सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 170, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 170

१३• युक्तिकल्पतरौ—
पद्मरागगतः स्वच्छो जलविन्दुर्यथा भवेत् ।
तथा मरकतच्छाया श्यामला हरितामला ॥ ५२ ॥
अथ दोष-गुणाः ।
दोषाः सप्त भवन्त्यस्य गुणाः पञ्चविधा स्मृताः ।
अस्निग्धं रूक्षमित्युक्तं व्याधिस्तस्य धृते भवेत् ॥ ५३ ॥
विस्फोटः स्यात् सपिड़के तत्र शस्त्रहतिर्भवेत् ।
स पाषाणे भवेदिष्टनाशो मरकते धृते ॥ ५४ ॥
विच्छायं मलिनं प्राहुर्वार्य्यते नतु धार्य्यते ।
शर्करं कर्करायुक्तं पुत्रशोक-प्रदं धृतम् ॥ ५५ ॥
जरठं (१) कान्तिहीनन्तु दंष्ट्रिवाङ्गिभयावहम् ।
कल्माषवर्णं धवलं ततो मृत्यु-भयम्भवेत् ।
इति दोषाः समाख्याता वर्ण्यन्तेऽथ महागुणाः ॥ ५६ ॥
अथ गुणाः ।
निर्मलं कथितं स्वच्छं गुरु स्याद् गुरुतायुतम् ।
स्निग्धं रूक्षविनिर्मुक्त मरजस्कमरेणुकम् ॥ ५७ ॥
सुरागं रागबहुलं मणेः पञ्चगुणा मताः ।
एतैर्युक्तं मरकतं सर्व्वपाप भयापहम् ॥ ५८ ॥
गजवाजि-रथान्दत्त्वा विप्रेभ्यो विस्तराब्धि मे ।
तत्फलं समवाप्नोति शुद्धे मरकते धृते ॥ ५९ ॥
धनधान्यादि-करणे तथा सैन्य-क्रियाविधौ ॥ ६० ॥
विषरोगोपशमने कर्म्मस्थैर्य्यर्णशेषु च ।
शस्यते मुनिभिर्यस्मादयं मरकतो मणिः ॥ ६१ ॥
(१) जठरं इति (ख) पुस्तक पाठः ।