सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 154, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 154

११४ युक्तिकल्पतरौ—
सित च्छाया भवेद्विप्रः क्षत्रियश्चार्कंरश्मिमान् ।
पीतच्छाया भवेद्वैश्यः शूद्रः कृष्णरुचिर्मतः ॥ ६ ॥
——००——
अथ गुणाः । [ मात्स्ये ] ।
सुतारञ्च सुवृत्तञ्च स्वच्छञ्च निर्मलन्तथा ।
घनं स्निग्धञ्च सच्छायं तथाऽस्फुटितमेव च ।
अष्टौ गुणाः समाख्याता मौक्तिकानामशेषतः ॥ १० ॥
तद्यथा,—
तारकाद्युतिसंकाशं सुतारमिति गद्यते ।
सर्व्वतो वर्त्तुलं यच्च सुवृत्तं तन्निगद्यते ॥ ११ ॥
स्वच्छं दोषविनिर्मुक्तं निर्मलं मलवर्ज्जितम् ।
गुरुत्वं तुलने यस्य तद्घनं मौक्तिकं वरम् ॥ १२ ॥
स्नेहेनैव विलिप्तं यत् तत् स्निग्धमिति गद्यते ।
छाया समन्वितं यच्च सु(स)च्छायं तन्निगद्यते ।
व्रणरेखाविहोनं यत् तत्स्यादस्फुटितं शुभम् ॥ १३ ॥
भ्राजिष्णु कोमलं कान्तं मनोज्ञं स्फुरतीव च ।
स्रवतीव च सत्त्वानि तन्महार्त्न संज्ञितम् ॥ १४ ॥
श्वेतकाच समाकारं शुभ्रांशु शतयोजितम् ।
ऋषराज(१) प्रतिच्छायं मौक्तिकं देवभूषणम् ॥ १५ ॥
गारुड़े,—*
त्वक्सार नागेन्द्र-तिमि-प्रसूतम्,
यच्छङ्खजं यच्च वराह जातम् ।
───────────────────────────
( १ ) शशिराज इति (ग) पुस्तक पाठः ।

  • अन्यत् सर्व्वं शुक्रनीति-बृहत्संहिता-मत्स्यपुराण-मानसोल्लासादिषु अनुसन्धेयम् ।