सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 156, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 156

११६ युक्तिकल्पतरौ—
अवृत्तं[ मौक्तिकं यच्च चिपिटं तन्निगद्यते ।
मौक्तिकं ध्रियते येन तस्य कीर्त्तिर्भवेत् सदा ॥ २७ ॥
त्रिकोणं त्र्यस्रमाख्यातं सौभाग्य-क्षयकारकम् ।
दीर्घं यत्तत् कृशं प्रोक्तं प्रज्ञाविध्वंस-कारकम् ॥ २८ ॥
निमग्नमेकतोयच्च कृश-पार्श्वं तदुच्यते ।
सदोषं मौक्तिकं निन्द्यं निरुद्योगकरं हि तत् ॥ २९ ॥
अवृत्तं पिड़कोषेतं सर्व्वसम्पत्ति-हारकम् ।
यस्मिन् कृत्रिमसन्देहः क्वचिद्भवति मौक्तिके ॥ ३० ॥
उष्णे सलवणे स्नेहे निशां तद्वासयेज्जले ।
व्रीहिभिर्मर्द्दनीयं वा शुष्कवस्त्रोपवेष्टितम् ॥
यत्तु नायाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम् ॥ ३१ ॥
तथाहि,—
क्षिपेद्गोमूत्रभाण्डे तु लवण-क्षारसंयुते ।
स्वेदयेदग्निना वापि शुष्कवस्त्रेण वेष्टयेत् ॥ ३२ ॥
हस्ते मौक्तिकमादाय व्रीहिभिश्चोपघर्षयेत् ।
कृत्रिमं भङ्गमाप्नोति सहजञ्चाति दीप्यते ॥ ३३ ॥
कृत्वा पचेत् सुपिहिते शुभदार * भाण्डे,
मुक्ताफलं निहित नूतनशुक्ति-काण्डम् ।
स्फोटन्तथा प्रणिदधौत ततश्च भाण्डात् ;
संस्थाप्य धान्यनिचये च तमेकमासम् ॥ ३४ ॥
भादाय तत्सकलमेव ततोऽङ्ग(१)भाण्डम्,
जम्बौरजातरस-योजनया विपक्वम् ।
( १ ) ततोऽन्यभाण्डम् इति (ग) पुस्तक पाठः ।

  • दारुत्यौषधिविशेषः। अथवा 'दारु' इति पाठे दीर्य्यते इति व्युत्पत्त्या काष्ठ-
    मयं पात्रम् इति ।