सामग्री पर जाएँ
सर्वकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 153, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 153

Digitized By Siddhanta eGangotri Gyaan Kosha
मुक्तायुक्तिः । ११३
वर्षोपलानां समवर्णशोभम्,
त्वक्सार पर्व्वप्रभवं प्रदिष्टम् ।
ते वेणवो दिव्यजनोपभोग्ये ;
स्थाने प्ररोहन्ति न सार्व्वजन्ये ॥ ९६ ॥
[ अथ वेणुजमुक्ता लक्षणारम्भः ] ।
वंशजं शशिसंकाशं कङ्कोलफलमार्द्रकम् ।
प्राप्यते बहुभिः पुण्यैस्तद्द्रव्यं वेदमन्त्रतः ॥ १०० ॥
पञ्चभूतसमुद्रेकाद्दंशे पञ्चविधे भवेत् ।
मुक्ताः पञ्चविधास्तासां यथा लक्षणमुच्यते ॥ १ ॥
पार्थिवी गुरुवत्सा च तैजसी तेजसा लघुः ।
वायवी च मृदुः स्थूला गागनी कोमला लघुः ॥ २ ॥
आप्याः स्निग्धाः भृशं शुक्लाः पञ्चैताः प्रवरा मताः ।
आसां धारणमात्रेण व्याधिः कोऽपि न जायते ॥ ३ ॥
एवमन्यत्रापि,—
गजाहि कोलमत्स्यानां शीर्षे मुक्ताफलोद्भवः ।
त्वक्सार शुक्ति-शङ्खानां गर्भे मुक्ताफलोद्भवः ॥ ४ ॥
धाराधरेषु जायेत मौक्तिकं जलविन्दुभिः ।
जीमूते शुचिरूपञ्च गजे पाटलभास्वरम् ॥ ५ ॥
मत्स्ये श्वेतञ्च निस्तेजः फणीन्द्रे नीलभास्वरम् ।
हरिश्च्छ्वेतं तथा वंशे पीतश्वेतञ्च शूकरे ॥ ६ ॥
शङ्खशुक्त्युद्भवं श्वेतं मुक्नारत्नमनुत्तमम् ।
चतुर्धा मौक्तिके छाया पीता च मधुरा सिता ॥ ७ ॥
नीला चैव समाख्याता 'रत्न-तत्त्व परीक्षकैः' ।
पीता लक्ष्मीप्रदा च्छाया मधुरा बुद्धिवर्द्धिनी ॥ ८ ।
शुक्ला यशस्करी च्छाया नीला सौभाग्य-दायिनी ।
१५
CC-0. Gurukul Kangri Collection, Haridwar.