युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
DevanagariHindipublished278 पृष्ठ
पृष्ठ 201, कुल 278 में से
संदर्भ में पढ़ेंपृष्ठ 201
अस्त्रयुक्तिः । १६१
चक्रपद्मे गदा शङ्खौ भयवर्द्धन्नवाङ्कुशः ।
छत्रं पताका वीणा च मत्स्यन्तु शिवलिङ्गकः ॥ ४० ॥
ध्वजार्द्धचन्द्रकलसा शूलं शार्दूल नेत्रकम् ।
सिंहः सिंहासनञ्चैव गजहंसमयूरकाः ॥ ४१ ॥
जिह्वा दन्ताश्च खङ्गश्च मनुष्यश्चामरस्तथा ।
शैलश्चैव तथा पुष्प माला सर्षप एव च ॥ ४२ ॥
चक्राकारं यदा नेत्रं खङ्गस्याङ्गे प्रदृश्यते ।
तं चक्रनेत्रं जानीयात् भर्तुः सर्व्वार्थसाधनम् ॥ ४३ ॥
अनेनैकेन खङ्गेन कृत्स्नां साधयते महीम् ।
प्रफुल्लपद्मसदृशं नेत्रं पद्मदलोपमम् ॥ ४४ ॥
यदि वा दृश्यते खङ्गे पद्मनेत्रं समादिशेत् ।
अयं खङ्गवरो यत्र तत्रैव कमलालया ॥ ४५ ॥
ऊर्द्धा खला यदा रेखा गदाकारा प्रतीयते ।
गदानेत्रमिद