सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 169, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 169

मरकतयुक्तिः । १२९
सर्वमन्त्रौषधिगणैर्यन्नशक्यं चिकित्षितुम् ।
महाहि-दंष्ट्राप्रभवं विषं तत्तेन शाम्यति ॥ ४१ ॥
अन्यमप्याकरे यच्च यद्दोषैरपवर्ज्जितम् ।
जायते तत्पवित्राणामुत्तमं परिकीर्त्तितम् ॥ ४२ ॥
अत्यन्तहरिद्वर्णं कोमलमर्चिर्विभेद जटिलञ्च ।
काञ्चनचूर्णैर्नान्तःपूर्णमिव लक्ष्यते यच्च ॥ ४३ ॥
युक्तं संस्थानगुणैः समरागं गौरवेण विहीनम् ।
सवितुः करसंस्पर्शात् क्रूरयति सर्वाश्रयं दीप्त्या ॥ ४४ ॥
हित्वा च हरितभावं यस्यान्र्तविनिहिता भवेद्दीप्तिः ।
अचिरप्रभा प्रभाहत नवशाद्वल-सन्निभा भाति ॥ ४५ ॥
यच्च मनसः प्रसादं विदधाति विरोचितमतिमात्रम् ।
तन्मरकतं महागुणमिति रत्न-विदां मनोवृत्तिः ॥ ४६ ॥
यस्तु भास्करसंस्पर्शाद्धस्त-न्यस्तो महामणिः ।
रञ्जयेदात्म-पादैस्तु महामरकतं हि तत् ॥ ४७ ॥
चतुर्द्धा जातिभेदस्तु महामरकते मणौ ।
छायाभेदेन विज्ञेयो चतुर्व्वर्ण(र्गं)स्य लक्षणैः ॥ ४८ ।
अथ मरकतमणेश्छाया ।
भवेदष्टविधा छाया मणेर्मरकतस्य च ।
बर्हि-पुच्छसमाभासा चाष-पक्ष-समापरा ॥ ४९ ॥
हरित्-काच-निभा चान्या तथा शैवाल-सन्निभा ।
खद्योत-पृष्ठ-संकाशा वालकौरसमा तथा ॥ ५० ॥
नवशाद्वलसच्छाया शिरीष-कुसुमोपमा ।
एवमष्टौ समाख्याताश्छाया मरकताश्रयाः ॥ ५१ ॥
छायाभिर्युक्तामेताभिः श्रेष्ठं मरकतम्भवेत् ।
१७