युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 155, कुल 278 में से
संदर्भ में पढ़ेंमुक्तादोषयुक्तिः । · ११५
प्रायो विमुक्तानि भवन्ति भासा(:) ;
शस्तानि माङ्गल्य तया तथापि ॥ १६ ॥
प्रमाणवर्णावररश्मियुक्तं सितं सुवृत्तं समसूक्ष्मरन्ध्रम् ।
अक्रेतुरप्या वहति प्रमोदं यन्मौक्तिकं तद्गुणवत्प्रदिष्टम् ॥ १७ ॥
एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात् ।
न तस्य भर्त्तारमनर्थजात एकोऽपि दोषः समुपैति सद्यः ॥ १८ ॥
एवं सर्व्वगुणोपेतं मौक्तिकं येन धार्य्यते ।
तस्यायुर्व्वर्धते लक्ष्मीः सर्व्वपापं प्रणश्यति ॥ १९ ॥
गुणवद्गुरु यद्गे हे मौक्तिकैकं हि तिष्ठति ।
चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥ २० ॥
अथ दोषाः ।
यथा. —
चत्वारः स्युर्महादोषाः षण्मध्याश्च प्रकीर्त्तिताः ।
एवं दश समाख्यातास्तेषां वक्ष्यामि लक्षणम् ॥ २१ ॥
यत्रैकदेशे संलग्नः शुक्तिखण्डो विभाव्यते ।
शुक्तिलग्नः समाख्यातः स दोषः कुष्ठकारकः ॥ २२ ॥
मीन-लोचन-संकाशो दृश्यते मौक्तिके तु यः ।
मत्स्याक्षः स तु दोषः स्यात् पुत्रनाशकरो ध्रुवम् ॥ २३ ॥
दीप्तिहीनं गतच्छायं जरठं तद्विदुर्बुधाः ।
तस्मिन् संधारिते मृत्युर्जायते नात्रसंशयः ॥ २४ ॥
मौक्तिकं विद्रुमच्छायमतिरक्तं विदुर्बुधाः ।
दारिद्र्यजनकं यस्मात्तस्मात्तत्परिवर्जयेत् ॥ २५ ॥
उपर्य्युपरि तिष्ठन्ति वलयो यत्र मौक्तिके ।
त्रिवृत्तं नाम तस्योक्तं सौभाग्य-क्षयकारकम् ॥ २६ ॥