युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 165, कुल 278 में से
संदर्भ में पढ़ेंइन्द्रनीलयुक्तिः । १२५
यस्य मध्यगता भाति नीलस्येन्द्रायुध-प्रभा ।
तदिन्द्रनीलमित्याहुर्महार्घ्यं भुवि दुर्लभम् ॥ ३ ॥
यस्तु वर्णस्य भूयस्त्वात् क्षीरे शतगुणे स्थितः ।
नीलतां तन्नयेत् सर्व्वं महानीलः स उच्यते ॥ ४ ॥
तथा च,—
इन्द्रनीलस्तु नीलात्मा पद्मरागस्तु लोहितः ।
आनील-शुक्ल-स्निग्धस्तु मणिर्मानवकोमतः ॥ ५ ॥
आलोहित-मपीतञ्च स्वच्छं काषायकं विदुः ।
आपीत-पाण्डु-पाषाणः पुष्परागोऽभिधीयते ॥ ६ ॥
तमेव लोहिताकारमाहुः कौरुण्डकं बुधाः ॥ ७ ॥
अथ गुणाः ।
गुरुः स्निग्धश्च वर्णाढ्यः पार्श्ववाञ्चैव रञ्जकः ।
इन्द्रनीलः समाख्यातः पञ्चभिः सुमहागुणैः ॥ ८ ॥
प्रमाणेऽल्पोगुरुर्माने कुरुवृद्धि-करो गुरुः ।
स्नेहं स्रवदिवाभाति स्निग्धं धनविवर्द्धनम् ॥ ९ ॥ -
बालार्काभिमुखो नीलो वमेन्नीलां शिखां हि यः ।
वर्णाढ्यो नाम नीलोऽयं धनधान्य-विवर्द्धनः ॥ १० ॥
स्फाटिकं रजतं स्वर्णमन्यद्वा वस्तु तैजसम् ।
पार्श्वस्थितं नील-मणिः पार्श्ववर्त्ती यशः प्रदम् ॥ ११ ॥
आश्चर्यं नीलमणियंत्तु तमसेव समावृतम् ।
रञ्जको नाम नीलोयं श्रीयशः कुलवर्द्धनः ॥ १२ ॥
अथ दोषाः [ इन्द्रनीलस्य ] ।
दोषा नीले प्रवक्ष्यामि नामभिर्लक्षणैश्च षट् ।
अभ्रवत् पटलं यस्य तदभ्रकमिति स्मृतम् ॥ १३ ॥