युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
DevanagariHindipublished278 पृष्ठ
पृष्ठ 157, कुल 278 में से
संदर्भ में पढ़ेंपृष्ठ 157
मुक्तादिमूल्ययुक्तिः । ११७
घृष्टं ततो मृदु तनूकृतपिच्छमूलैः ;
कुर्याद् यथेच्छमिह मौक्तिकमाशुविद्धम् ॥ ३५ ॥
मृत्स्निमत्स्य पुटमध्यगतन्तु कृत्वा,
पश्चात् पचेत्तु ततश्च वितानपत्या ।
दुग्धे ततः पयसि तद्विपचेत् सुधायाम् ;
पक्वं ततोऽपि पयसा शुचिचिक्कणेन ॥ ३६ ॥
शुद्धं ततो विमलबस्त्र-विघर्षणेन
स्यान्मौक्तिकं विमलसद्गुणकान्तियुक्तम् ॥ ३७ ॥
अथ मूल्यम् ।
पञ्चभिर्माषको ज्ञेयो गुञ्जाभिर्माषकैस्तथा ।
चतुर्भिः शाणमाख्यातं माषकैर्मणिवेदिभिः ॥ ३८ ॥
एकस्य शुक्ति प्रभवस्य शुद्ध मुक्तामणेः शाणकसम्मितस्य ।
मूल्यं सहस्राणि कपर्दकानि त्रिभिः शतैरभ्यधिकानि पञ्च ॥ ३६ ॥
यन्माष