सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 199, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 199

अस्त्रयुक्तिः । १५८
खड्गं ब्राह्मणजातिं तं प्राह नागार्जुनो मुनिः ।
अस्य क्षते भवेच्छोथो घोरः सर्व्वाङ्गगोचरः ॥ २० ॥
मूर्च्छा पिपासा दाहश्च ज्वरो मृत्युश्च जायते ।
अघृष्टं विफलाकल्कमर्द्दराविन्दिवोषितम् ॥ २१ ॥
मलिनत्वं न सम्धत्ते निर्मलं कुरुते परम् ।
तरुणादित्यकिरण-स्पर्शादेव तृणे स्थितः ॥ २२ ॥
दहेत् सर्व्वं न तु करं पुरुषस्य हि धारिणः ।
गायत्र्युच्चारमात्रेण खरतां व्रजति स्फुटम् ॥ २३ ॥
एष खड्गवरः सर्व्वमरिष्टं नाशयेद्ध्रुवम् ।
अस्य प्रसादात् पुरुष स्त्रिलोकमपि साधयेत् ॥ २४ ॥
तस्मादेव मनुष्याणां सुलभो नहि भूतले ।
दृश्यन्ते प्रायशः स्वर्गे ( १५ ) कुशद्वीपे हिमालये ॥ २५ ॥
ब्राह्मणजातिः ।
धूम्रवर्णं महासारं तीक्ष्णधार