सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 166, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 166

१२६ युक्तिकल्पतरौ—
धारणे तस्य सम्भूतिरायुश्चैव विनश्यति ।
शर्करामिश्रितमिति तद्विज्ञेयं सशर्करम् ॥ १४ ॥
तस्मिन् धृते दरिद्रत्वं देशत्यागश्च जायते ।
भेद-संशयहृत्त्रासस्तेन दंष्ट्रिभयम्भवेत् ॥ १५ ॥
भिन्नं भिन्नमिति प्राहुर्भार्य्यापुत्र-विनाशनम् ।
मृत्तिका यस्य गर्भस्था लक्ष्यते रत्नकोविदैः ॥ १६ ॥
मृत्तिकागर्भकं नाम त्वग्दोष-जनकम्भवेत् ।
दृशत् प्रलक्ष्यते गर्भे अश्मगर्भं विनाशकृत्(हृत्) ॥ १७ ॥
चित्रवर्ण इवाभाति चित्रकः कुलनाशनः ॥ १८ ॥
तथा च,—
अभ्रक-पटलच्छाया त्रासचित्रक एव च ।
मृदश्मगर्भरौक्षाणि महानीलेषु दूषणम् ॥ १८ ॥
अथच्छाया,—
नौलोरसमप्रभासा वैष्णवीपुष्यसन्निभा ।
नवनी-पुष्पसंकाशा नीलेन्दीवर-सन्निभा ॥ २० ॥
अतसीपुष्पसंक्राशा चाषपक्ष-समच्छविः ।
कृष्णाद्रि-कर्णिकापुष्प समान-द्युति-धारिणी ॥ २१ ॥
मयूरकण्ठ-सच्छाया शम्भु-कण्ठसमा तथा ।
विच्छादेह-समाभासा भृङ्गपक्षसम-प्रभा ॥ २२ ॥
इन्द्रनीले धृते शुद्धे शौरिरेषः प्रसीदति ।
आयुः कुलं यशो बुद्धिलक्ष्मी-शोभा च वर्द्धते ॥ २३ ॥
धार्य्यमानस्य ये दृष्टाः पद्मरागमणेर्गुणाः ।
धारणादीन्द्रनीलस्य तानेवाप्नोति मानवः ॥ २४ ॥
अथ परीक्षा [ इन्द्रनीलस्य ] ।
काचोत्पलकरवीर स्फटिकाद्या इह बुधैः स वैदूर्य्याः ।