युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 200, कुल 278 में से
संदर्भ में पढ़ें१६० युक्क्तिकल्पतरौ—
नीलवर्णः कृष्णवर्णः संस्कारे निर्मलो भवेत् ।
शाणेन खरता चास्य घाततुल्यं निकृन्तति ॥ ३१ ॥
वैश्यजातिरियं खङ्गः क्षते लब्धात्रदर्शनम् (१७) †
नात्युत्कृष्टो नातिहीनः सर्व्वत्रै वोपलभ्यते ॥ ३२ ॥
सजलाभोदसङ्काशः स्थूलधारो मृदुखरः ।
संस्कारे चैव मलिनः शाणे चापि खरेतरः ॥ ३३ ॥
शूद्रजातिरियं खङ्गः क्षते नाल्पापि वेदना ।
दूराद्देषो(१८)ऽधमस्त्याज्यो यदीच्छेद्धितमात्मनः ॥ ३४ ॥
प्रायशः सर्वलोकेषु स्वयमेवोपदृश्यते ।
द्वयोर्लक्षणमालोक्य जारजं खङ्गमादिशेत् ॥ ३५ ॥
त्रयाणां लक्षणेनैव त्रिजातिं खङ्ग(१९)मादिशेत् ।
चतुर्णां लक्षणेनेव जाति-सङ्करमुच्यते ॥ ॥ ३६ ॥
इति लौहार्णवस्य खङ्गपरीक्षायां जात्यध्यायः ।
अथ त्रिंशन्नेत्राणां लक्षणानि ॥
अङ्गं स्यात् सर्व्वतो वापि नेत्रमेकत्रसंस्थितम् * ।
अतः परन्तु नेत्राणां लक्षणं संप्रवक्ष्यते ॥ ३७ ॥
नेत्रे णैकेन हस्तेन निन्दितोपि प्रशस्यते ।
तथा जाति विहीनोपि गुणवान् पूज्यते नरः ॥ ३८ ॥
खङ्गः सदङ्गो न च नेत्र हीनो न पूज्यते नाम्बुकरः स एवः ।
यथा मनुष्यः खलु सुन्दराङ्गो नकर्मयोग्यो भुवि नेत्रहीनः ॥ ३९ ॥
( १७ ) क्षतेवं नात्रदर्शनं इति (क) पुस्तक पाठः ।
( १८ ) देशो इति (ख) पुस्तक पाठः ।
( १९ ) शङ्क इति (ग) पुस्तक पाठः ।
- अङ्गमत्यारभ्य भुविनेत्रहीन इत्यन्तं श्लोकत्रयं (ख) पुस्तके अधिकं पठ्यते ।
CC-0. Gurukul Kangri Collection, Haridwar.