महेश्वरोऽपि सचिवः सचिवो मण्डलेश्वरः ।
मण्डलेशश्चक्रवर्त्ती भवेदत्र न संशयः ॥ ५३ ॥
पताकाकृति नेत्रं चेत् सर्व्वसम्पत्ति-कारकम् ।
पताका नेत्रमाहुस्तं संग्राम-विजयप्रदम् ॥ ५४ ॥
नेत्रं वीणाकृति र्यदा वीणानेत्रमुशन्ति(१)तम् ।
निशीथे विजने खङ्गो वीणावत् स्वनमावहेत् (२) ।
अस्य प्रभावात् स(ख)र्व्वैश्या अपि वश्या भवन्ति हि ॥५५॥
मत्स्याकृति र्यदा नेत्रं मत्स्यनेत्रमिदं विदुः ।
अस्य प्रभावात् क्षितिपः कृत्स्नां साधयते महीम् ॥ ५६ ॥
शिवलिङ्ग-समं नेत्रं लिङ्गनेत्रमिदं विदुः ।
भर्त्तुः सर्व्वार्थ-संसिद्ध्यै शत्रूणां नाशनाय च ।
वामपार्श्वे तु यात्रायां धर्त्तव्योऽयं तथा रणे (३) ॥ ५७ ॥
(अत्र ध्वजार्द्धचन्द्रकलसानां लक्षणानि पतितानि ।)
शूलाकृति यदा नेत्रं शूलनेत्रं वदन्ति तम् ।
सर्व्वार्थ-साधकः सर्व्वारिष्टानिष्ट-प्रणाशनः ॥ ५८ ॥
(१) वदन्ति इति (क) पुस्तक पाठः ।
-(२) वध्वनिमावहेत् इति (ख) पुस्तक पाठः ।
(३) व्रणे इति (ग) पुस्तक पाठः ।