सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 167, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 167

मरकतयुक्तिः । १२७
कथिता विजातय इमे सदृशा मणिरिन्द्रनीलेन ॥ २५ ॥
गुरुभावकठिन-भावावितेषां नित्यमेव विज्ञेयौ ।
काचाद् यथावदुत्तर-विवर्द्धमानौ विशेषेण ॥ २६ ॥
इन्द्रनीलो यदा कश्चिद्विभर्त्त्याताम्रवर्णताम् ।
रक्तणैयौ तथा ताम्रौ करवीरौत्पलावभौ ॥ २७ ॥
यावन्तञ्च क्रमेदग्निं पद्मरागः प्रयोगतः ।
इन्द्रनीलमणिस्तस्मात् क्रमेत सुमहत्तरम् ॥ २८ ॥
तदाकर-समुद्भूतो मत्तभृङ्ग-सम-द्युतिः ।
दीप्तिच्छाया-समाविष्टो भ्रामरो मणिरुच्यते ॥ २६ ॥
आरक्तता सदा तत्र तदा टोट्टिभसंज्ञितः ।
तस्य धारणमात्रेण गर्भिणी स्त्री प्रसूयते ॥ ३० ॥
अथ मूल्यम्,—
यत्पद्मरागस्य महागुणस्य,
मूल्यम्भवेन्माष(स)-समुन्त्रि(त्थि)तस्य ।
तदिन्द्रनीलस्य महागुणस्य ;
सुवर्णसंख्या तुलितस्य मूल्यम् ॥ ३१ ॥
इति श्रीभोजराजीये युक्तिकल्पतरौ इन्द्रनील परीक्षा ॥
अथ मरकत परीक्षा ।
गरुड़पुराणे,—
दानवाधिपतेः पित्तमादाय भुजगाधिपः ।
द्विधा कुर्व्वन्निव व्योम-सत्वरं वासुकिर्ययौ ॥ ३२ ॥
(स तदा स्व-शिरोरत्न-प्रभादीप्ते नभोऽम्बुधौ ।