युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 171, कुल 278 में से
संदर्भ में पढ़ेंमरकतयुक्तिः । १३१
तथा च,—
स्वच्छता गुरुता कान्तिः स्निग्धत्वं पित्तकारणम् ।
हरिन्निराञ्जकत्वञ्च सप्त मारकते गुणाः ॥ ६२ ॥
अथ कृत्रिमाकृत्रिम-परीक्षा ।
कृत्रिमत्वं सहजत्वं दृश्यते सूरिभिः क्वचित् ।
घर्षयेत् प्रस्तरे व्यङ्गं काचस्तस्माद्विपद्यते ॥ ६३ ॥
लेखयेल्लोहशृङ्गेण चूर्णेनाथ विलेपयेत् ।
सहजः कान्तिमाप्नोति कृत्रिमो मलिनायते ॥ ६४ ॥
भल्लातः (कः) पुत्रिका काचस्तद्वर्णमनुयोगतः ।
मणेर्मरकतस्यैते लक्षणीया विजातयः ॥ ६५ ॥
क्षौमेण वाससा घृष्टा दीप्तिं त्यजति पुत्रिका ।
लाघवेनैव काचस्य शक्या कर्तुं विभावना ॥ ६६ ॥
अथ मरकतमूल्यम् ।
तथा च गारुड़े,—
तुलया पद्मरागस्य यन्मूल्यमुपजायते ।
लभ्यतेऽभ्यधिकन्तस्मात् गुणैर्मरकतं स्मृतम् ॥ ६७ ॥
यथा च पद्मरागाणां दोषैर्मूल्यं प्रहीयते ।
ततोऽस्मिन्नपि सा हानिर्दोषैर्मरकते भवेत् ॥ ६८ ॥
तथाच,—
गुणपिण्डसमायुक्तो हरितश्यामभास्करे ।
मूल्यं द्वादशकं प्रोक्तं जातिभेदेन सूरिभिः ॥ ६९ ॥
यवैकेन शतं पञ्च सहस्रं द्वितये यवे ।
त्रिभिश्चैव सहस्रे द्वे चतुर्भिंश्च चतुर्गुणम् ॥ ७० ॥